यशोधराचरित · श्लोक 41-55
ततो नृपान्तःपुरपालकोदिते
कृतावधाना वचने यशोधरा ।
दिवौकसां नन्दनकाननोपमं
जगाम राजोपवनं चलात्मना
अथाभिरामोपवनस्य रक्षकः
पुरः प्रगम्योरसि बद्धपाणिना ।
किमर्थम् आर्ये ऽत्र समागतिस् तव
भवामि जिज्ञासुर् इति न्यवेदयत्
सखे ममार्यो रहसारुणोदये
समागतो वात्र न किं समागतः ।
किम् अत्र दृष्टः स न वा श्रुतस् त्वया
विचिन्त्य सम्यग् वद मां यथातथम्
गतस्पृहः पञ्चसु कामवस्तुषु
स आर्यपुत्रो विजितेन्द्रियो भवेत् ।
ततो ऽभिरामोपवनं समागमो
न दृष्ट आर्ये न हि वा श्रुतो मया
विधित्समानो ऽभ्युदयं जगत्त्रये
दिवौकसानाम् अधिगम्य याचनम् ।
दिवो ऽवतीर्णो ननु पुण्यतेजसा
मनुष्यजन्मन्य् अजनिष्ट स प्रभुः
महामहे सत्य् असितर्षिर् ईयिवान्
दिवं किम् इत्य् अस्य विमृश्य कारणम् ।
स्वमित्रशुद्धोदनभूपतेः सुतो
ऽजनीति हर्षात् तम् अवेक्षितुं ययौ
ततो ऽसितर्षिर् नृपसौधम् आगतः
कुमारकं वीक्ष्य सपुण्यसम्पदम् ।
अतीन्द्रियज्ञानमयेन चक्षुषा
परीक्षमाणो ऽस्य शरीरलक्षणम्
जगाद वाक्यं शिशुर् एष पुण्यवान्
भवेद् धि बुद्धो हतमारबन्धनः ।
प्रतारयेत् सर्वनरामरासुरान्
अपारसंसारमहार्णवाद् इति
द्विजेषु पञ्चस्व् अथ देहलक्षणं
परीक्ष्य कौण्डण्यबुधो ऽब्रवीद् इति ।
विनश्य तृष्णादिमलान्य् अयं शिशुर्
अनुत्तरं बुद्धपदं गमिष्यति
तदा प्रसूतक्षण एव लुम्बिनी-
वने स सप्ताम्बुजमूर्ध्न्य् अभिव्रजन् ।
अभीतनादं न्यनदज् जगत्त्रये
भवेयम् अग्रस् त्व् इति सिंहपोतवत्
भ्रमद्द्विरेफश्रुतिरम्यनिस्वनः
सुगन्धिनः पुष्पपरागराशिना ।
तरंगिणीशीकरमिश्रमारुतो
ववौ समन्ताद् विपिने शनैः तदा
महात्मनस् तस्य परार्ध्यजन्मनि
वसुंधराया निधयः समुद्गताः ।
धराङ्गना तर्ह्य् अतिमात्रमोदिता
सविस्मयां सिद्धिम् अदर्शयद् भुवि
ततः परं लुम्बिनिकाननाद् गृहं
विचित्रजाम्बूनदबिम्बसंनिभम् ।
कुमारकं तौ पितरौ सवत्सलौ
सबन्धुवर्गं परिवार्य निन्यतुः
गुरुप्रदिष्टं विधिवद् गुरुप्रियः
समस्तविद्यासमयं च दर्शनम् ।
भवे भवे संचितपुण्यतेजसा
समध्यगीष्टाचिरम् एष बुद्धिमा
श्रुतेन धृत्या नवयौवनश्रियम्
उपेयुषो ऽस्यार्यसुतस्य जन्मनः ।
सह त्वया षोडशमे हि हायने
विवाहदीक्षां विधिवच् चकार नु
मूल पाठ: Yaśodharācarita · Edition: Bhikkhu Pāsādika and Bhikkhu Tampalawela Dhammaratana: Contemporary Sri Lankan Sanskrit Poetry: The Yaśodharācaritam by Davuldeṇa Jñāneśvara Mahāsthavira. Bulletin d'etudes indienne 21.1 (2003), pp. 47-70. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0