यमस्मृति · अध्याय 2
प्रायश्चित्तीयतां प्राप्य ये नरास् त्व् अकृतव्रताः ।
तेषां दण्डं व्रतञ् चापि क्रमशश् चोदितं शृणु ॥
स्वयम् एव तु यः पापं निवेद्य व्रतम् आचरेत् ।
तस्मिन् दमो न प्रयोज्यो व्रतं दण्डश् च गृह्यते ॥
न पातके ऽर्त्थदण्डो ऽस्ति तुल्यदोषे विदण्डनम् ।
तत्र व्रतम् अकुर्वाणं सहस्रं दापयेद् दमं ॥
उपपातकयुक्तो यो मानवो नाचरेद् व्रतं ।
सदाप्य् असाहसं पूर्वं प्रायश्चित्तं विशोधनं ॥
चाषमण्डूकमार्जार गोधोलूकांश् च वायसान् ।
हत्वा शतम् अवाप्नोति विप्रो नकुलम् एव हि ॥
मयूरहंसभासाञ् च तथा श्येनंश् च कुक्कुटं ।
त्रिंशत् पणम् अवाप्नोति तथैव वनबर्हिणं ॥
विप्रम् अग्निपरित्यक्तं संध्योपासनवर्जितं ।
शूद्रप्रेष्यकरञ् चैव राजा राष्ट्रात् प्रवासयेत् ॥
उत्सृष्टाग्निस् तु यो विप्रस् त्व् अस्नातो ऽमन्त्रतो ऽपि वा ।
उपस्थानार्चनो सूर्यं सन्ध्यां नोपासते द्विजः ॥
अकर्ता नित्ययज्ञानां भुञ्जानो वृषलाशनं ।
जीवमानो ऽपि वा शस्त्रैः प्रत्यहं पणम् आप्नुयात् ॥
शूद्रासु शुक्लसेक्तारं वृषलायां च वाञ्छकं ।
विप्रं सर्वस्वम् आदाय ललाटे भगम् अङ्कयेत् ॥
भगचिह्नं मद्यचिह्नं सुराचिह्नं ललाटके ।
वेश्यासु शुक्लसेक्तारं सर्वम् आदाय भूमिपः ॥
अपस्नातो दिवास्नातः परान्नम् अपि वात्मनः ।
भोक्ता नष्टक्रियस् तस्य राज्ञः स्वार्त्थं प्रचक्षते ॥
विप्रस्योक्तपरित्यक्तं वृषलाशनसेविनः ।
प्रत्यब्दं सर्वम् आदाय वेदविद्भ्यो निवेदयेत् ॥
परीतं वोत्तरं वासः अधर्मदण्डसाहसं ।
स्त्रियम् एव प्रकुर्वाणं द्विगुणं दापयेद् दमं ॥
बालान्धरोगिवृद्धानां न तु दण्डो विधीयते ।
विसृज्य तु नरो मूत्रं रथ्यादौ दोषम् आप्नुयात् ॥
तथा पुरीषम् उद्दिष्टं छर्दिश् च न भवेत् पथि ।
द्विगुणं दण्डम् आप्नोति मूत्रं स्थित्वा समुत्सृजेत् ॥
माहेन्द्रीं वारुणीञ् चापि दिशं वीक्ष्य तु मूत्रयन् ।
पुरीषंश् च तथा मुञ्चन् दण्डं द्विगुणम् आवहेत् ॥
स्तेनः पिशुनवक्ता च साहसी वृषलीपतिः ।
त्यक्तावारिता विज्ञेयाः पञ्चैते ग्रामकण्टकाः ॥
विसृष्ट्वानुपरीक्ष्यैतान् राजा राष्ट्रेषु कण्टकान् ।
अनुत्सृष्टा हि लोकस्य त्व् अनृतं कुर्वते तमः ॥
विष्टादिपूर्णसंक्षिप्तं रक्तमाल्यविभूषितं ।
पोषितं स्तेनकार्येण स्तेनं राजा निहन्यते ॥
श्वपदादि मुखे न्यस्य परियाप्य खराजिनं ।
पिशुनं खरम् आरोप्य हृतवित्तं विवासयेत् ॥
भित्त्वा गृहांस् तु हृत्वा स्वं कृत्वोपस्करम् एव च ।
राजा साहसिकं राष्ट्राच् चण्डाळोत्सृष्टम् उत्सृजेत् ॥
व्रतभङ्गं सुराभाण्डं द्वयं संबध्यते ततः ।
हृदयं विष्ठया लिप्तं वृषलीपतिम् उत्सृजेत् ॥
भस्मनापि च लिप्ताङ्गं शवकेशास्थिधूपितं ।
त्यक्ताग्निं सर्वम् आदाय राजा राष्ट्रात् प्रवासयेत् ॥
शवकेशैर् वीज्यमानं तन्मालाबद्धशेखरं ।
दिग्वासं गमयेद् राजा नरं समयलङ्घिनं ॥
शूद्रासूत्पादितापत्यं राजसं ब्राह्मणाधमं ।
ग्रामाद् बहिः प्रकुर्वीत नरं संसर्गपातकं ॥
तस्यां तु शुक्लसेक्तारं मिश्रित्य सह साधुभिः ।
भोजयेत् तुल्यपङ्क्तौ तु प्राप्नुयात् प्रथमं दमं ॥
वित्तं दत्तं तथामार्गाद् अधीतञ् च द्विजादिभिः ।
जायते विफलं सर्वं भाषणात् पिशुनैर् नरैः ॥
देवब्रह्मस्वयोन्यस् तु छिद्रदाता विलंभने ।
देहभेदम् अवाप्नोति विप्रो हृत्वाखिलं धनं ॥
छिद्रप्रदाता स्तेनानां स्तेन एव स उच्यते ।
तस्य हृत्वा तु सर्वस्वं श्वपदं तु मुखे ऽङ्कयेत् ॥
नक्तं रात्रौ तु जनिता लिङ्गाज् जानाति मानवः ।
तथा वै शून्यवक्तारं ज्ञात्वा लिङ्गैः प्रवासयेत् ॥
असत्यवादिनं वादे दण्डित्वा साक्षिणं नृपः ।
यश् छदति हि पापानां विंशतिं व्रतम् आदिशेत् ॥
व्रतचार्यश् चरन् भिक्षाम् अनिष्ट्वा च हुताशनं ।
भुञ्जानः प्राप्नुयात् ग्रासं काले काले त्व् अनातुरः ॥
आचार्यस्य पितुर् भ्रातुः श्वशुरस्य नृपस्य च ।
प्रत्युत्थानं नरो ऽकुर्वन्स् त्रीन् पणान् दाप्यते दमं ॥
आसने तु समासीन उत्तमे ऽस्मिन्न् अवस्थिते ।
शूद्रष् षट्पदम् आप्नोति गच्छताप्रस्थितेन तु ॥
उन्मानञ् च तथामानं वरिष्ठलघु वागृते ।
दृष्यते यस्य तस्य स्वं राज्ञ इत्य् एव कल्पयेत् ॥
मिश्रितं तिलतैलेन विक्रीतं घृतकाख्यया ।
वणिक् चतुर्गुणं दाप्यं तैलं वा मिश्रितं घृतैः ॥
मरीचं खण्डपाषाणैः लवणञ् च तथा मृदा ।
हिङ्गुञ् च वृक्षनिर्यासैः तथा दाप्यश् चतुर्गुणं ॥
धान्यं पुलाकपाषाणैः खलु मिश्रित्य वा पुनः ।
विक्रेता तत्समं दाप्यो दद्यात् तस्यापि मिश्रितं ॥
तुल्यैर् अतुल्यैर् वा द्रव्यैः मिश्रीकृत्य ततो नृणां ।
दमश् चतुर्गुणः प्रोक्तस् तेन नित्यं समाचरेत् ॥
प्रेतसम्मार्जनं मलं कपालं तुषम् एव च ।
पथि ग्रामस्य विक्षेप्ता दाप्यः पणं ॥
उच्छिष्टसलिलस्रावं गृही यः परिमुञ्चति ।
द्विगुणं दण्डम् आप्नोति मोक्ता रूप्ये च दण्ड्यते ॥
हत्वा ककरं दिवा तु त्रिपणं ब्राह्मणो भवेत् ।
शशं कूर्मञ् च गोधाञ् च मेषं हत्वा च षोडश ॥
क्षीरं क्षीरविकारञ् च लवणं तैलम् एव च ।
लाक्षाञ् च विक्रयं कुर्वन् विप्रः प्राप्नोति मध्यमं ॥
अपूपम् अन्नं मांसञ् च सोमम् अस्थि तथा मधु ।
त्वचञ् च विक्रयं कुर्वन् प्राप्नुयान् मध्यमं दमं ॥
जनकञ् जनकाध्यक्षो निकर्षन् विषमोपमे ।
दमं पणम् अवाप्नोति भोक्ता च विषमोपमे ॥
विप्रम् उत्पादितापत्यं वृषल्यां यो वहेद् अतः ।
सहस्रं दमम् आप्नोति प्रसूतिः प्रथमं भवेत् ॥
भुञ्जानो यस्य पक्वान्नं विप्रस् तु वृषलीपतेः ।
पणञ् चतुर्दशाप्नोति द्विगुणं तस्य सूतके ॥
श्राद्धं तु तद्गृहे भुक्त्वा पणन् तावद् अवाप्नुयात् ।
साहसं पूर्वम् आप्नोति विशेषाच् चानिमित्ततः ॥
अन्वष्टकाम् अष्टकां वा भुञ्जानो वृषलीपतेः ।
पणाञ् चतुर्दशाप्नोति तथा भोक्ता च मासिकं ॥
क्रमम् अप्य् अष्टकादेशात् गृह्णानो वृषलालयात् ।
षण्णवत्यर्द्धम् आप्नोति भुक्त्वा पूर्वं तु तद्गृहे ॥
मद्यादीनां त्व् अभक्ष्याणां विप्रः प्राप्नोति षोडश ।
द्विगुणं प्रतिपीडानां मत्स्यानां आप्नुयाच् छतं ॥
एवं द्विगुणतां दद्यात् दोषेष्व् एतेषु सोमपाः ।
खराश्वसूकरादीनं भक्षणे पतितः स्मृतः ॥
दार्वस्थिशृङ्गपाषाणैर् यस् तु भार्याभृतिं द्विजः ।
सहस्रं दमम् आप्नोति कुर्वाणो वपनं यदि ॥
अङ्गेषु व्यक्तदेशेषु यो जायां करजैर् व्रणं ।
कर्ता कारयिता स्वाङ्गैर् दाप्यः स्यात् प्रथमं दमं ॥
योषित्मुखं तु भुञ्जानो पीत्वा वापिददं द्विजः ।
तथा भोजयिता स्वं वा दाप्यः स्यात् पूर्वसाहसं ॥
अत्यर्थं वेदयंश् चैव ब्राह्मणः पतितो भवेत् ।
स्त्रियं तथाश्ववद् गच्छम्श् चुंबयन् गुह्यम् एव वा ॥
प्रयत्नाच् छुक्लम् उत्सृज्य विप्रः पञ्चाशद् आप्नुयात् ।
मैथुनं गोषु गत्वा तु तथा दाप्यो भवेच् छतं ॥
गच्छंस् तथाजयोनौ तु प्राप्यते पूर्वसाहसं ।
मध्यमं दण्डम् आप्नोति व्रजन् माहिषयोनिषु ॥
सहस्रं दमम् आप्नोति योन्यां गोषु नरो व्रजेत् ।
एवम् एव द्विगुणिता भवन्ति व्रतचारिषु ॥
पथि श्रान्ताय तुल्याय पन्था देयो ऽथवाश्रमं ।
यमदातुर् भवेन् मेषो ऽदेशदाताप्रतिश्रयः ॥
शूद्रां तु सेवमानाद् धि विप्रः शूद्रावरः स्मृतः ।
गतोपगमनाद् एव शूद्रायां पतितो भवेत् ॥
गमनाद् एव शूद्रायां त्व् अपत्यं तन्मयो द्विजः ।
माता तु तस्य शूद्रस्य पातित्यं तु प्रचक्षते ॥
तस्माच् छूद्रस् तु यज्ञार्थं गृह्यार्थम् अपि वा द्विजः ।
शुक्लसेक्तरि कृष्णायां विप्रो ऽग्निहा प्रतीक्षते ॥
दृष्ट्वापत्यं तु शूद्रायां प्रयान्ति त्व् आपदं महत् ।
विशो वित्तं नयाद् स्वयं वा न द्विजो यदि ॥
शूनाम् अपि अशुद्धानाम् अजदन्तं सुशोभनं ।
शूद्रागामी द्विजः पश्येत् पितॄणां तं परीक्ष्यति ॥
तस्माद् अवश्यं श्राद्धेषु विप्रं तु वृषलीपतिं ।
शुनश् चापि तिरस्कृत्य ब्राह्मणान् आशयेद् द्विजः ॥
वृषळीपतिना स्पृष्टम् ईक्षितं भुक्तमिश्रितं ।
सर्वम् अन्नम् अभोज्यं स्यात् सिद्धम् अन्नम् इदं पुनः ॥
अपाङ्क्त्यानां त्व् अकल्याणां पङ्क्तौ तुल्यो ऽपि च द्विजः ।
सस्यं वृद्धं समादद्यात् पङ्केषु वृषलीपतिः ॥
जनकं शुऌबसंस्पृष्टं रजतेन तथैव च ।
शक्यं शोधयितुं प्राज्ञैः श्राद्धे स्पृष्टं विनश्यति ॥
विप्रः क्षत्रियया स्पृष्टस् तथैवं वैश्ययोषिता ।
उपायैश् शुद्धिम् आयाति न तु शूद्राङ्गनां गतः ॥
उपेक्षको यो राजा तु ग्रामे वा वृषळीपतिं ।
स राजासत्प्रतिग्राह्यः स्वार्थभ्यो ग्राम एव तु ॥
कण्टकानां तु सर्वेषां बलभृतो हि साहसी ।
तस्मात् साहसिनो राजा भ्रंशदण्डम् प्रकल्पयेत् ॥
स्वल्पसाहसकर्त्ता यः कालाद् आयकसाहसी ।
अथ भवत्य् एव पापम् इति संचिन्त्य दण्डयेत् ॥
एवं पञ्च विशाद् राजा कण्टकानां समुद्धरेत् ।
धर्मम् अर्थं तथायुष्यं यशो राष्ट्रं च वर्द्धते ॥
कण्टकानां तु कथितं न्यायेन प्रथमेन यः ।
चतुर्विधा क्रिया प्रोक्ता संसिध्यति च मार्गतः ॥
कुलादयो विवादस्य श्रवणे ऽधिकृतागमात् ।
कोणे ऽप्य् अधिगता शास्त्रैर् ब्राह्मणेन विपश्चिता ॥
मूल पाठ: Yamasmṛti (South Indian recension) · Edition: Jürgen Neuß: Untersuchungen zur Textgeschichte der Yamasmṛti. Berlin 1999 (MA-thesis, Free University Berlin), published in the GRETIL e-library · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0