योगयात्रा · अध्याय 12
अङ्गुलशतार्द्धम् उत्तम ऊनः स्यात् पञ्चविंशतिः खड्गः।(ब्ष् 49.1)
अंगुलमानाज् ज्ञेयः समांगुलस्थो व्रणः शुभदः॥
श्रीवृक्षवर्धमानातपत्रशिवलिङ्गकुण्डलाब्जानाम्।(ब्ष् 49.2)
सदृशा व्रणाः प्रशस्ता ध्वजायुधस्वस्तिकानां च॥
कृकलासकाककङ्कक्रव्यादकबन्धवृश्चिकाकृतयः।(ब्ष् 49.3)
खड्गे व्रणा न शुभदा वंशानुगताः प्रभूताश् च॥
स्फुटितो ह्रस्वः कुण्ठो वंशच्छिन्नो न दृङ्मनो ऽनुगतः।(ब्ष् 49.4)
अस्वर इति चानिष्टः प्रोक्तविपर्यस्त इष्टफलः॥
क्वणितं मरणायोक्तं पराजयायाप्रवर्त्तनम् कोशात्।(ब्ष् 49.5)
स्वयम् उद्गीर्णे युद्धं ज्वलिते विजयो भवति खड्गे॥
नाकारणं विवृणुयान् न विघट्टयेच् च पश्येन् न तत्र वदनं न वदेच् च मूल्यम्।(ब्ष् 49.6)
देशं न वास्य कथयेत् प्रतिमानयेच् च नैव स्पृशेन् नृपतिर् अप्रयतो ऽसियष्टिम्॥
गोजिह्वासंस्थानो नीलोत्पलवंशपत्रसदृशश् च।(ब्ष् 49.7)
करवीरपत्रसदृशश् चन्द्रमण्डलाग्रः प्रशस्तश् च॥
निष्पन्नो न छेद्यो निकषैः कार्यः प्रमाणयुक्तः सः।(ब्ष् 49.8)
मृते म्रियते स्वामी जननी तस्याग्रतश् छिन्ने॥
यस्मिन् त्सरुप्रदेशे व्रणो भवेत् तद्वद् एव खड्गस्य।(ब्ष् 49.9)
वनितानाम् इव तिलकं गुह्ये वाच्यो मुखे दृष्ट्वा॥
अथवा स्पृशति यद् अङ्गं प्रष्टा निस्त्रिंशभृत् तद् अवधार्य।(ब्ष् 49.10)
कोशस्थस्यादेश्यो व्रणो ऽसिशास्त्रं विदित्वेदम्॥
शिरसि स्पृष्टे प्रथमे ऽङ्गुले द्वितीये ललाटसंस्पर्शे।(ब्ष् 49.11)
भ्रूमध्ये च तृतीये नेत्रे स्पृष्टे चतुर्थे च॥
नासौष्ठकपोलहनुश्रवणग्रीवांशकेषु पञ्चाद्याः।(ब्ष् 49.12)
उरसि द्वादशसंस्थः त्रयोदशे कक्षयोर् ज्ञेयः॥
स्तनहृदयोदरकुक्षौ नाभौ च चतुर्दशादयो ज्ञेयाः।(ब्ष् 49.13)
नाभीमूले कट्यां गुह्ये चैकोनविंशतितः स्यात्॥
ऊर्वोर् द्वाविंशे स्याद् ऊर्वोर् मध्ये व्रणस् त्रयोविंशे।(ब्ष् 49.14)
जानुनि च चतुर्विंशे जघायां पञ्चविंशे स्यात्॥
जङ्घामध्ये गुल्फे पार्ष्ण्यां पादे तथाङ्गुलीष्व् अपि च।(ब्ष् 49.5)
षड्विंशादिषु यावत् त्रिंशाद् इति मतेन गर्गस्य॥
पुत्रमरणं धनाप्तिर् धनहानिः सम्पदश् च वधश् च।(ब्ष् 49.16)
एकाद्यंगुलसंस्थैर् व्रणैः फलं निर्दिशेत् क्रमशः॥
सुतलाभः कलहो हस्तिलयः पुत्रमरणधनलाभौ।(ब्ष् 49.17)
क्रमशो विनाशवनिताप्तिचित्तदुःखानि षट्प्रभृति॥
लब्धिर् हानिस्त्रीलयो वधो वृधिमरणपरितोषाः।(ब्ष् 49.18)
ज्ञेयाश् च चतुर्दशादिषु धनहानिश् चैकविंशे स्यात्॥
वित्ताप्तिर् अनिर्वाणं धनागमो मृत्युसम्पदो ऽस्वत्वम्।(ब्ष् 49.19)
ऐश्वर्यमृत्युराज्यानि च क्रमात् त्रिंशद् इति यावत्॥
परतो न विशेषफलं विषमसमस्थाश् च पापशुभफलदाः।(ब्ष् 49.20)
कैश् चिद् अफलाः प्रदिष्टास् त्रिंशत् परतो ऽग्रम् इति यावत्॥
करवीरोत्पलगजमदघृतकुंकुमकुन्दचम्पकसुगन्धिः।(ब्ष् 49.21)
शुभदो गोमूत्रहरितालपङ्कमेदसदृशगन्धिः॥
कूर्मवसा ऽस्टकक्षारोपमश् च भयदुःखदो भवति गन्धः।(ब्ष् 49.22)
वैदूर्यकनकविद्युत्प्रभो जयारोग्यवृद्धिकरः॥
इदम् ऐशनसञ् च शस्त्रपानं रुधिरेण श्रियम् इच्छतः प्रदीप्ताम्।(ब्ष् 49.23)
हविषा गुणवत् सुताभिलिप्सोः सलिलेनाक्षयम् इच्छतश् च वित्तम्॥
वडवोष्ट्रकरेणदुग्धपानं यदि पापेन समीहते ऽर्थसिधिः।(ब्ष् 49.24)
झषपित्तमृगाश्ववस्तदुग्धैः करिहस्तच्छिदये सतालगर्भैः।
आर्कं पयो हुडविषाणमषीसमेतं पारावताखुशकृता च युतं प्रलेषः।(ब्ष् 49.25)
शस्त्रस्य तैलमथितस्य ततो ऽस्य पानं पश्चाच् छ्रितस्य न शिलासु भवेद् विघातः॥
क्षारे कदन्या मथितेन युक्ते दिनोषिते पायुतमायसं यत्।(ब्ष् 49.26)
सम्यक् छिरितं चाश्मनि नैति भङ्गम् न चान्यलौहेष्व् अपि तस्य कौष्ठ्यम्॥ए26
मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0