योगयात्रा · अध्याय 11
दीर्घग्रीवाक्षिकूतस् त्रिकहृदयपृथुस् ताम्रताल्वोष्ठजिह्वः(ब्ष् 65.1)
सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः।
जंघाजानूरुवृत्तः समसितदशनश् चारुसंस्थानरूपो
वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम्॥
उत्सर्गान् न शुभदम् आसनापरस्थं वामे च ज्वलनम् अतो ऽपरं प्रशस्तम्।(ब्ष् 92.1)
सर्वाङ्गज्वलनम् अवृद्धिदं हयानां द्वे वर्षे दहनकणाश् च धूपनं वा॥
अन्तःपुरं नाशम् उपैति मेढ्रे कोशक्षयं यात्य् उदरे प्रदीप्ते।(ब्ष् 92.2)
पायौ च पुच्छे च पराजयः स्याद् वक्त्रोत्तमाङ्गज्वलने जयश् च॥
स्कन्धासनांशज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम्।(ब्ष् 92.3)
ललाटवक्षोऽक्षिभुजे च धूमः पराभवाय ज्वलनं जयाय॥
नासापुटप्रोथशिरोऽश्रुपातनेत्रे च रात्रौ ज्वलनं जयाय।(ब्ष् 92.4)
पालाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम्॥
प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद् विना(ब्ष् 92.5)
कम्पो वा वदनाच् च रक्तपतनं धूमस्य वा संभवः।
अस्वप्नश् च विरुध्यता निशि दिवा निद्रालसध्यानता
सादो ऽधोमुखता विचेष्टितम् इदं नेष्टं स्मृतं वाजिनाम्॥
आरोहणम् अन्यवाजिनां पर्याणादियुतस्य वाजिनः।(ब्ष् 92.6)
उपवाह्य तुरङ्गमस्य वा कल्पस्यैव विपन्न शोभना॥
क्रौञ्चवद् रिपुवधाय ह्रेषितं ग्रीवया त्व् अचलया च सोन्मुखम्।(ब्ष् 92.7)
स्निग्धम् उच्चम् अनुनादि हृष्टवद् ग्रासरुद्धवदनश् च वाजिभिः॥
पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि च।(ब्ष् 92.8)
द्रव्यमिष्टम् अथवापरं भवेद् ह्रेषता यदि समीपतो जयः॥
भक्ष्यपानखलिनाभिनन्दिनः पत्युर् औपयिकनन्दिनो ऽथवा।(ब्ष् 92.9)
सव्यपार्श्वगतदृष्टयो ऽथवा वाञ्छिरार्थफलदास् तुरङ्गमाः॥
वामैश् च पादैर् अभिताडयन्तो महीं प्रवासाय भवन्ति भर्त्तुः।(ब्ष् 92.10)
सन्ध्यासु दीप्ताम् अवलोकयन्तो ह्रेषन्ति चेद् वन्धपराजयाय॥
अतीव ह्रेषन्ति किरन्ति बालान् निद्रारताश् च प्रवदन्ति यात्राम्।(ब्ष् 92.11)
रोमत्यजा दीनखरस्वरांश् च प्रांशून् ग्रसन्तश् च भयाय दिष्टाः॥
समुद्गवद् दक्षिणपार्श्वशायिनः पादं समुत्क्षिप्य च दक्षिणं स्थिताः।(ब्ष् 92.12)
जयाय शेषेष्व् अपि वाहनेष्व् इदं फलं यथासंभवम् आदिशेद् बुधः॥
आरोहति क्षितिपतौ विनयोपपन्नो यात्रा ऽनुगो ऽन्यतुरगं प्रति ह्रेषितश् च।(ब्ष् 92.13)
वक्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं यो ऽश्वः स भर्तुर् अचिरात् प्रचिनोति लक्ष्मीम्॥
मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यमानो ऽप्य् अनुलोमयायी।
अकार्यभीतो ऽश्रुविलोचनश् च शिवं न भर्त्तुस् तुरगो ऽभिधत्ते॥ए15
मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0