भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप (टीका सहित) · श्लोक 121-140

121

उक्तं हि भगवता- "चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ते । चित्तव्यवदानहेतोर्विशुध्यन्ते" इति । तस्मात्प्रधानं चित्तम् । यथोक्तम्-
"दूरङ्गममेकचरमशरीरं गुहाशयम् ।
ये चित्तं दमयिष्यन्ति ते मोक्ष्यन्ते मारबन्धनात् ॥"
तत्र दूरङ्गमं शास्तुः सर्वलोकधातुस्थविनेयकार्यकरणात् । एकचरं युगपद् द्वितीयचित्ताभावात् । अशरीरं मूर्त्यभावात्, क्रियामात्रानुमेयस्वभावत्वाच्च । गुहाशयं शरीरबलेन । तद्वृत्तिव्यक्तेरिति । तस्य धर्माः संप्रयोगिणश्चैतसिका इति ।
व्याख्याताः पञ्चप्रकाराश्चैत्ताः । अन्ये ऽपि चानियताः पठ्यन्ते- वितर्कविचारकौकृत्यमिद्धादयः ।
तत्रेदं वक्तव्यम् । कस्मिंश्चित्ते कति चैत्ता भवन्ति ?
कामावचरं तावत् पञ्चप्रकारं चित्तम् । कुशलम्, अकुशलं द्विविधमावेणिकमन्यत्क्लेशसंप्रयुक्तं च । अव्याकृतं द्विविधं निवृतानिवृताव्याकृताख्यम् ॥
तत्र तावत्कामावचरं चित्तमवश्यं सवितर्कसविचारम् । अतस्तत्
अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह ।
अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः

122

कामावचरमनिवृताव्याकृतं चित्तं दशभिर्महामौमैर्वितर्कविचाराभ्यां च सहावश्यमुदेति ॥
तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः ।
सत्कायान्तग्राहदृष्टिसम्प्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् । तत्राष्टादश चैतसिका भवन्ति । दशमहाभौमाःषट् क्लेशमहाभौमाः वितर्कविचारौ च । दृष्टिर्नाधिका पूर्ववत् ।
द्वाविंशत्या सहावश्यं शुभं भवति मानसम्

123

दशमहाभौमाः दशकुशलमहाभौमाः वितर्कविचारौ च ॥
चेतसोस्सह विंशत्या चित्तमुत्पद्यते ऽशुभम् ।
यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः- दशमहाभौमाः षक्लेशमहाभौमा द्वावकुशलमहाभौमौ वितर्को विचारश्च । आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशो ऽस्ति रागादिः ।
दृङ्मोहमात्रयुक्तं यत्
दृष्टियुक्ते ऽप्यकुशले विंशतिर्य एवावेणके । ननु च दृष्टिरधिका ? नाधिका, प्रज्ञाविशेष एव हि कश्चिद् दृष्टिरित्युच्यते । स च महाभौमेषु पठितः ।
कः पुनरयं वितर्कः को वा विचारः ? वितर्को नाम चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञापवनोद्धतवृत्तिः, औदारिकपञ्चविज्ञानकायप्रवृत्तिहेतुः । विचारस्तु चित्तसौक्ष्म्यलक्षणो मनोविज्ञानप्रवृत्त्यनुकूलः । इत्येतौ द्वौ धर्मौ कामावचरे चेतसि सर्वस्मिन्नियमेनोत्पद्येते ।
तदिदमतिसाहसं वर्तते यद्विरुद्धयोरपि द्वयोर्धर्मयोरेकत्र चित्ते समवधानं प्रतिज्ञायते । न ह्येतल्लोके दृष्टं यद्विरुद्धयोरेकत्र सहावस्थानमिति कोशकारः ।
तत्र केचिदाहुः- सर्पिर्यथाप्सु निष्ठ्यूतं नातिश्यायते नातिविलीयते, एवं वितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्युदारमित्युभयोरपि तत्र व्यापारः । एवं तर्हि निमित्तभूतौ वितर्कविचारावौदार्यसूक्ष्मतयोः प्राप्नुतो यथापश्चातश्च सर्पिषःश्यानत्वविलीनत्वयोर्न पुनस्तत्स्वभावौ ।
अन्ये पुनराहुः- वाक्संस्कारा वितर्कविचाराः सूत्रे ऽभिहिताः ।
"वितर्क्य विचार्य वाचं भाषते नावितर्क्याविचार्य" इति । तत्र य औदार्यास्ते वितर्काः । ये सूक्ष्मास्ते विचाराः । यदि चैकत्र चित्ते ऽन्यो धर्म औदारिको ऽन्यः सूक्ष्मः को ऽत्र विरोध इति ? न विरोधो यदि जातिभेदः स्यात् । एकस्यान्तु जातौ मृद्वधिमात्रता युगपन्न संभवति । जातिभेदो ऽप्यस्ति स तर्हि वक्तव्यः । दुर्वचो ह्यसौ । अतो मृद्वधिमात्रतया व्यज्यते । नैवं व्यक्तो भवति । प्रत्येकं जातीनां मृद्वधिमात्रत्वात् ।
तदिदमन्धविलासिनीकटाक्षगुणोत्कीर्तनकल्पं चोद्यमारभ्यते । यदनवबुध्य तल्लक्षणं चोद्यविधिः मिथ्या प्रतायते । तयोर्हि यथोक्तलक्षणयोरेकस्मिंश्चेतसि सद्भावमात्रं प्रतिज्ञायते न युगपद् वृत्त्युद्रेकतालाभः । यथा विद्यविद्ययोः संशयनिर्णययोश्चेति तूष्णीमास्व । मा विद्वद्भिरवजीहसः स्वमात्मानम् ।
सा पुनर्दृष्टिस्त्रिप्रकारा मिथ्यादृष्ट्याद्या वेदितव्याः ।
क्रोधाद्यैस्त्वधिकं वदेत्

124

क्रोधाद्यैस्तूपक्लेशैरधिकं भवति । स च क्रोधादिरुपक्लेशो ऽधिकः । क्लेशैश्च संप्रयुक्तं रागप्रतिघमानविचिकित्साभिश्च युक्तं चित्तं तेन च क्लेशाधिकं भवतीत्येकविंशतिर्भवन्ति ॥
सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत् ।
तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित्

125

यत्र मिद्धं तत्र तदेवाधिकं गणयेत् । यत्रापि तदेवाधिकमिति य एष कामधातौ चैत्तानां नियम उक्तस्ततः ॥
साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते ।
ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि

126

न किञ्चिदकुशलं मिद्धं कौकृत्यं च प्रथमध्यानादौ विद्यते । तेन तत्र प्रतिघशाठ्यमदमायावर्ज्याश्च क्रोधादयः, आह्रीक्यानपत्राप्ये च न सन्ति । य एव प्रथमे ध्याने सन्ति त एव ऽध्यानान्तरेऽ, ऽवितर्कश्च न विद्यते । पूर्वोक्ताश्च न सन्तीति ऽचऽशब्दात् । विचारश्चापि नोपरि ।ऽ; ध्यानान्तरात्तूपरिविचारश्चापि नास्ति पूर्वोक्ताश्च । ऽचऽशब्दात् माया शाठ्यं च नास्तीति गम्यते ।
ब्रह्मणो हि यावच्छाठ्यं पठ्यते, पर्षत्संबन्धात् । स हि स्वस्यां पर्षदि अश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्र तानि चत्वारि महाभूतान्यपरिशेषं निरुध्यन्ते" इत्यप्रजानन् क्षेपमकार्षीत्- "अहमस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्" इति । गतमिदम् ॥
इदं वक्तव्यम् । संप्रयुक्ताः संस्काराः कस्मादुच्यन्ते ? तदारभ्यते ।
संप्रयुक्तः संस्कारः समता यस्य पञ्चधा ।
विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ

127

पञ्चभिः समताभिः संप्रयुक्ताः संप्रयुक्ताः । ताः पुनराश्रयालम्बनाकारकालद्रव्यसमताख्याः । "यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैकाः" इति विस्तरः । यस्य पुनरेताः समता न विद्यन्ते स विप्रयुक्त इति ॥
चोदकः- कश्चिद्रूपं तर्हि विप्रयुक्तं प्राप्नोति, असंस्कृतं चेति ? संप्रत्युच्यते ।
विशिष्टानामसद्भावात्प्रसंगो नास्ति रूपिणाम् ।
संस्कारग्रहणाच्चैव खादीनां न प्रसज्यते

128

विशिष्टेन खलु नियोगेन रूपिषु संज्ञा सन्निविशन्त इति तेष्वप्रसंगः । संस्कारग्रहणाच्च खादिषु विप्रयुक्तसंज्ञा न प्रवर्तत इति सिद्धम् ॥
के पुनस्ते विप्रयुक्ताः संस्काराः ? कियन्तो वेति ? नहि वयमेतेषां स्वभावमुपलभामहे । नापि कृत्यम् । नचैते धर्मा लोके प्रसिद्धा नापि बुद्धवचने । न वेदादिषु शास्त्रेष्विति । तदत्रोपव्याह्रीयते-
प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश ।
आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते

129

यत्तावत् स्वभावक्रियाभावादिति । तदत्रोभयमभिधायिष्यते । यदपि बुद्धवचने न पठ्यन्त इति । तत्राप्याप्तवचनं सार्वज्ञं व्याहरिष्यते । यत्त लोके न वेदादिषु पठ्यन्त इति तच्चोद्यम् । ये खलु सर्वज्ञविषया धर्माः प्रतिसंविल्लाभिनां बुद्धिवृत्तिविषयमायान्त्यार्यमैत्रेयस्थविरवसुमित्राचार्याश्वघोषप्रमुखानां च बोधिसत्त्वानां बुद्धिप्रसादविधायिनस्तेजोल्पानां स्तनन्धयबुद्वीनामभिधर्मपरीक्षमतिवृत्तीनां च कथं सान्धकारेषु मनस्सु गोचरतामायान्तीति ॥
तत्र तावत्
राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः

130

प्राप्तर्नाम समन्वागमो लाभ इति पर्यायः । सर्वथा भावाञ्छब्दैरेव शब्दानाचष्टे । यथैंव खलु प्राप्तिरित्येतच्छब्दगडुमात्रं श्रूयते तथैव समन्वागमो लाभ इत्येतदपि पदद्वयं वाग्वस्तुमात्रमिति न पर्यायनाम्ना लक्षणमुद्योतितं भवति । तस्मादव्यभिचारि तत्प्रसाधकं लिङ्गमुच्यताम् । इमे ब्रू मः । श्रोत्रमवधत्स्व मनश्चैकाग्रतायां सन्नियुक्त्वा । ऽधर्मवत्ता व्यवस्थितिः ।ऽ; धर्माः खलु त्रिधा कुशलाः.........
............रूपे ऽपि कुशलया विज्ञप्त्या वर्तमानया यावद्विज्ञापयति, अतीतया च समन्वागतः ।
श्रुतचिन्तामयानां च समापत्तिद्वयस्य च

131

श्रुतचिन्तामयानामपि । सहजा पश्चाद् भवति द्वयोश्चाचित्त समापत्त्योस्सह पश्चाद् भवतीति ।
निःक्लेशसंस्कृतापूर्वं शुभानां तु रजस्वताम् ।
आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते

132

अनास्रवाणां च स्कन्धानां, अनुचितानां च कुशलसास्रवाणां न पूर्वजा । एषामेव यत्तोक्तानां ऽतदूर्ध्वं तु त्रिधेष्यते ।ऽ; यदा तेन संमुखीभूता तदा द्विधैवेति वर्तते ॥
क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता ।
क्लिष्टाणां च स्कन्धानां त्रैयध्विकी प्राप्तिः । ऽकुशलानां च तदन्येषांऽ; तेभ्यो ऽनास्रवेभ्यस्तेभ्यश्चानुचित्तेभ्यः कुशलसास्रवेभ्यो ऽन्येषां कुशलसास्रवाणां त्रैयध्विक्येव ।
निवृताव्याकृता ज्ञाननिर्माणमनसां तथा

133

त्रैयध्विकीति वर्तते ॥
निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा ।
निर्वाणस्य तत्प्रथमतो लाभे द्वैयध्विक्येव । अनागतवर्तमानालब्धस्यातीतापि । ऽनित्यस्यान्यस्य सर्वदा ।ऽ
अजा तवर्तमाना च
अप्रतिसंख्यानिरोधस्यानागतवर्तमानैव नित्यम् ।
कदाचित्तु त्रिधेष्यते

134

येन लब्धस्तस्य त्रैयध्विकीत्युक्तमेतत् ।
व्याख्याते प्राप्त्यप्राप्ती ॥
सभागता वक्तव्या । केयं सभागता नाम ? नहीह प्रवचने तीर्थ्यपरिकल्पितसामान्यविशेषपदार्थगन्धो ऽप्यस्ति । तत्केयं तदभ्यासगतेति ? तदिदं प्रतायते ।
एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता ।
सभागता नाम द्रव्यम् । सत्त्वानामेकार्थरुचिः सादृश्यहेतुभूतम् । निकायसभाग इत्यस्य शास्त्रसंज्ञा । सा पुनरभिन्ना भिन्ना च । अभिन्ना सर्वसत्वानां सत्त्वसभागता । सा प्रतिसत्त्वं सर्वेष्वात्मस्नेहाहाररतिसाम्यात् । भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षाशैक्षादीनामेकार्थरुचित्वभेदप्रतिनियमहेतुः । तस्यां खल्वसत्यां सर्वार्यानार्यलोकव्यवहारसंकरदोषः प्रसज्येत । तस्यां तु सत्यामेष दोषो न भवतीत्यस्ति सभागता नाम धर्मः, ऽएकार्थरुचिहेतुःऽ; इति ।
स्याच्च्यवेतोपपद्येत न च स्वसभागतां विजह्यात्, न च प्रतिलभेतेति ? चतुष्कोटिकः । प्रथमा कौटिः- यतश्च्यवते तत्रवोपपद्यमानः । द्वितीया- नियाममवक्रामन्, स हि पृथग्जनसभागतां विजहात्यार्यसभागतां प्रतिलभते । तृतीया- गतिसंचारात् । चतुर्थी- एतानाकारान् स्थापयित्वा ।
अथ पृथग्जनत्वस्यास्याश्च कः प्रतिविशेषः ? पृथग्जनसभागता खलूक्तरूपा । पृथग्जनत्वं तु सर्वानर्थकरभूतमिति सुमहांस्तद्विशेषः । आप्तवचनेनापि तदन्यत्वसिद्धिः । उक्तं हि भगवता- "स चेदित्थत्वमागच्छति मनुष्याणां सभागतां प्रतिलभते" इति । न चैवं पृथग्जनत्वं प्रतिलभ्यते वा त्यज्यते वा ।
सिद्धा सभागता । कोशकारः पुनस्तां वैशेषिकपरिकल्पितजातिपदार्थेन समीकुर्वन् व्यक्तं पायसवायसयोर्वर्णसाधर्म्यं पश्यतीति ॥
अथ किमिदमासंज्ञिकं नाम ? तदपदिश्यते ।
आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु

135

असंज्ञिसत्त्वेषु देवेषूपपन्नानां यच्चित्तोपच्छे दिधर्मान्तरं विप्रयुक्तं विपाकजमुत्पद्यते तदासंज्ञिकं नाम । येन तत्रोपपन्नानां चित्तमनागते ऽध्वनि कालान्तरं सन्निरुध्यते, नोत्पत्तुं लभते । तत्पुनरेकान्तेन विपाकजस्वभावम् । कस्य विपाकः ? असंज्ञिसमापत्तेः पूरकस्य कर्मणः । केषु पुनस्तत् ? देवनिकायेषु भवति । तदाह- "असंज्ञिषु । असंज्ञिसत्त्वा नाम देवा बृहत्फलदेवनिकायसंगृहीता ध्यानान्तरिकावत् ।" किं पुनस्ते नैव कदाचित् संज्ञिनो भवन्ति ? भवन्त्युत्पत्तिकाले च्युतिकाले च । "प्रकृष्टमपि कालं स्थित्वा सहसंज्ञोत्पादात्तेषां सत्त्वानां तस्मात् स्थानाच्च्युतिर्भवति" इति सूत्रपाठः । ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते, नान्यत्र । तदुपपन्नानामवश्यं कामावचरापरपर्यायवेदनीयकर्मसद्भावात् । यथोत्तरकौरवाणां देवोपपत्तिवेदनीयं कर्मेति ॥
का पुनरसावसंज्ञिसमापत्तिरिति ? तदपदिश्यते-
शुभासंज्ञिसमापत्तिर्ध्याने ऽन्त्ये चित्तरोधिनी ।
आसंज्ञिकमव्याकृतम् । विपाकफलत्वात् । इयं तु शुभा । सा पुनरियं ऽध्याने ऽन्त्येऽ; चतुर्थध्यानसंगृहीतेत्यर्थः । ऽचित्तरोधिनीऽ, यथैव तत्फलं चित्तसन्निरोधि तथैवेयमपि चित्तसंरोधिनी । चित्तग्रहणाच्च चैत्तानामनुक्तसिद्धिरादित्यास्तगमने किरणास्तगमनवत् ।
किमर्थं पुनरेतां योगिनः समापद्यन्ते ?
निःसृतीच्छाप्रवृत्तित्वात्
ते हि निस्सरणसंज्ञापूर्वकेण मनस्कारेण तां समापद्यन्ते मोक्षकाङ्क्षया । सा पुनरियम्-
नार्यस्य
आर्या हि तामपायस्थानमिव मन्यन्ते । पृथग्जनास्तु केचिन्मोक्षस्थानमिति ।
किं पुनरियमुपपत्त्या वा वैराग्येण वा लभ्यते ? नेत्याह । किं तर्हि ?
आप्या प्रयोगतः

136

यत्नेन तामुत्पादयतीति ॥
निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा ।
निरोधसमापत्तिरपि चित्तचैत्तानां धर्माणां कञ्चित्कालमुत्पत्तिसन्निरोधिनी । सा पुनरियं विहारसंज्ञापूवकेण मनसिकारेण निर्वाणसदृशं सुखमनुभवितुकामैर्योगिभिः संमुखीक्रियते । ऽभवाग्रजाऽ; चेयं समापत्तिः ।
शुभार्यस्य प्रयोगाप्या द्विवेद्यानियता मता

137

द्वयोः कालयोर्वेद्या ऽद्विवेद्याऽ; । उपपद्यवेदनीया चापरपर्यायवेदनीया च । अनियतवेदनीया चेयम् । यो ह्येतामुत्पाद्य परिनिर्वाति स नास्या विपाकं प्रतिसंवेदयते । तस्या हि भवाग्रे चतुस्कन्धको विपाको विपच्यते । आर्यश्चैतामुत्पादयितुं शक्नोति नानार्यः । उच्छेदभीरुत्वाच्छाश्वतदृष्टिप्रहाणादार्यमार्गवलोत्पादनाच्च । आर्यस्यापि चेयं प्रयोगलभ्या न वैराग्यलभ्येति ।
अत्र पुनः कोशकारः प्रतिजानीते- "सचित्तिकेयं समापत्तिः" इति । ( जैनि_94 ) "समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते । येन कालान्तरमन्यस्य चित्तस्याप्रवृत्तिमात्रं भवति । तद्विरुद्धाश्रयापादनात् सासौ समापत्तिरिति प्रज्ञाप्यते ।"
तदेतदबौद्धीयम् । कुतः ?
चेतश्चतुष्टयायोगादागमादुपपत्तितः ।
निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका

138

भवाग्रे खलु चत्वारि चित्तानि विद्यन्ते । विपाकजं निवृताव्याकृतं कुशलमुपपत्तिलाभिकं प्रायोगिकं च । तेभ्यश्चतुर्भ्यः कतरच्चित्तं यन्निरोधसमापन्नस्यान्यचित्तनिरोधीत्युच्यते ?
तत्र तावद्विपाकजं तत्रत्यां .............................
".............धर्मे प्रतिपत्त्येवाज्ञामाराधयति । नापि मरणकालसमये । भेदाच्च कायस्यातिक्रम्य देवान् कबडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते । स तत्रोपपन्नः अभोक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च । अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति" इति ।
अत्र स्थविर उदायी स्थविरशारिपुत्रमिदमवोचत्- "मा त्वमायुष्मन्नेवं वोचः ।" स हि मन्यते स्म भावाग्रीकीयं समापत्तिर्दिव्यश्च मनोमयः कायश्चतुर्थध्यानभूमिक उक्तो भगवता तत्कथमेतदुपपत्स्यते । तदेतद् भदन्तोदायिना परिहाणिमजानानेनाभिधर्मसंमूढेन प्रत्युक्तः स भगवता परमाभिधा मकेणावसादनार्थमभिहितः- "त्वमपि मोहपुरुष शारिपुत्रेण भिक्षुणा सार्धं गभ्भीरे ऽभिधर्मे संलपितुं मन्यसे ?" इति
निकायान्तरीयाश्चतुर्थध्यानभूमिकामपि निरोधसमापत्तिमिच्छन्ति । तेषां विना परिहाण्या सिद्धत्येतत्सूत्रम् । एतदेव तु न सिद्ध्यति- चतुर्थध्यानभूमिकाप्यसावस्तीति । कथम् ? "नवानुपूर्वसमापत्तयः" ( जैनि_97 ) इति सूत्रे वचनात् । प्राप्तकामवशित्वात्तु सन्तः पश्चाद्विलंध्यापि व्युत्क्रान्तसमापत्तिं समापद्यन्त इति ॥
व्याख्याते समापत्ती ।
गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः ।
आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते

139

आयुर्जीवितमित्यनर्थान्तरम् । उक्तं ह्यभिधर्मे- "जीवितेन्द्रियं कतरत् ? त्रैधातुकमायुः" इति । तत्पुनः ऽगतिप्रज्ञप्त्युपादानंऽ; विपाकजस्वभावत्वात् । उक्तं हि सूत्रे- "निर्वृत्ते विपाके नारक इति संख्यां गच्छति । एवं यावन्नवसंज्ञानासंज्ञायतनोपगसंख्यां गच्छति" इति । न चान्यदिन्द्रियं विपाकजं त्रैधातुक व्याप्यस्ति यज्जन्मप्रबन्धाविच्छेदेन वर्तमानं गतिप्रज्ञप्त्युपादानं स्यात्, अन्यत्र जीवितेन्द्रियात् ।
तत्पुनरस्तीति कथं गम्यते ? आगमाद्युक्तितश्च । आगमस्तावदयम्-
"आयुरुष्माथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ॥"
सर्वं हि जीवितेन्द्रियं कामधाताववश्यं कायेन्द्रियोष्मसहचरिष्णु । तत्त्ववश्यं विज्ञानसहवर्ति नापि चक्षुरादीन्द्रियसहवर्ति । रूपधातौ तु सर्वं कायादिपञ्चेन्द्रियसहवर्ति । न त्ववश्यं चित्तसहचरिष्ण । आरूप्यधातौ तु सर्वं विज्ञानसहवर्ति, अन्यत्र निरोधसमापत्तेः ।
जीवितेन्द्रियं गतिप्रज्ञप्त्युपादानमस्तीति द्रव्यम् । अन्यथा हि कुशलनिवृत्ते चेतसि निर्मले वाधोभौमे तद्गतिप्रज्ञप्त्युपादानविपाकजं किं कल्प्येत यत्सद्भावादसौ ततो न प्रच्युतः स्यात् ? न च शक्यं प्रतिज्ञातुमनास्रवाणामधोभूमिविज्ञानबीजं तद्गतिसंज्ञप्त्युपादानं कल्पयितुम्, अनास्रवस्य चित्तस्य समुच्छेदाय प्रवृत्तत्वात् । न चान्यद्विज्ञानं तद्भौमं शक्यं कल्पयितुं मनोविज्ञानधातुव्यतिरिक्तस्यानाकारमालम्बनस्य विज्ञानस्याप्रसिद्धत्वात् । मनोधातुरिति चेत् । न । मनोविज्ञानधातोरेवावस्थान्तरे तन्नामप्रज्ञप्तेः । युक्तिरपि- चक्षुरादिवत्तदाधिपत्यविशेषात् ।
"समाधिबलेन कर्मजं जीवितावेधं निर्वर्त्यायुः संस्काराधिष्ठानजम्, आयुर्न विपाकः" इति कोशकारः । तत्र किमुत्तरमिति ? न तत्रावश्यमुत्तरं ( जैनि_99 ) वक्तव्यं यस्मान्नैतत्सूत्रे ऽवरति, विनये न संदृश्यते, धर्मतां च विलोमयति । ( जैनि_100 ) तस्माद् बालवचनवदध्युपेक्ष्यमेतत् ।
कथं तावत्सूत्रे नावतरति, विनये न संदृश्यते ? सूत्रे ह्यक्तम्- "अस्थानमनवक शो यत्प्रहाणहेतोर्वा उपक्रमहेतोर्वा अपक्वं परिपाचयेत्, परिपक्वं वा अन्येन नयेन नयेत्" इति विस्तरः ।
विनये ऽपि "नियतवेदनीयं त्रिप्रकारं कर्म सदेवकेनापि लोकेन न शक्यं व्यावर्तयितुम्" इति परिग्रहः ।
अभिधर्मे ऽपि सर्वापरिमितमायुराक्षिप्यते । तस्यापक्षालाः कालस्थानान्तरावस्थानादिषु नियम्यन्ते । इत्येवं तावदागमादपेतं नोत्तरार्हम् ।
तथापि तु युक्तिमदुत्तरमुच्यते । यदि भगवान् समाधिबलेन स्वेच्छयापूर्वं सत्त्वं सविज्ञानकं सेन्द्रियमुत्पादयेत्, स्वात्मनो वा जीवितमनाक्षिप्तं प्राक्कर्मभिर्योगबलेनाक्षिपेत्, ततो बुद्धो भगवान्नारायणीकृतः स्यात् अपूर्वसत्त्वनिर्माणात् । स च कारुणिकत्वान्नेव परिनिर्वायात्, शासनसम्भेदसंदेहांश्च च्छिन्द्यात् । तस्माद्वैतुलिकशास्त्रप्रवेशद्वारमारब्धं तेन भदन्तेनेत्यध्युपेक्षमेतत् ।
अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि ? प्रज्ञप्त्यामुक्तम्- "अस्त्यायुःक्षयान्मरणं न पुण्यक्षयादिभिः? चतुष्कोटिकः । प्रथमा कोटिः- आयुविंपाकस्य कर्मणः पर्यादानात् । द्वितीया- भोगविपाकस्य । तृतीया- उभयोः । तुर्थी- विषमापरिहारेण ।
ज्ञानप्रस्थान उक्तम्- "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ? सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ? आह- कामावचराणां सत्त्वानामसंज्ञिसमापत्तिं निरोधसमापत्तिं वा समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां रूपारुप्यावचराणां च सत्त्वानां सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ॥"
कः पुनरस्य भाषितस्यार्थः ? यस्याश्रयोपघातादुपधातस्तत्सन्तत्यधीनत्वात् प्रथमम् । यस्याश्रयोपघात एव नास्ति तद्यथोत्पन्नावस्थानाद् द्वितीयम् । सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः । तस्मादस्त्यकालमृत्युः ।
सूत्र उक्तम्- "चत्वार आत्मभावप्रतिलम्भाः । अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रामति न परसंचेतना" इति चतुष्कोटिकः । आत्मसंचेतनावक्रामति कामधातौ क्रीडाप्रमोषकाणां देवानां मनःप्रदोषकाणां च देवानाम् । तेषां हि प्रहर्षमनःप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिभंवति, नान्यथा । बुद्धानां चेति वक्तव्यम्, स्वयंमृत्युत्वात् । परसंचेतनैव क्रामति गर्भाण्डागतानाम् । उभयम्- अन्येषां कामावचराणां प्रायेण । नोभयम्- सर्वेषामन्तराभविकानां रूपारूप्यावचराणामेकतीयानां च कामावचराणाम् । तद्यथा नारकाणां च दर्शनमार्गमैत्रीनिरोधसमापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्टप्रभृतीनां सर्वेषां च चरमभविकानां बोधिसत्त्वानां मातुस्तद्गर्भायाश्चक्रवर्तिनश्च तद्गर्भायाः ।"
व्याख्यातं जीवितेन्द्रिम् ॥
संस्कृतलक्षणानीदानीं व्याख्यायिष्यन्ते । तानि पुनः कानि कियन्ति वेति ? तदुपव्याख्यायते-
जातिः स्थितिर्जरानाशः संस्कृताङ्कचष्टतुयी ।
एतानि खलु चत्वारि संस्कृतलक्षणानि भगवताभिधर्मे ऽभिहितानि । एतान्येव विनेयप्रयोजनवशात् सूत्रे स्थित्यन्यथात्वमेकीकृत्य त्रीण्युक्तानि । गाथायां त्वेभ्यो ऽङ्गद्वयं सामर्थ्याद्गम्यमानमन्तर्णीय प्रदर्श्यते । स्थितिर्हि धर्मायोगमिच्छन्ती तद्धर्ममुपगुह्यावतिष्ठते । सा च तथा प्रवर्तमाना लोकस्य चित्तोन्नतिविशेषं जनयति । ततो भगवतान्यथात्वाख्यया ( जैनि_105 ) जरया सहोक्ता श्रीरिव कालकर्ण्यानुबद्धा संवेगानुकूला भविष्यतीत्येषो ऽर्थविषयो दृश्यते । तस्माच्चत्वारि । इतश्च-
चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः

140

यदि हि धर्मस्य स्थितिर्न स्यात्, तस्यात्मन्यवस्थितस्य हेत्वाख्यः शक्तिप्रभावविशेषो न स्यात् । अनित्यताग्रस्तस्य च नोत्पक्तिशक्तिरित्यतश्च क्रियां न कुर्यात् । क्रियाभावात्फलाभावः स्यात् । फलार्थश्चायमारम्भः । तस्मादास्तिकैर्नास्तिकपक्षं विक्षिप्य स्थितिः प्रतिगृह्यत इति सिद्धम् ॥
चत्वारीति न सिद्ध्यन्ति जराभावात् । भवतु स्थितिः, जरा तु सर्वथा न युज्यते । कथम् ? उक्तं हि-
"तथात्वेन जरासिद्धिरन्यथात्वे ऽन्य एव सः ।
तस्मान्नैकस्य भावस्य जरा नामोपपद्यते ॥"
तं प्रतीदमुच्यते-
शक्तिहानेर्जरासिद्धिः
उन्मिषितो हि धर्मो जायते हृषितः फलमाक्षिपतीति । तस्य यदि जरसा शक्तिर्न विहन्येत स द्वितीयमपि फलमाक्षिपेत । न च शक्नोत्याक्षेप्तुम् । तस्माद्गम्यते कश्चिज्जराख्यः शत्रुअस्तं जर्जरीकृत्योपहृतसामर्थ्यमनित्यतापिशाच्याः समर्पयतीति युक्तमुक्तम् ऽशक्तिहानेर्जरासिद्धिःऽ; इति । नैतद्युक्तमुक्तं परिणामदोषप्रसङ्गात् । एवं लघ्वाचक्षाणेन भवता सांख्यीयः परिणामो ऽभ्युपगतो भवति । नाभ्युपगतः, यस्मात्-
नान्यत्वात् परिणामिता ।
अन्य एव हि नो जराख्यो धर्मो, अन्यश्च धर्मी । सांख्यस्य त्ववस्थितस्य धर्मिणः स्वात्मभूतस्य धर्मान्तरस्योत्सर्गः स्वात्मभूतस्य चोत्पादः परिणाम इति ।
कथं पुनः क्षणिकस्य धर्मस्य शक्तिहानिर्भवति ? एवम्- यस्मादस्याजहदात्मकस्य-
एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति

मूल पाठ: Abhidharmadīpa with auto(?)entary Vibhāṣāprabhāvṛtti · Edition: P.S. Jaini. Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc