108 Buddhist stotras · अध्याय 52
शशधरमिव शुभ्रं खड्गपुस्ताकपाणिं सुरुचिरमलिशान्तं पञ्चचीरं कुमारम् ।
पृथुतरवरमोक्षं पद्मपत्रायताक्षं कुमतिदहनदक्षं मञ्जुघोषं नमामि ॥
कृतमृगरिपुयानं दत्तभक्तप्रदानं सुरदनुजनृयानं बोधिसत्त्वप्रधानम् ।
अखिलगुणनिधानं सर्वविद्यावितानं करसरसिजबाणं मञ्जुघोषं नमामि ॥
विभृतसकलकोषं क्षालिताज्ञानदोषं स्मरणभजनतोषं दूररागादिदोषम् ।
विहितससुरपोषं सिद्धिदाख्यानयोषं कृतजडपरिशोषं मञ्जुघोषं नमामि ॥
गणपतिशरजन्मश्रीमहाकालसिंहैः परिवृतमिव चन्द्राभाभमिन्दीवराक्षम् ।
असिशरजपमालापुस्तकं संवहन्तम् उरसि ललितमालं मञ्जुघोषं नमामि ॥
सुरपतिशमनायाप्येष मित्राग्निरक्षः पवनप्रमथपालैः संवृतं स्मेरवक्त्रम् ।
खगपतिरथगात्रं ब्रह्मवन्द्यं रमोमा विहितचरणभक्तं मञ्जुघोषं नमामि ॥
यदसिकठिनधाराच्छेदमार्गाभिवाहा(हः) सकलसलिलधारापातिताङ्गाङ्गमन्त्रः ।
बहुपरिचयस्थल्यां भूमिनद्यापि रेजे बहुतरमहिमानं मञ्जुघोषं नमामि ॥
भवदभिनवनुत्या तोषिता गुह्यदेवी निखिलनिगमसारा सुप्रकाशा ऽतिरेजे ।
भवजलनिधिपारं दानकल्पद्रुमाग्रं गलितबहुमहोग्रं मञ्जुघोषं नमामि ॥
विभजति जनलोको धर्मधातुं महेशं दशशतदलपद्मे संस्थितं ज्योतिरैशम् ।
तदपि तव प्रशस्तं देवमाहात्म्यमीशं विभजति भुजगेशं मञ्जुघोषं नमामि ॥
पठति यदिदमिष्टं मालिनीपद्यबन्धं स भवति कविराजो वादिसिंहासनस्थः ।
सकलविसभासु प्रोज्ज्वलद्वाक्सुधारः कलितसकलविद्यो भूषणो भव्यदक्षः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0