भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.27

5.27.27

सप्तविंशः सर्गः

5.27.1

श्रीवसिष्ठ उवाच ।
सुरासुरसभाज्येष्ठे तस्मिन्भृगुसुते गते ।
मनसा चिन्तयामास बलिर्बुद्धिमतां वरः

5.27.2

युक्तमुक्तं भगवता चिदेवेदं जगत्त्रयम् ।
चिदहं चिदिमे लोकाश्चिदाशाश्चिदियं क्रिया

5.27.3

सबाह्याभ्यन्तरं सर्वं चिदेव परमार्थतः ।
अस्ति चिद्व्यतिरेकेण नेह किंचन कुत्रचित्

5.27.4

अयमादित्य इत्यर्को न चिता यदि चेत्यते ।
तदर्कतमसोर्भेदः क इहेवोपलभ्यते

5.27.5

इयं भूरिति भूरेषा चिता यदि न चेत्यते ।
भूमेः किं नाम भूमित्वं तद्भव्ये भव्यतां गतम्

5.27.6

इमा दिशो दिश इति चेत्यन्ते न चिता यदि ।
तत्किं नाम दिशां दिक्त्वं शैलानां चापि काद्रिता

5.27.7

इदं जगज्जगदिति चिता यदि न चेत्यते ।
तत्किं जगत्त्वं जगतो नभस्त्वं नभसोऽथ किम्

5.27.8

कायोऽयं पर्वताकारश्चिता यदि न चेत्यते ।
तत्किं नाम शरीरत्वं शरीरस्य शरीरिणाम्

5.27.9

चिदिन्द्रियाणि चित्कायश्चिन्मनश्चित्तदेषणा ।
चिदन्तश्चिद्बहिश्चित्खं चिद्भावाश्चिद्भवस्थितिः

5.27.10

चितैवैनमहं सर्वं स्पर्शनैषणपूर्वकम् ।
करोमि मात्रासंस्पर्शं शरीरेण न किंचन

5.27.11

किमनेन शरीरेण काष्ठलोष्टसमेन मे ।
अशेषजगदेकात्मा चिदहं चेतनात्मकः

5.27.12

अहं चिदम्बरे भानावहं चिद्भूतपञ्जरे ।
सुरासुरेषु चिदहं स्थावरेषु चरेषु च

5.27.13

चिदस्तीह द्वितीया हि कल्पनैव न विद्यते ।
द्वित्वस्यासंभवाल्लोके कः शत्रुः कश्च वा सुहृत्

5.27.14

बलिनाम्नः शरीरस्य च्छिन्ने शिरसि भासुरे ।
चितः किं तद्भवेच्छिन्नं सर्वलोकावपूरणात्

5.27.15

चिता संचेतितो द्वेषो द्वेषो भवति नान्यथा ।
तस्माद्द्वेषादयः सर्वे भावाभावाश्चिदात्मकाः

5.27.16

न चितो व्यतिरेकेण प्रविचार्यापि किंचन ।
आसाद्यते किल स्फारादस्मात्त्रिभुवनोदरात्

5.27.17

न द्वेषोऽस्ति न रागोऽस्ति न मनो नास्य वृत्तयः ।
चिन्मात्रस्यातिशुद्धस्य विकल्पकलना कुतः

5.27.18

चिदहं सर्वगो व्यापी नित्यानन्दमयात्मकः ।
विकल्पकलनातीतो द्वितीयांशविवर्जितः

5.27.19

चितश्चिदिति यन्नाम निर्नामाया न नाम तत् ।
शब्दात्मिकैषा चिच्छक्तिः परिस्फुरति सर्वगा

5.27.20

दृश्यदर्शननिर्मुक्तकेवलामलरूपवान् ।
नित्योदितो निराभासो द्रष्टास्मि परमेश्वरः

5.27.21

कल्पनाविकलाकारः कालकान्तकलामयः ।
आभासमात्रमुदितो नित्याभासविवर्जितः

5.27.22

भारूपैकस्वरूपेऽस्मिन्स्वरूपेण जयाम्यहम् ।
चेत्यरञ्जनरिक्ताय विमुक्ताय महात्मने

5.27.23

प्रत्यक्चेतनरूपाय स्वरूपाय नमोऽस्तु ते ।
चितये चेत्यमुक्ताय युक्त्या युक्ताय योग्यया

5.27.24

सर्वावभासदीपाय मह्यमेव नमोऽस्तु ते ।
चेत्यनिर्मुक्तचिद्रूपं विष्वग्विश्वावपूरकम्

5.27.25

संशान्तसर्वसंवेद्यं सच्चिन्मात्रमहं महत् ।
आकाशवदनन्तोऽहमप्यणोरणुराततः

5.27.26

नासादयन्ति मामेताः सुखदुःखदशा दृशः ।
संवेदनमसंवेद्यमचेत्यं चेतनं ततम्

5.27.27

न शक्ता मां परिच्छेत्तुं भावाभावा जगद्गताः ।
अथ चैते जगद्भावाः परिच्छिन्दन्तु मामिमम्

5.27.28

यथाभिमतमेवैते मत्तो न व्यतिरेकिणः ।
यदि स्वभावभूतेन वस्तुना वस्तु नीयते

5.27.29

ह्रियते दीयते वापि तत्किं कस्य किल क्षतम् ।
सर्वदा सर्वमेवाहं सर्वकृत्सर्वसंगतः

5.27.30

चेत्यमस्म्यहमेवैतन्न किंचिदपि चोदितम् ।
किं संकल्पविकल्पाभ्यां चितं चिदियमेकिका

5.27.31

संक्षोभयाम्यहं तावच्छाम्याम्यात्मनि पावने ।
इति संचिन्तयन्नेव बलिः परमकोविदः

5.27.32

ओंकारादर्धमात्रार्थं भावयन्मौनमास्थितः ।
संशान्तसर्वसंकल्पः प्रशान्तकलनागणः

5.27.33

निःशङ्कमपि दूरास्तचेत्यचिन्तकचिन्तनः ।
ध्यातृध्येयध्यानहीनो निर्मलः शान्तवासनः

5.27.34

बभूवावातदीपाभो बलिः प्राप्तमहापदः ।
उपशान्तमनास्तत्र रत्नवातायने बलिः ।
अवसद्बहुकालं स समुत्कीर्ण इवोपले

5.27.35

प्रशमितैषणया परिपूर्णया
मननदोषदशोज्झितयैतया ।
बलिरराजत निर्मलसत्तया
विघनमच्छतयेव शरन्नभः

5.27.27

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो० उपशमप्रकरणे बलिविश्रान्तिर्नाम सप्तविंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc