अभिधर्मदीप (टीका सहित) · श्लोक 141-160
येन खलु दार्ढ्येनोपेतो यमेकं फलमाक्षिपते, यदि तेनैव युक्तः स्याद् द्वितीयमप्याक्षिपेत् । न चैनं शक्तिमन्तमनित्यता हिंस्यात् । तस्माद् गम्यते ऽन्यथीभूतो ऽयमनित्यताव्याघ्रीमुखं प्रविशति । इत्येकं फलमाक्षिप्य नश्यतीत्युक्तमेतत्- ऽएककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति ।ऽ
न प्रसिद्ध्यति, निर्हेतुकत्वाद्विनाशस्य । ये ह्यर्थत्मानो हेतुमन्तस्ते खल्वनित्या दृष्टाः । कथम् ? अंकुरवत् । न विनाशस्य विनाशो ऽस्ति, तस्मादहेतुकः । किञ्च, ये चार्थात्मानः पश्चाद्भवन्ति तेषां पूर्वहेतुरस्ति तद्यथा भस्मनो बीजादिसंयोगः । न च विनाशस्य हेतुरस्ति । तस्मादसौ न पश्चाद्भवतीति । तत्र यदुक्तं जातस्य स्थित्यन्यथात्वमपेक्ष्य विनाशो भवतीति तदयुक्तम् । अत्र प्रत्यवस्थानम्-
सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः ।
आगमादुपपत्तेश्च विनाशो ऽपि सहेतुकः
सहेतुर्विनाश इति स्थापना । कुतः ? ऽसति जन्मनि तद्भावात् ।ऽ; उक्तं हि भगवता- "अस्मिन् सतीदं भवति । यावदविद्याप्रत्ययाः संस्काराः ।" सति चोत्पत्तिमति विनाशो भवति । तस्मात्सहेतुकः । यस्य पुनरहेतुकस्तस्य प्रागपि जन्मनः सो ऽस्तीति जन्मैव न स्यात्, विरुद्धानामन्यतरोपपत्तेः । तयोरविरोधाद्वा तद्व्यपदेशानुपपत्तिरताद्धर्म्यं च संस्काराणामिति ।
धर्मनास्तित्वमात्रं विनाश इति चेत् । न । तदस्तित्वपूर्वकत्वात् । अस्तित्वपूर्वकं हि तन्नास्तित्वमिति तदपि सहेतुकम् । नास्ति किञ्चित्तदिति चेत् । न । अस्तित्वविरोधानुपपत्तेः । किञ्च, भावविरोधित्वे सत्यभावस्य भवतापत्तेः । अविरोधित्वे भावनित्यत्वप्रसंगादुभयाभावे वाङ्मात्रत्वात् । का चैषा वाचो युक्तिः सति च भवति तद्विशेष्यश्चातद्विरोधी ( जैनि_108 ) च । न च किञ्चिदित्येवैषा वाचोयुक्तिरसंबद्धा । निरर्थिका चैषा वाचोयुक्तिः । अतस्ते भावाभावो वाग्वस्तुमात्रम् । प्रतिषेधसामर्थात्प्रतिषेध्यो भावो ऽस्तीति चेत् । नास्ति । शशविषाणवच्छब्दो गडुमात्रत्वात्प्रतिषेधद्वयार्थानुपपत्तेश्च । किञ्च, कारित्रमात्रनाशाच्च । विरुद्धप्रत्ययसान्निध्ये क्रियामात्रं हि नोदेति, नश्यति । तस्मान्नानर्थवान् विनाशशब्दः । कुतश्च ? आगमादुपपत्तेश्च ।
उक्तं हि भगवता- "उत्पन्नानामकुशलानां धर्माणां निरोधाय" इति । तथोक्तम्- "इहैकतीयः प्राणातिपातिको भवति" इति विस्तरः । तथा- "तिस्रः संवर्तन्यो ऽनलजलानिलाख्या याभिः क्रमेण यावच्छुभकृत्स्ना विनश्यन्ते" इति । तथा- "जातिप्रत्ययं जरामरणम्" इति ।
उपपत्तिरपि । जन्मनो ऽप्यहेतुकत्वप्रसंगात् । यदि खल्वसति सद्भावे ऽप्यहेतुको विनाशः, जन्माप्यहेतुकं भवत्विति । तत्समर्थहेतुसामग्रीसन्निधाने जन्मदर्शनात्, तत्सहेतुकत्वमिति चेत् । न । तद्विनाशे तुल्यत्वात्तस्यापि समर्थहेतुसामग्र्यन्तरसन्निधानाभ्युपगमात् ।
व्याख्यातानि लक्षणानि ॥
नामकायादयो वक्तव्याः । न खलु वक्तव्याः । न हि ते शब्दादन्ये विद्यन्ते, स्वभावक्रियाभावादिति । तदुपदर्शनार्थमिदमारभ्यते ।
वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः ।
संज्ञाद्यपरनामानस्त्रयो नामादयः स्मृताः
विप्रयुक्ताः खलु नामादयः संस्कारस्कन्धसंगृहीताः । वाक् तु रूपस्कन्धसंगृहीता वाग्गीर्निरुक्तिरित्यर्थः । ते च तदधीनोत्पत्तयो निरुक्त्यधीनार्थप्रवृत्तयश्च ( जैनि_109 ) ज्ञानवदर्थस्य प्रतिनिधिस्थानीयाः । निरुक्तिः नाम संज्ञा । नार्थानामेकसंज्ञत्वात् । यथा तु चक्षुर्विज्ञानकायादयः पञ्चरूपाद्यायत्तवृत्तयः, तद्वत्ते ऽपि ऽवाक्छब्दाधीनजन्मानःऽ; । अतश्चोक्तम्- "वाङ् नाम्नि प्रवर्तते, नामार्थं द्योतयति ।" इति । वाचा सह कचटतपादयो जायन्ते तया निधीयन्त इति । प्रतिवर्णानुवर्तिनीनां वाचां सावयवत्वे ऽपि सति तदभिधानानुपपत्तिरिति चेत् । न । शब्दभेदसंचयस्य प्रत्ययत्वे तदभिधानसामर्थ्योपपत्तेः ।
किञ्च, क्रियया च तदस्तित्वं निर्धार्यते । का च सेत्युच्यते । स्वार्थप्रत्यायनं क्रिया । स्वं स्वमर्थं प्रत्याययत्यपौरुषेयत्वान्नामार्थसंबन्धस्यैष तेषां कृतान्तः ।
ते पुनर्नामसंज्ञाद्यपरनामानः ।
तत्र नामपर्यायः संज्ञाकरणं यथा घट इति ।
पदपर्यायो वाक्यम् । यथा घटो दृश्यत इति । येन क्रियागुणकालविशेषा गम्यन्त इति क्वचित् । "यावद्भिरर्थवद्भिः पदैर्विवक्षितार्थपरिपूरिर्भवति तावतां समूहः पदम्" इत्याभिधर्मिकाः ।
व्यञ्जनपर्यायो ऽक्षरं यथा क इत्येतदक्षरं निरवयवममूर्तमप्रतिघं रूपलक्षणविमुक्तं त्रैकालिकार्थप्रत्यायनसमर्थं मनोवद प्रतिहतगमनमिति ।
न, असिद्धत्वात् । न खलु वाक्छब्दादन्ये नामादयः सिद्ध्यन्ति । वाक्छब्द एवार्थेषु संज्ञाकर्तृकृतावधिः स्मृत्या गृहीतावयवसमुदायः श्रोतुरर्थं प्रत्याययतीति किमन्यैर्नामादिभिः परिकल्पितैः ? तत्रेदं प्रत्यवस्थीयते-
अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् ।
शब्दो हिपरमाणुसंचयः । स प्राप्यार्थं प्रकाशयेत्, प्रदीपवत् । नाजातध्वस्तस्वर्गादिदेशस्थानर्थान् प्राप्तुं शक्नोति । तस्मात्प्रतिपद्यस्व न शब्दो ऽर्थं प्रत्यायतीति । इतश्च क्रमयौगपद्यप्रत्यायनासंभवात् । कथम् ? बल्वजवत् । इह हि बहूनि बल्वजद्रव्याणि प्रत्येकमसमर्थानि संभूय रज्ज्वात्मनावस्थितानि दार्वाद्याकर्षणक्रियासामर्थ्योपेतानि भवन्ति । न चैवं वाक्यात्मानः शब्दाः बुद्ध्युपगृहोतावयवसमुदायसंक्षेपाः क्रमलब्धजन्मानः प्रत्येकमर्थप्रत्यायनसमर्थाः, नापि संभूय प्रत्याययन्ति, संभूयानवस्थानाद् बल्वजवत् । तस्मात्क्रमयौगपद्यात्प्रत्यायनासंभवान्न शब्दाः कञ्चिदर्थं प्रत्याययन्तीति सिद्धम् ।
इतश्च, प्रत्याय्यप्रत्यायकादिसंबन्धानुपपत्तेः । कथम् ? प्रदीपवत् । तद्यथा प्रदीपस्तमसि घटादिप्रत्याय्यप्रत्यायकशक्तियुक्तो घटदर्शनार्थिभिरुपादीयते न च कश्चिच्छब्दः कस्मिंश्चिदर्थे केनचित्संबन्धिविशेषेण नियतवृत्तिः, यस्तं गृहीत्वा प्रत्याययेमेति ।
तत्र तावत् । न प्रदीपस्येव प्रत्याय्यप्रत्यायकसंबन्धो ऽस्ति । अकृतसंकेतस्याप्रत्यायनात् । नापि संयोगाख्यः संबन्धो ऽस्ति सदसतोस्तदनुपपत्तेः । गुणत्वाच्चेति कस्मिश्चिन्न समवायाख्यः । अत एवाकाशगुणत्वाच्चेति कश्चित् । तस्मात्प्रत्याय्यप्रत्यायनादिसंबन्धानुपपत्तेः यदगदिष्म न शब्दो ऽर्थं प्रत्याययतीति तत्सम्यगभ्यधामेति ।
सामयिकः शब्दो ऽर्थप्रत्यायनलिङ्गमिति चेत् । न । साध्यत्वाद्वितर्कविचाराधीनजन्मनः शब्दस्य क्रमयौगपद्यप्रत्यायनानुपपत्तेश्च । प्रतिवर्णविषया स्मृतिः प्रत्याययतीति चेत् । न । तत्समानदोषत्वात्पूर्वपक्षोत्सर्गत्वाच्च । संस्कार इति चेत् । न । असिद्धत्वादुक्तोत्तरत्वाच्च । यादृच्छिकसंवृत्तिशब्दमात्राभ्युपगमे वक्ष्यमाणदोषप्रसंगाच्चेति ।
किं पुनरेते नामकायादयो नित्या आहोस्विदनित्या इति ?
अनित्यास्ते तु विज्ञेयाः
तु शब्दो ऽनित्यत्ववादविशेष । र्थो हेतुः । क इति चेत् । सो ऽयमुच्यते-
सापेक्षार्थविभावनात्
कथम् ? ज्ञानवत् । तद्यथा ज्ञानं चक्षुरादीन् हेतूनपेक्ष्यार्थं विभावयति तद्वन्नामादयो ऽपि घोषादीन् हेतूनपेक्ष्यार्थं प्रत्याययन्ति । तस्मात्सापेक्षप्रत्यायनादनित्या इति ॥
यदि तर्हि नामादयो ऽर्थं प्रत्याययन्ति, तत्कथमिदं सद्भिरप्युच्यते- ऽशब्दो ऽर्थं प्रत्याययतिऽ; इति ? तदत्राभिधीयते-
स्वरूपं वेदयंश्च्छब्दो व्यञ्जनादीनि च ध्रुवम् ।
अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते
आञ्जसा हि वाङ् नाम्नि प्रवर्तते नामाभिलपतोत्यर्थः । नाम त्वर्थं द्योतयतीति प्रतिवर्णानुवर्तिनो वाक् खलु नामाभिलपन्तो स्वञ्च रूपमुद्भावयन्ती सन्तानेन प्रवर्तमाना गुणकल्पनयार्थं प्रत्याययतीत्यपदिश्यते । न त्वर्थः शब्दवाच्यो द्योत्यो वा ।
इतश्च न शब्दो ऽर्थं प्रत्याययति । यस्मात्-
परमाणुस्वभावत्वाद् घोषैकत्वं न युज्यते ।
"एदैतौ कण्ठतालव्यौ" इति प्रतिज्ञायते । न चैकस्याणुवचनस्य विश्लिष्टस्थानद्वये वृत्तिरुपपद्यते । परमाणुसंघातस्य तूपपद्यते । परमाणवो ऽपि प्रत्येकं न प्रत्याययन्ति, दिग्भागास्तित्वनास्तित्वे तदभावाच्चेति । समुदायो ऽपि मध्यस्थैरप्रत्यायनानुमानादन्तद्वयेनापि न प्रत्याययतीत्यध्यवसीयते । ( जैनि_112 ) न चार्थान्तरं समुदायिभ्यः समुदायो ऽस्ति । स कथमर्थं प्रत्याययिष्यतीति । अतीतवर्णसमुदायस्त्वन्त्यवर्णापेक्षो मनोबुद्ध्योपगृहीतस्वरूपः संबन्धिन्यर्थे बुद्धिमुत्पादयन् प्रत्याययतीति युक्तरूपो व्यपदेशः ।
अत्र मीमांसकवैय्याकरणौ प्रत्याचक्षाते । नासिद्धत्वात् । न खलु शब्दस्य परमाणुमयत्वं सिद्धम् । तस्मादनुत्तरमेतत् । तौ प्रत्यभिधीयते ।
तादात्म्यं प्रतिघातित्वात्
प्रतिहन्यते खलु शब्दः प्राकारभित्त्यादिषु तस्मात्प्रतिघाती शब्द इति । न । असिद्धम् । सिद्धसाधनादसिद्धेः । यत्खलु भवता प्रतिघातित्वेनाप्रसिद्धं परमाणुमयत्वं साध्यत इत्यसदेतत् । तत्रेदं प्रत्यवस्थीयते ।
तत्सिद्धिर्वरणादिभिः
आलाङ्गलग्राहेभ्यः सिद्धमेतद्गर्भगृहान्तर्गतेन पिहिते कवाटे ऽभिहन्यमानाः पटहाः ध्माप्यमानाश्च शंखा न श्रूयन्ते । हूणनाडोनिर्घोषेण च नगरप्राकाराणि पात्यन्ते । तस्मात्सिद्धेन जाल्मजेनासिद्धस्य साधनमिदमाविष्क्रियते नासिद्धेनेति ।
यदप्युच्यते स्फोटः शब्दो ध्वनिः शब्दगुण इति तत्रापदिश्यते-
स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति ।
तस्माद्ध्धनिः शब्दः स्फोट इत्यनर्थान्तरम् । यथा हस्तः करः पाणिरिति लोकप्रसिद्धमेतत् । तस्मात्-
क्रमवृत्तेर्न शब्देन कश्चिदर्थो ऽभिधीयते
इति प्रागाविष्कृतमेतत् । तन्मा प्रमोषीः ॥
यदप्युच्यते वैयाकरणैः शब्दो बुद्धिनिर्ग्राह्य एष वैशेषिकैरपि श्रोत्रग्राह्यः, शब्दस्यान्यत्वे ऽपि च शब्दत्वादयः श्रोत्रेण गृह्यन्त इति । तयोरिदमुच्यते-
न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः ।
यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत्
इति । तस्मात्प्रतीतपदार्थको लोके ध्वनिः शब्दः । ततश्चान्ये नामादयः सर्वार्थविषया इति स्थापना ।
प्रतिद्योत्यं यथायोगं नियतानियताश्च ते ।
तत्र य आर्यया निरुक्त्या निरुच्यन्ते द्वादशायतनविषयास्ते नियताभिधेयसंबन्धाः, लौकिक्याश्च केचिन्नियताभिधेया निरुच्यन्ते । उभये ऽप्येते कृतसंकेतस्यार्थं प्रत्याययन्ति । ये तु यथेच्छं पित्रादिभिः क्रियन्ते नामकायादिभिस्ते ह्यनियता यदृच्छिका इत्युच्यन्ते । तद्यथा डित्थडवित्थादयः ।
प्रथमास्तु बुद्धोत्पाद एव प्रवर्तन्ते नान्यदेति । उक्तं हि भगवता- "तथागतानामुत्पादान्नामपदव्यञ्जनकायानामुत्पादो भवति" इत्येतस्मात्-
नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते
ये ह्यपौरूषेया धात्वायतनस्कन्धाद्यवद्योतकास्ते प्रथमं बुद्धविषया एव । तदवबोधाच्च भगवान्सर्वज्ञ इत्यभिधीयते । ते पुनरेते-
सत्त्वाख्याः कामरूपाप्ता निष्यन्दाव्याकृतास्तथा ।
सत्त्वाख्या ह्येते । यश्च द्योतयति स तैः समन्वागतः । न यो द्योत्यते । ( जैनि_114 ) कामाप्ताः रूपाप्ताश्चैते वाक्छब्दाधीनजन्मत्वात् । नैष्यन्दिका अनिवृताव्याकृताश्चैव ।
यथा चैते नामादयः
तथैव च विपाकश्च साभाग्यं प्राप्तयो द्विधा
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः ॥
द्वितीयो ऽध्यायः समाप्तः ॥
तृतीयो ऽध्यायः ।
चतुर्थपादः ।
................ । द्वितीयं द्वितीयस्याः । तृतीयं तृतीयस्याः । वायुसंवर्तन्याश्चतुर्थध्यानं शीर्षमिति ।
अत्राह- चतुर्थध्याने संवर्तनी कस्मान्न भवति ? तदुच्यते-
सत्त्वाख्योपद्रवाभावान्न चतुर्थे ऽस्ति सूत्रतः ।
विमानस्य समत्वस्य प्रध्वंसान्नित्यता कुतः
चतुर्थे खलु ध्याने बाह्याध्यात्मिका अपक्षाला न विद्यन्ते तस्मान्न संवर्तनो उत्पाद्यते । प्रथमे हि ध्याने वितर्कविचार वग्निकल्पावपक्षालभूतौ विद्येते । द्वितीये प्रीतिरप्कल्पा चेतोपहारिणी । तृतीये ध्याने आश्वासप्रश्वासा ( जैनि_116 ) वाय्वात्मकाः । इत्यतो यस्यां ध्यानसमापत्तौ यथाभूतो ऽपक्षालस्तथाभूतेन बाह्येन विनाशः । चतुर्थे तु बाह्यो ऽपक्षालो न प्रवर्तत इति नास्ति संवर्तनी । नित्यं तर्हि चतुर्थध्यानं प्राप्यम् । कस्मात् ? ऽविमानस्य समत्वस्यऽ; कर्मक्षयेनऽप्रध्वंसात्ऽ; इति ॥
कथं पुनरेताः संवर्तन्यः कया वानुपूर्व्या भवन्ति ? तदुच्यते । निरन्तरं तावत्-
सप्त तेजोभिरेकाद्भिर्गते ऽद्भिः सप्तके पुनः ।
तेजसा सप्तकान्त्यैका वायुसंवर्तनी ततः
सप्त संवर्तन्यस्तेजोभिः भवन्ति । अष्ठमो ऽपाम् । एवं सप्तको भवति । तस्मिन् सप्तके ऽतिक्रान्ते पुनस्तेजसा सप्तकः । तस्मिन्नप्यतिक्रान्ते वायुसंवर्तन्यैकया नाशो भवति । सा तु नित्यं तेजसः सप्तकपृष्ठे वायुसंवर्तनी भवति । त एते पिण्डेन भवन्ति षट्पञ्चाशत् तेजःसंवर्तन्यः, सप्ताप्संवर्तन्यः, एका वायुसंवर्तनी ॥
किं पुनस्तत्र कारणं यत्पश्चाद्वायुर्सवर्तन्येकैव भवति ? तदुच्यते-
आग्नेयात्सप्तकादेकः पावनीकिमनन्तरम् ।
आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम्
एवं च कृत्वा प्रज्ञप्तिभाष्यमनुलोमितं भवति- "चतुःषष्ठिःकल्पाः शुभकृत्स्नानां देवनामायुष्प्रमाणम्" इति ॥
अथ कस्मात् पृथिवीसंवर्तनी न भवति ? तदत्र कारणमुच्यते-
वातादिदोषसाधर्म्यात्सत्त्वानां तद्विनाशकाः ।
आध्यात्मिकेति सारूप्यान्न भूसंवर्तनी मता
यथा खलु वातपित्तश्लेष्मभिस्त्रिभिः सत्त्वानां मर्मच्छेदः पृथिवीधातुत्वलक्षणो भवति तद्वदग्निजलवायुभिर्भूरूत्साद्यते । किञ्च, एते तद्विनाशकाः .............तन्नाशाय प्रवृत्तत्वात् । किञ्च, ऽआध्यात्मिकेति सारूप्याच्चऽ; । यथा चाध्यात्मिक्यस्त्रिस्रश्चित्तस्य तयोर्भवन्ति वितर्कविचारप्रीत्युच्छ्वासप्रश्वासलक्षणैस्तथा बाह्या अप्युपद्रवा वह्न्यम्भोवायुप्रकोपलक्षणा भवन्तीति ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्यचतुर्थः पादः समाप्तः ॥
तृतीयो ऽध्यायः समाप्तः ॥
चतुर्थो ऽध्यायः ।
प्रथमः पादः ।
अथ यदुक्तं "सत्त्वकर्मद्विधाख्येन पूरितं वायुमण्डलम्" इत्येतदुच्यताम् । कानि तानि कियन्ति वा कर्माणीत्यतः कर्माणि प्रस्तूयन्ते ।
सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् ।
लोकवचित्र्यकर्तृणां कर्म हेतुरितीष्यते
दृश्यते खलु सत्त्वानां हीनमध्योप्कृष्टजातिपरिग्रहायामाश्रयभोगादिसम्पद्विपत्तिश्च । यच्च द्विविधस्य लोकस्य विचित्रता तत्र कर्माणि हेतुः । अतस्तेषां तत्त्वानि वक्ष्यामि । यदप्युक्तं कानि कियन्ति वेति तदुपव्याख्यायते ॥
सूत्रे द्वे कर्मणी निदिश्योक्तम्- "द्वे कर्मणी चेतना कर्म चेतयित्वा च" इति । तानि पुनस्त्रीण्युक्तानि । कथम् ?
कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम् ।
कर्माण्येतानि लोकस्य कारणं नेश्वरादयः
एतानि खलु त्रीणि कर्माणि शुभाशुभानि द्विविधस्यापि सत्त्वभाजनलोकस्य हिताहितनिमित्तान्युत्पत्तौ च सम्पत्तौ च वैचित्र्यस्य च कारणम् । नेश्वरकालपुरुषप्रधानादयः ॥
तत्र तावद्यथा नेश्वरः कारणं तथा पूर्वमुल्लिखितम्, इदानीं तु विस्पष्टतरमाविष्क्रियते-
वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः ।
यदि खल्वेको नित्यश्चेश्वरो लोकस्योत्पत्तिस्थितिप्रलयकारणं स्यात्, तेन खलु कारणानुविधायित्वात्कार्यस्यैतत् त्रयं विरुद्धं युगपत् स्यात् । न चैतद् दृष्टमिष्टं वेत्यसदेतत् । किञ्च लोकश्चाप्यविचित्रः स्यात् । युगपच्चोत्पद्येत नग्नः कपालपाणिश्च पर्यटेत्तदिच्छानुविधायी च स्यात् । न चैतदेवम् । तस्मान्नेश्वरः कारणम् ।
ग्रामाद्यधिपतिविशेषोत्कर्षावस्थानादीश्वरप्रसिद्धिरिति चेत् । न । ग्रामाधिकृतादिह परतन्त्रत्वानित्यत्वकार्यान्तरशक्तिविघातादिदर्शनात्, गोमयपिण्डोपमसूत्रोक्तेश्च ।
भागवतादितन्निन्दादर्शनाच्च । भागवताद्या हि महेश्वरं निन्द्यन्तो दृश्यन्ते । माहेश्वराश्च विष्णुमिति ।
कारणसापेक्षं तपःसामर्थ्यादुत्पादयतीति चेत् । तत्रापदिश्यते ।
नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः
यदि खलु सहकारिकारणापेक्षः तपोबललब्ध्यैश्वर्यश्च लोकं सृजति कुम्भकारबद्धटादीन् । न । चेवं सति पूर्वपक्षोत्सर्गः कृतो भवति । यदुक्तं नित्यश्चैकश्च स्वतन्त्रः कारणमिति तद्धीनम् । तपोबलसामर्थ्याभ्युपगमे चानित्यत्वं पारतन्त्र्यं चाभ्युपगतं भवति । तदभ्युपगमाच्चानैश्वर्यमिति । एतेन कालपुरुषप्रधानादिकारणपरिग्रहाः प्रत्यूढा वेदितव्याः ।
यदि खलु कर्म कारणं नेश्वरादयः कथं तर्हि लोकस्तत्कारणपरिग्रहं करोतीति ? अत्र ब्रूमः-
कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः ।
यतो ऽतस्तेषु ताच्छब्द्यं गौण्या वृत्त्या प्रयुज्यते
यथोक्तम्-
"विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्मदैवम् ।
पुण्यानि भाग्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य ॥"
किञ्च, यतश्च
"ग्रहयोगो भुजास्पन्दः स्वप्नः पूर्णघटादयः ।
सूचयन्ति नृणामेते वृत्तिलाभं स्वकर्मणः ॥"
इत्यतो ऽपि तेषु ताच्छब्द्यं प्रयुज्यत इति ॥
कथं पुनरेषां त्रयाणां कर्मणां व्यवस्थानम् ? यद्याश्रयतः, सर्वेषां कायाश्रितत्वादेकत्वम् । स्वभावतश्चेत्, वाक्कर्मैवैकं प्राप्तम् । समुत्थानतश्चेत्, मनःकर्मैकं प्राप्तम् । सर्वेषां मनसोत्थापितत्वात् । त्रिभिरपीति वैभाषिकाः ॥
ते पुनरेते प्रथमे द्वे कर्मणी प्रत्येकं द्विप्रभेदे । कथम् ? तदपदिश्यते-
पूर्वे विज्ञप्त्यविज्ञप्ती
कायकर्म खलु कायविज्ञप्तिः कायाविज्ञप्तिश्च । वाक्कर्मापि वाग्विज्ञप्तिर्वागविज्ञप्तिश्च । तृतीयं तु कर्म-
चेतना मानसी क्रिया
उक्तं हि भगवता- "चेतना कर्म चेतयित्वा ।" तत्पुनस्त्रिधोक्तम्- "कायकर्म वाक्कर्म मनस्कर्म च" इति ।
किं स्वभावं पुनरिदं कायकर्म किं तावत्कायस्वभावम् ? यथा वाक्कर्म ( जैनि_122 ) वाक्स्वभावम्, आहोस्वित्कायादन्यद्यथा मनस्कर्म मनसोन्यदित्येतदाह । ..............
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः
चतुर्थाध्याये
द्वितीयपादः ।
..................पराभवन्तीत्यपदिश्यते ।
अन्नमत्यग्निनिर्दग्धं यथा स्थाली च संस्कृता ।
पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः
संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः ।
एकसम्पत्तु संवृत्या द्वयाभावे द्विधापि न
मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0