यशोधराचरित · श्लोक 21-40
प्रमोदम् आपादयितुं सुरेश्वरांश्
चकार घण्टानिनदं च भूसुरान् ।
अजीजपद् देवगिरा च संस्तवान्
ननाम भूमाव् असकृत् निपत्य सा
पुरे वने संवसथे ऽपि वल्लभो
वसेद् धि कस्मिन्न् इति दिव्याचक्षुषा ।
विलोक्य गेहं विनिवर्तयन्तु तं
दिवौकसः प्रार्थयतैव सा पुनः
निरीक्ष्य जिह्मानिमिषेण चक्षुषा
निहत्य गाढं चरणं भुवस् तले ।
मुहुर् मुहुर् दंशितकोमलाधरा
प्रकर्षम् उत्क्षिप्य विकम्प्य तर्जनीम्
अरे-त्वयार्यस्य गृहाभिनिष्क्रमः
श्रुतो न दृष्टः वद किं निराकुलम् ।
इति प्रतीहारभटं रुषोच्चकै
रवेण पप्रच्छ सबाष्पलोचना
भवान् स आर्ये नृपवंशशेखरो
मया न दृष्टः प्रतिहारम् आगतः ।
वराङ्गनाभिः सह केलिकानने
गते निशीथे ऽरमतेति मे श्रुतम्
अवीतरागो ननु राजनन्दनो
ववाञ्छ तस्मान् ननु नूतनप्रियाम् ।
मिथः स कां चित् परिणीय नाटिकां
बहिर् गतो ऽद्धेति वितर्कयाम्य् अहम्
पुरा हि मन्धात्वभिधो महायशाः
स सार्वभौमो ऽपि सुराङ्गनागणे ।
कृतानुरागो परिवर्ज्य मानुषीं
श्रियं प्रपेदे नु दिवौकसां पुरम्
मनोऽभिरामं सुरसुन्दरीगणं
विहाय विन्ध्यावनतापसाश्रमे ।
अगस्तिपत्नीं परिरभ्य तापसीं
ललास रन्तुं निशि पाकशासनः
प्रतीतलङ्काविजिते ऽग्रभूपतिर्
दशाननो दण्डककाननं गतः ।
विगृह्य सीतां जनकात्मजाम् अपि
निजप्रियावद् व्यदधात् तदात्मसात्
महेश्वरश् चापि पुरा तपश् चरन्न्
उमामहिष्या सह कलिकानने ।
अपास्य सातत्यसमाधिभावनं
व्यरीरमच् चाजनयत् सुतौ ननु
शुचाकुलां सान्त्वयितुं वधूत्तमाम्
इति प्रतीहार उरःस्थले ऽञ्जलिम् ।
विधाय वल्गुध्वनिनानुकम्पया
नतेन मूर्ध्ना वचसा व्यजिज्ञपत्
अरे-त्वम् एतर्हि भवन्तम् उत्तमं
गृहे बहिर् वोपवने ऽपि कुत्र चित् ।
अहर्मुखे किं निशि वा ददर्शिथ
व्यपृच्छद् इत्थं निजसेविकां रुषा
निधाय वामेतरजानुमण्डलं
क्षितौ भुजौ चापि ललाटमस्तके ।
नतार्धकायं निजगाद सेविका
श्रुतं च दृष्टं न न वेद्मि किं चन
अतः-परं हर्म्यम् उपेयुषी सती
प्रमार्ज्य निस्यन्दजलं विलोचने ।
अरे-किम् आर्यो ऽत्र समागतो न वा
व्यपृच्छद् अन्तःपुरपालपण्डकम्
प्रशस्यरूपेण गिरा च वल्गुना
श्रिया ऽपि धृत्या तव कक्षम् आगताः ।
महोत्तमे सर्वजनेन मानिता
भवन्ति तस्य त्रितयाः प्रियाङ्गनाः
मनोऽभिरामा भवती च भारती
तथैव लक्ष्मीर् इति ताः प्रियाङ्गनाः ।
सदैव ताभी रमते कुमारकः
कदा चिद् अन्यत्र मनो ऽस्य नो रजेत्
जुगुप्सिते सत्पुरुषैर् मनस्विभिः
सदोषकामे विमुखो नु ते पतिः ।
ततो ऽस्य शुद्धान्तगतिः कदा चन
श्रुता न दृष्टा न दिवा वा निशि
तपोधनानां समताम् उपेयिवान्
रतिं न कुर्यात् स भवत्रये क्व चित् ।
अमेध्यगेहेन समे ऽवरोधने
कथं विधत्ते रतिम् एष ते पतिः
असाध्यरोगायतने सुखेतरे
बुभुक्षया नित्यनिपीडितोदरे ।
अतर्पणीये विविधान्नपानकैः
स्पृहां न देहे प्रकरोति पण्डितः
विकीर्णघर्मोदकविप्रुषि त्वचि
विचित्रवर्णं शमलेन संस्कृते ।
शरीर आलोक्य जनो विनश्यते
पतङ्गवद् दीपशिखोज्ज्वलप्रभाम्
मूल पाठ: Yaśodharācarita · Edition: Bhikkhu Pāsādika and Bhikkhu Tampalawela Dhammaratana: Contemporary Sri Lankan Sanskrit Poetry: The Yaśodharācaritam by Davuldeṇa Jñāneśvara Mahāsthavira. Bulletin d'etudes indienne 21.1 (2003), pp. 47-70. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0