योगयात्रा · अध्याय 9
जन्मर्क्षम् आद्यं दशमन् तु कर्मं[क्.दशमं च कर्म] सांघातिकं षोडशम् ऋक्षम् आद्यात्।
अष्टादशं स्यात् समुदायसंज्ञं वैनाशिकं विंशतिभात् तृतीयम्[क्.विंशतिभिस् त्रिभिश् च]॥
यत् पञ्चविंशं खलु मानसं तत् षडृक्ष एवं पुरुषस् तु सर्वः।
राज्ञो नवर्क्षाणि वदन्ति जातिदेशाभिषेकैः सहितानि तानि॥
राज्ञो ऽभिषेकर्क्षम् उशन्त्य् अमिश्रं साधारणे द्वे सह षड्भिर् आद्यैः।
किम्त्व् अत्र दोषाश् च गुणाश् च सर्वे प्रधानम् एकं पुरुषं भजन्ते॥
कूर्मोपदिष्टानि हि देशभानि राज्ञो ऽभिषेकाहनि च ऽऽभिषेकम्।
या जातयश् भस्य[क्.च ऽपि] भवन्त्य् अतस् ता वर्गांश् च वक्ष्यामि यथाक्रमेण[क्.वक्ष्यामि दैवज्ञनिराकुलार्थम्]॥
पूर्वात्रयं सानलम् अग्रजानां राज्ञां तु पुष्येण सहोत्तराणि।
सपौष्णमैत्रं पितृदैवतं च प्रजापतेर् भं च कृषीवलानाम्॥
आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति भानि।
मूलत्रिनेत्रानिलवारुणानि भान्य् उग्रजातेः प्रभविष्णुतायाः॥
सौम्येन्द्र[क्.ऐन्द्र]चित्रावसुदैवतानि सेवाजनस्वाम्यम् उपागतानि।
सार्पं विशाखाश्रवणे भरण्यश् चाण्डालजातेर् अभिनिर्दिशन्ति[क्.इति निर्दिशन्ति]॥
रविरविसुतभोगम् आगतं क्षितिसुतभेदनवक्रदूषितं।
ग्रहणगतम् अथो ऽल्कया हतं नियतमुखाकर[क्.नियतम् उषाकर]पीडितं च यत्॥
तद् उपहतम् इति प्रचक्षते प्रकृतिविपर्ययजातम्[क्.यातम्] एव वा।
निगदितपर[क्.परि]वर्गदूषितं[क्.दूषणं] कथितविपर्ययगं समृद्धये॥
रोगाभियागमवित्तनाशकलहा[क्.रोगाभियागमवित्तनाशकलहाः] सम्पीडिते जन्मभे
सिद्धिं कर्म न याति कर्मणि हते भेदास् तु सांघातिके।
द्रव्यस्योपचितस्य सामुदयिके संपीडिते संक्षयो
वैनाशे तु भवन्ति कायविपदश् चित्तासुखं मानसे॥
निरुपद्रुतभो निरामयः सुखभाग् पुष्टतनुर्[क्.नष्टरिपुर्] धनान्वितः।
षडुपद्रुतभो विनश्यति त्रिभिर् अन्यैश् च सह ऽवनीश्वरः॥
न भवति शरीरपीडा यस्य विना शान्तिभिर् भपीडायाम्।
तस्य शरीरविपत्तिः पाकान्ते देवलः प्राह॥
सर्वेषां पीडायां दिनम् एकम् उपोषितो ऽनलं जुहुयात्।% व्ढ्प् 1.89.1--13
सावित्र्या क्षीरतरोः समिद्भिर् अमरद्विजानुरक्तः[क्.रतः]॥
गोक्षीरसितवृषभ[क्.वृष]शकृन्मूत्रैः पत्रैश् च पूर्णकोशायाः।
स्नानं जन्मनि दुष्टे स्वाचारवतां हरति पापम्॥
कर्मणि मधुघृतहोमो दशाहम् अक्षारमद्यमांसादः।
दूर्वाप्रियंगुसर्षपशतपुष्पशतावरीस्नानम्॥
सांघातिके ऽभितप्ते[क्.तु तप्ते] मांसमधुक्रौर्यमन्मथांस् त्यक्त्वा।
स्नातो[क्.दान्तो] दूर्वां जुहुयाद् दानं दद्याद् यथाशक्ति॥
सामुदयिके ऽपि[क्.तु] दद्यात् काञ्चनरजतान्य् उपहते[क्.उपद्रुते] धिष्ण्ये।
वैनाशिके ऽन्नपानं वसुधां च गुणाण्विते दद्यात्॥
मानसतापे होमः सरोरुहैः पायसैर् द्विजाः पूज्याः।
गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम्॥ए18% ःएरे केर्न्ऽस् वेर्सिओन् एन्द्स्.
मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0