यशोधराचरित · श्लोक 1-20
श्री सिद्धार्थः कपिलनगरे बोधिसत्त्वः सपुत्रां
देवीं त्यक्त्वा सकलविभवं चक्रवर्तिश्रियं च ।
मास्य् आषाढे विरतमनसा पूर्णिमायां निशीथे
निश्चक्राम श्रमणपदभृन् मोक्षम् अन्वेष्टुकामः
अथ प्रभाते शयनात् समुत्थिता
सुतेन सार्धं महिषी यशोधरा ।
दिदृक्षया स्वामिवरस्य सत्वरं
गताविदूरे शयनीयमन्दिरम्
यथा पुरे वञ्चयितुं स मे पती
रहोगतः कुत्र चिद् एव गूढवान् ।
विचिन्त्य सौधे ऽन्तरबाहिरं भृशं
परीक्ष्यमाणापि ददर्श नैव तम्
दधाव तस्मात् सचिवस्य मन्दिरं
गवाक्षम् उद्घाट्य द्रुतं द्रुतं शुचा ।
कपाटम् आहत्य दृढं मुहुर् मुहुर्
व्यरीरवच् छन्न भवन् भवन्न् इति
अपेक्ष्य किं चित् क्वणम् अन्तराद् गृहे
व्यतिष्ठताल्पं प्रतिहारसन्निधौ ।
विचारभङ्गाच् छ्वसती च पाणिना
प्रताडयाम् आस कपोलयुग्मकम्
ततो गता सा नृपमन्दुरालयं
तुरङ्गमं नात्र ददर्श कन्थकम् ।
कुतो ययौ किं रहसा स वल्लभो
वितर्कयन्तीति बभूव मूर्छिता
विचिन्त्य यत् किं चिद् इतस् ततः शिरश्
चचाल जघ्रौ च मुखे सुतस्य सा ।
भुजातपत्रेण विलोचनद्वयान्
न्यवारयत् सा स्रवदश्रुशीकरम्
अशक्नुवन्ती नितरां समुद्गमां
मनोव्यथां सोढुम् उदग्रमन्युना ।
पतिप्रदत्तं मणिकण्ठभूषणं
प्रवालमालाम् अपि कुण्डलद्वयम्
ललाटिकां हेममयाङ्गुलीयकं
हिरण्यसूत्रेण निबद्धमेखलाम् ।
विमुच्य शीर्षाभरणं च कङ्कणे
ससर्ज धिग् धिग् वदती ससम्भ्रमम्
अतीतडत् पादतलेन भूतलं
जजृम्भ ऊर्ध्वं विचकर्ष मूर्धजम् ।
जजल्प वाक्यं विगतार्थम् आकुलं
रुराव भीतेव रुरोद गद्गदम्
निवेश्य बालं शयने पुनः पुनः
समुत्क्षिपन्ती युगपत् करद्वयम् ।
विकम्प्य शीर्षं च यथा विचेतना
जुघोष शश्वास पपात विव्यथे
निपीड्यमानापि बुभुक्षयानिशं
न भोजनं भोक्तुम् इयेष किं चन ।
तृषातुरा नोदकबिन्दुम् अप्य् असौ
पपौ च काये ऽप्य् बभूव वेपथुः
निहन्यते धीस्मृतिशक्तिधीरता
शरीरवर्णं बलम् इन्द्रियेष्व् अपि ।
विनश्यते जीवम् अनुक्रमेण च
दुरन्ततेयं प्रियविप्रयोगता
निषद्य भूम्यां विनतार्धविग्रहा
शिरश् च पाणिद्वयम् अङ्कमस्तके ।
निवेश्य किं चित् परिणम्य कंधरं
ममज्ज चिन्ताजलधाव् अपाश्रये
यशोधराया अवमाननक्रिया
असह्य सिद्धार्थकुमार एककः ।
निवासम् उत्सृज्य गतो नु काननम्
इति प्रवादो ऽपि भवेद् अहो मम
यद् अस्ति कार्यं त्रिषु मन्दिरेषु तच्
चकार कार्यक्षमसेविका यथा ।
गतौ स्थितौ वा शयने च विप्रियं
कदा चनाहं न चकार किं चन
विचिन्तयन्ती सहसागतापदं
प्रगम्य देवायतनं प्रियं प्रति ।
सुगन्धिपुस्पैर् अपि धूमदीपकैर्
अपूपुजद् देवगणं सगौरवम्
भुजद्वयं मूर्ध्नि निवेश्य शोकिनी
विलोक्य देवप्रतिमाननश्रियम् ।
प्रणम्य भक्त्या परिशुद्धचेतसा
ययाच देवान् इति विप्रयोगतः
त्रिलोकसर्गस्थितिनाशहेतवः
चतुर्मुखश्रीपतिचन्द्रशेखराः ।
महानुभावा जगदीश्वराः सुराः
सुदुःखितायै शरणं भवन्तु मे
विधाय याच्ञाम् इति देवहस्तयोर्
उपायनीकृत्य बबन्ध कार्षिकौ ।
उपाहरन् मिष्टनवाम्बुपायसं
सितांशुकं स्वर्णमयीं च पुत्रिकाम्
मूल पाठ: Yaśodharācarita · Edition: Bhikkhu Pāsādika and Bhikkhu Tampalawela Dhammaratana: Contemporary Sri Lankan Sanskrit Poetry: The Yaśodharācaritam by Davuldeṇa Jñāneśvara Mahāsthavira. Bulletin d'etudes indienne 21.1 (2003), pp. 47-70. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0