भाषा

ENहिગુ
ग्रंथ पाठ

यमस्मृति · श्लोक 61-78

61

स्पृष्टा रजस्वला चैव श्वाजजम्बूकरासभैः ।
तावत् तिष्ठेत् निराहारा स्नात्वा कालेन शुध्यति ॥

62

स्पृष्ट्वा रजस्वला कैश्चित् चाण्डालैर् अरजस्वला ।
प्राजापत्येन कृच्छ्रेण प्राणायामशतेन च ॥

63

विप्रः स्पृष्टो निशायाञ् च उदक्या पतितेन च ।
दिवानीतेन तोयेन स्नापयेच् चाग्निसन्निधौ ॥

64

दिवार्क रश्मिसंस्पृष्टं रात्रौ नक्षत्ररश्मिभिः ।
सन्ध्योभयोश् च सन्ध्यायाः पवित्रं सर्वदा जलम् ॥

65

अपः करनखस्पृष्टाः पिबेद् आचमने द्विजः ।
सुरां पिबति सुव्यक्तं यमस्य वचनं यथा ॥

66

स्वात वाप्योस् तथा कूपे पाषाणैः शस्त्रघातनैः ।
यष्ट्या तु घातने चैव मृत्पिण्डे गोकुलेन च ॥

67

रोधने बन्धने चैव स्थापिते पुष्कले तथा ।
काष्ठे वनस्पतौ रोध सङ्कटे रज्जुवस्त्रयोः ॥

68

एतत् ते कथितं सर्वं प्रमादस्थानम् उत्तमम् ।
यत्र यत्र मृता गावः प्रायश्चित्तं समाचरेत् ॥

69

दारुणा घातने कृच्छ्रं पाषाणैर् द्विगुणं भवेत् ।
अर्द्धकृच्छ्रन् तु खाते स्यात् पादकृच्छ्रन् तु पादपे ॥

70

शस्त्रघाते त्रिकृच्छ्राणि यष्टिघाते द्वयं चरेत् ॥

71

कृच्छ्रेण वस्त्रघाते ऽपि गोघ्नश् चेति विशुद्ध्यति ।
यो वर्त्तयति गोमध्ये नदीकान्तारमन्तिके ॥

72

रोमाणि प्रथमे पादे द्वितीये श्मश्रु वापयेत् ।
तृतीये तु शिखा धार्या चतुर्थे सशिखं वपेत् ॥

73

न स्त्रीणां वपनं कुर्यात् न च सा गाम् अनुव्रजेत् ।
न च रात्रौ वसेद् गोष्ठे न कुर्याद् वैदिकीं श्रुतिम् ॥

74

सर्वान् केशान् समुद्धृत्य छेदयेद् अङ्गुलिद्वयम् ।
एवम् एव तु नारीणां शिरसो वपनं स्मृतम् ॥

75

मृतकेन तु जातेन उभयोः सूतकं भवेत् ।
पातकेन तु लिप्तेन नास्य सूतकिता भवेत् ॥

76

चत्वारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् ।
आहारं मैथुनं निद्रां स्वाध्यायञ् च चतुर्थकम् ॥

77

आहाराज् जायते व्याधिः क्रूरगर्भश् च मैथुने ।
निद्रा श्रियो निवर्त्तन्ते स्वाध्याये मरणं ध्रुवम् ॥

78

अज्ञानात् तु द्विजश्रेष्ठ वर्णानां हितकाम्यया ।
मया प्रोक्तम् इदं शास्त्रं सावधानो ऽवधारय ॥

मूल पाठ: Yamasmṛti (78-verse version) · Edition: Haridatta Sastri The Smriti Sandarbha Calcutta Gurumandal 6 Gurumandal Series 9 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc