भाषा

ENहिગુ
ग्रंथ पाठ

योगयात्रा · अध्याय 32

32.1

परिवेषो ऽर्कशशिनोः शत्रुपक्षग्रहैः सह।
स्निग्धो ऽखण्डश् च जयदः पापदो बहुमण्डलः॥

32.2

प्रतिलोमो ऽतिबहुलो नेष्ट इष्टः प्रदक्षिणः।
नीहारः पांशुपातश् च हितः स्निग्धः प्रदक्षिणः॥

32.3

गन्धर्वनगरं हन्ति प्राक्प्रभृत्य् अवनीश्वरम्।
बलेशं युवराजं च पुरोहितम् इति क्रमात्॥

32.4

सिताद्यं ब्राह्मणादींश् च विदिक्षु वर्णसङ्करान्।
प्रदक्षिणं तु यात्रायां जयदं नेष्टम् अन्यथा॥

32.5

दिशां दाहो ऽथ जयदः प्रदक्षिण उपागतः।
श्वभ्रोन्नते वधो राज्ञो जयाय व्यत्ययेन च॥

32.6

घृताम्बुपयसां स्रावे च्युते वृक्षाच् च तत्क्षयः।
तैले च नाशो मुख्यानां रक्ते शस्त्रकृतं भयम्॥

32.7

मद्येन तु मिथो भेदो रुग्भयं दधिनिस्रवे।
कुसुमात् कुसुमोत्पत्तौ परचक्रागमं वदेत्॥

32.8

बहुतोये ऽतिसंशोषः कूपे ऽसृक्पूर्तिविस्रवः।
राज्ञो ऽब्दार्धाद् वधं कुर्युः स्रोतो ऽल्पत्वे परागमः॥

32.9

वृष्टिविद्युत्स्वनैर् व्यभ्रे चरस्थिरविपर्यये।
दिनोल्कायां च पीड्यन्ते जना भूपतिभिः सह॥

32.10

सप्ताहं सन्ततान्य् अतो वृष्टिर् हन्यान् नराधिपम्।
अनग्निज्वलने पुंसां व्याधिर् आश्व् एव जायते॥

32.11

पीडा राष्ट्रस्य षण्मासाद् उष्णशीतविपर्यये।
मासे ऽष्टमे नृपस्यान्तो निनादे पशुपक्षिणाम्॥

32.12

नगरारण्यसत्त्वानाम् अरण्यपुरसेवने।
राष्ट्रपीडाधिके वर्षे मुख्यलोकस्य च क्षयः॥

32.13

स्तम्भोपलकुसूलार्चापीठशय्यापसर्पणे।
गदने चापि देशस्य नाशं मासत्रयाद् वदेत्॥

32.14

गोनागाश्ववधो ऽब्दार्धे व्यत्ययो वा नृपान्तकृत्।
देशनाशस् तथा स्त्रीणां खगाहिपशुसम्भवे॥

32.15

धान्यरसमद्यभोजनफलपुष्पस्नेहमांसवस्त्राणाम्।
सिकतारजोरसात्मकसशर्कराङ्गारवर्षेषु॥

32.16

सुतपत्नी क्षुद्राज्ञा नृपदेशचमूपमरणसंक्लेशाः।
भेदो ऽपदो ऽथ मन्त्रिव्याधिविनाशभूपक्रोधाः॥

32.17

निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम्।
भवति च यस्यां दिशि तद्दिश्यं नरपतिमुख्यं न चिराद् धन्यात्॥

32.18

मृगपशुरासभवाजिगजानां वियतरवो न चिराद् भयदाता।
विबुधपतिध्वजतोरणपातः फलम् इदम् एव करोति नृपाणाम्॥ए18

मूल पाठ: Yogayātrā · Edition: of Pingree, David (ed.): Brhadyatra, Government of Tamil Nadu, 1972. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc