योगयात्रा · अध्याय 33
शुद्धैर् द्वादशकेन्द्रनैधनगतैः पापैस् त्रिषष्ठायगैर्
लग्ने केन्द्रगते ऽथवा सुरगुरौ दैतेयपूज्ये ऽथवा।
सर्वारम्भफलप्रसिद्धिर् उदये राशौ च कर्तुः शुभे
स्वग्राम्यस्थिरभोदये सुभवनं कार्यं प्रवेशो ऽपि वा॥
क्रूरोदये तदहनि व्यतिपातयोगे रिक्ते तिथाव् ऋतुसमाप्तिषु वैधृते वा।
तीक्ष्णोग्रभेषु च हुताशविषाभिघातरौद्राणि सिद्धिम् उपयान्य् असिते च पक्षे॥
केतूल्कार्कजराहुकीलककुजा बिम्बप्रविष्टा यतः
सूर्येन्द्वोः परिवेषखण्डम् अथवा दृश्येत यस्यां दिशि।
क्रोष्टुश्वाहिपिपीलिकाशशमृगाध्वांक्षादयो वा पुरे
सैन्ये वापि यतो विशन्ति हि ततः शस्त्रोः पुरं घातयेत्॥
पातालर्क्षे राहुकेत्वोः पुरे ऽरेस् तोयोच्छित्तिः सालपातश् च कार्यः।
जामित्रस्थे भूमिजे ऽस्यांशके वा पुत्रेणेन्दोर् वीक्षिते ऽग्निः प्रदेयः॥ए5
मूल पाठ: Yogayātrā · Edition: of Pingree, David (ed.): Brhadyatra, Government of Tamil Nadu, 1972. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0