भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.17-2

6.17-2.17

सप्तदशः सर्गः

6.17-2.1

श्रीवसिष्ठ उवाच ।
अथ राम भुशुण्डोऽसौ न प्रहृष्टो न वक्रधीः ।
सर्वाङ्गसुन्दरः श्यामः प्रावृषीव पयोधरः

6.17-2.2

स्निग्धगम्भीरवचनः स्मितपूर्वाभिभाषणः ।
करस्थबिल्वफलवत्प्रतोलितजगत्त्रयः

6.17-2.3

तृणवद्दृष्टसकलः प्रमेयीकृतसंसृतिः ।
लोकाजवं जवीभावे दृष्टज्ञानपरावरः

6.17-2.4

धीरस्थिरमहाकारो विश्रान्ति गतमन्दरः ।
परिपूर्णमनाः शुद्धः क्षीरार्णव इवागतः

6.17-2.5

परिविश्रान्तधीः शान्तः परमानन्दघूर्णितः ।
आविर्भावतिरोभावतज्ज्ञः संसारजन्मनाम्

6.17-2.6

सरभसवदनाभिरामरूपः प्रियमधुरोचितगानहृद्यवाक्यः ।
स्वयमिव नवमाश्रितः शरीरं सकलभयापहरं प्रहर्षयुक्तः

6.17-2.7

इदममलगिरा समाह शुद्धममृतमनुज्झितसंभ्रमक्रमेण ।
कथयितुमखिलं निजं स्वरूपं मधुपमिव स्तनितेन मुग्धमेघः

6.17-2.17

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो०निर्वाणप्रकरणे पू० भुशुण्डोपाख्याने भुशुण्डस्वरूपवर्णनं नाम सप्तदशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc