भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.11

5.11.11

एकादशः सर्गः

5.11.1

श्रीवसिष्ठ उवाच ।
इति संचिन्त्य जनको यथाप्राप्तां क्रियामसौ ।
असक्तः कर्तुमुत्तस्थौ दिनं दिनपतिर्यथा

5.11.2

इष्टानिष्टाः परित्यज्य चेतसा वासनाः स्वयम् ।
यथाप्राप्तं चकारासौ जाग्रत्येव सुषुप्तवत्

5.11.3

संपाद्य तदहःकार्यमार्यावर्जनपूर्वकम् ।
अनयच्छर्वरीमेकस्तयैव ध्यानलीलया

5.11.4

मनः समरसं कृत्वा संशान्तविषयभ्रमम् ।
शर्वर्यां क्षीयमाणायामित्थं चित्तमबोधयत्

5.11.5

चित्त चञ्चल संसार आत्मनो न सुखाय ते ।
शममेहि शमाच्छान्तं सुखं सारमवाप्यते

5.11.6

यथा यथा विकल्पौघान्संकल्पयसि हेलया ।
तथा तथैति स्फारत्वं संसारस्तव चिन्तया

5.11.7

शतशाखत्वमायाति सेकेन विटपी यथा ।
अनन्ताधित्वमायासि शठभोगेच्छया तथा

5.11.8

चिन्ताजालविलासोत्था जन्मसंसारसृष्टयः ।
तस्मात्त्यक्त्वा विचित्रां त्वं चिन्तामुपशमं व्रज

5.11.9

संसारसृष्टितरलामिमां तुलय सुन्दर ।
अस्यां चेत्सारमाप्नोषि तदेतामेव संश्रय

5.11.10

आस्थां यस्मात्परित्यज्य दृश्यदर्शनलालसात् ।
मैतद्गृहाण मा मुञ्च स्वेच्छया विहरेच्छया

5.11.11

इदं दृश्यमसत्सद्वाप्युदेत्वस्तमुपैतु वा ।
साधो विषमतां गच्छ मैतदीयैगुणागुणैः

5.11.12

मनागपि न संबन्धस्तव दृश्येन वस्तुना ।
अविद्यमानरूपेण संबन्धः कोऽयमीदृशः

5.11.15

असत्त्वमेतच्च न सद्व्योरेवासतोः सतोः ।
संबन्ध इति चित्रेयमपूर्वैवाक्षरावली

5.11.14

असदेतत्तु सच्चेत्त्वं तथापि किल सुन्दर ।
सङ्गः सदसतोः कीदृग्वद त्वं मर्त्यजीवयोः

5.11.15

चित्त त्वमथ दृश्यं च द्वे एव यदि सन्मये ।
सदास्थिते तत्प्रसरः कुतो हर्षविषादयोः

5.11.17

तस्मान्महाधिं मुञ्च त्वं मूकमुल्लासमाहर ।
संक्षुब्धाम्बुधिमाविष्टां त्यजाभव्यामिमां स्थितिम् ॥
कन्दुकालातवद्व्यर्थमात्मनैव परिज्वलन् ।
मा मोहमलमासाद्य मन्दतां गच्छ सन्मते

5.11.18

न तदिहास्ति समुन्नतमुत्तमं
व्रजसि येन परां परिपूर्णताम् ।
तदवलम्ब्य बलादतिधीरतां
जहिहि चञ्चलतां शठ रे मनः

5.11.11

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूपशमप्रकरणे चित्तानुशासनं नामैकादशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc