भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 6180

(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {14।40} अदीधयुः दाशराज्ञे वृतसः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {15।40} भवेत् इदम् युक्तम् उदाहरणम् : अदीधेत् इति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {16।40} इदम् तु अयुक्तम् : अदीधयुः इति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {17।40} अयम् जुसि गुणः प्रतिषेधविषये [प्रतिषेधविषयः] आरभ्यते .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {18।40} सः यथा एव क्ङिति न इति एतम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधते .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {19।40} न एषः दोषः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {20।40} जुसि गुणः प्रतिषेधविषये आरभ्यमाणः तुल्यजातीयम् प्रतिषेधम् बाधते .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {21।40} कः च तुल्यजातीयः प्रतिषेधः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {22।40} यः प्रत्ययाश्रयः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {23।40} प्रकृत्याश्रयः च अयम् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {24।40} अथ वा येन न अप्राप्ते तस्य बाधनम् भवति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {25।40} न च अप्राप्ते क्ङिति न इति एतस्मिन् प्रतिषेधे जुसि गुणः आरभ्यते .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {26।40} अस्मिन् पुनः प्राप्ते च अप्राप्ते च .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {27।40} यदि तर्हि अयम् योगः न आरभ्यते कथम् दीध्यत् इति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {28।40} दीध्यत् इति श्यन्व्यत्ययेन .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {29।40} दीध्यत् इति श्यन् एषः व्यत्ययेन भविष्यति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {30।40} इटः च अपि ग्रहणम् शक्यम् अकर्तुम् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {31।40} कथम् अकणिषम् अरणिषम् , कणिता श्वः , रणिता श्वः इति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {32।40} आर्धधातुकस्य इट् वलादेः इति अत्र इट् इति वर्तमाने पुनः इड्ग्रहणस्य प्रयोजनम् इट् एव यथा स्यात् यत् अन्यत् प्राप्नोति तत् मा भूत् इति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {33।40} किम् च अन्यत् प्राप्नोति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {34।40} गुणः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {35।40} यदि नियमः क्रियते पिपठिषतेः अप्रत्ययः पिपट्ःईः : दीर्घत्वम् न प्राप्नोति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {36।40} न एषः दोषः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {37।40} आङ्गम् यत् कार्यम् तत् नियम्यते .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {38।40} न च एतत् आङ्गम् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {39।40} अथ वा असिद्धम् दीर्घत्वम् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {40।40} तस्य असिद्धत्वात् नियमः न भविष्यति
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {1।10} अनन्तराः इति कथम् इदम् विज्ञायते : अविद्यमानम् अन्तरम् एषाम् इति आहोस्वित् अविद्यमानाः अन्तरा एषाम् इति .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {2।10} किम् च अतः .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {3।10} यदि विज्ञायते अविद्यमानम् अन्तरम् एषाम् इति अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्सु इति अप्-सु इति .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {4।10} विद्यते हि अत्र अन्तरम् .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {5।10} अथ विज्ञायते अविद्यमानाः अन्तरा एषाम् इति न दोषः भवति .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {6।10} यथा न दोषः तथा अस्तु .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {7।10} अथ वा पुनः अस्तु अविद्यमानम् अन्तरम् एषाम् इति .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {8।10} ननु च उक्तम् अवग्रहे संयोगसञ्ज्ञा न प्राप्नोति अप्-सु इति अप्सु इति .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {9।10} विद्यते हि अत्र अन्तरम् इति .
(प्_1,1.7.1) क_इ,56.18-23 रो_इ,182-183 {10।10} न एव दोषः न प्रयोजनम् .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {1।45} संयोगसञ्ज्ञायाम् सहवचनम् यथा अन्यत्र .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {2।45} संयोगसञ्ज्ञायाम् सहवचनम् कर्तव्यम् .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {3।45} हलः अनन्तराः संयोगः सह इति वक्तव्यम् .

(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {4।45} किम् प्रयोजनम् .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {5।45} सहभूतानाम् संयोगसञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {6।45} यथा अन्यत्र .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {7।45} तत् यथा अन्यत्र अपि यत्र इच्छति सहबूतानाम् कार्यम् करोति तत्र सहग्रहणम् .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {8।45} तत् यथा .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {9।45} सह सुपा .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {10।45} उभे अभ्यस्तम् सह इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {11।45} किम् च स्यात् यदि एकैकस्य हलः संयोगसञ्ज्ञा स्यात् .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {12।45} इह निर्यायात् , निर्वायात् , वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {13।45} इह च संहृषीष्ट इति ऋतः च संयोगादेः इति इट् प्रसज्येत .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {14।45} इह च संह्रियते इति गुणः अर्तिसंयोगाद्योः इति गुणः प्रसज्येत .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {15।45} इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {16।45} इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {17।45} इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {18।45} न एषः दोषः .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {19।45} यत् तावत् उच्यते इह तावत् निर्यायात् , निर्वायात् वा अन्यस्य संयोगादेः इति एत्त्वम् प्रसज्येत इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {20।45} न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {21।45} कथम् तर्हि .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {22।45} संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {23।45} एवम् तावत् सर्वम् आङ्गम् परिहृतम् .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {24।45} यत् अपि उच्यते इह च दृषत् करोति समित् करोति इति संयोगान्तस्य लोपः प्रसज्येत इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {25।45} न एवम् विज्ञायते संयोगः अन्तः यस्य तत् इदम् संयोगान्तम् , संयोगान्तस्य इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {26।45} कथम् तर्हि .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {27।45} संयोगौ अन्तौ अस्य तद् इदम् संयोगान्तम् , संयोगान्तस्य इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {28।45} यत् अपि उच्यते इह च शक्ता वस्ता इति स्कोः संयोगाद्योः इति लोपः प्रसज्येत इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {29।45} न एवम् विज्ञायते संयोगौ आदी संयोदादी संयोगाद्योः इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {30।45} कथम् तर्हि .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {31।45} संयोगयोः आदी संयोगादी संयोगाद्योः इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {32।45} यत् अपि उच्यते इह च निर्यातः , निर्वातः संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् प्रसज्येत इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {33।45} न एवम् विज्ञायते संयोगः आदिः यस्य सः अयम् संयोगादिः , संयोगादेः इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {34।45} कथम् तर्हि .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {35।45} संयोगौ आदी यस्य सः अयम् संयोगादिः , संयोगादेः इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {36।45} कथम् कृत्वा एकैकस्य संयोगसञ्ज्ञा प्राप्नोति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {37।45} प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {38।45} तत् यथा .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {39।45} वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {40।45} ननु च अयम् अपि अस्ति दृष्टान्तः : समुदाये वाक्यपरिसमाप्तिः इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {41।45} तत् यथा .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {42।45} गर्गाः शतम् दण्ड्यन्ताम् इति .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {43।45} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति .

(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {44।45} सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् .
(प्_1,1.7.2) क_इ,56.24-57.26 रो_इ,183-186 {45।45} अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {1।43} अथ यत्र बहूनाम् आनन्तर्यम् किम् तत्र द्वयोः द्वयोः संयोगस्ञ्ज्ञा भवति आहोस्वित् अविशेषेण .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {2।43} कः च अत्र विशेषः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {3।43} समुदाये संयोगादिलोपः मस्जेः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {4।43} समुदाये संयोगादिलोपः मस्जेः न सिध्यति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {5।43} मङ्क्ता मङ्क्तुम् .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {6।43} इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {7।43} इह च संस्वरिषीष्ट इति ऋतः च संयोगादेः इति इट् न प्राप्नोति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {8।43} इह च संस्वर्यते इति गुणः अर्तिसंयोगाद्योः इति गुणः न प्राप्नोति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {9।43} इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {10।43} इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {11।43} अस्तु तर्हि द्वयोः द्वयोः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {12।43} द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् . द्वयोः हलोः संयोगः इति चेत् द्विर्वचनम् न सिध्यति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {13।43} इन्द्रम् इच्छति इन्द्रीयति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {14।43} इन्द्रीयतेः सन् : इन्दिद्रीयिषति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {15।43} न न्द्राः संयोगादयः इति दकारस्य द्विर्वचनम् न प्राप्नोति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {16।43} न वा अज्विधेः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {17।43} न वा एषः दोषः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {18।43} किम् कारणम् .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {19।43} अज्विधेः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {20।43} न्द्राः संयोगादयः न द्विः उच्यन्ते .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {21।43} अजादेः इति वर्तते .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {22।43} अथ यदि एव बहूनाम् संयोगस्ञ्ज्ञा अथ अपि द्वयोः द्वयोः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {23।43} गतम् इति आह .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {24।43} कथम् .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {25।43} यद तावत् बहूनाम् संयोगस्ञ्ज्ञा तदा एवम् विग्रहः करिष्यते : अविद्यमानम् अन्तरम् एषाम् इति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {26।43} यदा द्वयोः द्वयोः तदा एवम् विग्रहः करिष्यते : अविद्यमानाः अन्तरा एषाम् इति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {27।43} द्वयोः च एव अन्तरा कः चित् विद्यते न वा .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {28।43} एवम् अपि बहूनाम् एव प्राप्नोति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {29।43} यान् हि भवान् षष्ठ्या प्रतिनिर्दिशति एतेषाम् अन्येन व्यवाये न भवितव्यम् .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {30।43} अस्तु तर्हि समुदाये सञ्ज्ञा .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {31।43} ननु च उक्तम् समुदाये संयोगादिलोपः मस्जेः इति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {32।43} न एषः दोषः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {33।43} वक्ष्यति एतत् .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {34।43} अन्त्यात् पूर्वः मस्जेः मित् अनुषङ्गसंयोगादिलोपार्थम् इति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {35।43} अथ वा अविशेषेण संयोगसञ्ज्ञा विज्ञास्यते द्वयोः अपि बहूनाम् अपि .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {36।43} तत्र द्वयोः या संयोगस्ञ्ज्ञा तदाश्रयः लोपः भविष्यति .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {37।43} यत् अपि उच्यते इह च निर्ग्लेयात् , निर्ग्लायात् , निर्म्लेयात् , निर्म्लायात् : वा अन्यस्य संयोगादेः इति एत्त्वम् न प्राप्नोति इति अङ्गेन संयोगादिम् विशेषयिष्यामः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {38।43} अङ्गस्य संयोगादेः इति .

(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {39।43} एवम् तावत् सर्वम् आङ्गम् परिहृतम् .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {40।43} यत् अपि उच्यते इह च गोमान् करोति यवमान् करोति इति संयोगान्तस्य लोपः इति लोपः न प्राप्नोति इति पदेन संयोगान्तम् विशेषयिष्यामः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {41।43} पदस्य संयोगान्तस्य .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {42।43} यत् अपि उच्यते इह च निर्ग्लानः , निर्म्लानः इति संयोगादेः आतः धातोः यण्वतः इति निष्ठानत्वम् न प्राप्नोति इति धातुन संयोगादिम् विशेषयिष्यामः .
(प्_1,1.7.3) क_इ,57.27-59.2 रो_इ,186-190 {43।43} धातोः संयोगादेः इति
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {1।42} स्वरानन्तर्हितवचनम् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {2।42} स्वरैः अनन्तर्हिताः हलः संयोगसञ्ज्ञाः भवन्ति इति वक्तव्यम् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {3।42} किम् प्रयोजनम् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {4।42} व्यवहितानाम् मा भूत् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {5।42} पचति पनसम् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {6।42} ननु च अनन्तराः इति उच्यते .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {7।42} तेन व्यवहितानाम् न भविष्यति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {8।42} दृष्टम् आनन्तर्यम् व्यवहिते .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {9।42} व्यवहिते अपि अनन्तरशब्दः दृश्यते .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {10।42} तत् यथा : अनन्तरौ इमौ ग्रामौ इति उच्यते .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {11।42} तयोः च एव अन्तरा नद्यः च पर्वताः च भवन्ति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {12।42} यदि तर्हि व्यवहिते अपि अनन्तरशब्दः भवति आनन्तर्यवचनम् इदानीम् किमर्थम् स्यात् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {13।42} आनन्तर्यवचनम् किमर्थम् इति चेत् एकप्रतिषेधार्थम् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {14।42} एकस्य हलः संयोगसञ्ज्ञा मा भूत् इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {15।42} किम् च स्यात् यदि एकस्य हलः संयोगसञ्ज्ञा स्यात् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {16।42} इयेष , उवोष .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {17।42} इजादेः च गुरुमतः अनृच्छः इति आम् प्रसज्येत .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {18।42} न वा अतज्जातीयव्यवायात् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {19।42} न वा एषः दोषः .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {20।42} किम् कारणम् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {21।42} अतज्जातीयस्य व्यवायात् .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {22।42} अतज्जातीयकम् हि लोके व्यवधायकम् भवति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {23।42} कथम् पुनः ज्ञायते अतज्जातीयकम् लोके व्यवधायकम् भवति इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {24।42} एवम् हि कम् चित् कः चित् पृच्छति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {25।42} अनन्तरे* एते ब्राह्मणकुले* इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {26।42} सः आह .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {27।42} न अनन्तरे .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {28।42} वृषलकुलम् अनयोः अन्तरा इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {29।42} किम् पुनः कारणम् क्व चित् अतज्जातीयकम् व्यवधायकम् भवति क्व चित् न .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {30।42} सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {31।42} कथम् अनन्तरौ इमौ ग्रामौ इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {32।42} ग्रामशब्दः अयम् बह्वर्थः .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {33।42} अस्ति एव शालासमुदाये वर्तते .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {34।42} तत् यथा ग्रामः दग्धः इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {35।42} अस्ति वाटपरिक्षेपे वर्तते .

(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {36।42} तत् यथा ग्रामम् प्रविष्टः .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {37।42} अस्ति मनुष्येषु वर्तते .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {38।42} तत् यथा ग्रामः गतः , ग्रामः आगतः इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {39।42} अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {40।42} तत् यथा ग्रामः लब्धः इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {41।42} तत् यः सारण्यके ससीमके सस्थण्डिलके वर्तते तम् अभिसमीक्ष्य एतत् प्रयुज्यते : अनन्तरौ इमौ ग्रामौ इति .
(प्_1,1.7.4) क_इ,59.3-24 रो_इ,190-192 {42।42} सर्वत्र एव हि अतज्जातीयकम् व्यवधायकम् भवति .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {1।11} किम् इदम् मुखनासिकावचनः इति .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {2।11} मुखम् च नासिका च मुखनासिकम् .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {3।11} मुखनासिकम् वचनम् अस्य सः अयम् मुखनासिकावचनः .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {4।11} यदि एवम् मुखनासिकवचनः इति प्राप्नोति .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {5।11} निपातनात् दीर्घत्वम् भविष्यति .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {6।11} अथ वा मुखनासिकम् आवचनम् अस्य सः अयम् मुखनासिकावचनः .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {7।11} किम् इदम् आवचनम् इति .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {8।11} ईषद्वचनम् आवचनम् .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {9।11} किम् चित् मुखवचनम् किम् चित् नासिकावचनम् .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {10।11} मुखद्वितीया वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः .
(प्_1,1.8.1) क_इ,59.26-60.5 रो_इ,192-193 {11।11} मुखोपसंहिता वा नासिका वचनम् अस्य सः अयम् मुखनासिकावचनः .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {1।20} अथ मुखग्रहणम् किमर्थम् .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {2।20} नासिकावचनः अनुनासिकः इति इयति उच्यमाने यमानुस्वाराणाम् एव प्रसज्येत .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {3।20} मुखग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {4।20} अथ नासिकाग्रहणम् किमर्थम् .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {5।20} मुखवचनः अनुनासिकः इति इयति उच्यमाने कचटतपानाम् एव प्रसज्येत .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {6।20} नासिकाग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {7।20} मुखग्रहणम् शक्यम् अकर्तुम् .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {8।20} केन इदानीम् उभयवचनानाम् भविष्यति .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {9।20} प्रासादवासिन्यायेन .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {10।20} तत् यथा .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {11।20} के चित् प्रासादवासिनः के चित् भूमिवासिनः के चित् उभयवासिनः .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {12।20} ये प्रासादवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {13।20} ये भूमिवासिनः गृह्यन्ते ते भूमिवासिन्यायेन .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {14।20} ये उभयवासिनः गृह्यन्ते ते प्रासादवासिग्रहणेन भूमिवासिन्यायेन च .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {15।20} एवम् इह अपि के चित् मुखवचनाः के चित् नासिकावचनाः के चित् उभयवचनाः .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {16।20} तत्र ये मुखवचनाः गृह्यन्ते ते मुखग्रहणेन .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {17।20} ये नासिकावचनाः गृह्यन्ते ते नासिकाग्रहणेन .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {18।20} ये उभयवचनाः गृह्यन्ते एव ते मुखग्रहणेन नासिकाग्रहणेन च. भवेत् उभयवचनानाम् सिद्धम् .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {19।20} यमानुस्वाराणाम् अपि प्राप्नोति .
(प्_1,1.8.2) क_इ,60.5-16 रो_इ,193-194 {20।20} न एव दोषः न प्रयोजनम् .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {1।18} इतरेतराश्रयम् तु भवति .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {2।18} का इतरेतराश्रयता .

(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {3।18} सतः अनुनासिकस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञया च नाम अनुनासिकः भाव्यते .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {4।18} तत् इतरेतराश्रयम् भवति .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {5।18} इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {6।18} अनुनासिकसञ्ज्ञायाम् इतरेतराश्रये उक्तम् .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {7।18} सिद्धम् तु नित्यशब्दत्वात् इति .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {8।18} नित्याः शब्दाः .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {9।18} नित्येषु शब्देषु सतः अनुनासिकस्य सञ्ज्ञा क्रियते .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {10।18} न सञ्ज्ञया अनुनासिकः भाव्यते .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {11।18} यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {12।18} किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {13।18} निवर्तकम् शास्त्रम् .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {14।18} कथम् .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {15।18} आङ् अस्मै अविशेषेण उपदिष्टः अननुनासिकः .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {16।18} तस्य सर्वत्र अननुनासिकबुद्धिः प्रसक्ता .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {17।18} तत्र अनेन निवृत्तिः क्रियते .
(प्_1,1.8.3) क_इ,60.17-26 रो_इ,194-195 {18।18} छन्दसि अचि परतः आङः अननुनासिकस्य प्रसङ्गे अनुनासिकः साधुः भवति इति .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {1।14} तुलया सम्मितम् तुल्यम् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {2।14} आस्यम् च प्रयत्नः च आस्यप्रयत्नम् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {3।14} तुल्यास्यम् तुल्यप्रयत्नम् च सवर्णसञ्ज्ञम् भवति .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {4।14} किम् पुनः आस्यम् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {5।14} लौकिकम् आस्यम् ओष्ठात् प्रभृति प्राक् काकलकात् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {6।14} कथम् पुनः आस्यम् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {7।14} अस्यन्ति अनेन वर्णान् इति आस्यम् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {8।14} अन्नम् एतत् आस्यन्दते इति वा आस्यम् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {9।14} अथ कः प्रयत्नः .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {10।14} प्रयतनम् प्रयत्नः .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {11।14} प्रपूर्वात् यततेः भावसाधनः नङ्प्रत्ययः .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {12।14} यदि लौकिकम् आस्यम् किम् आस्योपादाने प्रयोजनम् .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {13।14} सर्वेषाम् हि तत् तुल्यम् भवति .
(प्_1,1.9.1) क_इ,61.2-7 रो_इ,195-197 {14।14} वक्ष्यति एतत् : प्रयत्नविशेषणम् आस्योपादानम् इति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {1।69} सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {2।69} सवर्णसञ्ज्ञायाम् भिन्नदेशेषु अतिप्रसङ्गः भवति जबगडदशाम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {3।69} किम् कारणम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {4।69} प्रयत्नसामान्यात् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {5।69} एतेषाम् हि समानः प्रयत्नः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {6।69} सिद्धम् तु आस्ये तुल्यदेशप्रयत्नम् सवर्णम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {7।69} सिद्धम् एतत्. कथम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {8।69} आस्ये येषाम् तुल्यः देशः यत्नः च ते सवर्णसञ्ज्ञाः भवन्ति इति वक्तव्यम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {9।69} एवम् अपि किम् आस्योपादाने प्रयोजनम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {10।69} सर्वेषाम् हि तत् तुल्यम् .

(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {11।69} प्रयत्नविशेषणम् आस्योपादानम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {12।69} सन्ति हि आस्यात् बाह्याः प्रयत्नाः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {13।69} ते हापिताः भवन्ति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {14।69} तेषु सत्सु असत्सु अपि सवर्णसञ्ज्ञा सिध्यति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {15।69} के पुनः ते .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {16।69} विवारसंवारौ श्वासनादौ घोषवदघोषता अल्पप्राणता महाप्राणता इति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {17।69} तत्र वर्गाणाम् प्रथमद्वितीयाः विवृतकण्ठाः श्वासानुप्रदानाः अघोषाः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {18।69} एके अल्पप्राणाः अपरे महाप्राणाः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {19।69} तृतीयचतुर्थाः संवृतकण्ठाः नादानुप्रदानाः घोषवन्तः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {20।69} एके अल्पप्राणाः अपरे महाप्राणाः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {21।69} यथा तृतीयाः तथा पञ्चमाः आनुनासिक्यवर्जम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {22।69} आनुनासिक्यम् तेषाम् अधिकः गुणः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {23।69} एवम् अपि अवर्णस्य सवर्णसञ्ज्ञा न प्राप्नोति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {24।69} किम् कारणम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {25।69} बाह्यम् हि आस्यात् स्थानम् अवर्णस्य .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {26।69} सर्वमुखस्थानम् अवर्णम् एके इच्छन्ति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {27।69} एवम् अपि व्यपदेशः न प्रकल्पते : आस्ये येषाम् तुल्यः देशः इति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {28।69} व्यपदेशिवद्भावेन व्यपदेशः भविष्यति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {29।69} सिध्यति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {30।69} सूत्रम् तर्हि भिद्यते .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {31।69} यथान्यासम् एव अस्तु .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {32।69} ननु च उक्तम् सवर्णसञ्ज्ञयाम् भिन्नदेशेषु अतिप्रसङ्गः प्रयत्नसामान्यात् इति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {33।69} न एषः दोषः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {34।69} न हि लौकिकम् आस्यम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {35।69} किम् तर्हि .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {36।69} तद्धितान्तम् आस्यम् : आस्ये भवम् आस्यम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {37।69} शरीरावयवात् यत् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {38।69} किम् पुनः आस्ये भवम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {39।69} स्थानम् करणम् च .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {40।69} एवम् अपि प्रयत्नः अविशेषितः भवति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {41।69} प्रयत्नः च विशेषितः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {42।69} कथम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {43।69} न हि प्रयतनम् प्रयत्नः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {44।69} किम् तर्हि .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {45।69} प्रारम्भः यत्नस्य प्रयत्नः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {46।69} यदि प्रारम्भः यत्नस्य प्रयत्नः एवम् अपि अवर्णस्य एङोः च सवर्णसञ्ज्ञा प्राप्नोति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {47।69} प्रश्लिष्टवर्णौ एतौ .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {48।69} अवर्णस्य तर्हि ऐचोः च सवर्णसञ्ज्ञा प्राप्नोति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {49।69} विवृततरावर्णौ एतौ .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {50।69} एतयोः एव तर्हि मिथः सवर्णसञ्ज्ञा प्राप्नोति .

(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {51।69} न एतौ तुल्यस्थानौ .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {52।69} उदात्तादीनाम् तर्हि सवर्णसञ्ज्ञा न प्राप्नोति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {53।69} अभेदकाः उदात्तादयः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {54।69} अथ वा किम् नः एतेन प्रारम्भः यत्नस्य प्रयत्नः इति .प्रयतनम् एव प्रयत्नः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {55।69} तत् एव च तद्धितान्तम् आस्यम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {56।69} यत् समानम् तत् आश्रयिष्यामः .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {57।69} किम् सति भेदे .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {58।69} सति इति आह .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {59।69} सति एव हि भेदे सवर्णसञ्ज्ञया भवितव्यम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {60।69} कुतः एतत् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {61।69} भेदाधिष्ठाना हि सवर्णसञ्ज्ञा .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {62।69} यदि हि यत्र सर्वम् समानम् तत्र स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {63।69} यदि तर्हि सति भेदे किम् चित् समानम् इति कृत्व सवर्णसञ्ज्ञा भविष्यति शकारछकारयोः षकारठकारहोः सकारथकारयोः सवर्णसञ्ज्ञा प्राप्नोति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {64।69} एतेषाम् हि सर्वम् अन्यत् समानम् करणवर्जम् .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {65।69} एवम् तर्हि प्रयतनम् एव प्रयत्नः तत् एव तद्धितान्तम् आस्यम् न तु अयम् द्वन्द्वः : आस्यम् च प्रयत्नः च आस्यप्रयत्नम् इति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {66।69} किम् तर्हि .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {67।69} त्रिपदः बहुव्रीहिः : तुल्यः आस्ये प्रयत्नः एषाम् इति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {68।69} अथ वा पूर्वः तत्पुरुषः ततः बहुव्रीहिः : तुल्यः आस्ये तुल्यास्यः , तुल्यास्यः प्रयत्नः एषाम् इति .
(प्_1,1.9.2) प्. इ.61.8-62.14 रो_इ,197-202 {69।69} अथ वा परः तत्पुरुषः ततः बहुव्रीहिः : आस्ये यत्नः आस्ययत्नः , तुल्यः आस्ययत्नः एषाम् इति .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {1।16} तस्य .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {2।16} तस्य इति तु वक्तव्यम् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {3।16} किम् प्रयोजनम् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {4।16} यः यस्य तुल्यास्यप्रयत्नः सः तस्य सवर्णसञ्ज्ञः यथा स्यात् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {5।16} अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः मा भूत् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {6।16} तस्य अवचनम् वचनप्रामाण्यात् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {7।16} तस्य इति न वक्तव्यम् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {8।16} अन्यस्य तुल्यास्यप्रयत्नः अन्यस्य सवर्णसञ्ज्ञः कस्मात् न भवति .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {9।16} वचनप्रामाण्यात् : सवर्णसञ्ज्ञावचनसामर्थ्यात् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {10।16} यदि हि अन्यस्य तुल्यास्यप्रयत्नः सः अन्यस्य सवर्णसञ्ज्ञः स्यात् सवर्णसञ्ज्ञावचनम् अनर्थकम् स्यात् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {11।16} सम्बन्धिशब्दैः वा तुल्यम् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {12।16} सम्बन्धिशब्दैः वा पुनः तुल्यम् एतत् .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {13।16} तत् यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {14।16} न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {15।16} एवम् इह अपि तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र सम्बन्दिशब्दौ एतौ .
(प्_1,1.9.3) क_इ,62.15-26 रो_इ,202-203 {16।16} तत्र सम्बन्धात् एतत् गन्तव्यम् : यत् प्रति यत् तुल्यास्यप्रयत्नम् तत् प्रति तत् सवर्णसञ्ज्ञम् भवति इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {1।37} ऋकारऌकारयोः सवर्णविधिः .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {2।37} ऋकारऌकारयोः सवर्णसञ्ज्ञा विधेया .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {3।37} होतृ , ऌकारः , होतॄऌकारः .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {4।37} किम् प्रयोजनम् .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {5।37} अकः सवर्णे दीर्घः इति दीर्घत्वम् यथा स्यात् .

(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {6।37} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {7।37} वक्ष्यति एतत् .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {8।37} सवर्णदीर्घत्वे ऋति , रृवावचनम् ऌति , लॢवावचनम् इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {9।37} तत् सवर्णे यथा स्यात् .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {10।37} इह मा भूत् : दधि , ऌकारः , मधु , ऌकारः इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {11।37} यत् एतत् सवर्णदीर्घत्वे ऋति इति एतत् ऋतः इति वक्ष्यामि .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {12।37} ततः ऌति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {13।37} ऌति च वा लॢ भवति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {14।37} ऋतः इति एव .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {15।37} तत् न वक्तव्यम् भवति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {16।37} अवश्यम् तत् वक्तव्यम् .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {17।37} ऊकालः अच् ह्रस्वर्दीर्घप्लुतसञ्ज्ञः भवति इति उच्यते .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {18।37} न च रृकारः लॢकारः वा अच् अस्ति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {19।37} रृकारस्य , लॢकारस्य च अच्त्वम् वक्ष्यामि .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {20।37} तत् च अवश्यम् वक्तव्यम् प्लुतः यथा स्यात् : होतृ , ऋकारः होतॄकारः , होतृ3कारः , होतृ , ऌकारः , होतॢकारः , होतॢ3कारः .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {21।37} किम् पुनः अत्र ज्यायः .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {22।37} सवर्णसञ्ज्ञावचनम् एव ज्यायः .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {23।37} दीर्घत्वम् च एव हि सिद्धम् भवति. अपि च ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {24।37} यथा इह भवति : ऋति अकः: खट्व ऋश्यः , माल ऋश्यः इदम् अपि सङ्गृहीतम् बहवति : खट्व , ऌकारः, माल , ऌकारः इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {25।37} वा सुपि आपिशलेः : उपर्कारीयति , उपार्कारीयति , इदम् अपि सिद्धम् भवति : उपल्कारीयति, उपाल्कारीयति इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {26।37} यदि तर्हि ऋकारग्रहणे ऌकारग्रहणम् सन्निहितम् भवति उः अण् रपरः , ऌकारस्य अपि रपरत्वम् प्राप्नोति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {27।37} ऌकारस्य लपरत्वम् वक्ष्यामि .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {28।37} तत् च अवश्यम् वक्तव्यम् असत्याम् सवर्णसञ्ज्ञायाम् विध्यर्थम् .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {29।37} तत् एव सत्याम् रेफबाधनार्थम् भविष्यति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {30।37} इह तर्हि रषाभ्याम् नः णः समानपदे इति ऋकारग्रहणम् चोदितम् मातॄणाम् , पितॄणाम् इति एवमर्थम् .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {31।37} तत् इह अपि प्राप्नोति : कॢप्यमानम् पश्य इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {32।37} अथ असत्याम् अपि सवर्णसञ्ज्ञायाम् इह कस्मात् न भवति : प्रकॢप्यमानम् पश्य इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {33।37} चुटुतुलशर्व्यवाये न इति वक्ष्यामि .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {34।37} अपरः आह : त्रिभिः च मध्यमैः वर्गैः लशसैः च व्यवाये न इति वक्ष्यामि इति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {35।37} वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऌकारे लकारः तदाश्रयः प्रतिषेधः भविष्यति .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {36।37} यदि एवम् न अर्थः रषाभ्याम् णत्वे ऋकारग्रहणेन .
(प्_1,1.9.4) क_इ,62.27-63.23 रो_इ,203-207 {37।37} वर्णैकदेशाः च वर्णग्रहणेन गृह्यन्ते इति यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {1।80} अज्झलोः प्रतिषेधे शकारप्रतिषेधः अज्झल्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {2।80} अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {3।80} किम् कारणम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {4।80} अज्झल्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {5।80} अच् च एव हि शकारः हल् च .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {6।80} कथम् तावत् अच्त्वम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {7।80} इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {8।80} हल्षु उपदेशात् हल्त्वम् .

(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {9।80} तत्र कः दोषः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {10।80} तत्र सवर्णलोपे दोषः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {11।80} तत्र सवर्णलोपे दोषः भवति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {12।80} परश्शतानि कार्याणि .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {13।80} झरः झरि सवर्णे इति लोपः न प्राप्नोति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {14।80} सिद्धम् अनच्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {15।80} सिद्धम् एतत् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {16।80} कथम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {17।80} अनच्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {18।80} कथम् अनच्त्वम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {19।80} स्पृष्टम् स्पर्शानाम् करणम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {20।80} ईषत्स्पृष्टम् अन्तःस्थानाम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {21।80} विवृतम् ऊष्मणाम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {22।80} ईषत् इति अनुवर्तते .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {23।80} स्वराणाम् विवृतम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {24।80} ईषत् इति निवृत्तम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {25।80} वाक्यापरिसमाप्तेः वा .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {26।80} वाक्यापरिसमाप्तेः वा सिद्धम् एतत् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {27।80} किम् इदम् वाक्यापरिसमाप्तेः इति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {28।80} वर्णानाम् उपदेशः तावत् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {29।80} उपदेशोत्तरकाला इत्सञ्ज्ञा .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {30।80} इत्सञ्ज्ञोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {31।80} प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {32।80} सवर्णसञ्ज्ञोत्तरकालम् अण् उदित् सवर्णस्य च अप्रत्ययः इति सवर्णग्रहणम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {33।80} एतेन सर्वेण समुदितेन वाक्येन अन्यत्र सवर्णानाम् ग्रहणम् भवति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {34।80} च च अत्र इकारः शकारम् गृह्णाति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {35।80} यथा एव तर्हि इकारः शकारम् न गृह्णाति एवम् ईकारम् अपि न गृह्णीयात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {36।80} तत्र कः दोषः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {37।80} कुमारी , ईहते कुमारीहते .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {38।80} अकः सवर्णदीर्घत्वम् न प्राप्नोति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {39।80} न एषः दोषः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {40।80} यत् एतत् अकः सवर्णे दीर्घः इति प्रत्याहारग्रहणम् तत इकारः ईकारम् गृह्णाति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {41।80} शकारम् न गृह्णाति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {42।80} अपरः आह : अज्झलोः प्रतिषेधे शकारप्रतिषेधः अझल्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {43।80} अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {44।80} किम् कारणम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {45।80} अज्झल्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {46।80} अच् च एव शकारः हल् च .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {47।80} कथम् तावत् अच्त्वम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {48।80} इकारः सवर्णग्रहणेन शकारम् अपि गृह्णाति इति अच्त्वम् .

(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {49।80} हल्षु उपदेशात् हल्त्वम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {50।80} तत्र कः दोषः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {51।80} तत्र सवर्णलोपे दोषः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {52।80} तत्र सवर्णलोपे दोषः भवति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {53।80} परश्शतानि कार्याणि .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {54।80} झरः झरि सवर्णे इति लोपः न प्राप्नोति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {55।80} सिद्धम् अनच्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {56।80} सिद्धम् एतत् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {57।80} कथम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {58।80} अनच्त्वात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {59।80} कथम् अनच्त्वम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {60।80} वाक्यापरिसमाप्तेः वा .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {61।80} उक्ता वाक्यापरिसमाप्तिः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {62।80} अस्मिन् पक्षे वा इति एतत् असमर्थितम् भवति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {63।80} एतत् च समर्थितम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {64।80} कथम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {65।80} अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {66।80} ननु च उक्तम् : परश्शतानि कार्याणि .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {67।80} झरः झरि सवर्णे इति लोपः न प्राप्नोति इति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {68।80} मा भूत् लोपः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {69।80} ननु च भेदः भवति .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {70।80} सति लोपे द्विशकारम् असति लोपे त्रिशकारम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {71।80} न अस्ति भेदः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {72।80} असति अपि लोपे द्विशकारम् एव .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {73।80} कथम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {74।80} विभाषा द्विर्वचनम् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {75।80} एवम् अपि भेदः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {76।80} असति लोपे कदा चित् द्विशकारम् कदा चित् त्रिशकारम् सति लोपे द्विशकारम् एव .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {77।80} सः एषः कथम् भेदः न स्यात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {78।80} यदि नित्यः लोपः स्यात् .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {79।80} विभाषा तु सः लोपः .
(प्_1,1.10) क_इ,63.25-65.6 रो_इ,207-211 {80।80} यथा अभेदः तथा अस्तु .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {1।57} किमर्थम् ईदादीनाम् तपराणाम् प्रगृह्यसञ्ज्ञा उच्यते .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {2।57} तपरः तत्कालस्य इति तत्कालानाम् सवर्णानाम् ग्रहणम् यथा स्यात् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {3।57} केषाम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {4।57} उदात्तानुदात्तस्वरितानाम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {5।57} अस्ति प्रयोजनम् एतत् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {6।57} किम् तर्हि इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {7।57} प्लुतानाम् तु प्रगृह्यसञ्ज्ञा न प्राप्नोति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {8।57} किम् कारणम् .

(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {9।57} अतत्कालत्वात् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {10।57} न हि प्लुताः तत्कालाः .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {11।57} असिद्धः प्लुतः .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {12।57} तस्यासिद्धत्वात् तत्कालाः एव भवन्ति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {13।57} सिद्धः प्लुतः स्वरसन्धिषु .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {14।57} कथम् ज्ञायते सिद्धः प्लुतः स्वरसन्धिषु इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {15।57} यत् अयम् प्लुतप्रगृह्याः अचि इति प्लुतस्य प्रकृतिभावम् शास्ति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {16।57} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {17।57} सतः हि कार्यिणः कार्येण भवितव्यम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {18।57} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {19।57} अप्लुतात् अप्लुते इति एतत् न वक्तव्यम् भवति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {20।57} किम् अतः यत् सिद्धः प्लुतः स्वरसन्धिषु .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {21।57} सञ्ज्ञाविधौ असिद्धः .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {22।57} तस्य असिद्धत्वात् तत्कालाः एव भवन्ति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {23।57} सञ्ज्ञाविधौ च सिद्धः .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {24।57} कथम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {25।57} कार्यकालम् सञ्ज्ञापरिभाषम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {26।57} यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {27।57} प्रगृह्यः प्रकृत्या इति उपस्थितम् इदम् भवति ईदूदेत् द्विवचनम् प्रगृह्यम् इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {28।57} किम् पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {29।57} प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {30।57} मा भूत् एवम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {31।57} प्लुतः प्रकृत्या इति एवम् भविष्यति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {32।57} न एवम् शक्यम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {33।57} उपस्थिते हि दोषः स्यात् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {34।57} अप्लुतवत् उपस्थिथे इति अत्र पठिष्यति हि आचार्यः : वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् , प्लुतप्रतिषेधे हि प्रगृह्य्प्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {35।57} तस्मात् प्लुतस्य प्रगृह्यसञ्ज्ञा एषितव्या प्रगृह्याश्रयः प्रकृतिभावः यथा स्यात् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {36।57} यदि पुनः दीर्घाणाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {37।57} एवम् अपि एकारः एव एकः सवर्णान् गृह्णीयात् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {38।57} ईकारोकारौ न गृह्णीयाताम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {39।57} किम् कारणम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {40।57} अनण्त्वात् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {41।57} यदि पुनः ह्रस्वानाम् अतपराणाम् प्रगृह्यसञ्ज्ञा उच्येत .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {42।57} न एवम् शक्यम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {43।57} इह अपि प्रसज्येत : अकुर्वहि , अत्र अकुर्वहि अत्र इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {44।57} तस्मात् दीर्घाणाम् एव तपराणाम् प्रगृह्यसञ्ज्ञा वक्तव्या .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {45।57} दीर्घाणाम् च उच्यमाना प्लुतानाम् न प्राप्नोति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {46।57} एवम् तर्हि किम् नः एतेन यत्नेन यत् सिद्धः प्लुतः स्वरसन्धिषु इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {47।57} असिद्धः प्लुतः .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {48।57} तस्य असिद्धत्वात् तत्कालाः एव भवन्ति इति .

(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {49।57} कथम् यत् तत् ज्ञापकम् उक्तम् प्लुतप्रगृह्याः अचि इति. प्लुतभावी प्रकृत्या इति एवम् एतत् विज्ञायते .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {50।57} कथम् यत् तत् प्रयोजनम् उक्तम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {51।57} क्रियते तत् न्यासे एव अप्लुतात् अप्लुते इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {52।57} एवम् अपि यत् सिद्धे प्रगृह्यकार्यम् तत् प्लुतस्य न प्राप्नोति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {53।57} अणः अप्रगृह्यस्य अनुनासिकः इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {54।57} एवम् तर्हि किम् नः एतेन कार्यकालम् सञ्ज्ञापरिभाषम् इति .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {55।57} यथोद्देशम् एव सञ्ज्ञापरिभाषम् .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {56।57} तत्र च असौ असिद्धः .
(प्_1,1.11.1) क_इ,66.2-67.2 रो_इ,213-217 {57।57} तस्यासिद्धत्वात् तत्कालाः एव भवन्ति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {1।47} कथम् पुनः इदम् विज्ञायते : ईदादयः यत् द्विवचनम् इति आहोस्वित् ईदाद्यन्तम् यत् द्विवचनम् इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {2।47} कः च अत्र विशेषः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {3।47} ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य विधिः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {4।47} ईदादयः द्विवचनम् प्रगृह्याः इति चेत् अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {5।47} पचेते* इति , पचेथे* इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {6।47} वचनात् भविष्यति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {7।47} अस्ति वचने प्रयोजनम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {8।47} किम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {9।47} खट्वे* इति , माले* इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {10।47} अस्तु तर्हि ईदाद्यन्तम् यत् द्विवचनम् इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {11।47} ईदाद्यन्तम् इति चेत् एकस्य विधिः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {12।47} ईदाद्यन्तम् इति चेत् एकस्य प्रगृह्यसञ्ज्ञा विधेया .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {13।47} खट्वे* इति , माले* इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {14।47} न वा आद्यन्तत्वात् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {15।47} न वा एषः दोषः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {16।47} किम् कारणम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {17।47} आद्यन्तत्वात् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {18।47} आद्यन्तवत् एकस्मिन् इति एकस्य अपि भविष्यति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {19।47} अथ वा एवम् वक्ष्यामि : ईदाद्यन्तम् यत् द्विवचनान्तम् इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {20।47} ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {21।47} ईदाद्यन्तम् द्विवचनान्तम् इति चेत् लुकि प्रतिषेधः वक्तव्यः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {22।47} कुमार्योः अगारम् , कुमार्यगारम् वध्वोः अगारम् , वध्वगारम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {23।47} एतत् हि ईदाद्यन्तम् च श्रूयते द्विवचनान्तम् च भवति प्रत्ययलक्षणेन .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {24।47} सप्तम्याम् अर्थग्रहणम् ज्ञापकम् प्रत्ययलक्षणप्रतिषेधस्य .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {25।47} यत् अयम् ईदूतौ च सप्तम्यर्थे इति अर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {26।47} तत् तर्हि ज्ञाप्कार्थम् अर्थग्रहणम् कर्तव्यम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {27।47} न कर्तव्यम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {28।47} ईदादिभिः द्विवचनम् विशेषयिष्यामः ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिः भविष्यति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {29।47} ईदाद्यन्तम् यत् द्विवचनम् तदन्तम् ईदाद्यन्तम् इति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {30।47} एवम् अपि अशुक्ले वस्त्रे शुक्ले सम्पद्येताम् , शुक्ली आस्ताम् वस्त्रे* इति अत्र प्राप्नोति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {31।47} अत्र हि ईदादि द्विवचनम् तदन्तम् च भवति प्रत्ययलक्षणेन .

(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {32।47} अत्र अपि अकृते शीभावे लुक् भविष्यति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {33।47} इदम् इह सम्प्रधार्यम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {34।47} लुक् क्रियताम् शीभावः इति किम् अत्र कर्तव्यम् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {35।47} परत्वात् शीभावः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {36।47} नित्यः लुक् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {37।47} कृते अपि शीभावे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {38।47} अनित्यः लुक् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {39।47} अन्यस्य कृते शीभावे प्राप्नोति अन्यस्य अकृते .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {40।47} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति .शीभावः अपि अनित्यः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {41।47} न हि कृते लुकि प्राप्नोति .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {42।47} उभयोः अनित्ययोः परत्वात् शीभावः शीभावे कृते लुक् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {43।47} अथ अपि कथम् चित् नित्यः लुक् स्यात् एवम् अपि दोषः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {44।47} वक्ष्यति एतत् .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {45।47} पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् इति. इदम् च अपि प्रत्ययग्रहणम् अयम् च अपि सञ्ज्ञाविधिः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {46।47} अवश्यम् खलु एतस्मिन् अपि पक्षे आद्यन्तवद्भावः एषितव्यः .
(प्_1,1.11.2) क_इ,67.3-68.7 रो_इ,217-220 {47।47} तस्मात् अस्तु सः एव मध्यमः पक्षः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {1।89} मात् प्रगृह्यसञ्ज्ञायाम् तस्य असिद्धत्वात् अयावेकादेशप्रतिषेधः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {2।89} मात् प्रगृह्यसञ्ज्ञायाम् तस्य ईत्त्वस्य ऊत्त्वस्य च असिद्धत्वात् अयावेकादेशाः प्राप्नुवन्ति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {3।89} तेषाम् प्रतिषेधः वक्तव्यः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {4।89} अमी* अत्र , अमी* आसते , अमू* अत्र , अमू* आसाते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {5।89} ननु च प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः न भविष्यन्ति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {6।89} वचनार्थः हि सिद्धे .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {7।89} न इदम् वचनात् लभ्यम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {8।89} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {9।89} किम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {10।89} यत् सिद्धे प्रगृह्यसञ्ज्ञाकार्यम् तदर्थम् एतत् स्यात् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {11।89} अणः अप्रगृह्यस्य अनुनासिकः इति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {12।89} न एकम् प्रयोजनम् योगारम्भम् प्रयोजयति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {13।89} यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अणः अप्रगृह्यस्य अनुनासिकः अदसः न इति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {14।89} विप्रतिषेधात् वा .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {15।89} अथ वा प्रगृह्यसञ्ज्ञा क्रियताम् अयादयः वा .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {16।89} प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेन .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {17।89} न एषः युक्तः विप्रतिषेधः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {18।89} विप्रतिषेधे परम् इति उच्यते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {19।89} पूर्वा च प्रगृह्यसञ्ज्ञा परे अयादयः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {20।89} परा प्रगृह्यसञ्ज्ञा करिष्यते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {21।89} सूत्रविपर्यासः कृतः भवति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {22।89} एवम् तर्हि परा एव प्रगृह्यसञ्ज्ञा .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {23।89} कथम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {24।89} कार्यकालम् हि सञ्ज्ञापरिभाषम् .

(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {25।89} यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {26।89} प्रगृह्यः प्रकृत्या इति एतत् उपस्थितम् भवति अदसः मात् इति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {27।89} एवम् अपि अयुक्तः विप्रतिषेधः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {28।89} कथम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {29।89} द्विकार्ययोगः हि विप्रतिषेधः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {30।89} न च अत्र एकः द्विकार्ययुक्तः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {31।89} एचाम् अयादयः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {32।89} ईदूतोः प्रगृह्यस्ञ्ज्ञा .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {33।89} न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {34।89} किम् तर्हि .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {35।89} असम्भवः अपि .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {36।89} सः च अस्ति अत्र असम्भवः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {37।89} कः असौ असम्भवः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {38।89} प्रगृह्यसञ्ज्ञा अभिनिर्वर्तमाना अयादीन् बाधते , अयादयः अभिनिर्वर्तमनाः प्रगृह्यसञ्ज्ञानिमित्तम् विघ्नन्ति इति एषः असम्भवः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {39।89} सति असम्भवे युक्तः विप्रतिषेधः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {40।89} एवम् अपि अयुक्तः विप्रतिषेधः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {41।89} सतोः हि विप्रतिषेधः भवति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {42।89} न च अत्र ईत्त्वोत्त्वे स्तः न अपि मकारः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {43।89} उभयम् असिद्धम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {44।89} आश्रयात् सिद्धत्वम् च यथा रोः उत्त्वे . आश्रयात् सिद्धत्वम् भविष्यति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {45।89} तत् यथा रुः उत्त्वे आश्रयात् सिद्धः भवति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {46।89} किम् पुनः कारणम् रुः उत्त्वे आश्रयात् सिद्धः भवति न पुनः यत्र एव रुः सिद्धः तत्र एव उत्त्वम् अपि उच्यते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {47।89} न एवम् शक्यम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {48।89} असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {49।89} असिद्धे हि उत्त्वे आद्गुणाप्रसिद्धिः स्यात् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {50।89} वृक्षः अत्र , प्लक्षः अत्र .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {51।89} तस्मात् तत्र आश्रयात् सिद्धत्वम् एषितव्यम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {52।89} तत्र यथा आश्रयात् सिद्धम् भवति एवम् इह अपि भविष्यति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {53।89} अथ वा प्रगृह्यसञ्ज्ञावचनसामर्थ्यात् अयादयः आदेशाः न भविष्यन्ति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {54।89} अथ वा योगविभागः करिष्यते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {55।89} अदसः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {56।89} अदसः ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {57।89} ततः मात् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {58।89} मात् च परे ईदादयः प्रगृह्यसञ्ज्ञाः भवन्ति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {59।89} अदसः इति एव .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {60।89} किमर्थः योगविभागः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {61।89} एकः यत् तत् सिद्धे प्रगृह्यकार्यम् तदर्थः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {62।89} अपरः यत् असिद्धे .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {63।89} इह अपि तर्हि प्राप्नोति : अमुया , अमुयोः इति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {64।89} किम् च स्यात् यदि प्रगृह्यसञ्ज्ञा स्यात् .

(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {65।89} प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {66।89} न एषः दोषः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {67।89} पदान्तप्रकरणे प्रकृतिभावः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {68।89} न च एषः पदान्तः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {69।89} एवम् अपि अमुके अत्र अत्र अपि प्राप्नोति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {70।89} द्विवचनम् इति वर्तते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {71।89} यदि द्विवचनम् इति वर्तते अमी* अत्र इति न प्राप्नोति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {72।89} एवम् तर्हि एदन्तम् इति निवृत्तम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {73।89} अथ वा आह अयम् अदसः मात् इति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {74।89} न च ईत्त्वोत्त्वे स्तः न अपि मकारः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {75।89} ते एवम् विज्ञास्यामः मार्थात् ईदाद्यर्थानाम् इति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {76।89} उक्तम् वा .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {77।89} किम् उक्तम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {78।89} अदसः ईत्त्वोत्त्वे स्वरे बहिष्पदलक्षणे प्रगृह्यसञ्जायाम् च सिद्धे वक्तव्ये इति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {79।89} तत्र सकि दोषः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {80।89} तत्र सककारे दोषः भवति .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {81।89} अमुके अत्र .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {82।89} न वा ग्रहणविशेषणत्वात् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {83।89} न वा एषः दोषः .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {84।89} किम् कारणम् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {85।89} ग्रहणविशेषणत्वात् .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {86।89} न माद्ग्रहणेन ईदाद्यन्तम् विशेष्यते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {87।89} किम् तर्हि .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {88।89} ईदादयः विशेष्यन्ते .
(प्_1,1.12) क_इ,68. 9-70.3 रो_इ,220-226 {89।89} मात् परे ये ईदादयः इति .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {1।10} इह कस्मात् न भवति : काशे कुशे वंशे इति .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {2।10} शे अर्थवद्ग्रहणात् .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {3।10} अर्थवतः शेशब्दस्य ग्रहणम् .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {4।10} न च अयम् अर्थवान् .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {5।10} एवम् अपि हरिशे बभ्रुशे इति अत्र प्राप्नोति .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {6।10} एवम् तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {7।10} अथ वा पुनः अस्तु अर्थवद्ग्रहणे न अनर्थकस्य इति .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {8।10} कथम् हरिशे बभ्रुशे इति .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {9।10} एकः अत्र विभक्त्यर्थेन अर्थवान् अपरः तद्धितार्थेन .
(प्_1,1.13) क_इ,70.5-10 रो_इ,226-227 {10।10} समुदायः अनर्थकः .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {1।32} निपातः इति किमर्थम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {2।32} चकार अत्र , जहार अत्र .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {3।32} एकाच् इति किमर्थम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {4।32} प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {5।32} एकाच् इति अपि उच्यमाने अत्र अपि प्राप्नोति .

(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {6।32} एषः अपि हि एकाच् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {7।32} एकाच् इति न अयम् बहुव्रीहिः : एकः अच् अस्मिन् सः अयम् एकाच् इति .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {8।32} किम् तर्हि .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {9।32} तत्पुरुषः अयम् समानाधिकरणः : एकः अच् एकाच् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {10।32} यदि तत्पुरुषः समानाधिकरणः न अर्थः एकग्रहणेन .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {11।32} इह कस्मात् न भवति : प्र इदम् ब्रह्म , प्र इदम् क्षत्रम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {12।32} अच् एव यः निपातः इति एवम् विज्ञास्यते .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {13।32} किम् वक्तव्यम् एतत् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {14।32} न हि .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {15।32} कथम् अनुच्यमानम् गंस्यते .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {16।32} अज्ग्रहणसामर्थ्यात् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {17।32} यदि हि यत् च अच् च अन्यत् च तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {18।32} अस्ति अन्यत् अज्ग्रहणस्य प्रयोजनम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {19।32} किम्. अजन्तस्य यथा स्यात् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {20।32} हलन्तस्य मा भूत् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {21।32} न एव दोषः न प्रयोजनम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {22।32} एवम् अपि कुतः एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः आद्यन्तवत् एकस्मिन् इति च येन विधिः तदन्तस्य इति च इयम् इह परिभाषा भविष्यति आद्यन्तवत् एकस्मिन् इति इयम् न भविष्यति येन विधिः तदन्तस्य इति .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {23।32} आचार्यप्रवृत्तिः ज्ञापयति इयम् इह परिभाषा भवति आद्यन्तवत् एकस्मिन् इति इयम् न भवति येन विधिः तदन्तस्य इति यत् अयम् अनाङ् इति प्रतिषेधम् शास्ति .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {24।32} एवम् तर्हि सिद्धे सति यत् अज्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {25।32} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {26।32} दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति यत् उक्तम् तत् उपपन्नम् भवति .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {27।32} अनाङ् इति किमर्थम् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {28।32} आ , उदकान्तात् ओदकान्तात् .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {29।32} इह कस्मात् न भवति: आ* एवम् नु मन्यसे , आ* एवम् किल तत् इति .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {30।32} सानुबन्धकस्य ग्रहणम् अननुबन्धकः च अत्र आकारः .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {31।32} क्व पुनः अयम् सानुबन्धकः क्व निरनुबन्धकः .
(प्_1,1.14) क_इ,70.12-71.7 रो_इ,227-230 {32।32} ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतम् आतम् ङितम् विद्यात् वाक्यस्मरणयोः अङित्
(प्_1,1.15.1) क_इ,71.9-13 रो_इ,230-231 {1।7} किम् उदाहरणम् .
(प्_1,1.15.1) क_इ,71.9-13 रो_इ,230-231 {2।7} आहो* इति , उताहो* इति .
(प्_1,1.15.1) क_इ,71.9-13 रो_इ,230-231 {3।7} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.15.1) क_इ,71.9-13 रो_इ,230-231 {4।7} निपातसमाहारः अयम् : आह , उ : आहो* इति, उत , आह , उ : उताहो* इति .
(प्_1,1.15.1) क_इ,71.9-13 रो_इ,230-231 {5।7} तत्र निपातः एकाच् अनाङ् इति एव सिद्धम् .
(प्_1,1.15.1) क_इ,71.9-13 रो_इ,230-231 {6।7} एवम् तर्हि एकनिपाताः इमे .
(प्_1,1.15.1) क_इ,71.9-13 रो_इ,230-231 {7।7} अथ वा प्रतिषिद्धार्थः अयम् आरम्भः : ओ षु यातम् मरुतः , ओषु यातम् बृहती शक्वरी च , ओ चित् सखायम् सख्य ववृत्याम् .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {1।13} ओतः च्विप्रतिषेधः .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {2।13} ओदन्तः निपातः इति अत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {3।13} अनदः , अदः , अभवत् : अदोभवत् , तिरोभवत् .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {4।13} न वक्तव्यम् .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {5।13} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {6।13} एवम् अपि अगौः गौः सम्पद्यते गोभवत् : अत्र प्राप्नोति .

(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {7।13} एवम् तर्हि गौणमुख्ययोः मुख्ये कार्यसम्प्रययः इति .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {8।13} तत् यथा : गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {9।13} कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः : गौः तिष्थति .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {10।13} गाम् आनय इति .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {11।13} अर्थाश्रये एतत् एवम् भवति .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {12।13} यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति .
(प्_1,1.15.2) क_इ,71.14-21 रो_इ,231-233 {13।13} शब्दाश्रये च वृद्ध्यात्त्वे .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {1।13} इह कस्मात् न भवति : आहो* इति , उताहो* इति .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {2।13} उञः इति उच्यते .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {3।13} न च अत्र उञम् पश्यामः .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {4।13} उञः अयम् अन्येन सह एकादेशः उञ्ग्रहणेन गृह्यते .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {5।13} आचार्यप्रवृत्तिः ज्ञापयति न उञेकादेशः उञ्ग्रहणेन गृह्यते इति यत् अयम् ओत् इति ओदन्तस्य निपातस्य प्रगृह्यसञ्ज्ञाम् शास्ति .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {6।13} न एतत् अस्ति ज्ञापकम् .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {7।13} उक्तम् एतत् प्रतिषिद्धार्थः अयम् आरम्भः .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {8।13} दोषः खलु अपि स्यात् यदि उञेकादेशः उञ्ग्रहणेन न गृह्येत : जानु , उ .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {9।13} अस्य रुजति जानू* अस्य रुजति जान्वस्य रुजति .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {10।13} मयः उञः वः वा इति वत्वम् न स्यात् .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {11।13} एवम् तर्हि एकनिपाताः इमे .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {12।13} अथ वा द्वौ उकारौ इमौ एकः अननुबन्धकः अपरः सानुबन्धकः .
(प्_1,1.17-18.1) क_इ,71.23-72.6 रो_इ,233-234 {13।13} तत् यः अननुबन्धकः तस्य एषः एकादेशः .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {1।10} उञः इति योगविभागः .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {2।10} उञः इति योगविभागः कर्तव्यः .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {3।10} उञः शाकल्यस्य आचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {4।10} उ* इति व् इति .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {5।10} ततः उश् .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {6।10} उञः ऊश् इति अयम् आदेशः भवति शाकल्यस्य आचार्यस्य मतेन दीर्घः अनुनासिकः प्रगृह्यसञ्ज्ञकः च उश् इति .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {7।10} किमर्थः योगविभागः .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {8।10} उश् वा शाकल्यस्य .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {9।10} शाकल्यस्य आचार्यस्य मतेन उश् विभाषा यथा स्यात् : ऊश् इति , उ* इति .
(प्_1,1.17-18.2) क_इ,72.7-13 रो_इ,234-235 {10।10} अन्येषाम् आचार्याणाम् मतेन व् इति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {1।38} ईदूतौ सप्तमी इति एव . ईदूतौ सप्तमी इति एव सिद्धम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {2।38} न अर्थः अर्थग्रहणेन .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {3।38} लुप्ते अर्थग्रहणात् भवेत् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {4।38} लुप्तायम् सप्तम्याम् प्रगृह्यसञ्ज्ञा न प्राप्नोति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {5।38} क्व .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {6।38} सोमो गौरी अधि श्रितः .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {7।38} इष्यते च अत्र अपि स्यात् इति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {8।38} तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् अर्थग्रहणम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {9।38} न अत्र सप्तमी लुप्यते .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {10।38} किम् तर्हि .

(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {11।38} पूर्वसवर्णः अत्र भवति . पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {12।38} यदि पूर्वसवर्णः आट् आम्भावः च प्राप्नोति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {13।38} एवम् तर्हि आह अयम् ईदूतौ सप्तमी इति न स अस्ति सप्तमी ईदूतौ .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {14।38} तत्र वचनात् भविष्यति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {15।38} वचनात् यत्र दीर्घत्वम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {16।38} न इदम् वचनात् लभ्यम्. अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {17।38} किम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {18।38} यत्र सप्तम्याः दीर्घत्वम् उच्यते : दृतिम् न शुष्कम् सरसी शयानम् इति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {19।38} सति प्रयोजने इह न प्राप्नोति सोमो गौरी अधि श्रितः इति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {20।38} तत्र अपि सरसी यदि .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {21।38} तत्र अपि सिद्धम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {22।38} कथम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {23।38} यदि सरसीशब्दस्य प्रवृत्तिः अस्ति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {24।38} अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {25।38} कथम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {26।38} दक्षिणापथे हि महान्ति सरांसि सरस्यः इति उच्यन्ते .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {27।38} ज्ञापकम् स्यात् तदन्तत्वे .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {28।38} एवम् तर्हि ज्ञापयति आचार्यः न प्रगृह्यसञ्ज्ञायाम् प्रत्ययलक्षणम् भवति इति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {29।38} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {30।38} कुमार्योः अगारम् कुमार्यगारम् , वध्वोः अगारम् वध्वगारम् .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {31।38} प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {32।38} मा वा पूर्वपदस्य भूत् . अथ वा पूर्वपदस्य मा भूत् इति एवमर्थम् अर्थग्रहणम् : वाप्याम् अश्वः वाप्यश्वः , नद्याम् आतिः नद्यातिः .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {33।38} अथ क्रियमाणे अपि अर्थग्रहणे कस्मात् एव अत्र न भवति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {34।38} जहत्स्वार्था वृत्तिः इति .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {35।38} अथ अजहत्स्वार्थायाम् वृत्तौ दोषः एव .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {36।38} अजहत्स्वार्थायाम् च न दोषः .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {37।38} समुदायार्थः अभिधीयते .
(प्_1,1.19) क_इ,72.15-73.18 रो_इ,235-238 {38।38} ईदुतौ सप्तमी इति एव लुप्ते अर्थग्रहणात् भवेत् पूर्वस्य चेत् सवर्णः असौ आडाम्भावः प्रसज्यते वचनात् यत्र दीर्घत्वम् तत्र अपि सरसी यदि ज्ञापकम् स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {1।48} घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिदर्थम् . घुसञ्ज्ञायाम् प्रकृतिग्रहणम् कर्तव्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {2।48} दाधाप्रकृतयः घुसञ्ज्ञा भवन्ति इति वक्तव्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {3।48} किम् प्रयोजनम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {4।48} आत्त्वभूतानाम् इयम् सञ्ज्ञा क्रियते .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {5।48} सा आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {6।48} ननु च भूयिष्थानि घुसञ्ज्ञाकार्याणि आर्धधातुके तत्र च एते आत्त्वभूताः दृश्यन्ते .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {7।48} शिदर्थम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {8।48} शिदर्थम् प्रकृतिग्रहणम् कर्तव्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {9।48} शिति आत्त्वम् प्रतिषिध्यते तदर्थम् : प्रणिदयते प्रणिधयति इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {10।48} भारद्वाजीयाः पठन्ति घुसञ्ज्ञायाम् प्रकृतिग्रहणम् शिद्विकृतार्थम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {11।48} घुसञ्ज्ञायाम् प्रकृतिग्रहणम् क्रियते .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {12।48} किम् प्रयोजनम् .

(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {13।48} शिदर्थम् विकृतार्थम् च .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {14।48} शिति उदाहृतम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {15।48} विकृतार्थम् खलु अपि : प्रणिदाता प्रणिधाता .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {16।48} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {17।48} लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति प्रतिपदम् ये आत्त्वभूताः तेषाम् एव स्यात् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {18।48} लक्षणेन ये आत्त्वभूताः तेषाम् न स्यात् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {19।48} अथ क्रियमाणे अपि प्रकृतिग्रहणे कथम् इदम् विज्ञायते .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {20।48} दाधाः प्रकृतयः आहोस्वित् दाधाम् प्रकृतयः इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {21।48} किम् च अतः .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {22।48} यदि विज्ञायते दाधाः प्रकृतयः इति सः एव दोषः .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {23।48} आत्त्वभूतानाम् एव स्यात् अनात्त्वभूतानाम् न स्यात् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {24।48} अथ विज्ञायते दाधाम् प्रकृतयः इति अनात्त्वभूतानाम् एव स्यात् आत्त्वभूतानाम् न स्यात् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {25।48} एवम् तर्हि न एवम् विज्ञायते दाधाः प्रकृतयः इति न अपि दाधाम् प्रकृतयः इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {26।48} कथम् तर्हि .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {27।48} दाधाः घुसञ्ज्ञाः भवन्ति प्रकृतयः च एषाम् इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {28।48} तत् तर्हि प्रकृतिग्रहणम् कर्तव्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {29।48} न कर्तव्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {30।48} इदम् प्रकृतम् अर्थग्रहणम् अनुवर्तते .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {31।48} क्व प्रकृतम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {32।48} ईदूतौ च सप्तम्यर्थे इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {33।48} ततः वक्ष्यामि दाधाः घु अदाप् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {34।48} अर्थे इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {35।48} न एवम् शक्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {36।48} ददातिना समानार्थान् रातिरासतिदाशतिमंहतिप्रीणातिप्रभृतीन् आहुः .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {37।48} एतेषाम् अपि घुसञ्ज्ञा प्राप्नोति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {38।48} तस्मात् न एवम् शक्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {39।48} न चेत् एवम् प्रकृतिग्रहणम् कर्तव्यम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {40।48} शिदर्थेन तावत् न अर्थः प्रकृतिग्रहणेन .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {41।48} अवश्यम् तत्र मार्थम् प्रकृतिग्रहणम् कर्तव्यम् प्रणिमयते प्रण्यमयत इति एवमर्थम् .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {42।48} तत् पुरस्तात् अपक्रक्ष्यते : घुप्रकृतौ माप्रकृतौ च इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {43।48} यदि प्रकृतिग्रहणम् क्रियते प्रनिमिनोति प्रनिमीनाति अत्र अपि प्राप्नोति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {44।48} अथ अक्रियमाणे अपि प्रकृतिग्रहणे इह कस्मात् न भवति : प्रनिमाता प्रनिमातुम् इति .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {45।48} आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {46।48} यथा एव तर्हि अक्रियमाणे प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञायते एवम् क्रियमाणे अपि प्रकृतिग्रहणे आकारान्तस्य ङितः ग्रहणम् विज्ञास्यते .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {47।48} विकृतार्थेन च अपि न अर्थः .
(प्_1,1.20.1) प्. इ.73.20-74.22 रो_इ,239-241 {48।48} दोषः एव एतस्याः परिभाषायाः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति गामादाग्रहणेषु अविशेषः इति .
(प्_1,1.20.2) क_इ,74.23-75.14 रो_इ,242-244 {1।32} समानशब्दप्रतिषेधः .
(प्_1,1.20.2) क_इ,74.23-75.14 रो_इ,242-244 {2।32} समानशब्दानाम् प्रतिषेधः वक्तव्यः : प्रनिदारयति प्रनिधारयति .
(प्_1,1.20.2) क_इ,74.23-75.14 रो_इ,242-244 {3।32} दाधाः घुसञ्ज्ञाः भवन्ति इति घुसञ्ज्ञा प्राप्नोति .
(प्_1,1.20.2) क_इ,74.23-75.14 रो_इ,242-244 {4।32} समानशब्दाप्रतिषेधः अर्थवद्ग्रहणात् .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc