भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.12

5.12.12

द्वादशः सर्गः

5.12.1

श्रीवसिष्ठ उवाच ।
एवं विचारयंस्तत्र स्वराज्ये जनको नृपः ।
चकाराखिलकार्याणि न मुमोह च धीरधीः

5.12.2

न मनः प्रोल्ललासास्य क्वचिदानन्दवृत्तिषु ।
केवलं सुषुप्तसंस्थं सदैव व्यवतिष्ठत

5.12.3

ततःप्रभृत्यसौ दृश्यं नाजहार न वात्यजत् ।
केवलं विगताशङ्क वर्तमाने व्यवस्थितः

5.12.4

अनारतविवेकेन तेन सद्यः सनातनम् ।
पुनः कलङ्कं नैवाप्तमम्बरेणेव राजसम्

5.12.5

स्वविवेकानुसंधानादिति तस्य महीपतेः ।
सम्यग्ज्ञानमनन्ताभमलं विमलतां ययौ

5.12.6

अनामृष्टविकल्पांशुश्चिदात्मा विगतामयः ।
उदियाय हृदाकाशे तस्य व्योम्नीव भास्करः

5.12.7

स ददर्शाखिलान्भावांश्चिच्छक्तौ समवस्थितान् ।
आत्मभूताननन्तात्मा सर्वभूतात्मकोविदः

5.12.8

प्रहृष्टो न बभूवासौ क्वचिन्न च सुदुःखितः ।
प्रकृतेर्व्यवहारत्वात्सदैव सममानसः

5.12.9

जीवन्मुक्तो बभूवासौ ततःप्रभृति मानदः ।
जनको जरठज्ञानी ज्ञातलोकपरावरः

5.12.10

राज्यं कुर्वन्विदेहानां जनको जनजीवितम् ।
नैव हर्षविषादाभ्यां सोऽवशः परितप्यते

5.12.11

नास्तमेति न चोदेति गुणदोषविचेष्टितैः

5.12.12

अर्थानर्थैः स राज्योत्थैर्न ग्लायति न हृष्यति ।
कुर्वन्नपि करोत्येष न किंचिदपि कुत्रचित् ।
स तिष्ठत्येव सततं सर्वदैवान्तरे चितः

5.12.13

सुषुप्तावस्थितस्यैव जनकस्य महीपतेः ।
भावनाः सर्वभावेभ्यः सर्वथैवास्तमागताः

5.12.14

भविष्यं नानुसंधत्ते नातीतं चिन्तयत्यसौ ।
वर्तमाननिमेषं तु हसन्नेवानुवर्तते

5.12.15

स्वविचारवशेनैव तेन तामरसेक्षण ।
प्राप्तं प्राप्यमशेषेण राम नेतरयेच्छया

5.12.16

तावत्तावत्स्वकेनैव चेतसा प्रविचार्यते ।
यावद्यावद्विचाराणां सीमान्तः समवाप्यते

5.12.17

न तद्गुरोर्न शास्त्रार्थान्न पुण्यात्प्राप्यते पदम् ।
यत्साधुसङ्गाभ्युदिताद्विचारविशदाद्धृदः

5.12.18

सुन्दर्या निजया बुद्ध्या प्रज्ञयेव वयस्यया ।
पदमासाद्यते राम न नामक्रिययान्यया

5.12.19

यस्योज्ज्वलति तीक्ष्णाग्रा पूर्वापरविचारिणी ।
प्रज्ञादीपशिखा जातु जाड्यान्ध्यं तं न बाधते

5.12.20

दुरुत्तरा या विपदो दुःखकल्लोलसंकुलाः ।
तीर्यते प्रज्ञया ताभ्यो नावापद्भ्यो महामते

5.12.21

प्रज्ञाविरहितं मूढमापदल्पापि बाधते ।
पेलवाचानिलकला सारहीनमिवोलपम्

5.12.22

प्रज्ञावानसहायोऽपि विशास्त्रोऽप्यरिमर्दन ।
उत्तरत्येव संसारसागराद्राम पेलवात्

5.12.23

प्रज्ञावानसहायोऽपि कार्यान्तमधिगच्छति ।
दुष्प्रज्ञः कार्यमासाद्य प्रधानमपि नश्यति

5.12.24

शास्त्रसज्जनससर्गैः प्रज्ञां पूर्वं विवर्धयेत् ।
सेकसंरक्षणारम्भैः फलप्राप्तौ लतामिव

5.12.25

प्रज्ञाबलबृहन्मूलः काले सत्कार्यपादपः ।
फलं फलत्यतिस्वादु भासो बिम्बमिवैन्दवम्

5.12.26

य एव यत्नः क्रियते बाह्यार्थोपार्जने जनैः ।
स एव यत्नः कर्तव्यः पूर्वं प्रज्ञाविवर्धने

5.12.27

सीमान्तं सर्वदुःखानामापदां कोशमुत्तमम् ।
बीजं संसारवृक्षाणां प्रज्ञामान्द्यं विनाशयेत्

5.12.28

स्वर्गाद्यद्यच्च पातालाद्राज्याद्यत्समवाप्यते ।
तत्समासाद्यते सर्वं प्रज्ञाकोशान्महात्मना

5.12.29

प्रज्ञयोत्तीर्यते भीमात्तस्मात्संसारसागरात् ।
न दानैर्न च वा तीर्थैस्तपसा नच राघव

5.12.30

यत्प्राप्ताः संपदं दैवीमपि भूमिचरा नराः ।
प्रज्ञापुण्यलतायास्तत्फलं स्वादु समुत्थितम्

5.12.31

प्रज्ञया नखरालूनमत्तवारणयूथपाः ।
जम्बुकैर्विजिताः सिंहाः सिंहैर्हरिणका इव

5.12.32

सामान्यैरपि भूपत्वं प्राप्तं प्रज्ञावशान्नरैः ।
स्वर्गापवर्गयोग्यत्वं प्राज्ञस्यैवेह दृश्यते

5.12.33

प्रज्ञया वादिनः सर्वे स्वविकल्पविलासिनः ।
जयन्ति सुभटप्रख्यान्नरानप्यतिभीरवः

5.12.34

चिन्तामणिरियं प्रज्ञा हृत्कोशस्था विवेकिनः ।
फलं कल्पलतेवैषा चिन्तितं संप्रयच्छति

5.12.35

भव्यस्तरति संसारं प्रज्ञयापोह्यतेऽधमः ।
शिक्षितः पारमाप्नोति नावा नाप्नोत्यशिक्षितः

5.12.36

धीः सम्यग्योजिता पारमसम्यग्योजिताऽऽपदम् ।
नरं नयति संसारे भ्रमन्ती नौरिवार्णवे

5.12.37

विवेकिनमसंमूढं प्राज्ञमाशागणोत्थिताः ।
दोषा न परिबाधन्ते सन्नद्धमिव सायकाः

5.12.38

प्रज्ञयेह जगत्सर्वं सम्यगेवाङ्ग दृश्यते ।
सम्यग्दर्शनमायान्ति नापदो नच संपदः

5.12.39

पिधानं परमार्कस्य जडात्मा विततोऽसितः ।
अहंकाराम्बुदो मत्तः प्रज्ञावातेन बाध्यते

5.12.40

पदमतुलमुपैतुमिच्छतोच्चैः
प्रथममियं मतिरेव लालनीया ।
फलमभिलषता कृषीवलेन
प्रथमतरं ननु कृष्यते धरैव

5.12.12

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे प्रज्ञामाहात्म्यं नाम द्वादशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc