यमस्मृति · अध्याय 1
आश्रमस्थं सुखासीनं वेदशास्त्रविशारदम् ।
अपृच्छन्न् ऋषयो गत्वा यमं यमितमानसम् ॥
महापातकसंयुक्ताः उपपातकिनस् तथा ।
यैर् यैर् व्रतैर् विशुध्यन्ति तन् नो ब्रूहि महामुने ॥
दिवा वातार्कसंस्पृष्टं रात्रौ नक्षत्रमारुतैः ।
संध्याद्वयोर् वा संध्याभ्यां पवित्रं सर्वदा जलम् ॥
स्वभावयुक्तम् अव्याप्तम् अमेध्येन सदा शुचि ।
भाण्डस्थं धरणीस्थं वा पानीयं पावनं नृणां ॥
अमेध्येन तु संस्पृष्टो रात्राव् अहनि वा द्विजः ।
सद्यः स्नात्वा स्पृशेद् अग्निं सन्ध्ययोश् च सदा शुचिः ॥
श्वापदोष्ट्रहयाद्यैश् च मानुषैश् चरितं विना ।
दष्टः स्नात्वा शुचिः सद्यो नरः संध्यादिरात्रिषु ॥
अन्त्याद् अज्ञानतो भुक्त्वा चण्डालान्नं कथञ्चन ।
गोमूत्रयावकाहारो दशरात्रेण शुध्यति ॥
जलाग्न्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपतनप्रायाः शस्त्रघातहताश् च ये ॥
नवैते प्रत्यवसिताः सर्वधर्मबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥
उभयावासिनः पापा ये श्यामशबलाच्युताः ।
ऐन्दवाभ्यां विशुध्यन्ति दत्त्वा धेनुं तथा वृषं ॥
गोब्राह्मणहतं दग्ध्वा मृतम् उद्बन्धनेन च ।
पाशंश् छित्त्वा तथा तस्य कृच्छ्रं सांतपनं चरेत् ॥
कृमिभिर् व्रणसंभूतैर् मक्षिकाद्युपघातितः ।
कृच्छ्राब्दं सम्प्रकुर्वीत पराको मोहसंगमात् ॥
एकैके तु कृते पापे प्रायश्चित्तं विदुर् बुधाः ।
सर्वपातकसम्पाते प्रायश्चित्तं न विद्यते ॥
सर्वपातकसम्पाते कपालग्रहणं स्मृतम् ।
तत् कापालिकम् अस्याग्रं प्रायश्चित्तं मनीषिभिः ॥
कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवद्वयम् ॥
सुरामद्यपाने कृते गोमांसभक्षणे ऽपि वा ।
तप्तकृच्छ्रपरिक्लिष्टो मौञ्जीहोमेन शुध्यति ॥
प्रायश्चित्ते ऽव्यवसिते कर्ता यदि विपद्यते ।
शुद्धस् तद् अहर् एवासाव् इहलोके परत्र च ॥
यावद् एको ऽपृथग्द्रव्यः प्रायश्चित्तं निषेवते ।
अप्रशस्तास् तु तं स्पृष्ट्वा भवेयुः ते विगर्हिताः ॥
असंभोज्या अप्रतिग्राह्या असंपाठ्या अविवाहिनः ।
पूयन्ते तद्व्रते पूर्णे सर्वे ते ऽरिक्थभागिनः ॥
अशीतिर् यस्य वर्षाणि बालो वाप्य् ऊनषोडशः ।
प्रायश्चित्तार्धम् अर्हन्ति स्त्रियो रोगिण एव च ॥
अपूर्णषोडशाब्दस्य चतुर्वर्षाधिकस्य च ।
प्रायश्चित्तं चरेद् भ्राता पिता वान्यो ऽपि बान्धवः ॥
अतो बालतरस्यास्य नापराधो न पातकं ।
राजदण्डो न तस्यास्ति प्रायश्चित्तं च नेष्यते ॥
कृच्छ्रं सांतपनं कुर्याद् हत्वा संकीर्णयोनिजम् ।
सूतं हत्वातिकृच्छ्रं तु कुण्डगोलकम् एव च ॥
स्त्रियो हत्वाविशेषेण चरेच् चान्द्रायणव्रतम् ।
हत्वा गां क्षत्रियं वैश्यं शूद्रं वाप्य् अनुलोमजम् ॥
एषां भुक्त्वा स्त्रियो गत्वा तथैव प्रतिगृह्य च ।
कृच्छ्राब्दम् अब्दकृच्छ्रं वा शुद्ध्यर्थं सम्यग् आचरेत् ॥
अन्यप्राणिलयं कुर्वन् दद्याच् छक्त्या च दक्षिणाम् ।
कृच्छ्रं चापि चरेन् नित्यं प्राजापत्यम् इति स्थितिः ॥
महापातककर्तारश् चत्वारो ऽप्य् अविशेषतः ।
अग्निं प्रविश्य शुध्यन्ति स्नानाद् वापि हयक्रतौ ॥
रहस्यकारिणस् त्व् एते माघमासे तु पौरुषम् ।
जप्त्वाघमर्षणं सूक्तं शुध्यन्त्य् अन्तर्जले स्थिताः ॥
परदारे नरे षण्डे हयाजाविपशुष्व् अपि ।
आगोमैथुनम् आसेव्यः पावमानीस् त्र्यहं जपेत् ॥
चण्डालाद्यासु नारीषु गोषु मैथुनकारिणः ।
जप्त्वाघमर्षणं पक्षं शुध्यन्ति हि पयोव्रताः ॥
मातरं गुरुपत्नीं च स्वसारं दुहितां तथा ।
गत्वा तु प्रविशेद् अग्निं नान्यशुद्धिर् विधीयते ॥
स्वसारं च पितुर् मातुः स्वसुतां मातुलस्य च ।
पुत्रस्य भार्यां गत्वा तु षण्मासं कृच्छ्रम् आचरेत् ॥
षट्चतस्रस् तथान्याश् च बन्धुभ्यां पितृमातृतः ।
गत्वैतांश् च सगोत्रां च पराकं कृच्छ्रम् आचरेत् ॥
रजकश् चर्मकारश् च नटो बुरुड एव च ।
कैवर्तश् चैव शैलूषो मल्लश् चान्त्यावसायिनः ॥
एषां भुक्त्वा च पीत्वा च रहस् संकम्य वा सकृत् ।
आस्ये च मैथुनं कृत्वा तप्तकृच्छ्रं समाचरेत् ॥
चण्डालमुष्टिकाश् चैव तथा संकीर्णयोनिजाः ॥
एषां भुक्त्वा स्त्रियो गत्वा तथैव प्रतिगृह्य च ।
ज्ञानात् कृच्छ्राब्दम् उद्दिष्टम् अज्ञानाद् ऐन्दवं स्मृतं ॥
कुलाचारस्मृतो येषां सुरापानं तु योषितां ।
पतितक्षेत्रसंभूताः ते ऽकुलाचारिकाः स्मृताः ॥
चतुर्णाम् अपि वर्णानां बाह्या ब्राह्मणमानिनः ।
पारंपर्येण संकीर्णा वर्जनीयाः प्रयत्नतः ॥
आरूढपतिताज् जातो ब्राह्मण्यां शूद्रतश् च यः ।
चण्डालौ ताव् उभौ ज्ञेयौ सगोत्राद् यश् च जायते ॥
जारजातः सवर्णायां कुण्डो जीवति भर्तरि ।
मृते गोलकनामा तु जातिहीनौ तथाइव तौ ॥
असवर्णासु नारीषु द्विजैर् उत्पादिताश् च ये ।
परपत्नीषु सर्वासु कुण्डाः ते गोलकाः स्मृताः ॥
मातृवर्णा न ते प्रोक्ताः पितृवर्णा न ते स्मृताः ।
अविवाह्याः सुताश् चैव बन्धुभिः पितृमातृतः ॥
मातृस्वतन्त्रैर् नृपसंगतैश् च बालादिवृद्धैर् नृपपीडितैश् च ।
भाषा प्रवृत्ता न खलु प्रमाणम् न ह्य् उत्तरं नैव कृतं कृतास् ते ॥
अश्वस्य हन्ता पुरुषस्य हन्ता छेत्ता तरूणां घटसेवितानां ।
परस्य दारेषु च ये प्रसक्ताः ते शस्त्रवद्ध्या न विहीनदण्ड्याः ॥
यो दुष्टभावेन परस्य हन्ता हिनस्ति भार्यां ससुतं कलत्रम् ।
क्षेत्रं तथा धान्यधनं शरीरम् तं घातयेत् मुद्गरपातघातैः ॥
कर्तानुमन्ता ऽप्य् उपदेशदाता प्रोत्साहकस् संप्रतिघातकश् च ।
मन्त्री सहायस् सहवास्यवध्यः शङ्काविशुद्धिः पुरुषेण कार्या ॥
यो यस्य भक्ताश्रयदाससक्तः दोषे कृते तेन नरेण कर्ता ।
तद् अर्पिते भोक्तरि नानुशेयं भक्तप्रदाता प्रतिमुच्यते तु ॥
परे ऽपरे लोभहतास् ततस् तु परावरश् चैव परे ऽपरे च ॥
यज्ञे विवाहे च तथोत्सवेषु समानपुंसा ऽप्य् असमानपुंसा ।
पराब्दिकाम् पाकविधौ प्रवृत्तिं नैतेषु भक्तप्रददोषम् आहुः ॥
शस्त्रप्रदाता विषवह्निदो ऽपि मासं समाप्नोति पराय दत्त्वा ।
धर्मार्थकामप्रतिपत्तिहेतोर् यदि प्रवृत्तौ न परोपतापे ॥
यो वाहनं कर्तरि वारणं वा ह्य् आदाय गच्छत्य् अविशिष्टबुद्धिः ।
तत्रापि दोषं न वदन्ति तज्ज्ञाः तत्रैव शुद्धश् च तथैव दण्ड्यः ॥
भार्या सुता गोत्ररुहा स्नुषा वा भ्राता सुतो दासभृतो जनो वा ।
यो दोषदुष्टस् स नृपेण शास्यो नकारकस् तु प्रभुर् एष धर्मः ॥
द्रव्यप्रदानेन समासमेन कर्मप्रयोगेन तथा युधेन ।
यो वर्तते यस्य नरस्य चित्ते ज्ञेयस् सहायस् तु सुखासुखेषु ॥
महामृगं पक्षिमृगं पशुं वा समानजातीयम् अथेतरं वा ।
अचोदितो हन्ति नरस्त्रियं वा स्वामीयगौस् तस्य न खण्डनीयः ॥
यद् यद्धि जातिर् द्विजवर्गजात्या यागादिकम् पापकृतो न दण्ड्याः ।
ग्रहप्रदानेषु निरुद्धबद्धाः सर्पा न हिंसन्ति परैर् अभीताः ॥
तं दापयित्वा धनिने नृपेण तत्स्वामिनः प्राणिधनैर् विमुच्यः ॥
धर्मार्थवादेषु गवादयो हि स्वेच्छाप्रमादाद् यदि ते म्रियन्ते ।
तत्रापि दोषञ् च पशुप्रमाणं नाचक्षते धर्मविदस् तथैव ॥
आरण्यका ये यदि दंष्ट्रिणस् तु गावो म्रियन्ते यदि ता अदग्धाः ।
पापान् निरोद्धुं न च पाशदातुः धारास्वहस्तं प्रवदन्ति पापं ॥
एको हतो यो बहुभिः समेतैः न ज्ञायते कस्य मृतोपघातैः ।
दिव्येन तेषाम् उपलभ्य हन्ता निवर्तनीयो नृपसंनियुक्तैः ॥
संत्यक्तजीवो म्रियते कदाचिद् निष्पापकः पातकशुद्धिकार्यात् ॥
तर्कप्रमाणैः प्रतितर्कयित्वा केचिद् वदन्त्य् एवम् इदं प्रमानम् ।
नित्यान्तजीवो म्रियते कदाचिद् वेदैश् च पृष्टैर् ऋषिभिश् च गीतं ॥
चान्द्रायणादीनि हि पावनानि पापा यद् इच्छन्ति हिताय कर्तुम् ।
संसर्गम् इच्छन्ति फलं तथा स्यात् ज्ञानप्रदीपेन तमो ऽन्धकारे ॥
मूल पाठ: Yamasmṛti (South Indian recension) · Edition: Jürgen Neuß: Untersuchungen zur Textgeschichte der Yamasmṛti. Berlin 1999 (MA-thesis, Free University Berlin), published in the GRETIL e-library · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0