भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.10

5.10.10

दशमः सर्गः

5.10.1

श्रीवसिष्ठ उवाच ।
इति चिन्तयतस्तस्य पुरः संप्रविवेश ह ।
प्रतीहारः परो भानोः स्यन्दनाग्र इवारुणः

5.10.2

प्रतीहार उवाच ।
देव दोःस्तम्भविश्रान्तसमस्तवसुधाभर ।
संपादयोत्तिष्ठ दिनव्यापारं नृपतोचितम्

5.10.3

एताः कुसुमकर्पूरकुङ्कुमाम्बुघटाः स्त्रियः ।
स्नानभूमौ स्थिताः सज्जा नद्यो मूर्तियुता इव

5.10.4

एताः कमलकह्लारकाननभ्रान्तषट्पदाः ।
कृताः कमलिनीपाशरचितांशुकमण्डपाः

5.10.5

एताः कमलिनीतीरभुवश्छत्रैः प्रपूरिताः ।
सचामररथेभाश्वैः स्नानावसरसेविनाम्

5.10.6

समग्रसुमनःपूर्णैरन्नौषधिपूरिप्लुतैः ।
सज्जीकृताः पटलकैर्देवार्चनगृहास्तथा

5.10.7

स्नातः पवित्रहस्तश्च परिजप्याघमर्षणः ।
त्वामेव प्रेक्षते देव दक्षिणार्हो द्विजव्रजः

5.10.8

लसच्चामरहस्ताभिः पाल्यते परमेश्वर ।
सज्जीकृतास्ते कान्ताभिः शीता भोजनभूमयः

5.10.9

शीघ्रमुत्तिष्ठ भद्रं ते नियतं कार्यमाचर ।
न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु

5.10.10

प्रतीहारपतावित्थमुक्तवत्यथ पार्थिवः ।
तथैव चिन्तयामास चित्रां संसारसंस्थितिम्

5.10.11

कियन्मात्रमिदं नाम राज्यं सुखमिति स्थितम् ।
न प्रयोजनमेतेन ममेह क्षणभङ्गिना

5.10.12

सर्वमेव परित्यज्य मिथ्याशम्बरडम्बरम् ।
एकान्त एव तिष्ठामि संशान्त इव वारिधिः

5.10.13

अलमेभिरसत्प्रायैर्मम भोगविजृम्भितैः ।
त्यक्त्वा सर्वाणि कर्माणि सुखं तिष्ठामि केवलम्

5.10.14

चित्त चातुर्यमेतस्माद्भोगाभ्यासकुसंभ्रमात्।
त्यज जन्मजराजाड्यजालजम्बालशान्तये

5.10.15

दशासु स्वासु यास्वेव संभ्रमं चित्त पश्यसि ।
ताभ्य एवाभिरचितं परमं दुःखमेष्यसि

5.10.16

प्रवृत्तं सन्निवृत्तं सद्भूयोभूयश्चिरंचिरम् ।
भोगभूमिषु सर्वासु चित्तं तृप्तिं न गच्छति

5.10.17

तस्मात्पापालमनया तुच्छया भोगचिन्तया ।
भवत्यकृत्रिमा तृप्तिर्येनाभिपत तं ततः

5.10.18

इति संचिन्त्य जनकस्तूष्णीमेव बभूव ह ।
शान्तचापलचेतस्त्वाल्लिपिकर्मार्पितोपमः

5.10.19

प्रतीहारोऽपि नोवाच गौरवेण भयेन च ।
पुनर्वाक्यं महीपानां चित्तवृत्तिषु शिक्षितः

5.10.20

तूष्णीमथ क्षणं स्थित्वा जनको जनजीवितम् ।
पुनः संचिन्तयामास मनसा शमशालिना

5.10.21

किमुपादेयमस्तीह यत्नात्संसाधयाम्यहम् ।
कस्मिन्वस्तुनि बध्नामि धृतिं नाशविवर्जिते

5.10.22

किं मे क्रियापरतया किं मे निष्क्रिययापि वा ।
न तदस्ति विनाशेन वर्जितं यत्किलोदितम्

5.10.23

क्रियावानक्रियो वास्तु कायोऽयमसदुत्थितः ।
समस्थितस्य शुद्धस्य चितः का नाम मे क्षतिः

5.10.24

नाभिवाञ्छाम्यसंप्राप्तं संप्राप्तं न त्यजाम्यहम् ।
स्वस्थ आत्मनि तिष्ठामि यन्ममास्ति तदस्तु मे

5.10.25

न ममेह कृतेनार्थो नाकृतेनेह कश्चन ।
क्रिययाऽक्रियया वापि यत्प्राप्तं तदसन्मयम्

5.10.26

अकुर्वतः कुर्वतो वा युक्तायुक्ताः क्रिया मम ।
नाभिवाञ्छितमस्तीह यदुपादेयतां गतम्

5.10.27

तदुत्थाय क्रमप्राप्तां कायोऽयं प्रकृतां क्रियाम् ।
करोत्वस्पन्दिताङ्गस्तु किमयं साधु शुष्यति

5.10.28

स्थिते मनसि निष्कामे समे विगतरञ्जने ।
कायावयवजौ कार्यौ स्पन्दास्पन्दौ फले समौ

5.10.29

कर्मजासु फलश्रीषु मनसा कर्तृभोक्तृते ।
तस्मिन्प्रशान्तिमायाते कृतमप्यकृतं नृणाम्

5.10.30

यो निश्चयोऽन्तः पुरुषस्य रूढः
क्रियास्वसौ तन्मयतामुपैति ।
अनामयं मे पदमाहता धी-
रधीरतामन्तरलं त्यजामि

5.10.10

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपाये उपशमप्रकरणे जनकनिश्चयो नाम दशमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc