भाषा

ENहिગુ
ग्रंथ पाठ

योगसूत्र (टीका सहित) · अध्याय 1

1.1

पातञ्जलयोगशास्त्रम्
यस् त्यक्त्वा रूपम् आद्यं प्रभवति जगतो ऽनेकधानुग्रहाय प्रक्षीणक्लेशराशिर् विषमविषधरो ऽनेकवक्त्रः सुभोगी ।
सर्वज्ञानप्रसूतिर् भुजगपरिकरः प्रीतये यस्य नित्यं देवो ऽहीशः स वो ऽव्यात् सितविमलतनुर् योगदो योगयुक्तः ॥1॥
अथ योगानुशासनम्

1.2

अथेत्य् अयम् अधिकारार्थः. योगानुशासनं शास्त्रम् अधिकृतं वेदितव्यम्. योगः समाधिः. स च सार्वभौमश् चित्तस्य धर्मः. क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धम् इति चित्तभूमयः. तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर् न योगपक्षे वर्तते. यस् त्व् एकाग्रे चेतसि सद्भूतम् अर्थं प्रद्योतयति क्षिणोति च क्लेशान् कर्मबन्धनानि श्लथयति निरोधम् अभिमुखं करोति स संप्रज्ञातो योग इत्य् आख्यायते. स च वितर्कानुगतो विचारानुगत आनन्दानुगतो ऽस्मितानुगत इत्य् उपरिष्टान् निवेदयिष्यामः. सर्ववृत्तिनिरोधे त्व् असंप्रज्ञातः समाधिः. 1.1
तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते ---
योगश् चित्तवृत्तिनिरोधः

1.3

सर्वशब्दाग्रहणात् संप्रज्ञातो ऽपि योग इत्य् आख्यायते. चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम्.
प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति. तद् एव तमसानुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति. तद् एव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानम् अनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति.
तद् एव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति. तत् परं प्रसंख्यानम् इत्य् आचक्षते ध्यायिनः. चितिशक्तिर् अपरिणामिन्य् अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च सत्त्वगुणात्मिका चेयम् अतो विपरीता विवेकख्यातिर् इति. अतस् तस्यां विरक्तं चित्तं ताम् अपि ख्यातिं निरुणद्धि. तदवस्थं संस्कारोपगं भवति. स निर्बीजः समाधिः. न तत्र किंचित् संप्रज्ञायत इत्य् असंप्रज्ञातः. द्विविधः स योगश् चित्तवृत्तिनिरोध इति. 1.2
तदवस्थे चेतसि विषयाभावाद् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ---
तदा द्रष्टुः स्वरूपे ऽवस्थानम्

1.4

स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर् यथा कैवल्ये. व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा. 1.3
कथं तर्हि, दर्शितविषयत्वात् ---
वृत्तिसारूप्यम् इतरत्र

1.5

व्युत्थाने याश् चित्तवृत्तयस् तदविशिष्टवृत्तिः पुरुषः. तथा च सूत्रम् एकम् एव दर्शनं ख्यातिर् एव दर्शनम् इति. चित्तम् अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः. तस्माच् चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः. 1.4
ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य ---
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः

1.6

क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः. ख्यातिविषया गुणाधिकारविरोधिन्यो ऽक्लिष्टाः. क्लिष्टप्रवाहपतिता अप्य् अक्लिष्टाः. क्लिष्टच्छिद्रेष्व् अप्य् अक्लिष्टा भवन्ति. अक्लिष्टच्छिदेषु क्लिष्टा इति. तथाजातीयकाः संस्कारा वृत्तिभिर् एव क्रियन्ते. संस्कारैश् च वृत्तय इति. एवं वृत्तिसंस्कारचक्रम् अनिशम् आवर्तते. तद् एवंभूतं चित्तम् अवसिताधिकारम् आत्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति. ताः क्लिष्टाश् चाक्लिष्टाश् च पञ्चधा वृत्तयः. 1.5
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः

1.7

1.6
प्रत्यक्षानुमानागमाः प्रमाणानि

1.8

इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनो ऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्. फलम् अविशिष्टः पौरुषेयश् चित्तवृत्तिबोधः. प्रतिसंवेदी पुरुष इत्य् उपरिष्टाद् उपपादयिष्यामः.
अनुमेयस्य तुल्यजातीयेष्व् अनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यस् तद्विषया सामान्यावधारणप्रधाना वृत्तिर् अनुमानम्. यथा देशान्तरप्राप्तेर् गतिमच् चन्द्रतारकं चैत्रवत्, विन्ध्यश् चाप्राप्तिर् अगतिः. आप्तेन दृष्टो ऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात् तदर्थविषया वृत्तिः श्रोतुर् आगमः. यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते. मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात्. 1.7
विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम्

1.9

स कस्मान् न प्रमाणम्. यतः प्रमाणेन बाध्यते. भूतार्थविषयत्वात् प्रमाणस्य. तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम्. तद्यथा द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति. सेयं पञ्चपर्वा भवत्य् अविद्या. अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति. एत एव स्वसंज्ञाभिस् तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्र इति. एते चित्तमलप्रसङ्गेनाभिधास्यन्ते. 1.8
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः

1.10

स न प्रमाणोपारोही. न विपर्ययोपारोही च. वस्तुशून्यत्वे ऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते. तद् यथा चैतन्यं पुरुषस्य स्वरूपम् इति. यदा चितिर् एव पुरुषस् तदा किम् अत्र केन व्यपदिश्यते.
भवति च व्यपदेशे वृत्तिः. यथा चैत्रस्य गौर् इति. तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति. गतिनिवृत्तौ धात्वर्थमात्रं गम्यते. तथानुत्पत्तिधर्मा पुरुष इति, उत्पत्तिधर्मस्याभावमात्रम् अवगम्यते न पुरुषान्वयी धर्मः. तस्माद् विकल्पितः स धर्मस् तेन चास्ति व्यवहार इति. 1.9
अभावप्रत्ययालम्बना वृत्तिर् निद्रा

1.11

सा च संप्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः. कथम्, सुखम् अहम् अस्वाप्सम्. प्रसन्नं मे मनः. प्रज्ञां मे विशारदीकरोति. दुःखम् अहम् अस्वाप्सम्. स्त्यानं मे मनो भ्रमत्य् अनवस्थितम् गाढं मूढो ऽहम् अस्वाप्सम्. गुरूणि मे गात्राणि. क्लान्तं मे चित्तम्. अलसं मुषितम् इव तिष्ठतीति. स खल्व् अयं प्रबुद्धस्य प्रत्यवमर्शो न स्याद् असति प्रत्ययानुभवे तदाश्रिताः स्मृतय्श् च तद्विषया न स्युः. तस्मात् प्रत्ययविशेषो निद्रा. सा च समाधाव् इतरप्रत्ययवन् निरोद्धव्येति. 1.10
अनुभूतविषयासंप्रमोषः स्मृतिः

1.12

किं प्रत्ययस्य चित्तं स्मरत्य् आहोस्विद् विषयस्येति. ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस् तज्जातीयकं संस्कारम् आरभते. स संस्कारः स्वव्यञ्जकाञ्जनस् तदाकाराम् एव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति.
तत्र ग्रहणाकारपूर्वा बुद्धिः. ग्राह्याकारपूर्वा स्मृतिः. सा च द्वयी --- भावितस्मर्तव्या चाभावितस्मर्तव्या च. स्वप्ने भावितस्मर्तव्या. जाग्रत्समये त्व् अभावितस्मर्तव्येति. सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनाम् अनुभवात् प्रभवन्ति. सर्वाश् चैता वृत्तयः सुखदुःखमोहात्मिकाः. सुखदुःखमोहाश् च क्लेशेषु व्याख्येयाः. सुखानुशयी रागः. दुःखानुशयी द्वेषः. मोहः पुनर् अविद्येति. एताः सर्वा वृत्तयो निरोद्धव्याः. आसां निरोधे संप्रज्ञातो वा समाधिर् भवत्य् असंप्रज्ञातो वेति. 1.11
अथासां निरोधे क उपाय इति ---
अभ्यासवैराग्याभ्यां तन्निरोधः

1.13

चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय वहति पापाय च. या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा. संसारप्राग्भाराविवेकविषयनिंना पापवहा. तत्र वैराग्येण विषयस्रोतः खिलीक्रियते. विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्य् उभयाधीनश् चित्तवृत्तिनिरोधः. 1.12
तत्र स्थितौ यत्नो ऽभ्यासः

1.14

चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः. तदर्थः प्रयत्नो वीर्यम् उत्साहः. तत् संपिपादयिषया तत् साधनानुष्ठानम् अभ्यासः. 1.13
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः

1.15

दीर्घकालासेवितो निरन्तरासेवितः सत्कारासेवितः. तपसा ब्रह्मचर्येण विद्यया श्रद्धया च संपादितः सत्कारवान् दृढभूमिर् भवति. व्युत्थानसंस्कारेण द्राग् इत्य् एवानभिभूतविषय इत्य् अर्थः. 1.14
दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्

1.16

स्त्रियो ऽन्नपानम् ऐश्वर्यम् इति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्ताव् आनुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसंप्रयोगे ऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलाद् अनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम्. 1.15
तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम्

1.17

दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात् तच्छुद्धिप्रविवेकाप्यायितबुद्धिर् गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति. तद् द्वयं वैराग्यम्. तत्र यद् उत्तरं तज् ज्ञानप्रसादमात्रम्. यस्योदये सति योगी प्रत्युदितख्यातिर् एवं मन्यते --- प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसंक्रमः, यस्याविच्छेदाज् जनित्वा म्रियते मृत्वा च जायत इति. ज्ञानस्यैव परा काष्ठा वैराग्यम्. एतस्यैव हि नान्तरीयकं कैवल्यम् इति. 1.16
अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथम् उच्यते संप्रज्ञातः समाधिर् इति ---
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः

1.18

वितर्कश् चित्तस्यालम्बने स्थूल आभोगः. सूक्ष्मो विचारः. आनन्दो ह्लादः. एकात्मिका संविद् अस्मिता. तत्र प्रथमश् चतुष्टयानुगतः समाधिः सवितर्कः. द्वितीयो वितर्कविकलः सविचारः. तृतीयो विचारविकलः सानन्दः. चतुर्थस् तद्विकलो ऽस्मितामात्र इति. सर्व एते सालम्बनाः समाधयः. 1.17
अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति ---
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो ऽन्यः

1.19

सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश् चित्तस्य समाधिर् असंप्रज्ञातः. तस्य परं वैराग्यम् उपायः. सालम्बनो ह्य् अभ्यासस् तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते. स चार्थशून्यः. तदभ्यासपूर्वकं हि चित्तं निरालम्बनम् अभावप्राप्तम् इव भवतीत्य् एष निर्बीजः समाधिर् असंप्रज्ञातः. 1.18
स खल्व् अयं द्विविधः --- उपायप्रत्ययो भवप्रत्ययश् च. तत्रोपायप्रत्ययो योगिनां भवति ---
भवप्रत्ययो विदेहप्रकृतिलयानाम्

1.20

विदेहानां देवानां भवप्रत्ययः. ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदम् इवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकम् अतिवाहयन्ति. तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदम् इवानुभवन्ति, यावन् न पुनर् आवर्तते ऽधिकारवशाच् चित्तम् इति. 1.19
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्

1.21

उपायप्रत्ययो योगिनां भवति. श्रद्धा चेतसः संप्रसादः. सा हि जननीव कल्याणी योगिनं पाति. तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यम् उपजायते. समुपजातवीर्यस्य स्मृतिर् उपतिष्ठते. स्मृत्युपस्थाने च चित्तम् अनाकुलं समाधीयते. समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते. येन यथार्थं वस्तु जानाति. तदभ्यासात् तत्तद्विषयाच् च वैराग्याद् असंप्रज्ञातः समाधिर् भवति. 1.20
ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति. तद्यथा --- मृदूपायो मध्योपायो ऽधिमात्रोपाय इति. तत्र मृदूपायस् त्रिविधः --- मृदुसंवेगो मध्यसंवेगस् तीव्रसंवेग इति. तथा मध्योपायस् तथाधिमात्रोपाय इति. तत्राधिमात्रोपायानाम् ---
तीव्रसंवेगानाम् आसन्नः

1.22

समाधिलाभः समाधिफलं च भवतीति. 1.21
मृदुमध्याधिमात्रत्वात् ततो ऽपि विशेषः

1.23

मृदुतीव्रो मध्यतीव्रो ऽधिमात्रतीव्र इति. ततो ऽपि विशेषः. तद्विशेषाद् अपि मृदुतीव्रसंवेगस्यासन्नः ततो मध्यतीव्रसंवेगस्यासन्नतरः, तस्माद् अधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्य् आसन्नतमः समाधिलाभः समाधिफलं चेति. 1.22
किम् एतस्माद् एवासन्नतमः समाधिर् भवति. अथास्य लाभे भवत्य् अन्यो ऽपि कश्चिद् उपायो न वेति ---
ईश्वरप्रणिधानाद् वा

1.24

प्रणिधानाद् भक्तिविशेषाद् आवर्जित ईश्वरस् तम् अनुगृह्णात्य् अभिध्यानमात्रेण. तदभिध्यानमात्राद् अपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति. 1.23
अथ प्रधानपुरुषव्यतिरिक्तः को ऽयम् ईश्वरो नामेति ---
क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः

1.25

अविद्यादयः क्लेशाः. कुशलाकुशलानि कर्माणि. तत्फलं विपाकः. तदनुगुणा वासना आशयाः. ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति. यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते. यो ह्य् अनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः.
कैवल्यं प्राप्तास् तर्हि सन्ति च बहवः केवलिनः. ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्संबन्धो न भूतो न भावी. यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवम् ईश्वरस्य. यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते नैवम् ईश्वरस्य. स तु सदैव मुक्तः सदैवेश्वर इति.
यो ऽसौ प्रकृष्टसत्त्वोपादानाद् ईश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन् निर्निमित्त इति. तस्य शास्त्रं निमित्तम्.
शास्त्रं पुनः किंनिमित्तम्, प्रकृष्टसत्त्वनिमित्तम्.
एतयोः शास्त्रोत्कर्षयोर् ईश्वरसत्त्वे वर्तमानयोर् अनादिः संबन्धः. एतस्माद् एतद् भवति सदैवेश्वरः सदैव मुक्त इति. तच् च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्. न तावद् ऐश्वर्यान्तरेण तद् अतिशय्यते. यद् एवातिशयि स्यात् तद् एव तत् स्यात्. तस्माद् यत्र काष्ठाप्राप्तिर् ऐश्वर्यस्य स ईश्वर इति. न च तत्समानम् ऐश्वर्यम् अस्ति. कस्मात्, द्वयोस् तुल्ययोर् एकस्मिन् युगपत्कामिते ऽर्थे नवम् इदम् अस्तु पुराणम् इदम् अस्त्व् इत्य् एकस्य सिद्धाव् इतरस्य प्राकाम्यविघाताद् ऊनत्वं प्रसक्तम्. द्वयोश् च तुल्ययोर् युगपत्कामितार्थप्राप्तिर् नास्ति. अर्थस्य विरुद्धत्वात्. तस्माद् यस्य साम्यातिशयैर् विनिर्मुक्तम् ऐश्वर्यं स एवेश्वरः. स च पुरुषविशेष इति. 1.24
किं च ---
तत्र निरतिशयं सर्वज्ञबीजम्

1.26

यद् इदम् अतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणम् अल्पं बह्व् इति सर्वज्ञबीजम् एतद् विवर्धमानं यत्र निरतिशयं स सर्वज्ञः. अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवद् इति. यत्र काष्ठाप्राप्तिर् ज्ञानस्य स सर्वज्ञः. स च पुरुषविशेष इति.
सामान्यमात्रोपसंहारे च कृतोपक्षयम् अनुमानं न विशेषप्रतिपत्तौ समर्थम् इति. तस्य संज्ञादिविशेषप्रतिपत्तिर् आगमतः पर्यन्वेष्या. तस्यात्मानुग्रहाभावे ऽपि भूतानुग्रहः प्रयोजनम्. ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषान् उद्धरिष्यामीति. तथा चोक्तम् --- आदिविद्वान् निर्माणचित्तम् अधिष्ठाय कारुण्याद् भगवान् परमर्षिर् आसुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति. 1.25
स एषः ---
पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्

1.27

पूर्वे हि गुरवः कालेनावच्छिद्यन्ते. यत्रावच्छेदार्थेन कालो नोपावर्तते स एष पूर्वेषाम् अपि गुरुः. यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस् तथातिक्रान्तसर्गादिष्व् अपि प्रत्येतव्यः. 1.26
तस्य वाचकः प्रणवः

1.28

वाच्य ईश्वरः प्रणवस्य. किम् अस्य संकेतकृतं वाच्यवाचकत्वम् अथ प्रदीपप्रकाशवद् अवस्थितम् इति.
स्थितो ऽस्य वाच्यस्य वाचकेन सह संबन्धः. संकेतस् त्व् ईश्रवस्य स्थितम् एवार्थम् अभिनयति. यथावस्थितः पितृपुत्रयोः संबन्धः संकेतेनावद्योत्यते, अयम् अस्य पिता, अयम् अस्य पुत्र इति. सर्गान्तरेष्व् अपि वाच्यवाचकशक्त्यपेक्षस् तथैव संकेतः क्रियते. संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंबन्ध इत्य् आगमिनः प्रतिजानते. 1.27
विज्ञातवाच्यवाचकत्वस्य योगिनः ---
तज्जपस् तदर्थभावनम्

1.29

प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम्. तद् अस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश् चित्तम् एकाग्रं संपद्यते. तथा चोक्तम् ---
"स्वाध्यायाद् योगम् आसीत योगात् स्वाध्यायम् आमनेत् ।
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥" इति. 1.28
किं चास्य भवति ---
ततः प्रत्यक्चेतनाधिगमो ऽप्य् अन्तरायाभावश् च

1.30

ये तावद् अन्तराया व्याधिप्रभृतयस् ते तावद् ईश्वरप्रणिधानान् न भवन्ति. स्वरूपदर्शनम् अप्य् अस्य भवति. यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलो ऽनुपसर्गस् तथायम् अपि बुद्धेः प्रतिसंवेदी यः पुरुषस् तम् अधिगच्छति. 1.29
अथ के ऽन्तराया ये चित्तस्य विक्षेपाः. के पुनस् ते कियन्तो वेति ---
व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् ते ऽन्तरायाः

1.31

नवान्तरायाश् चित्तस्य विक्षेपाः. सहैते चित्तवृत्तिभिर् भवन्ति. एतेषाम् अभावे न भवन्ति पूर्वोक्ताश् चित्तवृत्तयः. व्याधिर् धातुरसकरणवैषम्यम्. स्त्यानम् अकर्मण्यता चित्तस्य. संशय उभयकोटिस्पृग् विज्ञानं स्याद् इदम् एवं नैवं स्याद् इति. प्रमादः समाधिसाधनानाम् अभावनम्. आलस्यं कायस्य चित्तस्य च गुरुत्वाद् अप्रवृत्तिः. अविरतिश् चित्तस्य विषयसंप्रयोगात्मा गर्धः. भ्रान्तिदर्शनं विपर्ययज्ञानम्. अलब्धभूमिकत्वं समाधिभूमेर् अलाभः. अनवस्थितत्वं यल् लब्धायां भूमौ चित्तस्याप्रतिष्ठा. समाधिप्रतिलम्भे हि सति तदवस्थितं स्याद् इति. एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्य् अभिधीयन्ते. 1.30
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः

1.32

दुःखम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च. येनाभिहताः प्राणिनस् तदपघाताय प्रयतन्ते तद् दुःखम्. दौर्मनस्यम् इच्छाविघाताच् चेतसः क्षोभः. यद् अङ्गान्य् एजयति कम्पयति तद् अङ्गमेजयत्वम्. प्राणो यद् बाह्यं वायुम् आचामति स श्वासः. यत् कौष्ठ्यं वायुं निःसारयति स प्रश्वासः. एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति. समाहितचित्तस्यैते न भवन्ति. 1.31
अथैते विक्षेपाः समाधिप्रतिपक्षास् ताभ्याम् एवाभ्यासवैराग्याभ्यां निरोद्धव्याः. तत्राभ्यासस्य विषयम् उपसंहरन्न् इदम् आह ---
तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः

1.33

विक्षेपप्रतिषेधार्थम् एकतत्त्वावलम्बनं चित्तम् अभ्यसेत्. यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वम् एव चित्तम् एकाग्रं नास्त्य् एव विक्षिप्तम्. यदि पुनर् इदं सर्वतः प्रत्याहृत्यैकस्मिन्न् अर्थे समाधीयते तदा भवत्य् एकाग्रम् इत्य् अतो न प्रत्यर्थनियतम्.
यो ऽपि सदृशप्रत्ययप्रवाहेन चित्तम् एकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस् तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्. अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वाद् एकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः. तस्माद् एकम् अनेकार्थम् अवस्थितं चित्तम् इति.
यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्न् अथ कथम् अन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्. अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्. कथंचित् समाधीयमानम् अप्य् एतद् गोमयपायसीयन्यायम् आक्षिपति.
किं च स्वात्मानुभवापह्नवश् चित्तस्यान्यत्वे प्राप्नोति. कथम्, यद् अहम् अद्राक्षं तत् स्पृशामि यच् चास्प्राक्षं तत् पश्यामीत्य् अहम् इति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्य् अभेदेनोपस्थितः. एकप्रत्ययविषयो ऽयम् अभेदात्माहम् इति प्रत्ययः कथम् अत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यम् एकं प्रत्ययिनम् आश्रयेत्. स्वानुभवग्राह्यश् चायम् अभेदात्माहम् इति प्रत्ययः. न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते. प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते. तस्माद् एकम् अनेकार्थम् अवस्थितं च चित्तम्. 1.32
यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते तत् कथम् ---
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम्

1.34

तत्र सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्रीं भावयेत्. दुःखितेषु करुणाम्. पुण्यात्मकेषु मुदिताम्. अपुण्यशीलेषूपेक्षाम्. एवम् अस्य भावयतः शुक्लो धर्म उपजायते. ततश् च चित्तं प्रसीदति. प्रसन्नम् एकाग्रं स्थितिपदं लभते. 1.33
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य

1.35

कौष्ठ्यस्य वायोर् नासिकापुटाभ्यां प्रयत्नविशेषाद् वमनं प्रच्छर्दनम्, विधारणं प्राणायामस् ताभ्यां वा मनसः स्थितिं संपादयेत्. 1.34
विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी

1.36

नासिकाग्रे धारयतो ऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः. जिह्वाग्रे रससंवित्. तालुनि रूपसंवित्. जिह्वामध्ये स्पर्शसंवित्. जिह्वामूले शब्दसंविद् इत्य् एता वृत्तय उत्पन्नाश् चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्तीति. एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिर् उत्पन्ना विषयवत्य् एव वेदितव्या यद्य् अपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैर् अवगतम् अर्थतत्त्वं सद्भूतम् एव भवति. एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात्, तथापि यावद् एकदेशो ऽपि कश्चिन् न स्वकरणसंवेद्यो भवति तावत् सर्वं परोक्षम् इवापवर्गादिषु सूक्ष्मेष्व् अर्थेषु न दृढां बुद्धिम् उत्पादयति. तस्माच् छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थम् एवावश्यं कश्चिद् अर्थविशेषः प्रत्यक्षीकर्तव्यः. तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयम् अपि आपवर्गाच् छ्रद्धीयते. एतदर्थम् एवेदं चित्तपरिकर्म निर्दिश्यते. अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायाम् उपजातायां समर्थं स्यात् तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति. तथा च सति श्रद्धावीर्यस्मृतिसमाधयो ऽस्याप्रतिबन्धेन भविष्यन्तीति. 1.35
विशोका वा ज्योतिष्मती

1.37

प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनीत्य् अनुवर्तते. हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि भास्वरम् आकाशकल्पं, तत्र स्थितिवैशारद्यात् प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते. तथास्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तम् अनन्तम् अस्मितामात्रं भवति. यत्रेदम् उक्तम् --- "तम् अणुमात्रम् आत्मानम् अनुविद्यास्मीत्य् एवं तावत् संप्रजानीते" इति. एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर् ज्योतिष्मतीत्य् उच्यते. यया योगिनश् चित्तं स्थितिपदं लभत इति. 1.36
वीतरागविषयं वा चित्तम्

1.38

वीतरागचित्तालम्बनोपरक्तं वा योगिनश् चित्तं स्थितिपदं लभत इति. 1.37
स्वप्ननिद्राज्ञानालम्बनं वा

1.39

स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश् चित्तं स्थितिपदं लभत इति. 1.38
यथाभिमतध्यानाद् वा

1.40

यद् एवाभिमतं तद् एव ध्यायेत्. तत्र लब्धस्थितिकम् अन्यत्रापि स्थितिपदं लभत इति. 1.39
परमाणुपरममहत्त्वान्तो ऽस्य वशीकारः

1.41

सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति. स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य. एवं ताम् उभयीं कोटिम् अनुधावतो यो ऽस्याप्रतीघातः स परो वशीकारः. तद्वशीकारात् परिपूर्णं योगिनश् चित्तं न पुनर् अभ्यासकृतं परिकर्मापेक्षत इति. 1.40
अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिर् इति, तद् उच्यते ---
क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः

1.42

क्षीणवृत्तेर् इति प्रत्यस्तमितप्रत्ययस्येत्य् अर्थः. अभिजातस्येव मणेर् इति दृष्टान्तोपादानम्. यथा स्फटिक उपाश्रयभेदात् तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते. भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति. तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति. तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति.
तथा ग्रहणेष्व् अपीन्द्रियेष्व् अपि द्रष्टव्यम्. ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते. तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते. तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति. तद् एवम् अभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिर् इत्य् उच्यते. 1.41
तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः

1.43

तद्यथा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् इत्य् अविभागेन विभक्तानाम् अपि ग्रहणं दृष्टम्. विभज्यमानाश् चान्ये शब्दधर्मा अन्ये ऽर्थधर्मा अन्ये विज्ञानधर्मा इत्य् एतेषां विभक्तः पन्थाः. तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच् छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्य् उच्यते. 1.42
यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितो ऽर्थस् तत्स्वरूपाकारमात्रतयैवावच्छिद्यते. सा च निर्वितर्का समापत्तिः. तत् परं प्रत्यक्षम्. तच् च श्रुतानुमानयोर् बीजम्. ततः श्रुतानुमाने प्रभवतः. न च श्रुतानुमानज्ञानसहभूतं तद् दर्शनम्. तस्माद् असंकीर्णं प्रंमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनम् इति. निर्वितर्कायाः समापत्तेर् अस्याः सूत्रेण लक्षणं द्योत्यते ---
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का

1.44

या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूप.उपरक्ता प्रज्ञा स्वम् इव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा तदा निर्वितर्का समापत्तिः.
तथा च व्याक्यातं तस्या एकबुद्ध्युपक्रमो ह्य् अर्थात्माणुप्रचयविशेषात्मा गवादिर् घटादिर् वा लोकः.
स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति. धर्मान्तरस्य कपालादेर् उदये च तिरोभवति. स एष धर्मो ऽवयवीत्य् उच्यते. यो ऽसाव् एकश् च महांश् चाणींयश् च स्पर्शवांश् च क्रियाधर्मकश् चानित्यश् च तेनावयविना व्यवहाराः क्रियन्ते.
यस्य पुनर् अवस्तुकः स प्रचयविशेषः. सूक्ष्मं च कारणम् अनुपलभ्यम् अविकल्पस्य तस्यावयव्यभावाद् अतद्रूपप्रतिष्ठं मिथ्याज्ञानम् इति प्रायेण सर्वम् एव प्राप्तं मिथ्याज्ञानम् इति. तदा च सम्यग्ज्ञानम् अपि किं स्याद् विषयाभावात्. यद् यद् उपलभ्यते तत् तद् अवयवित्वेनाम्नातम्. तस्माद् अस्त्य् अवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर् निर्वितर्काया विषयी भवति. 1.43
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता

1.45

तत्र भूतसूक्ष्मकेष्व् अभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्य् उच्यते. तत्राप्य् एकबुद्धिनिर्ग्राह्यम् एवोदितधर्मविशिष्टं भूतसूक्ष्मम् आलम्बनीभूतं समाधिप्रज्ञायाम् उपतिष्ठते.
या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्य् उच्यते. एवंस्वरूपं हि तद्भूतसूक्ष्मम् एतेनैव स्वरूपेणालम्बनीभूतम् एव समाधिप्रज्ञास्वरूपम् उपरञ्जयति.
प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्य् उच्यते. तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च. एवम् उभयोर् एतयैव निर्वितर्कया विकल्पहानिर् व्याख्यातेति. 1.44
सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्

1.46

पार्थिवस्याणोर् गन्धतन्मात्रं सूक्ष्मो विषयः. आप्यस्य रसतन्मात्रम्. तैजसस्य रूपतन्मात्रम्. वायवीयस्य स्पर्शतन्मात्रम्. आकाशस्य शब्दतन्मात्रम् इति. तेषाम् अहंकारः. अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः. लिङ्गमात्रस्याप्य् अलिङ्गं सूक्ष्मो विषयः. न चालिङ्गात् परं सूक्ष्मम् अस्ति. नन्व् अस्ति पुरुषः सूक्ष्म इति सत्यम्. यथा लिङ्गात् परम् अलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य. किंतु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस् तु भवतीति. अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम्. 1.45
ता एव सबीजः समाधिः

1.47

ताश् चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिर् अपि सबीजः. तत्र स्थूले ऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मे ऽर्थे सविचारो निर्विचार इति चतुर्धोपसंख्यातः समाधिर् इति. 1.46
निर्विचारवैशारद्ये ऽध्यात्मप्रसादः

1.48

अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्याम् अनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्. यदा निर्विचारस्य समाधेर् वैशारद्यम् इदं जायते तदा योगिनो भवत्य् अध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः. तथा चोक्तम् --- "प्रज्ञाप्रसादम् आरुह्य अशोच्यः शोचतो जनान् । भूमिष्ठान् इव शैलस्थः सर्वान् प्राज्ञो ऽनुपश्यति". 1.47
ऋतंभरा तत्र प्रज्ञा

1.49

तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतंभरेति संज्ञा भवति. अन्वर्था च सा, सत्यम् एव बिभर्ति न च तत्र विपर्यासज्ञानगन्धो ऽप्य् अस्तीति. तथा चोक्तम् ---
"आगमेनानुमानेन ध्यानाभ्यासरसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम्" इति. 1.48
सा पुनः ---
श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात्

1.50

श्रुतम् आगमविज्ञानं तत् सामान्यविषयम्. न ह्य् आगमेन शक्यो विशेषो ऽभिधातुम्, कस्मात्, न हि विशेषेण कृतसंकेतः शब्द इति. तथानुमानं सामान्यविषयम् एव. यत्र प्राप्तिस् तत्र गतिर् यत्राप्राप्तिस् तत्र न भवति गतिर् इत्य् उक्तम्. अनुमानेन च सामान्येनोपसंहारः. तस्माच् छ्रुतानुमानविषयो न विशेषः कश्चिद् अस्तीति.
न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम् अस्ति. न चास्य विशेषस्याप्रमाणकस्याभावो ऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा. तस्माच् छ्रुतानुमानप्रज्ञाभ्याम् अन्यविषया सा प्रज्ञा विशेषार्थत्वाद् इति. 1.49
समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते ---
तज्जः संस्कारो ऽन्यसंस्कारप्रतिबन्धी

1.51

समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते. व्युत्थानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति. प्रत्ययनिरोधे समाधिर् उपतिष्ठते. ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते. ततश् च प्रज्ञा, ततश् च संस्कारा इति. कथम् असौ संस्कारातिशयश् चित्तं साधिकारं न करिष्यतीति. न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच् चित्तम् अधिकारविशिष्टं कुर्वन्ति. चित्तं हि ते स्वकार्याद् अवसादयन्ति. ख्यातिपर्यवसानं हि चित्तचेष्टितम् इति. 1.50
किं चास्य भवति ---
तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः

मूल पाठ: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra) · Edition: Kāśinātha Śāstrī Āgāśe: Vācaspatimiśraviracitaṭīkāsaṃvalitavyāsabhāṣyasametāni Pātañjalayogasūtrāṇi, tathā bhojadevaviracitarājamārtaṇḍābhidhavṛttisametāni pātañjalayogasūtrāṇi. sūtrapāṭhasūtravarṇānukramasūcībhyāṃ ca sanāthīkṛtāni ... Pune : Ānandāśramamudraṇālaye 1904 (Ānandāśrama Sanskrit Series, 47). · Data entry Philipp A. Maas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc