भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.17

6.17.17

सप्तदशः सर्गः

6.17.1

श्रीवसिष्ठ उवाच ।
अनहंवेदनादेवं शुभाशुभफलप्रदा ।
संसारफलिनी नूनमिच्छान्तरुपशाम्यति

6.17.2

अनहंवेदनाभ्यासात्समलोष्टाश्मकाञ्चनः ।
भूत्वा शान्तभवापीडो न नरः परिताम्यति

6.17.3

अहंतापुटकोड्डीनपरबोधबलेरितः ।
अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति

6.17.4

अहंतापुटकोड्डीनो ब्रह्मवीरबलेरितः ।
अहमित्यर्थपाषाणो न जाने क्वाशु गच्छति

6.17.5

अहंतापुटकोड्डीनो ब्रह्मवीरबलेरितः ।
शरीरयन्त्रपाषाणो न जाने क्वाशु गच्छति

6.17.6

अहमर्थहिमं त्वन्तरनहंता चिदर्चिषा ।
उड्डीयेव विलीनं सन्न जाने क्वाशु गच्छति

6.17.7

अहंरसो विलीनोन्तरनहंताचिदर्चिषा ।
शरीरपर्णादुद्वर्णान्न जाने क्वाशु गच्छति

6.17.8

शरीरपर्णान्निष्पीतस्त्वहंभावरसासवः ।
अनहंतार्कमार्गेण परतामधिगच्छति

6.17.9

शयने कर्दमे शैले गृहे व्योम्नि स्थले जले ।
स्थूला सूक्ष्मा निराकारा रूपान्तरगतापि च

6.17.10

यत्र तत्र स्थिता सुप्ता प्रबुद्धा भस्मतां गता ॥
धृता नीता निमग्ना च दूरस्था निकटा सती

6.17.11

शरीरवटधानान्तःस्थिताहंत्वनवांकुरा ।
शास्त्राजालं तनोत्याशु संसाराख्यमिदं क्षणात्

6.17.12

अहंत्ववटधानान्तःस्थितदेहबृहद्द्रुमः ।
संसारशाखानिवहं यत्र तत्र तनोत्यलम्

6.17.13

शाखाशतेद्धदलपुष्पफलद्रुमोऽस्ति
बीजोदरे ननु दृशा परिदृश्यतेऽसौ ।
देहोऽस्त्यहंत्वकणिकान्तरशेषदृश्य-
संवित्परीत इति बुद्धिदृशैव दृष्टम्

6.17.14

देहादहंत्वमनवाप्तवतो विचारै-
श्चिद्व्योममात्रवपुषो वपुषोऽथ वोच्चैः ।
नाहंत्वबीजजठरादसतोऽभ्युदेति
संसारवृक्ष इह बोधमहाग्निदग्धात्

6.17.17

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० अहंत्वासत्तायोगोपदेशो नाम सप्तदशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc