भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 161-180

161

दृष्टिसम्पद्विशुद्धा खलु शईलसम्पत् ऽभिक्षुत्वं परमार्थतः । अन्यतरविकलस्तु संवृत्या भिक्षुर्भवति । द्व्यङ्गविकलस्तु नापि संवृत्या नानि परमार्थत इति ।
यदि खलु विना संवरेणाष्टौ निकाया न व्यवस्थाप्यन्ते कथं तर्हि ( जैनि_124 ) भगवतोक्तैः- "एकदेशकारी, प्रदेशकारी, यद्भूयस्कारी, परिपूर्णकारी" इत्यत्राप्ययमर्थो दृश्यते ? कश्चित्खल्वकार्यैकदेशविरतिक्षमो भवति । कश्चिद्यावत्समग्रदौःशील्यविरतिक्षमः । इत्यतो भगवानकार्यैकदेशविरत्याप्युपासकत्वं ( जैनि_125 ) शास्ति । न हि सर्वशीलविकलः कश्चिच्छरणगमनेच्छामात्रकेणोपासको भवति षडङ्गोषधैकद्व्यङ्गवैकल्योपयोगवदिति ।
अथ यदुक्तम्- "बुद्धं धर्मं संघं शरणं गच्छति" इति तत्क एते बुद्धादयः ? तदिदमभिधीयते-
विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना ।
तदाश्रये फले चापि विज्ञेया गुणकल्पना

162

द्विविधः खलु बुद्धः संवृत्या परमार्थतश्च । तत्र परमार्थतो यथोक्तं शास्त्रे- "यो बुद्धं शरणं गच्छति किमसौ शरणं गच्छति ? तानेवासौ बुद्धकारकानशैक्षान्धर्माञ्छरणं गच्छति । ते हि बुद्धशब्दप्रवृत्तिनिमित्तचिह्नम् ।" इति । तेभ्यो ऽपि निरावरणं ज्ञानं प्रधानं सर्वज्ञ इति लोकप्रसिद्ध एष तावत् पारमार्थिको बुद्धः । संवृत्यापि ऽतदाश्रयेऽ; द्वात्रिशता लक्षणैरशीत्या चानुव्यञ्जनैर्विराजिते रूपकाये ऽपि बुद्धाख्येति । तत्फले च बलवैशारद्यमहाकरुणादिषु बुद्धोक्तिरिति ।
शाश्वतत्वशुभत्वाभ्यां सर्वानर्थनिवृत्तितः ।
मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते

163

नित्याविकृतस्वलक्षणधारणात्तत्प्राप्तानां चात्यन्तधारणे निर्वाणं पारमार्थिको धर्मः । गुणकल्पनथा तु प्रत्येकबुद्धबोधिसत्त्वसन्तानिको मार्गः । त्रीणि च पिटकानि धर्मो निर्वाणप्रापकत्वात् ॥
आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः ।
नवानामशैक्षाणामष्टादशानां च शैक्षाणां शिष्याणां सन्ताने यो मार्गः स पारमार्थिकः संघ इत्युच्यते । संवृत्या तु पृथग्जनकल्याणकभिक्षुसंघ इत्यपदिश्यते ।
एतान्यो याति शरणं स याति शरणत्रयम्

164

एतान्यथोक्तलक्षणान् बुद्धधर्मसंधान् शरणं गच्छति ऽयो याति शरणत्रयम्ऽ; इति ॥
किं स्वभावानि पुनः शरणगमनानि ? वाग्विज्ञप्तितत्समुत्थधर्मस्वभावानि ॥
कः पुनः शरणार्थः ? त्राणार्थः शरणार्थः । तदाश्रयेण सर्वदुःखात्यन्तविमोक्षात् । उक्तं हि भगवता-
"बहवः शरणं यान्ति पर्वतांश्च वनानि च ।
आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः ॥
न चैतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् ।
नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥
यस्तु बुद्धं च धर्मं च संघं च शरणं गतः ।
चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ।
आर्यं चाष्टांगिकं मार्गं क्षेमं निर्वाणगामिनम् ॥
एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् ।
एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥" इति ।
अत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि, दृष्टिसंपन्नस्य तेषां प्ररोहात् ।
किं पुनः कारणं काममिथ्याचारादेवोपासकस्य विरतिः शिक्षापदेषु व्यवस्थापिता न सर्वस्मादब्रह्मचर्यात् ? अन्येभ्यश्च प्रकृतिसावद्येभ्यो मृषावाद एव शिक्षापदेषु व्यवस्थाप्यते, न पारुष्यादि ? सर्वेभ्यश्च प्रतिपक्षपणसावद्येभ्यः मद्यपानादेव विरतिः शिक्षापदं व्यवस्थापितम् ? तदुच्यते-
मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः ।
पापिष्ठत्वान्मृषावादो मद्यपानं स्मृतिक्षयातू

165

काममिथ्याचारो हि लोके ऽत्यर्थं गर्हितः । परेषां दारोपघातादापायिकत्वाच्च । न तथाब्रह्मचर्यम् । सुकरा च गृहस्थस्य काममिथ्याचारवि रतिः, दुष्करा त्वब्रह्मचर्यात् । आर्यश्चाकरणसंवरं काममिथ्याचारादेव जन्मान्तरितो ऽपि लभते न त्वब्रह्मचर्यात् ।
मृषावादो ऽपि भगवता पापिष्ठत्वाद्राहुलमुद्दिष्य परमेनादरेणोक्तः- "यस्य राहुल मृषावादे नास्ति लज्जा नास्ति कौकृत्यं नाहं तस्य किञ्चिदकरणीयं वदामि" इति ।
मद्यपाने ऽपि स्मृतिलोपो भवति, सर्वशिक्षापदक्षोभो भवतीत्यतः प्रतिक्षेपणसावद्यमपि सन्मद्यपानं कुशाग्रेणापि भगवता नाभ्यनुज्ञातम् ॥
इदमिदानीमुच्यताम् । य एते त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषा अपीति ? ब्रूमः-
सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्यो ऽपि कामजः ।
प्रातिमोक्षसंवरः खलु सर्वेभ्यो मौलप्रयोगपृष्ठेभ्यो वर्तमानेभ्यः स्कन्धायतनधातुभ्यः सत्त्वाधिष्ठानप्रवत्तत्वात्, नातीतानागतेभ्यस्तेषामसत्त्वसंख्यातत्वाल्लभ्यते । ऽद्विविधेभ्यो ऽपिऽ; सत्त्वासत्त्वाख्येभ्यः, प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च ।
त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ

166

एतौ हि मौलेभ्य एव कर्मपथेभ्यो लभ्येते न प्रयोगपृष्ठेभ्यो नापि प्रज्ञप्तिसावद्येभ्यः, सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते ऽतीतानागतेभ्यो ऽपि ।
चतुष्कोटिका चात्र भवति । "सन्ति ते स्कन्धायतनधातवो येभ्यः प्रातिमोक्षसंवरो लभ्यते न ध्यानानास्रवसंवरौ" इति विस्तरः । प्रथमा कोटिः- प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च । द्वितीयाअतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । तृतीया- प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्यः । चतुर्थी- अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति ॥
किं पुनरिमौ संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते ? सर्वाङ्गेभ्यः सर्वकारणैश्च ? अथास्ति कश्चिद्भेदः ? तत्र तावदवश्यं लभ्यते-
सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः ।
सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः

167

सर्वसत्त्वेभ्यः खलु संवरो लभ्यते न केभ्यश्चित् । अङ्गेभ्यस्तु विभाषा कश्चित्सर्वेभ्यो लभ्यते भिक्षुसंवरः । कश्चिच्चतुर्भ्यः । ततो ऽन्यः । कर्मपथा हि संवराभ्याङ्गानि । कारणैरपि केनचित्पर्यायेण सर्वैः, केनचिदेकेन ।
कथं तावत्सर्वैर्यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ? कथमेकेन यदि मृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ? पश्चिमेन पर्यायेण नियमोच्यते । अस्ति संवरस्थायो सर्वसत्त्वेषु संवृतो न सर्वाङ्गैर्न सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोपवासश्रामणेरसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु संवृतः सर्वाङ्गैश्च, न तु सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु सर्वाङ्गैः सर्वकारणैश्च यस्त्रिविधेन चित्तेन त्रीन्संवरान् समादत्ते । अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैर्य उपासकोपवासश्रामणेरसवरान्मृदुमध्याधिमात्रैश्चित्तैः समादत्ते । यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति यस्मात्सर्वसत्त्वानुगतकल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा, पापाशयस्यानुपरतत्वात् ।
पञ्चनियमान् कुर्वन् प्रातिमोक्षसंवरं लभते । सत्त्वाङ्गदेशकालसमयमियमाः- अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः । अमुष्मादङ्गादित्यङ्गनियमः । अमुष्मिन्देश इति देशनियमः । मासाद्यावदिति कालनियमः । अन्यत्र युद्धादिति समयनियमः । सुचरितमात्रं तु तत्स्यादेवं गृह्णतो न संवरः ।
कथमशक्येभ्यः संवरलाभः ? सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् । उक्तं यथा संवरो लभ्यते ॥
असंवरो ऽपि सर्वसत्त्वेभ्यः सर्वकर्मपथेभ्यश्च न तु सर्वकारणैः, युगपन्मृद्वादिचित्ताभावात् ।
के पुनरसांवरिकाः ? औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुन्तिका ( जैनि_131 ) मात्सिका मृगलुब्धकाश्चौराः वध्यघातका बन्धनपालका नागबन्धाश्वपाका वागुरिकाश्च । राजानो दण्डनेतारो व्यावहारिकाश्च नीतिचलिता असावरिकाः । असंवरे भवाः, असंवरो वा एषां विद्यत इत्यसांवरिकाः ॥
उक्तमिदं येभ्यः असंवरो लभ्यते । कथं तु तल्लाभ इति नोक्तं तदा रभ्यते-
क्रिययासंवरप्रप्तिः स हाभ्युपगमेन वा ।
अविज्ञप्तिरतो ऽन्यस्याः क्षेत्राङ्गादिविशेषतः

168

द्वाभ्यां कारणाभ्यामसंवरो लभ्यते । क्रिययाभ्युपगमेन वा । क्रियया तत्कुलीनतत्कर्माभ्युपगमात् । अतत्कुलीनैर्वयमप्यनया जीविकया जीविष्याम इति । शेषाविज्ञप्तिलाभस्तु क्षेत्राङ्गविशेषादिति । क्षेत्रं वा तद्रूपं भवति यथारामादिप्रनानमात्रेणाविज्ञप्तिरुत्पद्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । आदरेण वा समादत्ते । बुद्धमवन्दित्वा न भोक्ष्य इति । मासार्धमासभक्तानि वा नित्यं करिष्यामीत्येवमादि । आदरेण वा तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतो ऽस्या विज्ञप्तिरुत्पद्यते ।
उक्तमेतद्यथा संवरासंवराणां प्रतिलम्भः ॥
त्याग इदानीं वक्तव्यः । तत्र तावत्-
कामाप्तसंवरत्यागः शिक्षानिक्षेपणादिभिः ।
पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः

169

कामाप्तस्याष्टप्रकारसंवरस्य पञ्चभिः कारणैस्त्यागः । शिक्षानिक्षेपणनिकायसभागत्यागोभयव्यञ्जनोत्पादकुशलसमुच्छेदेभ्यो निशात्ययेनाष्टमस्य । तान्येतान्यभिसमस्य पञ्च भवन्ति ।
किं पुनः कारणमेभिस्त्यागो भवति ? समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च ।
अन्ये पुनराहुः- चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्यागः ।" ऽतन्नऽ; इति, ऽअयोगतःऽ; ।
कः पुनरयोगः ?
अयोगो नांशुविध्वंसात्पटद्रव्यं विनश्यति ।
न ह्यवयवनाशादवयविविनाशो भवति । अवयविरूपश्च प्रातिमोक्षसंवरः । तस्यावयवक्षोभाच्छिद्रत्वं भवति मालिन्यं च । यथोक्तं भगवता- "दुःशीलो भवति पापधर्मा ।"
सूत्रविरोधादयुक्तमिति चेदत्रोपदिशन्ति-
सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु

170

भगवतात्र "अभिक्षुर्भवति" इति शासनस्थित्यर्थं दुर्वृत्तविनेयावसादनार्थं चोक्तम् । यथा- "ईर्ष्यिको भवति मत्सरी शठो मायावी मिथ्यादृष्टिरित्येवमादिदोषयुक्तः कशम्बकजातीयः पापभिक्षुर्निर्वासयितव्यः ।" न च चित्ताविदूषणादभिक्षुत्वं भवति विनेयशासनार्थतत्त्वविद्भिरित्युक्तम् । तद्वदत्रापि द्रष्टव्यमिति ।
तस्मात्पूर्वोक्तलक्षण एव भिक्षुर्न यथाह कोशकारः ।
सद्धर्मान्तर्द्धितो ऽन्ये ऽन्ये नापूर्वाप्रतिलम्भतः ।
अन्ये पुनर्ब्रूवते- सद्धर्मान्तर्धाने ऽपि संवरत्यागो भवति । तत्तु नैवम् । यस्मादपूर्वस्तदा नोत्पद्यते । उत्पन्नस्तु यथोक्तै रेव कारणैर्विनश्यति ॥
अथ ध्यानानास्रवसंवरयोस्त्यागः कथम् ? तदिदमपदिश्यते-
भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम्

171

सर्वमेव खलु ध्यानाप्तं कुशलं द्व्याभ्यां कारणाभ्यां त्यज्यते । उपपत्तित्तो वा भूमिसंचारादर्ध्वं वाधो वा । परिहाणितो वा । समापत्तेर्निकायसभागत्यागाच्चेति ॥
तथारूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः ।
यथैव रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते तथैवारूप्याप्तम् । आर्यं तु कुशलं त्रिभिः कारणस्त्यज्यते । फलप्राप्तितः पूर्वको मार्गस्त्यज्यते । ( जैनि_135 ) अक्षोत्तापनेन मृद्विन्द्रियमार्गः । परिहाणित उत्तरो मार्गः । फलं फलविशिष्टो वा । एवं तावत्संवरस्त्यज्यते ।
असंवरो दमप्राप्तिर्जीवितोत्सर्जना दिभिः

172

त्रिभिः कारणैरसंवरच्छेदः । संवरप्राप्तितः । यदि संवरं समापद्यते ध्यानसंवरं वा प्रतिलभते हेतुप्रत्ययबलेनसमाधिलाभात्तेनासंवरस्त्याज्यते । प्रतिद्वन्द्वबलीयस्त्वात् । मरणेन चाश्रयत्यागात् । द्विव्यञ्जनोत्पादेन चाश्रयविकोपनात् । शस्त्रजलत्यागे ऽप्यकरणाशयतः संवरमन्तरेणासंवरच्छेदो नास्ति । निदानपरिवर्जनेन प्रवृद्धरोगानिवृत्तिवत् ॥
अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ? तदुच्यते-
चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा ।
येन खल्वसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता तस्य विच्छेदात्सापि विच्छिद्यते, कुम्भकारचक्रगतिवत् । समादानत्यागादपि विच्छिद्यते । क्रियाविच्छेदादपि विच्छिद्यते । चैत्यविहारक्षेत्रादेरप्यर्थस्य विच्छेदाद्विच्छिद्यते । आयुषो ऽपि कुशलमूलानामपि विच्छेदाद्विच्छिद्यते ।
कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः

173

कामावचरं पुनः कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां त्यज्यते । कुशलमूलसमुच्छेदात्, रूपारूप्यधातूपपत्तितश्च ।
प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते ।
क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते । यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गः, तेनासौ सपरिवारः परित्यज्यते । नान्यथा ॥
अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ? तदपदिश्यते-
सर्वे कामेषु रूपे द्वावेको ऽरूपिषु लाभतः

174

कामेषु खलु सर्वशण्ढपण्डकादीनि हित्वा कुरूंश्च हित्वा । देवानामपि संवरः । इत्यतो गतिद्वये संवरासंवरौ विद्येते । नान्यत्रेति ॥
कर्माधिकारादिदानीं सू त्रोक्तोद्दिष्टानां कर्मणां निर्देशं करिष्यामः । उक्तं हि सूत्रे- "त्रीणि कर्माणि कुशलमकुशलमव्याकृतं च ।" तेषां लक्षणमिदमुच्यते-
यदिष्टफलदं कर्म कुशलं तदुदाहृतम् ।
विपर्ययेणाकुशलमव्याकृतमतो ऽन्यथा

175

यत्खल्विष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात्, तत्कालमत्यन्तं वा, तत्कुशलम् । निरुक्तिरपीयम् । निरवद्यदेवमनुष्यस्त्रीरूपनिर्वर्तनाच्छिक्षितचित्रकररूपनिर्वर्तनवत् । कुशलमिव कुशलमौपमिको ऽयं शब्दनिवेशः । तद्यथा शिक्षितः पुरुषः कुशानक्षतहस्तो लुनाति स कुशल इति निरुच्यते, तद्वदन्यामपि क्रियामविकृतां संपादयन् कुशल ( जैनि_137 ) इत्युच्यते । ऽविपर्ययेणाकुशलम्ऽ; उष्ट्रोलूकादिवत् । ऽअव्याकृतमतो ऽन्यथाऽ; उभयविपाकानिर्वर्तनात् ॥
अन्यान्यपि त्रीणि कर्माण्युक्तानि । पुण्यमपुण्यमानेज्यं च । तत्र तावत्
कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम् ।
ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात्

176

कामावचरं हि कुशलं कर्म पुण्यमकुशलमपुण्यमित्युच्यते । ऊर्ध्वभूमिकमानेज्यम् ।ऽ; तदूर्ध्वं धातुद्वये शुभं कर्मानेज्यमित्युच्यते । कस्मात्पुनरेतदानेज्यमित्युक्तम् ? ऽविपाकं प्रत्यनेजनात् ।ऽ; कामावचरं हि कर्म विपाकं ( जैनि_138 ) प्रति कम्पते लवणोपमसूत्रण्यायेन । कथम् ? अव्यवस्थानात् । अन्यगतिकमपि ह्यन्यस्यां गतौ विपच्यते । तदन्यदेवनैकायिकं चान्यत्र देवनिकाये । यदेव हि प्रमाणबलवर्णसुखभोगादिसंवर्तनीयं कर्म देवेषु विपच्येत तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यक्प्रेतेषु विपच्यते । कर्मजातिचोदनेयं भगवतो विवक्षिता न द्रव्यचोदनेति ।
अत्राह । ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता- "यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुः" इत्येवमादि ? समाध्यपक्षालांस्तेषां सन्धायैवमुक्तम् । आनेज्यान्यपि तु तान्युक्तान्यानेज्यसूत्रे, आनेज्यसंप्रेयगामिनीं प्रतिपदमारभ्य ॥
पुनरन्यानि त्रीणि कर्माण्युक्तानि- "सुखवेदनीयं दुःखवेदनीयं, अदुःखासुखवेदनीयं च ।" तत्र
सुखवेद्यं शुभं कर्म ध्यानादर्वाक्तुरीयकात् ।
उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम्

177

तत्र शुभं कर्म यावत्तृतीये ध्याने सुखवेद्यमित्युच्यते । एतावती खलु भूमिः सुखाया वेदनायाः । तदेव चतुर्थध्यानात्प्रभृत्युपेक्षावेदनीयमित्युच्यते । अकुशलं तु कर्म दुःखवेदनीयमित्युच्यते ।
किं पुनर्वेदनैव विपाकः ? नेत्याह । प्राधानिको ऽयं र्निर्देशः । सचतुस्कन्धसम्भारं हि सुखमभिप्रेतम् । दार्ष्टान्तिकानां तु सुखैव वेदना विपाकः चेतनैव च कर्म । आभिधार्मिकानां तु पञ्चस्कन्धो विपाकहेतुः पञ्चस्कन्धाश्च विपाक इति ।
कथं पुनरवेदनास्वभावं कर्म सुखवेदनीयमित्युच्यते ? सुखाया वेदनाया हितं सुखवेदनीयम् । सुखास्या वेदनीयो विपाक इति वा ।
किं पुनरदुःखासुखा वेदना चतुर्थध्यानादधो न विद्यते ? न खलु न विद्यते । किं तर्हि?
अधो ऽपि मध्यमं कर्म ध्यानेनान्त्येपि निर्वृतेः ।
युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः

178

अदुःखासुखवेदनीयं खलु कर्म चतुर्थध्यानादधो ऽप्यस्ति तृतीये द्वितीये प्रथमे च ध्याने । परिनिर्वृते उपेक्षायां च स्थितः परिनिर्वाति । किञ्च, ऽयुगपत् त्रिविपाकेष्टेः ।ऽ; उक्तं हि- "स्यात् त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत । स्यात्सुखवेदनीयस्य रूपं, दुःखवेदनीयस्य चित्तचैतसिका धर्माः, अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ताः" इति । अतो ऽप्यस्त्यधस्ताददुःखासुखवेदनीयं कर्म । किञ्च, ऽध्यानान्तरविपाकतः ।ऽ; नहि ध्यानान्तरे उपेक्षामन्तरेण विपाको ऽन्या वेदना विपच्यते । तत्र सुखदुःखयोरभावात् ॥
पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः ।
तदेतत्कर्म समासतो द्विविधं, नियतवेदनीयमनियतवेदनीयं च । तत्र नियतवेदनीयं त्रिविधम् । दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं च- इत्येतत् त्रिविधं कर्म नियतवेदनीयम् । चतुर्थमनियतवेदनीयम् ।
तत्र दृष्टधर्मवेदनीयं यत्रैव जन्मनि कृतं तत्रैव विपच्यते । उपपद्यवेदनीयं यद् द्वितीये जन्मनि । अपरपर्यायवेदनीयं तस्मात्परेण ।
अतः पुनश्चतुर्विधात्कर्मणः कतमेन जन्माक्षिप्यते?
जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते

179

न खलु दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ॥
अथ कस्मिन्धातौ कस्यां वां गतौ कतिविधं कर्माक्षिप्यते ?
चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते ।
न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते

180

सर्वेषु खलु त्रिषु धातुषु सर्वासु च पञ्चसु गतिषु चतुर्णामपि कर्मणामाक्षेपः कुशलानामकुशलानां च । नरकान्वर्जयित्वा । नरकेषु हि दृष्टधर्मवेदनीयं कुशलं नाक्षिप्यते । तत्रेष्टविपाकाभावादन्यत् त्रिविधमाक्षिप्यते । किञ्च,
नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः ।
स्थिरो नापरकृच्चार्यश्चलो ऽपि भवमूलयोः

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc