भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 53

53.1

जितमारकलिं जगदेकगुरुं सुरयक्षमहोरगदैत्यनतम् ।
चतुसत्यसुदेशितमार्गमिमं गुणमेघमहं प्रणमामि सदा ॥

53.2

भवभीममहोदधिमध्यगतं कृपणार्तरवं समवेक्ष्य जनम् ।
परिमोचयितुं य इह प्रणिधिं प्रचकार विभुं तमहं प्रणतः ॥

53.3

गिरिराजनिभं शरदिन्दुधियं सुमुखं सुभुजं वररूपधरम् ।
सुगतं गतमप्रतिमं सुगतं प्रणतो ऽस्मि सदा जगदर्थकरम् ॥

53.4

कनकप्रभया परिपीततनुं वरदुन्दुभितोयदवल्गुरुतम् ।
गजहंसविलम्बितधीरगतं शिरसा ऽभिनतो ऽस्मि गुणैकनिधिम् ॥

53.5

तरुणार्कसमैरचलैर्नयनैः स्फुरदुग्रमहाशनिभीमरवैः ।
नमुचिप्रहरैरसिशक्तिधरैश्चलितो ऽसि विभो न हि त्वं विकृतैः ॥

53.6

लवलीफलपाण्डुरकर्णपुटाः कुचभारविनामितगात्रलताः ।
नहि त्वामशकन् खलु नागसुताः श्वसितैः स्खलितैरपि कम्पयितुम् ॥

53.7

तरवः कुसुमस्तबकाभरणा बहुरत्नसहस्रचिताश्च नगाः ।
न तथाभिरतिं जनयन्ति सतां जनयन्ति यथा तव वीरगुणाः ॥

53.8

स्फुटचित्रपदं बहुयुक्तियुतं गमकं वचनं तव कर्णसुखम् ।
शुभमार्गफलं प्रसमीक्ष्यजना न गृणन्ति पुनस्त्वदृते ऽन्यवचः ॥

53.9

इति वः शरणं समवेक्ष्य जना न पतन्त्यपि कल्पशतैर्निरये ।
विनिहत्य च दोषरिपून् बहुलान् परियन्ति शुभं वरमोक्षपुरम् ॥

53.10

तव सौम्यतया ऽप्यभिभूततमो न विराजति शीतकरो गगने ।
तव काञ्चनकुङ्कुमसप्रभया प्रभया ऽभिहतो न विभाति रविः ॥

53.11

तव नाथ शुभे वदनाम्बुरूहे नयनभ्रमरा निपतन्ति नृणाम् ।
प्रतिबुद्धदले कमले विमले भ्रमरा इव पुष्पशताकुलिताः ॥

53.12

इति तोटकमन्त्रवरैरतुलैः परिकीर्त्य मया तव वर्णलवान् ।
यदुपार्जितमद्य शुभं विपुलं शिवमस्तु ततो भुवि देवनृणाम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc