भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.28

5.28.28

अष्टाविंशः सर्गः

5.28.1

श्रीवसिष्ठ उवाच ।
अथ ते दानवास्तत्र बलेरनुचरास्तदा ।
तद्गेहं स्फाटिकं सौधमुच्चैरारुरुहुः क्षणात्

5.28.2

डिम्भाद्या मन्त्रिणो धीराः सामन्ताः कुमुदादयः ।
सुराद्याश्चैव राजानो वृत्ताद्या बलहारिणः

5.28.3

हयग्रीवादयः सैन्याश्चाक्राजाद्याश्च बान्धवाः ।
लडुकाद्याश्च सुहृदो वलूकाद्याश्च लालकाः

5.28.4

कुबेरयमशक्राद्या उपायनकराः सुराः ।
यक्षविद्याधरा नागाः सेवावसरकाङ्क्षिणः

5.28.5

रम्भातिलोत्तमाद्याश्च चामरिण्यो वराङ्गनाः ।
सागराः सरितः शैला दिशश्च विदिशस्तथा

5.28.6

सेवार्थमाययुस्तस्य तं प्रदेशं तदा बलेः ।
अन्ये च बहवः सिद्धास्त्रेलोक्योदरवासिनः

5.28.7

ध्यानमौनसमाधिस्थं चित्रार्पितमिवाचलम् ।
नमत्किरीटावलयो ददृशुर्बलिमादृताः

5.28.8

तं दृष्ट्वा कृतकर्तव्यप्रणामास्ते महासुराः ।
विषादविस्मयानन्दभयमन्थरतां ययुः

5.28.9

मन्त्रिणः प्रविचार्यात्र किं प्राप्तमिति दानवाः ।
भार्गवं चिन्तयामासुर्गुरुं सर्वविदांवरम्

5.28.10

चिन्तनानन्तरं दैत्या भार्गवं भास्वरं वपुः ।
ददृशुः कल्पितं प्राप्तं गन्धर्वनगरं यथा

5.28.11

पूज्यमानोऽसुरगणैर्निविष्टो गुरुविष्टरे ।
ददर्श ध्यानमौनस्थं भार्गवो दानवेश्वरम्

5.28.12

विश्रम्य स क्षणमिव प्रेमवानवलोक्य च ।
बलिं विचारयन्दृष्ट्वा परिक्षीणभवभ्रमम्

5.28.13

देहरश्मिशतैर्दत्तदीप्तिभिः क्षीरसागरम् ।
क्षिपन्निव सभामाह हसन्वाक्यमिदं गुरुः

5.28.14

अतिमात्रमिदं दैत्याः स्वविचारणयैव यत् ।
संप्राप्तविमलावासः सिद्धोऽयं भगवान्बलिः

5.28.15

अयं तदेवमेवेह तिष्ठन्दानवसत्तमाः ।
स्वात्मनि स्थितिमाप्नोतु पदं पश्यत्वनामयम्

5.28.16

श्रान्तो विश्राममायातः क्षीणचित्तभवभ्रमः ।
शान्तसंसारनीहारो वाचनीयो न दानवाः

5.28.17

स्व एवालोक एतेन संप्राप्तोऽज्ञानसंकटे ।
शान्तेऽत्र संभ्रमे सौरो दिनेनेव करोत्करः

5.28.18

स्वयमेव हि कालेन प्रबोधमयमेष्यति ।
बीजकोशात्स्वसंवित्त्या सुप्तमूर्तिरिवांकुरः

5.28.19

कुरुध्वं स्वामिकार्याणि सर्वे दानवनायकाः ।
बलिर्वर्षसहस्रेण समाधेर्बोधमेष्यति

5.28.20

इत्युक्ता गुरुणा तत्र हर्षामर्षविषादजाम् ।
दैत्याश्चिन्तां जहुः शुष्कां मञ्जरीमिव पादपाः

5.28.21

वैरोचनिसभासंस्थां विधाय प्राग्व्यवस्थया ।
स्वव्यापारपरास्तस्थुः सर्वं एवासुरास्ततः

5.28.22

नरा मही महिपतयो रसातलं
ग्रहा नभस्त्रिदशगणास्त्रिविष्टपम् ।
दिशोऽद्रयो दिक्पतयश्च कंदरा-
न्वनेचरा गगनचराश्च खं ययुः

5.28.28

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे बलिसमाधानवर्णनं नामाष्टाविंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc