योगयात्रा · अध्याय 8
वेदी शुभा शुल्व[क्.शिल्प]विधानदृष्टा दिक्स्थानमानाभ्य्धिका[क्.दिक्\-.स्थान\-.मानानधिका] न हीना।
भ्रष्टप्रमाण[क्.भ्रष्टा प्रमाणेन] प्रकरोति[क्.करोति] भङ्गं दिग्वक्रसंस्था च न[क्.न च] सिद्धिदा स्यात्॥
प्राग्भागहीना नगरस्य नेष्टा पुरोधसां[क्.पुरोधसो] दक्षिणभागवक्रा।
नरेन्द्रजायाशुभदा परस्याम् उदग् बलेशस्य नृपस्य मध्ये॥
सत्त्वैर् अलीढं न पिपीलमक्षिकामलाविलं वा[क्.तद्] विजयप्रदं हविः।
द्रव्याण्य् अनूनानि पटुः पुरोहितो जुहोति सम्यग् विजयाय भूभृताम्॥
गन्धमाल्यचरुकुम्भभाजनस्रुक्कुशव्यजनसर्पिषां यदा।
भङ्गविस्मृतिनिपातहीनता पार्थिवस्य न भवेत् तदा शुभम्[क्.तदा भवेच् छिवम्]॥
शान्तायां दिशि यदि शङ्खतूर्यशब्दाः सप्तीनां प्लुतमिभबृङ्हितानि[क्.रुतगजबृंहितानि] वा स्युः।
पुंसां वा प्रमुदितचेष्टितप्रलापाः श्रूयन्ते यदि च जयो ऽस्ति होमकाले॥
अप्रतिरथः समस्तो यात्रालिङ्गस् तथा ऽभयश् च[क्.ऽभयस्य] गणः।
स्वस्त्ययनशर्मवर्मा ऽपराजिताः पुष्पसंज्ञाश् [ऽपराजिता ऽऽयुष्यसंज्ञाश्] च॥
इन्द्रश् चन्द्रश् चिति[क्.चन्द्रेति] गणो यत्[क्.यं] ते चन्द्रश् च भूतभूतेति।छेच्केद्
सूक्तं महाव्याहृतयो मन्त्राशीर्वैष्णवा[क्.सूक्तमहाव्याहृतयः प्राजापत्याश् च ये] मन्त्राः॥
प्राजापत्याश् चोक्ता होमे[क्.उक्ताः काले (लचुन) राज्ञो] निर्गच्छतो ऽनु गमने च।
अग्निपुरोहितसंस्थान्य् अतो[क्.होमे ऽग्निप्रोहितसंस्थानि] निमित्तानि वक्ष्यामि[क्.गृह्णीयात्]॥
कृते ऽपि यत्ने ऽतिकृशः [ऊ.ऽपि कृzअः] कृशानुर् यातव्यकाष्ठाविमुखो नतार्चिः।
वामीकृतावर्तशिखो [ऊ.वामे कृतावर्तशिखो] ऽतिधूमो विच्छिन्नसाकम्पविलीनमूर्तिः॥
शिमशिमायति[क्.शिमिशिमायति,ऊ.सिमिसिमायति] यस्य [ऊ.चास्य] हविर् हुतं सुर\-.धनुः\-.सदृशः कपिशो [ऊ.कपिलो] ऽथवा।
रुधिरपीतकबभ्रुहरिच्छविः परुषमूर्त्तिर् अनिष्टकरो ऽनलः॥
श्वखरकरभ [ऊ.खरकरभक]वानरानुरूपो निगडविभीषणशस्त्ररूपभृद् वा।
शवरुधिरवसास्थिवस्त[क्.ऊ.मज्ज]गन्धो हुतभुग् अनिष्टफलः स्फुलिङ्गकृच् च॥
चर्मविपाटनतुल्यनिनादो जर्जरमन्दवि[क्.मन्द्रवि,ऊ.दर्दुर]रूक्षरवो वा।
आकुलयंश् च पुरोहितसभ्यान् [ऊ.पुरोहितमर्त्यान्] धूमचयैर्[क्.ऊ.धूमलवैर्] अशिवाय [ऊ.न शिवाय] हुताशः॥
हारकुन्दकुसुमेन्दु[क्.ऊ.कुमुदेन्दु]संनिभः संहतो ऽङ्गसुखदो महोदयः।
अङ्कुशाब्जजलवारणच्छविर्[क्.ऊ.अङ्कुशातपनिवारणाकृतिर्] हूयते ऽल्पतपसां न [ऊ.ऽल्प उपमान] हव्यभुक्॥
चामीकराशोककिरीटरत्न[क्.कुरण्टकाब्ज]वैदूर्यनीलोत्पलसंनिभे ऽग्नौ।
न ध्वान्तम् अन्तर् भवने ऽवकाशं करोति रत्नांशुहृतं[क्.हतं] नृपस्य॥
येषां रथौघार्णवमेघदन्तिनां समः स्वनो[क्.समस्वनो] ऽग्निर् यदि वा ऽपि दुन्दुभेः।
तेषां मदान्धेभघटावघट्टिता भवन्ति याने तिमिराबिला [तिमिरोपमा] दिशः॥
ध्वजकुम्भहयेभभूभृताम् अनुरूपे वशम् एति भूभृताम्।
उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा॥
द्विरदमदमहीसरोजलाजैर् घृतमधुना[क्.घृतमधुनोश्] च हुताशने सगन्धे।
प्रणतनृपशिरोमणिप्रभाभिर् भवति पुरश् छुरिता नृपस्य दीप्तिः[क्.पुरश् छुरितेव भूर् नृपस्य]॥
अग्न्याश्रितं यत् फलम् उक्तम् अस्मिंस् नृजातकर्मादिषु[क्.तज् जातकर्मादिषु] पौष्टिकेषु।
यज्ञेषु सर्वेषु च वह्निकार्येष्व् एवं वदेद् यस्य यथानुरूपम्॥ए19
मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0