108 Buddhist stotras · अध्याय 54
निरालम्बनिराकारनिर्विकल्पस्वरूपिणी ।
नैरात्मा वरदा देवी नित्यमेव नमो ऽस्तु ते ॥
एकवक्त्रां त्रिनेत्रां च ऊर्ध्वपिङ्गलमूर्धजाम् ।
करे कर्तिकपालां च नमामि विश्वमातरीम् ॥
नवनृत्यभूषितां च सहस्रमुखरूपिणीम् ।
योगेश्वरीं योगगम्यां नमामि ज्ञानरूपिणीम् ॥
शवारूढां महातेजां सर्वदुष्टनिकृन्तनीम् ।
सर्वपापहरां देवीं नमामि जगदीश्वरीम् ॥
गौरीं चौरीं च वेतालीं घस्मरीं पुक्कसीं तथा ।
शबरीं चाण्डालीं डोम्बीं नमामि चाष्टयोगिनीम् ॥
ब्रह्माविष्णुशिवशक्रचतुर्मारविनाशिनीम् ।
त्रैलोक्यमोहिनीं देवीं नमामि सुरसुन्दरीम् ॥
अक्षमालविभूषाङ्गीम् अकारबीजसम्भवाम् ।
नित्यं ध्यानरतां देवीं नमामि विश्वमातरीम् ॥
सर्वभूतप्रियां देवीं सर्वमन्त्रप्रबोधिनीम् ।
सर्वमन्त्रमयीं मातर्नैरात्मां त्वां नमाम्यहम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0