भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 4160

(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {19।139} कुतः हि एतत् वृद्धिशब्दः सञ्ज्ञा आदैचः सञ्ज्ञिनः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {20।139} न पुनः आदैचः सञ्ज्ञा वृद्धिशब्दः सञ्ज्ञी इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {21।139} यत् तावत् उच्यते सञ्ज्ञाधिकारः कर्तव्यः सञ्ज्ञासम्प्रत्ययार्थः इति न कर्तव्यः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {22।139} आचार्याचारात् सञ्ज्ञासिद्धिः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {23।139} आचार्याचारात् सञ्ज्ञासिद्धिः भविष्यति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {24।139} किम् इदम् आचार्याचारात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {25।139} आचार्याणाम् उपचारात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {26।139} यथा लौकिकवैदिकेषु .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {27।139} तत् यथा लौकिकेषु वैदिकेषु च कृतान्तेषु .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {28।139} लोके तावत् : मातापितरौ पुत्रस्य जातस्य संवृते अवकाशे नाम कुर्वाते देवदत्तः यज्ञदत्तः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {29।139} तयोः उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {30।139} वेदे : याज्ञिकाः सञ्ज्ञाम् कुर्वन्ति स्फ्यः यूपः चषालः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {31।139} तत्रभवताम् उपचारात् अन्ये अपि जानन्ति इयम् अस्य सञ्ज्ञा इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {32।139} अपरे पुनः सिचि वृद्धिः इति उक्त्वा आकारैकारौकारान् उदाहरन्ति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {33।139} ते मन्यामहे : यया प्रत्याय्यन्ते सा सञ्ज्ञा ये प्रतीयन्ते ते सञ्ज्ञिनः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {34।139} यत् अपि उच्यते क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {35।139} सञ्ज्ञासञ्ज्ञ्यसन्देहः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {36।139} सञ्ज्ञासञ्ज्ञिनोः असन्देहः सिद्धः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {37।139} कुतः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {38।139} आचार्याचारात् एव .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {39।139} उक्तः आचार्याचारः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {40।139} अनाकृतिः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {41।139} अथ वा अनाकृतिः सञ्ज्ञा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {42।139} आकृतिमन्तः सञ्ज्ञिनः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {43।139} लोके अपि हि आक्र्तिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {44।139} लिङ्गेन वा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {45।139} अथ वा किम् चित् लिङ्गम् आसज्य वक्ष्यामि इत्थंलिङ्गा सञ्ज्ञा इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {46।139} वृद्धिशब्दे च तत् लिङ्गम् करिष्यते न आदैच्छब्दे .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {47।139} इदम् तावत् अयुक्तम् यत् उच्यते आचार्याचारात् इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {48।139} किम् अत्र अयुक्तम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {49।139} तम् एव उपालभ्य अगमकम् ते सूत्रम् इति तस्य एव पुनः प्रमाणीकरणम् इति एतत् अयुक्तम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {50।139} अपरितुष्यन् खलु अपि भवान् अनेन परिहारेण आकृतिः लिङ्गेन वा इति आह .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {51।139} तत् च अपि वक्तव्यम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {52।139} यदि अपि एतत् उच्यते अथ वा एतर्हि इत्सञ्ज्ञा न वक्तव्या लोपः च न वक्तव्यः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {53।139} सञ्ज्ञालिङ्गम् अनुबन्धेषु करिष्यते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {54।139} न च सञ्ज्ञायाः निवृत्तिः उच्यते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {55।139} स्वभावतः सञ्ज्ञाः सञ्ज्ञिनः प्रत्याय्य निवर्तन्ते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {56।139} तेन अनुबन्धानाम् अपि निवृत्तिः भविष्यति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {57।139} सिध्यति एवम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {58।139} अपाणिनीयम् तु भवति .

(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {59।139} यथान्यासम् एव अस्तु .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {60।139} ननु च उक्तम् सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः इतरथा हि असम्प्रत्ययः यथा लोके इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {61।139} न यथा लोके तथा व्याकरणे .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {62।139} प्रमाणभूतः आचार्यः दर्भपवित्रपाणिः शुचौ अवकाशे प्राङ्मुखः उपविश्य महता यत्नेन सूत्रम् प्रणयति स्म .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {63।139} तत्र अशक्यम् वर्णेन अपि अनर्थकेन भवितुम् किम् पुनः इयता सूत्रेण .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {64।139} किम् अतः यत् अशक्यम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {65।139} अतः सञ्ज्ञासञ्ज्ञिनौ एव .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {66।139} कुतः नु खलु एतत् सञ्ज्ञासञ्ज्ञिनौ एव इति न पुनः साध्वनुशासने अस्मिन् शास्त्रे साधुत्वम् अनेन किर्यते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {67।139} कृतम् अनयोः साधुत्वम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {68।139} कथम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {69।139} वृधिः अस्मै अविशेषेण उपदिष्टः प्रकृतिपाठे .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {70।139} तस्मात् क्तिन्प्रत्ययः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {71।139} आदैचः अपि अक्षरसमाम्नाये उपदिष्टाः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {72।139} प्रयोगनियमार्थम् तर्हि इदम् स्यात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {73।139} वृद्धिशब्दात् परः आदैचः प्रयोक्तव्याः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {74।139} न इह प्रयोगनियमः आरभ्यते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {75।139} किम् तर्हि .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {76।139} संस्कृत्य संस्कृत्य पदानि उत्सृज्यन्ते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {77।139} तेषाम् यथेष्ठम् अभिसम्बन्धः भवति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {78।139} तत् यथा : आहर पात्रम् , पात्रम् आहर इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {79।139} आदेशाः तर्हि इमे स्युः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {80।139} वृद्धिशब्दस्य आदैचः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {81।139} षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {82।139} आगमाः तर्हि इमे स्युः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {83।139} वृद्धिशब्दस्य आदैचः आगमाः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {84।139} आगमाः अपि षष्ठीनिर्दिष्टस्य एव उच्यन्ते लिङ्गेन च .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {85।139} न च अत्र षष्ठीम् न खलु अपि आगमलिङ्गम् पश्यामः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {86।139} इदम् खलु अपि भूयः सामनाधिकरण्यम् एकविभक्तिकत्वम् च .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {87।139} द्वयोः च एतत् भवति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {88।139} कयोः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {89।139} विशेषणविशेष्ययोः वा सञ्ज्ञासञ्ज्ञिनोः वा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {90।139} तत्र एतत् स्यात् विशेषणविशेष्ये इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {91।139} तत् च न .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {92।139} द्वयोः हि प्रतीत्पदार्थकयोः लोके विशेषणविशेष्यभावः भवति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {93।139} न च आदैच्छब्दः प्रतीतपदार्थकः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {94।139} तस्मात् सञ्ज्ञासञ्ज्ञिनौ एव .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {95।139} तत्र तु एतावान् सन्देधः कः सञ्ज्ञी का सञ्ज्ञा इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {96।139} सः च अपि क्व सन्देहः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {97।139} यत्र उभे समानाक्षरे .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {98।139} यत्र तु अन्यतरत् लघु यत् लघु सा सञ्ज्ञा .

(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {99।139} कुतः एतत् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {100।139} लघ्वर्थम् हि सञ्ज्ञाकरणम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {101।139} तत्र अपि अयम् न अवश्यम् गुरुलघुताम् एव उपलक्षयितुम् अर्हति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {102।139} किम् तर्हि .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {103।139} अनाकृतिताम् अपि .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {104।139} अनाकृतिः सञ्ज्ञा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {105।139} आकृतिमन्तः सञ्ज्ञिनः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {106।139} लोके हि आकृतिमतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {107।139} अथ वा आवर्तिन्यः सञ्ज्ञाः भवन्ति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {108।139} वृद्धिशब्दः च आवर्तते न आदैच्छब्दः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {109।139} तत् यथा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {110।139} इतरत्र अपि देवदत्तशब्दः आवर्तते न मांसपिण्डः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {111।139} अथ वा पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {112।139} कुतः एतत् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {113।139} सतः हि कार्यिणः कार्येण भवितव्यम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {114।139} तत् यथा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {115।139} इतरत्र अपि सतः मांसपिण्डस्य देवदत्तः इति सञ्ज्ञा क्रियते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {116।139} कथम् वृद्धिः आत् ऐच् इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {117।139} एतत् एकम् आचार्यस्य मङ्गलार्थम् मृष्यताम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {118।139} माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वृद्धिशबम् आदितः प्रयुङ्क्ते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {119।139} मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {120।139} अध्येतारः च सिद्धार्थाः यथा स्युः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {121।139} सर्वत्र एव हि व्याकरणे पूर्वोच्चारितः सञ्ज्ञी परोच्चारिता सञ्ज्ञा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {122।139} अत् एङ् गुणः इति यथा .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {123।139} दोषवान् खलु अपि सञ्ज्ञाधिकारः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {124।139} अष्टमे अपि हि सञ्ज्ञा क्रियते तस्य परम् आम्रेडितम् इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {125।139} तत्र अपि इदम् अनुवर्त्यम् स्यात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {126।139} अथ वा अस्थाने अयम् यत्नः क्रियते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {127।139} न हि इदम् लोकात् भिद्यते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {128।139} यदि इदम् लोकात् भिद्येत ततः यत्नार्हम् स्यात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {129।139} तत् यथा अगोज्ञाय कः चित् गाम् सक्थनि कर्णे वा गृहीत्वा उपदिशति अयम् गौः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {130।139} न च अस्मै आचष्टे इयम् अस्य सञ्ज्ञा इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {131।139} भवति च अस्य सम्प्रत्ययः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {132।139} तत्र एतत् स्यात् कृतः पूर्वैः अभिसम्बन्धः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {133।139} इह अपि कृतः पूर्वैः अभिसम्बन्धः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {134।139} कैः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {135।139} आचार्यैः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {136।139} तत्र एतत् स्यात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {137।139} यस्मै सम्प्रति उपदिशति तस्य अकृतः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {138।139} लोके अपि यस्मै सम्प्रति उपदिशति तस्य अकृतः .

(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {139।139} अथ तत्र कृतः इह अपि कृतः द्रष्टव्यः .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {1।30} सतः वृद्ध्यादिषु सञ्ज्ञाभावात् तदाश्रये इतरेतराश्रयत्वात् असिद्धिः .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {2।30} सतः सञ्ज्ञिनः सञ्ज्ञाभावात् सञ्ज्ञाश्रये सञ्ज्ञिनि वृद्ध्यादिषु इतरेतराश्रयत्वात् अप्रसिद्धिः .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {3।30} का इतेरेतराश्रयता .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {4।30} सताम् आदैचाम् सञ्ज्ञया भवितव्यम् सञ्ज्ञया च आदैचः भाव्यन्ते .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {5।30} तत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {6।30} तत् यथा .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {7।30} नौः नावि बद्धा न इतरत्राणाय भवति. ननु च भोः इतरेतराश्रयाणि अपि कार्याणि दृश्यन्ते .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {8।30} तत् यथा .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {9।30} नौः शकटम् वहति शकटम् च नावम् वहति .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {10।30} अन्यत् अपि तत्र किम् चित् भवति जलम् स्थलम् वा .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {11।30} स्थले शकटम् नावम् वहति .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {12।30} जले नौः शकटम् वहति .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {13।30} यथा तरि त्रिविष्टब्धकम् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {14।30} तत्र अपि अन्ततः सूत्रकम् भवति .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {15।30} इदम् पुनः इतरेतराश्रयम् एव .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {16।30} सिद्धम् तु नित्यशब्दत्वात् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {17।30} सिद्धम् एतत् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {18।30} कथम् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {19।30} नित्यशब्दत्वात् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {20।30} नित्याः शब्दाः .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {21।30} नित्येषु शब्देषु सताम् आदैचाम् सञ्ज्ञा क्रियते .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {22।30} न सञ्ज्ञया आदैचः भाव्यन्ते .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {23।30} यदि तर्हि नित्याः शब्दाः किमर्थम् शास्त्रम् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {24।30} किमर्थम् शास्त्रम् इति चेत् निवर्तकत्वात् सिद्धम् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {25।30} निवर्तकम् शास्त्रम् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {26।30} कथम् .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {27।30} मृजिः अस्मै अविशेषेण उपदिष्टः .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {28।30} तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {29।30} तत्र अनेन निवृत्तिः क्रियते .
(प्_1,1.1.4) क_इ,40.18-41.4 रो_इ,133-134 {30।30} मृजेः अक्ङित्सु प्रत्ययेषु मृजिप्रसङ्गे मार्जिः साधुः भवति इति .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {1।21} प्रत्येकम् वृद्धिगुणसञ्ज्ञे भवतः इति वक्तव्यम् .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {2।21} किम् प्रयोजनम् .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {3।21} समुदाये मा भूताम् इति .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {4।21} अन्यत्र सहवचनात् समुदाये सञ्ज्ञाप्रसङ्गः .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {5।21} अन्यत्र सहवचनात् समुदाये वृद्धिगुणसञ्ज्ञयोः अप्रसङ्गः .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {6।21} यत्र इच्छति सहभूतानाम् कार्यम् करोति तत्र सहग्रहणम् .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {7।21} तत् यथा .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {8।21} सह सुपा .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {9।21} उभे अभ्यस्तम् सह इति .

(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {10।21} प्रत्यवयवम् च वाक्यपरिसमाप्तेः .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {11।21} प्रत्यवयवम् च वाक्यपरिसमाप्तिः दृश्यते .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {12।21} तत् यथा .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {13।21} देवदत्तयज्ञदत्तविष्णुमित्राः भोज्यन्ताम् इति .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {14।21} न च उच्यते प्रत्येकम् इति .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {15।21} प्रत्येकम् च भुजिः परिसमाप्यते .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {16।21} ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {17।21} तत् यथा .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {18।21} गर्गाः शतम् दण्ड्यन्ताम् इति .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {19।21} अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {20।21} सति एतस्मिन् दृष्टान्ते यदि तत्र सहग्रहणम् क्रियते इह अपि प्रत्येकम् इति वक्तव्यम् .
(प्_1,1.1.5) क_इ,41.5-16 रो_इ,134-136 {21।21} अथ तत्र अन्तरेण सहग्रहणम् सहभूतानाम् कार्यम् भवति इह अपि न अर्थः प्रत्येकम् इति वचनेन .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {1।68} अथ किमर्थम् आकारः तपरः क्रियते .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {2।68} आकारस्य तपरकरणम् सवर्णार्थम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {3।68} आकारस्य तपरकरणम् क्रियते .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {4।68} किम् प्रयोजनम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {5।68} सवर्णार्थम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {6।68} तपरः तत्कालस्य इति तत्कालानाम् ग्रहणम् यथा स्यात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {7।68} केषाम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {8।68} उदात्तानुन्दात्तस्वरितानाम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {9।68} किम् च कारणम् न स्यात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {10।68} भेदकत्वात् स्वरस्य .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {11।68} भेदकाः उदात्तादयः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {12।68} कथम् पुनः ज्ञायते भेदकाः उदात्तादयः इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {13।68} एवम् हि दृश्यते लोके .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {14।68} यः उदात्ते कर्तव्ये अनुदात्तम् करोति खण्डिकोपाध्यायः तस्मै चपेटाम् ददाति अन्यत् त्वम् करोषि इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {15।68} अस्ति प्रयोजनम् एतत् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {16।68} किम् तर्हि इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {17।68} भेदकत्वात् गुणस्य इति वक्तव्यम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {18।68} किम् प्रयोजनम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {19।68} आनुनासिक्यम् नाम गुणः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {20।68} तद्भिन्नस्य अपि यथा स्यात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {21।68} किम् च कारणम् न स्यात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {22।68} भेदकत्वात् गुणस्य .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {23।68} भेदकाः गुणाः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {24।68} कथम् पुनः ज्ञायते भेदकाः गुणाः इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {25।68} एवम् हि दृश्यते लोके .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {26।68} एकः अयम् आत्मा उदकम् नाम .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {27।68} तस्य गुणभेदात् अन्यत्वम् भवति : अन्यत् इदम् शीतम् अन्यत् इदम् ऊष्णम् इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {28।68} ननु च भोः अभेदकाः अपि गुणाः दृश्यन्ते .

(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {29।68} तत् यथा .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {30।68} देवदत्तः मुण्डी अपि जटी अपि शिखी अपि स्वाम् आख्याम् न जहाति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {31।68} तथा बालः युवा वृद्धः वत्सः दम्यः बलीवर्दः इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {32।68} उभयम् इदम् गुणेषु उक्तम् भेदकाः अभेदकाः इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {33।68} किम् पुनः अत्र न्याय्यम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {34।68} अभेदकाः गुणाः इति एव न्याय्यम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {35।68} कुतः एतत् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {36।68} यत् अयम् अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति उदात्तग्रहणम् करोति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {37।68} यदि भेदकाः गुणाः स्युः उदात्तम् एव उच्चारयेत् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {38।68} यदि तर्हि अभेदकाः गुणाः अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् स्वरितादेः स्वरितान्तात् च प्राप्नोति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {39।68} न एषः दोषः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {40।68} आश्रीयमाणः गुणः भेदकः भवति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {41।68} तत् यथा .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {42।68} शुक्लम् आलभेत .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {43।68} कृष्णम् आलभेत .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {44।68} तत्र यः शुक्ले आलब्धव्ये कृष्णम् आलभेत न हि तेन यथोक्तम् कृतम् भवति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {45।68} असन्देहार्थः तर्हि तकारः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {46।68} ऐच् इति उच्यमने सन्देहः स्यात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {47।68} किम् इमौ ऐचौ एव आहोस्वित् आकारः अपि अत्र निर्दिश्यते इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {48।68} सन्देहमात्रम् एतत् भवति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {49।68} सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {50।68} त्रयाणाम् ग्रहणम् इति व्याख्यास्यामः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {51।68} अन्यत्र अपि हि अयम् एवञ्जातीयकेषु सन्देहेषु न कम् चिद् यत्नम् करोति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {52।68} तत् यथा .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {53।68} औतः अम्शसोः इति .इदम् तर्हि प्रयोजनम् : आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति : खट्वा* इन्द्रः खट्वेन्द्रः , खट्वा* उदकम् खट्वोदकम् , खट्वा* ईषा खट्वेषा खट्वा* ऊढा खट्वोढा खट्वा* एलका खट्वैलका खट्वा* ओदनः , खट्वौदनः , खट्वा* ऐतिकायनः , खट्वैतिकायनः , खट्वा* औपगवः , खट्वौपगवः इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {54।68} अथ क्रियमाणे अपि तकारे कस्मात् एव त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {55।68} तपरः तत्कालस्य इति नियमात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {56।68} ननु तः परः यस्मात् सः अयम् तपरः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {57।68} न इति आह .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {58।68} तात् अपि परः तपरः इति .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {59।68} यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {60।68} यवः स्तवः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {61।68} लवः पवः इति अत्र न स्यात् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {62।68} न एषः तकारः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {63।68} कः तर्हि .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {64।68} दकारः .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {65।68} किम् दकारे प्रयोजनम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {66।68} अथ किम् तकारे प्रयोजनम् .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {67।68} यदि असन्देहार्थः तकारः दकारः अपि .
(प्_1,1.1.6) क_इ,41.17-42.24 रो_इ,136-140 {68।68} अथ मुखसुखार्थः तकारः दकारः अपि .

(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {1।80} इग्ग्रहणम् किमर्थम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {2।80} इग्ग्रहणम् आत्सन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम् . इग्ग्रहणम् क्रियते आकारनिवृत्त्यर्थम् सन्ध्यक्षरनिवृत्त्यर्थम् व्यञ्जननिवृत्त्यर्थम् च. आकारनिवृत्त्यर्थम् तावत् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {3।80} याता वाता .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {4।80} आकारस्य गुणः प्राप्नोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {5।80} इग्ग्रहणात् न भवति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {6।80} सन्ध्यक्षरनिवृत्त्यर्थम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {7।80} ग्लायति म्लायति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {8।80} सन्ध्यक्षरस्य गुणः प्राप्नोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {9।80} इग्ग्रहणात् न भवति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {10।80} व्यञ्जननिवृत्त्यर्थम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {11।80} उम्भिता , उम्भितुम् उम्भितव्यम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {12।80} व्यञ्जनस्य गुणः प्राप्नोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {13।80} इग्ग्रहणात् न भवति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {14।80} आकारनिवृत्त्यर्थेन तावत् नार्थः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {15।80} आचार्यप्रवृत्तिः ज्ञापयति न आकारस्य गुणः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {16।80} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {17।80} कित्करणे एतत् प्रयोजनम् किति इति आकारलोपः यथा स्यात् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {18।80} यदि च आकारस्य गुणः स्यात् कित्करणम् अनर्थकम् स्यात् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {19।80} गुणे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् गोदः , कम्बलदः इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {20।80} पश्यति तु आचार्यः न आकारस्य गुणः भवति इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {21।80} ततः ककारम् अनुबन्धम् करोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {22।80} सन्ध्यक्षरार्थेन अपि न अर्थः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {23।80} उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भविष्यति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {24।80} व्यञ्जननिवृत्त्यर्थेन अपि न अर्थः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {25।80} आचार्यप्रवृत्तिः ज्ञापयति न व्यञ्जनस्य गुणः भवति इति यत् अयम् जनेः डम् शास्ति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {26।80} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {27।80} डित्करणे एतत् प्रयोजनम् डिति इति टिलोपः यथा स्यात् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {28।80} यदि व्यञ्जन्स्य गुणः स्यात् डित्करणम् अनर्थकम् स्यात् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {29।80} गुणे कृते त्रयाणाम् अकाराणाम् पररूपेण सिद्धम् रूपम् स्यात् : उपसरजः , मन्दुरजः इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {30।80} पश्यति तु आचार्यः न व्यञ्जनस्य गुणः भवति इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {31।80} ततः जनेः डम् शास्ति. न एतानि सन्ति प्रयोजनानि .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {32।80} यत् तावत् उच्यते कित्करणम् ज्ञापकम् आकारस्य गुणः न भवति इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {33।80} उत्तरार्थम् एतत् स्यात् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {34।80} तुन्दशोकयोः परिमृजापनुदोः इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {35।80} यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {36।80} यत् अपि उच्यते उपदेशसामर्थ्यात् सन्ध्यक्षरस्य गुणः न भवति इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {37।80} यदि यत् यत् सन्ध्यक्षरस्य प्राप्नोति तत् तत् उपदेशसामर्थ्यात् बाध्यते आयादयः अपि तर्हि न प्राप्नुवन्ति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {38।80} न एषः दोषः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {39।80} यम् विधिम् प्रति उपदेशः अनर्थकः स विधिः बाध्यते .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {40।80} यस्य तु विधेः निमित्तम् एव न असौ बाध्यते .

(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {41।80} गुणम् च प्रति उपदेशः अनर्थकः आयादीनाम् पुनः निमित्तम् एव .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {42।80} यत् अपि उच्यते जनेः डवचनम् ज्ञापकम् न व्यञ्जनस्य गुणः भवति इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {43।80} सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {44।80} न च जनेः गुणेन सिध्यति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {45।80} कुतः हि एतत् जनेः गुणः उच्यमानः अकारः भवति न पुनः एकारः वा स्यात् ओकारः वा इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {46।80} आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः अकारः भविष्यति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {47।80} एवम् अपि अनुनासिकः प्राप्नोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {48।80} पररूपेण शुद्धः भविष्यति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {49।80} एवम् तर्हि गमेः अपि अयम् डः वक्तव्यः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {50।80} गमेः च गुणः उच्यमानः आन्तर्यतः ओकारः प्राप्नोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {51।80} तस्मात् इग्ग्रहणम् कर्तव्यम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {52।80} यदि इग्ग्रहणम् क्रियते द्यौः , पन्थाः , सः , इमम् इते एते अपि इकः प्राप्नुवन्ति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {53।80} सञ्ज्ञया विधाने नियमः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {54।80} सञ्ज्ञया ये विधीयन्ते तेषु नियमः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {55।80} किम् वक्तव्यम् एतत् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {56।80} न हि .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {57।80} कथम् अनुच्यमानम् गंस्यते .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {58।80} गुणवृद्धिग्रहणसामर्थ्यात् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {59।80} कथम् पुनः अन्तरेण गुणवृद्धिग्रहणम् इकः गुणवृद्धी स्याताम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {60।80} प्रकृतम् गुणवृद्धिग्रहणम् अनुवर्तते .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {61।80} क्व प्रकृतम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {62।80} वृद्धिः आत् ऐच् अत् एङ् गुणः इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {63।80} यदि तत् अनुवर्तते अत् एङ् गुणः वृद्धिः च इति अदेङाम् अपि वृद्धिसञ्ज्ञा प्राप्नोति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {64।80} सम्बन्धम् अनुवर्तिष्यते .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {65।80} वृद्धिः आत् ऐच् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {66।80} अत् एङ् गुणः वृद्धिः आत् ऐच् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {67।80} ततः इकः गुणवृद्धी इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {68।80} गुणवृद्धिग्रहणम् अनुवर्तते आदैज्ग्रहणम् निवृत्तम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {69।80} अथ वा मण्डूकगतयः अधिकाराः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {70।80} यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {71।80} अथ वा एकयोगः करिष्यते वृद्धिः आत् ऐच् अत् एङ् गुणः इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {72।80} ततः इको गुणवृद्धी इति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {73।80} न च एकयोगे अनुवृत्तिः भवति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {74।80} अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {75।80} अन्यस्याः सञ्ज्ञायाः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायाः वृद्धिसञ्ज्ञायाः गुणसञ्ज्ञ बाधिका भविष्यति यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {76।80} अथ वा वक्ष्यति एतत् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {77।80} अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {78।80} किम् तर्हि यत्नात् भवन्ति .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {79।80} अथ वा उभयम् निवृत्तम् .
(प्_1,1.3.1) क_इ,42.26-44.14 र् 140-146 {80।80} तत् अपेक्षिष्यामहे .

(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {1।123} किम् पुनः अयम् अलोन्त्यशेषः आहोस्वित् अलोन्त्यापवादः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {2।123} कथम् च अयम् तच्छेषः स्यात् कथम् वा तदपवादः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {3।123} यदि एकम् वाक्यम् तत् च इदम् च अलः : अन्त्यस्य विधयः भवन्ति इकः गुणवृद्धी* अलः अन्त्यस्य इति ततः अयम् तच्छेषः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {4।123} अथ नाना वाक्यम् : अलः अन्त्यस्य विधयः भवन्ति , इकः गुणवृद्धी* अन्त्यस्य च अनन्त्यस्य च इति ततः अयम् तदपवादः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {5।123} कः च अत्र विशेषः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {6।123} वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {7।123} वृद्धिगुणौ अलः अन्त्यस्य इति चेत् मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् कर्तव्यम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {8।123} मिदेः गुणः इकः इति वक्तव्यम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {9।123} अनन्त्यत्वात् हि न प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {10।123} पुगन्तलघूपधस्य गुणः इकः इति वक्तव्यम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {11।123} अनन्त्यत्वात् हि न प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {12।123} ऋच्छेः लिटि गुणः इकः इति वक्तव्यम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {13।123} अनन्त्यत्वात् हि न प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {14।123} ऋदृसः अङि गुणः इकः इति वक्तव्यम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {15।123} अनन्त्यत्वात् हि न प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {16।123} क्षिप्रक्षुद्रयोः गुणः इकः इति वक्तव्यम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {17।123} अनन्त्यत्वात् हि न प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {18।123} सर्वादेशप्रसङ्गः च अनिगन्तस्य .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {19।123} सर्वादेशः च गुणः च अनिगन्तस्य प्राप्नोति : याता वाता .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {20।123} किम् कारणम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {21।123} अलः अन्त्यस्य इति षष्ठी च एव हि अन्त्यम् इकम् उपसङ्क्रान्ता , अङ्गस्य इति च स्थानषष्ठी .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {22।123} तत् यत् इदानीम् अनिगन्तम् अङ्गम् तस्य गुणः सर्वादेशः प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {23।123} न एषः दोषः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {24।123} यथा एव हि अलः अन्त्यस्य इति षष्ठी अन्त्यम् इकम् उपसङ्क्रान्ता एवम् अङ्गस्य इति अपि स्थानषष्ठी .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {25।123} तत् यद् इदानीम् अनिगन्तम् अङ्गम् , तत्र षष्ठी एव न अस्ति कुतः गुणः कुतः सर्वादेशः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {26।123} एवम् तर्हि न अयम् दोषसमुच्चयः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {27।123} किम् तर्हि .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {28।123} पूर्वापेक्षः अयम् दोषः , ह्यर्थे च अयम् चः पठितः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {29।123} मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु इग्ग्रहणम् सर्वादेशप्रसङ्गः हि अनिगन्तस्य इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {30।123} मिदेः गुणः इकः इति वचनात् अन्त्यस्य न .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {31।123} अन्त्यस्य इति वचनात् इकः न .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {32।123} उच्यते तु गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {33।123} सः सर्वादेशः प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {34।123} एवम् सर्वत्र .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {35।123} अस्तु तर्हि तदपवादः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {36।123} इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {37।123} इग्मात्रस्य इति चेत् जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु अनन्त्यप्रतिषेधः वक्तव्यः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {38।123} जुसि गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {39।123} सः यथा इह भवति : अजुहवुः , अबिभयुः , एवम् अनेनिजुः , पर्यविविषुः , अत्र अपि प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {40।123} सार्वधातुकार्धधातुकयोः गुणः .

(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {41।123} सः यथा इह भवति : कर्ता हर्ता नयति तरति भवति , एवम् ईहिता , ईहितुम् इति अत्र अपि प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {42।123} ह्रस्वस्य गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {43।123} सः यथा इह भवति : हे अग्ने हे वायो , एवम् हे अग्निचित् , हे सोमसुत् इति अत्र अपि प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {44।123} जसि गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {45।123} सः यथा इह भवति अग्नयः , वायवः इति एवम् अग्निचितः , सोमसुतः इति अत्र अपि प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {46।123} ऋतो ङिसर्वनामस्थानयोः गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {47।123} सः यथा इह भवति कर्तरि कर्तारौ कर्तारः इति एवम् सुकृति सुकृतौ सुकृतः इति अत्र अपि प्राप्नोति .घेः ङिति गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {48।123} सः यथा इह भवति अग्नये वायवे एवम् अग्निचिते सोमसुते इति अत्र अपि प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {49।123} ओः गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {50।123} सः यथा इह भवति बाभ्रव्यः , माण्डव्यः इति एवम् सुश्रुत् , सौश्रुतः इति अत्र अपि प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {51।123} न एषः दोषः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {52।123} पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {53।123} पुगन्तलघूपधग्रहणम् अनन्त्यनियमार्थम् भविष्यति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {54।123} पुगन्तलघूपधस्य एव अनन्त्यस्य न अन्यस्य अनन्त्यस्य इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {55।123} प्रकृतस्य एषः नियमः स्यात् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {56।123} किम् च प्रकृतम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {57।123} सार्वधातुकार्धधातुकयोः इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {58।123} तेन भवेत् इह नियमात् न स्यात् ईहिता , ईहितुम् , ईहितव्यम् इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {59।123} ह्रस्वाद्योः गुणः तु अनियतः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {60।123} सः अनन्त्यस्य अपि प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {61।123} अथ अपि एवम् नियमः स्यात् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {62।123} पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोः एव इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {63।123} एवम् अपि सार्वधातुकार्धधातुकयोः गुणः अनियतः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {64।123} सः अनन्त्यस्य अपि प्राप्नोति : ईहिता , ईहितुम् ईहितव्यम् इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {65।123} अथ अपि उभयतः नियमः स्यात् : पुगन्तलघूपधस्य एव सार्वधातुकार्धधातुकयोः , सार्वधातुकार्धधातुकयोः एव पुगन्तलघूपधस्य इति , एवम् अपि अयम् जुसि गुणः अनियतः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {66।123} सः अनन्त्यस्य अपि प्राप्नोति : अनेनिजुः , पर्यविविषुः इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {67।123} एवम् तर्हि न अयम् तच्छेषः न अपि तदपवादः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {68।123} अन्यत् एव इदम् परिभाषान्तरम् असम्बद्धम् अनया परिभाषया .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {69।123} परिभाषान्तरम् इति च मत्वा क्रोष्ट्रीयाः पठन्ति : नियमात् इकः गुणवृद्धी भवतः विप्रतिषेधेन इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {70।123} यदि च अयम् तच्छेषः स्यात् तेन एव तस्य अयुक्तः विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {71।123} अथ अपि तदपवादः उत्सर्गापवादयोः अपि अयुक्तः विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {72।123} तत्र नियमस्य अवकाशः : राज्ञः क च , राजकीयम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {73।123} इकः गुणवृद्धी* इति अस्य अवकाशः : चयनम् , चायकः , लवनम् , लावकः इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {74।123} इह उभयम् प्राप्नोति : मेद्यति मार्ष्टि इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {75।123} इकः गुणवृद्धी* इति एतत् भवति विप्रतिषेधेन .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {76।123} न एषः युक्तः विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {77।123} विप्रतिषेधे हि परम् इति उच्यते , पूर्वः च अयम् योगः परः नियमः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {78।123} इष्टवाची परशब्दः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {79।123} विप्रतिषेधे परम् यत् इष्टम् तत् भवति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {80।123} एवम् अपि अयुक्तः विप्रतिषेधः .

(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {81।123} द्विकार्ययोगः हि विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {82।123} न च अत्र एकः द्विकार्ययुक्तः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {83।123} न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {84।123} किम् तर्हि. असम्भवः अपि .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {85।123} सः च अस्ति अत्र असम्भवः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {86।123} कः असौ अस्म्भवः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {87।123} इह तावत् : वृक्षेभ्यः , प्लक्षेभ्यः इति एकः स्थानी द्वौ आदेशौ .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {88।123} न च अस्ति सम्भवः यत् एकस्य स्थानिनः द्वौ आदेशौ स्याताम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {89।123} इह इदानीम् मेद्यति मेद्यतः मेद्यन्ति इति द्वौ स्थानिनौ एकः आदेशः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {90।123} न च अस्ति सम्भवः यत् द्वयोः स्थानिनोः एकः आदेशः स्यात् इति एषः असम्भवः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {91।123} सत्यम् एतस्मिन् असम्भवे युक्तः विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {92।123} एवम् अपि अयुक्तः विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {93।123} द्वयोः हि सावकाशयोः समवस्थितयोः विप्रतिषेधः भवति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {94।123} अनवकाशः च अयम् योगः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {95।123} ननु च इदानीम् एव अस्य अवकाशः प्रकॢप्तः : चयनम् , चायकः , लवनम् , लावकः इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {96।123} अत्र अपि नियमः प्राप्नोति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {97।123} यावता न अप्राप्ते नियमे अयम् योगः आरभ्यते अतः तदपवादः अयम् योगः भवति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {98।123} उत्सर्गापवादयोः च अयुक्तः विप्रतिषेधः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {99।123} अथ अपि कथम् चित् इकः गुणवृद्धी* इति अस्य अवकाशः स्यात् , एवम् अपि यथा इह विप्रतिषेधात् इकः गुणः भवति : मेद्यति मेद्यतः मेद्यन्ति , एवम् इह अपि स्यात् : अनेनिजुः , पर्यवेविषुः इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {100।123} एवम् तर्हि वृद्धिः भवति गुणः भवति इति यत्र ब्रूयात् इकः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {101।123} किम् कृतम् भवति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {102।123} द्वितीया षष्ठी प्रादुः भाव्यते .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {103।123} तत्र कामचारः : गृह्यमाणेन वा इकम् विशेषयितुम् इका वा गृह्यमाणम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {104।123} यावता कामचारः इह तावत् : मिदिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणेन इकम् विशेषयिष्यामः : एतेषाम् यः इक् इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {105।123} इह इदानीम् : जुसिसार्वधातुकार्धधातुकह्रस्वाद्योः गुणेषु इका गृह्यमाणम् विशेषयिष्यामः : एतेषाम् गुणः भवति इकः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {106।123} इगन्तानाम् इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {107।123} अथ वा सर्वत्र एव स्थानी निर्दिश्यते .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {108।123} इह तावत् : मिदेः इति , अविभक्तिकः निर्देशः : मिद , एः , मिदेः , मिदेः इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {109।123} अथ वा षष्ठीसमासः भविष्यति मिदः इः , मिदिः , मिदेः इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {110।123} पुगन्तलघूपधस्य इति न एवम् विज्ञायते : पुगन्तस्य अङ्गस्य लघूपधस्य च इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {111।123} कथम् तर्हि .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {112।123} पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् पुगन्तलघूपधस्य इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {113।123} अवश्यम् च एतत् एवम् विज्ञेयम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {114।123} अङ्गविशेषणे हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {115।123} ऋच्छेः अपि प्रश्लिष्टनिर्देशः अयम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {116।123} ऋच्छति , ऋ , ऋ , ॠताम् ऋच्छत्यॄताम् इति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {117।123} दृशेः अपि योगविभागः करिष्यते .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {118।123} उः अङि गुणः .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {119।123} उः अङि गुणः भवति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {120।123} ततः दृशेः .

(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {121।123} दृशेः च अङि गुणः भवति .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {122।123} उः इति एव. क्षिप्रक्षुद्रयोः अपि यणादिपरम् गुण इति इयता सिद्धम् .
(प्_1,1.3.2) क_इ,44.15-47.13 रो_इ,146-155 {123।123} सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् इकः यथा स्यात् अनिकः मा भूत् इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {1।118} अथ वृद्धिग्रहणम् किमर्थम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {2।118} किम् विशेषेण वृद्धिग्रहणम् चोद्यते न पुनः गुणग्रहणम् अपि .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {3।118} यदि किम् चित् गुणग्रहणस्य प्रयोजनम् अस्ति वृद्धिग्रहणस्य अपि तत् भवितुम् अर्हति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {4।118} कः वा विशेषः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {5।118} अयम् अस्ति विशेषः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {6।118} गुणविधौ न क्व चित् स्थानी निर्दिश्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {7।118} तत्र अवश्यम् स्थानिनिर्देशार्थम् गुणग्रहणम् कर्तव्यम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {8।118} वृद्धिविधौ पुनः सर्वत्र एव स्थानी निर्दिश्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {9।118} अचः ञ्णिति अतः उपधायाः तद्धितेषु अचाम् आदेः इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {10।118} अतः उत्तरम् पठति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {11।118} वृद्धिग्रहणम् उत्तरार्थम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {12।118} वृद्धिग्रहणम् क्रियते उत्तरार्थम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {13।118} क्ङिति इति प्रतिषेधम् वक्ष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {14।118} सः वृद्धेः अपि यथा स्यात् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {15।118} कः च इदानीम् क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः यावता ञ्णिति इति उच्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {16।118} तत् च मृज्यर्थम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {17।118} मृजेः वृद्धिः अविशेषेण उच्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {18।118} सा क्ङिति मा भूत् : मृष्टः , मृष्टवान् इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {19।118} इहार्थम् च अपि मृज्यर्थम् वृद्धिग्रहणम् कर्तव्यम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {20।118} मृजेः वृद्धिः अविशेषेण उच्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {21।118} सा इकः यथा स्यात् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {22।118} अनिकाः मा भूत् इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {23।118} मृज्यर्थम् इति चेत् योगविभागात् सिद्धम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {24।118} मृज्यर्थम् इति चेत् योगविभागः करिष्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {25।118} मृजेः वृद्धिः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {26।118} ततः ञ्णिति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {27।118} ञिति णिति च वृद्धिः भवति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {28।118} अचः इति एव .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {29।118} यदि अचः वृद्धिः उच्यते न्यमार्ट् : अटः अपि वृद्धिः प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {30।118} अटि च उक्तम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {31।118} किम् उक्तम्. अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {32।118} वृद्धिप्रतिषेधानुपपत्तिः तु इक्प्रकरणात् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {33।118} वृद्धेः तु प्रतिषेधः न उपपद्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {34।118} किम् कारणम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {35।118} इक्प्रकरणात् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {36।118} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एवम् सति मृजेः इग्लक्षणा वृद्धिः भवति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {37।118} तस्मात् मृजेः इग्लक्षणा वृद्धिः एषितव्या .

(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {38।118} एवम् तर्हि इह अन्ये वैयाकरणाः मृजेः अजादौ सङ्क्रमे विभाषा वृद्धिम् आरभन्ते : परिमृजन्ति परिमार्जन्ति परिमृजन्तु परिमार्जन्तु परिममृजतुः , परिममार्जतुः इत्याद्यर्थम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {39।118} तत् इह अपि साध्यम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {40।118} तस्मिन् साध्ये योगविभागः करिष्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {41।118} मृजेः वृद्धिः अचः भवति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {42।118} ततः अचि क्ङिति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {43।118} अजादौ च क्ङिति मृजेः वृद्धिः भवति : परिमार्जन्ति परिमार्जन्तु .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {44।118} किमर्थम् इदम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {45।118} नियमार्थम् : अजादौ एव क्ङिति न अन्यत्र .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {46।118} क्व अन्यत्र मा भूत् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {47।118} मृष्टः , मृष्टवान् इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {48।118} ततः वा .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {49।118} वा अचि क्ङिति मृजेः वृद्धिः भवति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {50।118} परिमृजन्ति , परिमार्जन्ति , परिममृजतुः , परिममार्जतुः इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {51।118} इहार्थम् एव सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {52।118} सिचि वृद्धिः अविशेषेण उच्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {53।118} सा इकः यथा स्यात् , अनिकः मा भूत् इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {54।118} कस्य पुनः अनिकः प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {55।118} अकारस्य : अचिकीर्षीत् , अजिहीर्षीत् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {56।118} न एतत् अस्ति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {57।118} लोपः अत्र बाधकः भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {58।118} आकारस्य तर्हि प्राप्नोति : अयासीत् , अवासीत् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {59।118} न अस्ति अत्र विशेषः सत्याम् वृद्धौ असत्याम् वा .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {60।118} सन्ध्यक्षरस्य तर्हि प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {61।118} न एव सन्ध्यक्षरम् अन्त्यम् अस्ति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {62।118} ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढ इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {63।118} न एतत् अस्ति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {64।118} असिद्धः ढलोपः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {65।118} तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {66।118} व्यञ्जनस्य तर्हि प्राप्नोति : अभैत्सीत् , अच्छैत्सीत् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {67।118} हलन्तलक्षणा वृद्धिः बाधिका भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {68।118} यत्र तर्हि सा प्रतिषिध्यते : अकोषीत् , अमोषीत् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {69।118} सिचि वृद्धेः अपि एषः प्रतिषेधः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {70।118} कथम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {71।118} लक्षणम् हि नाम ध्वनति भ्रमति मुहूर्तम् अपि न अवतिष्ठते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {72।118} अथ वा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {73।118} तस्याः हलन्तलक्षणा वृद्धिः बाधिका .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {74।118} तस्याः अपि न इटि इति प्रतिषेधः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {75।118} अस्ति पुनः क्व चिद् अन्यत्र अपि अपवादे प्रतिषिद्धे उत्सर्गः अपि न भवति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {76।118} अस्ति इति आह .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {77।118} सुजाते* अश्वसूनृते , अध्वर्यो* अद्रिभिः सुतम् , शुक्रम् ते* अन्यत् इति .

(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {78।118} पूर्वरूपत्वे प्रतिषिद्धे अयादयः अपि न भवन्ति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {79।118} उत्तरार्थम् एव तर्हि सिजर्थम् वृद्धिग्रहणम् कर्तव्यम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {80।118} सिचि वृद्धिः अविशेषेण उच्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {81।118} सा क्ङिति मा भूत् न्यनुवीत् , न्यधुवीत् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {82।118} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {83।118} अन्तरङ्गत्वात् अत्र उवङादेशे कृते अनन्त्यत्वात् वृद्धिः न भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {84।118} यदि तर्हि सिचि अन्तरङ्गम् भवति , अकार्षीत् , अहार्षीत् : गुणे कृते रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {85।118} मा भूत् एवम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {86।118} हलन्तस्य इति एवम् भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {87।118} इह तर्हि : न्यस्तारीत् , व्यदारीत् : गुणे रपरत्वे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {88।118} हलन्तलक्षणायाः च न इटि इति प्रतिषेधः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {89।118} मा भूत् एवम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {90।118} र्लान्तस्य इति एवम् भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {91।118} इह तर्हि : अलावीत् अपावीत् : गुणे कृते अवादेशे च अनन्त्यत्वात् वृद्धिः न प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {92।118} हलन्तलक्षणायाः च न इटि इति प्रतिषेधः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {93।118} मा भूत् एवम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {94।118} र्लान्तस्य इति एवम् भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {95।118} र्लान्तस्य इति उच्यते न च इदम् र्लान्तम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {96।118} र्लान्तस्य इति अत्र वकारः अपि निर्दिश्यते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {97।118} किम् वकारः न श्रूयते .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {98।118} लुप्तनिर्दिष्तः वकारः .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {99।118} यदि एवम् मा भवान् मवीत् : अत्र अपि प्राप्नोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {100।118} अविमव्योः इति वक्ष्यामि .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {101।118} तत् वक्तव्यम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {102।118} णिश्विभ्याम् तौ निमातव्यौ .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {103।118} यदि अपि एतत् उच्यते अथ वा एतर्हि णिश्व्योः प्रतिषेधः न वक्तव्यः भवति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {104।118} गुणे कृते अयादेशे च यान्तानम् न इति प्रतिषेधः भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {105।118} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सिचि अन्तरङ्गम् भवति इति यत् अयम् अतः हलादेः लघोः इति अकारग्रहणम् करोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {106।118} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {107।118} अकारग्रहणस्य एतत् प्रयोजनम् इह मा भूत् : अकोषीत् , अमोषीत् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {108।118} यदि सिचि अन्तरङ्गम् स्यात् अकारग्रहणम् अनर्थकम् स्यात् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {109।118} गुणे कृते अलघुत्वात् वृद्धिः न भविष्यति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {110।118} पश्यति तु आचार्यः न सिचि अन्तरङ्गम् भवति इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {111।118} ततः अकारग्रहणम् करोति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {112।118} न एतत् अस्ति ज्ञापकम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {113।118} अस्ति अन्यत् एतस्य वचने प्रयोजनम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {114।118} किम् .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {115।118} यत्र गुणः प्रतिषिध्यते तदर्थम् एतत् स्यात् : न्यकुटीत् , न्यपुटीत् इति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {116।118} यत् तर्हि णिश्व्योः प्रतिषेधम् शास्ति तेन न इह अन्तरङ्गम् अस्ति इति दर्शयति .
(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {117।118} यत् च करोति अकारग्रहणम् लघोः इति कृते अपि .

(प्_1,1.3.3) क_इ,47.14-49.21 रो_इ,155-161 {118।118} तस्मात् इग्लक्षणा वृद्धिः . तस्मात् इग्लक्षणा वृद्धिः आस्थेया .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {1।26} षष्ठ्याः स्थानेयोगत्वात् इग्निवृत्तिः . षष्ठ्याः स्थानेयोगत्वात् सर्वेषाम् इकाम् निवृत्तिः प्राप्नोति .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {2।26} अस्य अपि प्राप्नोति : दधि मधु .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {3।26} पुनर्वचनम् इदानीम् किमर्थम् स्यात् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {4।26} अन्यतरार्थम् पुनर्वचनम् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {5।26} अन्यतरार्थम् एतत् स्यात् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {6।26} सार्वधादुकार्धधातुकयोः गुणः एव इति .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {7।26} प्रसारणे च .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {8।26} प्रसारणे च सर्वेषम् यणाम् निवृत्तिः प्राप्नोति .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {9।26} अस्य अपि प्राप्नोति : याता वाता .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {10।26} पुनर्वचनम् इदानीम् किमर्थम् स्यात् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {11।26} विषयार्थम् पुनर्वचनम् . विषयार्थम् एतत् स्यात् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {12।26} वचिस्वपियजादीनाम् किति एव इति .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {13।26} उः अण् रपरे च .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {14।26} उः अण् रपरे च सर्वर्काराणाम् निवृत्तिः प्राप्नोति .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {15।26} अस्य अपि प्राप्नोति कर्तृ हर्तृ .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {16।26} सिद्धम् तु षष्ठ्यधिकारे वचनात् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {17।26} सिद्धम् एतत् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {18।26} कथम् .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {19।26} षष्ठ्यधिकारे इमे योगाः कर्तव्याः .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {20।26} एकः तावत् क्रियते तत्र एव .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {21।26} इमौ अपि योगौ षष्ठधिकारम् अनुवर्तिष्येते .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {22।26} अथ वा षष्ठधिकारे इमौ योगौ अपेक्षिष्यामहे .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {23।26} अथ वा इदम् तावद् अयम् प्रष्टव्यः .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {24।26} सार्वधातुकार्धधातुकयोः गुणः भवति इति इह कस्मात् न भवति : याता वाता .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {25।26} इदम् तत्र अपेक्षिष्यते इकः गुणवृद्धी* इति .
(प्_1,1.3.4) क_इ,49.24-50.16 रो_इ,161-163 {26।26} यथा एव तर्हि इदम् तत्र अपेक्षिष्यते एवम् इह अपि तद् अपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इकः गुणवृद्धी* इति.
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {1।22} धातुग्रहणम् किमर्थम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {2।22} इह मा भूत्: लूञ् लविता लवितुम् पूञ् पविता पवितुम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {3।22} आर्धधातुके इति किमर्थम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {4।22} त्रिधा बद्धः वृषभः रोरवीति .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {5।22} किम् पुनः इदम् आर्धधातुकग्रहणम् लोपविशेषणम् : आर्धधातुकनिमित्ते लोपे सति ये गुणवृद्धी प्राप्नुतः ते न भवतः इति , आहोस्वित् गुणवृद्धिविशेषणम् आर्धधातुकग्रहणम् : धातुलोपे सति आर्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {6।22} किम् च अतः .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {7।22} यदि लोपविशेषणम् उपेद्धः प्रेद्धः अत्र अपि प्राप्नोति .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {8।22} अथ गुणवृद्धिविशेषणम् क्नोपयति इति अत्र अपि प्राप्नोति .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {9।22} यथा इच्छसि तथा अस्तु .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {10।22} अस्तु लोपविशेषणम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {11।22} कथम् उपेद्धः प्रेद्धः इति .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {12।22} बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {13।22} असिद्धम् बहिरङ्गम् अन्तरङ्गे .

(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {14।22} यदि एवम् न अर्थः धातुग्रहणेन .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {15।22} इह कस्मात् न भवति: लूञ् लविता लवितुम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {16।22} आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {17।22} अथ वा पुनः अस्तु गुणवृद्धिविशेषणम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {18।22} ननु च उक्तम् क्नोपयति इति अत्र अपि प्राप्नोति इति .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {19।22} न एषः दोषः .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {20।22} निपातनात् सिद्धम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {21।22} किम् निपातनम् .
(प्_1,1.4.1) क_इ,51.2-13 रो_इ,164-166 {22।22} चेले क्नोपेः इति
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {1।47} परिगणनम् कर्तव्यम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {2।47} यङ्यक्क्यवलोपे प्रतिषेधः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {3।47} यङ्यक्क्यवलोपे प्रतिषेधः वक्तव्यः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {4।47} यङ्: बेभिदिता मरीमृजः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {5।47} यक्: कुषुभिता मगधकः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {6।47} क्य: समिधिता दृषदकः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {7।47} वलोपे : जीरदानुः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {8।47} किम् प्रयोजनम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {9।47} नुम्लोपस्रिव्यनुबन्धलोपे अप्रतिषेधार्थम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {10।47} नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधः मा भूत् इति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {11।47} नुम्लोपे: अभाजि रागः उपबर्हणम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {12।47} स्रिवेः : आस्रेमाणम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {13।47} अनुबन्धलोपे : लूञ् लविता लवितुम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {14।47} यदि परिगणनम् क्रियते स्यदः, प्रश्रथः, हिमश्रथः इति अत्र अपि प्राप्नोति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {15।47} वक्ष्यति एतत् निपातनात् स्यदादिषु इति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {16।47} तत् तर्हि परिगणनम् कर्तव्यम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {17।47} न कर्तव्यम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {18।47} नुम्लोपे कस्मात् न भवति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {19।47} इक्प्रकरणात् नुम्लोपे वृद्धिः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {20।47} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {21।47} यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्यदः, प्रश्रथः, हिमश्रथः इति अत्र न प्राप्नोति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {22।47} इह च प्राप्नोति: अवोदः, एधः, ओद्मः इति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {23।47} निपातनात् स्यदादिषु . निपातनात् स्यदादिषु प्रतिषेधः भविष्यति न च भविष्यति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {24।47} यदि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः स्रिव्यनुबन्धलोपे कथम् स्रिवेः आस्रेमाणम् लूञ् लविता .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {25।47} प्रत्ययाश्रयत्वात् अन्यत्र सिद्धम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {26।47} आर्धधातुकनिमित्ते लोपे प्रतिषेधः न च एषः आर्धधातुकनिमित्तः लोपः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {27।47} यदि आर्धधातुकनिमित्ते लोपे प्रतिषेधः जीरदानुः अत्र न प्राप्नोति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {28।47} रकि ज्यः प्रसारणम् . न एतत् जीवेः रूपम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {29।47} रकि एतत् ज्यः प्रसारणम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {30।47} यावता च इदानीम् रकि जीवेः अपि सिद्धम् भवति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {31।47} कथम् उपबर्हणम् .

(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {32।47} बृहिः प्रकृत्यन्तरम् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {33।47} कथम् ज्ञायते बृहिः प्रकृत्यन्तरम् इति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {34।47} अचि इति हि लोपः उच्यते अनजादौ अपि दृश्यते: निबृह्यते .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {35।47} अनिटि इति च उच्यते .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {36।47} इडादौ अपि दृश्यते: निबर्हिता निबर्हितुम् इति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {37।47} अजादौ अपि न दृश्यते: बृंहयति बृंहकः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {38।47} तस्मात् न अर्थः परिगणनेन .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {39।47} यदि परिगणनम् न क्रियते भेद्यते छेद्यते अत्र अपि प्राप्नोति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {40।47} न एषः दोषः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {41।47} धातुलोपे इति न एवम् विज्ञायते: धातोः लोपः धातुलोपः, धातुलोपे इति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {42।47} कथम् तर्हि .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {43।47} धातोः लोपः अस्मिन् तत् इदम् धातुलोपम्, धातुलोपे इति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {44।47} तस्मात् इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {45।47} यदि तर्हि इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः पापचकः, पापठकः, मगधकः, दृषदकः अत्र न प्राप्नोति .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {46।47} अल्लोपस्य स्थानिवत्वात् .
(प्_1,1.4.2) क_इ,51.14-52.20 रो_इ,166-169 {47।47} अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {1।41} अनारम्भः वा .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {2।41} अनारम्भः वा पुनः अस्य योगस्य न्याय्यः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {3।41} कथम् बेभिदिता, मरीमृजकः, कुषुभिता समिधिता इति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {4।41} अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {5।41} यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {6।41} क्व च स्थानिवद्भावः न अस्ति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {7।41} यत्र हलचोः आदेशः: लोलुवः पोपुवः मरीमृजः सरीसृपः इति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {8।41} अत्र अपि अकारलोपे कृते तस्य स्थानिवत्वात् गुणवृद्धी न भविष्यतः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {9।41} लुकि कृते न प्राप्नोति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {10।41} इदम् इह सम्प्रधार्यम्: लुक् क्रियताम् अल्लोपः इति किम् अत्र कर्तव्यम् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {11।41} परत्वात् अल्लोपः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {12।41} नित्यः लुक् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {13।41} कृते अपि अल्लोपे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {14।41} लुक् अपि अनित्यः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {15।41} कथम् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {16।41} अन्यस्य कृते अल्लोपे प्राप्नोति अन्यस्य अकृते .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {17।41} शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {18।41} अनवकाशः तर्हि लुक्. सावकाशः लुक् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {19।41} कः अवकाशः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {20।41} अवशिष्टः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {21।41} अथम् कथम् चित् अनवकाशः लुक् स्यात् एवम् अपि न दोषः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {22।41} अल्लोपे योगविभागः करिष्यते : अतः लोपः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {23।41} ततः यस्य : यस्य च लोपः भवति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {24।41} अतः इति एव .

(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {25।41} किमर्थम् इदम् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {26।41} लुकम् वक्ष्यति तद्बाधनार्थम् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {27।41} ततो हलः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {28।41} हलः उत्तरस्य च यस्य लोपः भवति इति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {29।41} इह अपि परत्वात् योगविभागात् व लोपः लुकम् बाधेत: कृष्णः नोनाव वृषभः यदि इदम् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {30।41} नोनूयतेः नोनाव .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {31।41} समानाश्रयः लुक् लोपेन बाध्यते .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {32।41} कः च समानाश्रयः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {33।41} यः प्रत्ययाश्रयः .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {34।41} अत्र च प्राक् एव प्रत्ययोत्पत्तेः लुक् भवति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {35।41} कथम् स्यदः, प्रश्रथः, हिमश्रथः, जीरदानुः, निकुचितः इति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {36।41} उक्तम् शेषे .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {37।41} किम् उक्तम् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {38।41} निपातनात् स्यदादिषु .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {39।41} प्रत्ययाश्रत्वात् अन्यत्र सिद्धम् .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {40।41} रकि ज्यः प्रसारणम् इति .
(प्_1,1.4.3) क_इ,52.21-53.15 रो_इ,169-171 {41।41} निकुचिते अपि उक्तम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {1।34} क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {2।34} क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् कर्तव्यम् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {3।34} क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवतः इति वक्तव्यम् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {4।34} किम् प्रयोजनम् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {5।34} उपधारोरवीत्यर्थम् . उपधार्थम् रोरवीत्यर्थम् च .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {6।34} उपधार्थम् तावत् : भिन्नः , भिन्नवान् इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {7।34} किम् पुनः कारणम् न सिध्यति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {8।34} क्ङिति इति उच्यते .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {9।34} तेन यत्र क्ङिति अनन्तरः गुणभावी अस्ति तत्र एव स्यात्: चितम् स्तुतम् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {10।34} इह तु न स्यात्: भिन्नः , भिन्नवान् इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {11।34} ननु च यस्य गुणः उच्यते तत् क्ङित्परत्वेन विशेषयिष्यामः .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {12।34} पुगन्तलघूपधस्य च गुणः उच्यते तत् च अत्र क्ङित्परम् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {13।34} पुगन्तलघूपधस्य इति न एवम् विज्ञायते : पुगन्तस्य अङ्गस्य लघूपधस्य च इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {14।34} कथम् तर्हि .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {15।34} पुकि अन्तः पुगन्तः , लघ्वी उपधा लघूपधा , पुगन्तः च लघूपधा च पुगन्तलघूपधम् , पुगन्तलघूपधस्य इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {16।34} अवश्यम् च एतत् एवम् विज्ञेयम् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {17।34} अङ्गविशेषणे हि सति इह प्रसज्येत : भिनत्ति छिनत्ति इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {18।34} रोरवीत्यर्थम् च .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {19।34} त्रिधा बद्धः वृषभः रोरवीति इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {20।34} यदि तन्निमित्तग्रहणम् क्रियते शचङन्ते दोषः .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {21।34} रियति पियति धियति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {22।34} प्रादुद्रुवत् प्रासुस्रुवत् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {23।34} अत्र प्राप्नोति .

(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {24।34} शचङन्तस्य अन्तरङ्गलक्षणत्वात् .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {25।34} अन्तरङ्गलक्षणत्वात् अत्र इयङुवङोः कृतयोः अनुपधात्वात् गुणः न भविष्यति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {26।34} एवम् क्रियते च इदम् तन्निमित्तग्रहणम् न च कः चित् दोषः भवति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {27।34} इमानि च भूयः तन्निमित्तग्रहणस्य प्रयोजनानि : हतः , हथः , उपोयते , औयत , लौयमानिः , पौयमानिः , नेनिक्ते इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {28।34} न एतानि सन्ति प्रयोजनानि .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {29।34} इह तावत् हतः , हथः इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {30।34} प्रसक्तस्य अनभिनिर्वृत्तस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् अत्र च धातूपदेशावस्थायाम् एव अकारः .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {31।34} इह च उपोयते , औयत , लौयमानिः , पौयमानिः इति .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {32।34} बहिरङ्गे गुणवृद्धी अन्तरङ्गः प्रतिषेधः .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {33।34} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_1,1.5.1) क_इ,53.17-54.13 रो_इ,171-174 {34।34} नेनिक्ते इति परेण रूपेण व्यवहितत्वात् न भविष्यति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {1।42} उपधार्थेन तावत् न अर्थः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {2।42} धातोः इति वर्तते .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {3।42} धातुम् क्ङित्परत्वेन विशेषयिष्यामः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {4।42} यदि धातुः विशेष्यते विकरणस्य न प्राप्नोति : चिनुतः , सुनुतः , लुनीतः , पुनीतः इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {5।42} न एषः दोषः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {6।42} विहितविशेषणम् धातुग्रहणम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {7।42} धातोः यः विहितः इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {8।42} धातोः एव तर्हि न प्राप्नोति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {9।42} न एवम् विज्ञायते धातोः विहितस्य क्ङिति इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {10।42} कथम् तर्हि .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {11।42} धातोः विहिते क्ङिति इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {12।42} अथ वा कार्यकालम् हि सञ्ज्ञापरिभाषम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {13।42} यत्र कार्यम् तत्र द्रष्टव्यम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {14।42} पुगन्तलघूपधस्य गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {15।42} अथ वा यत् एतस्मिन् योगे क्ङिद्ग्रहणम् तद् अनवकाशम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {16।42} तस्य अनवकाशत्वात् गुणवृद्धी न भविष्यतः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {17।42} अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {18।42} कथम् कृत्वा ज्ञापकम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {19।42} कित्करणे एतत् प्रयोजनम् गुणः कथम् न स्यात् इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {20।42} यदि च अत्र गुणप्रतिषेधः न स्यात् कित्करणम् अनर्थकम् स्यात् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {21।42} पश्यति तु आचार्यः भवति उपधालक्षणस्य गुणस्य प्रतिषेधः इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {22।42} ततः क्नुसनौ कितौ करोति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {23।42} रोरवीत्यर्थेन अपि न अर्थः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {24।42} क्ङिति इति उच्यते .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {25।42} न च अत्र क्ङितम् पश्यामः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {26।42} प्रत्ययलक्षणेन प्राप्नोति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {27।42} न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {28।42} अथ अपि न लुमता अङ्गस्य इति उच्यते एवम् अपि न दोषः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {29।42} कथम् .

(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {30।42} न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {31।42} किम् तर्हि .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {32।42} यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {33।42} अथ अपि आङ्गाधिकारः प्रतिनिर्दिश्यते एवम् अपि न दोषः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {34।42} कथम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {35।42} कार्यकालम् हि सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {36।42} सार्वधातुकार्धधातुकयोः गुणः भवति इति उपस्थितम् इदम् भवति क्ङिति न इति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {37।42} अथ वा छान्दसम् एतत् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {38।42} दृष्टानुविधिः च छन्दसि भवति .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {39।42} अथ वा बहिरङ्गः गुणः अन्तरङ्गः प्रतिषेधः .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {40।42} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {41।42} अथ वा पूर्वस्मिन् योगे यद् आर्धधातुकग्रहणम् तत् अनवकाशम् .
(प्_1,1.5.2) क_इ,54.13-55.5 रो_इ,175-177 {42।42} तस्य अनवकाशत्वात् गुणः भविष्यति .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {1।14} इह कस्मात् न भवति : लैगवायनः , कामयते .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {2।14} तद्धितकाम्योः इक्प्रकरणात् .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {3।14} इग्लक्षणयोः गुणवृद्ध्योः प्रतिषेधः न च एते इग्लक्षणे .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {4।14} लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {5।14} लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावः प्राप्नोति : अचिनवम् असुनवम् अकरवम् .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {6।14} लकारस्य ङित्त्वात् आदेशेषु स्थानिवद्भावप्रसङ्गः इति चेत् यासुटः ङिद्वचनात् सिद्धम् . यत् अयम् यासुटः ङिद्वचनम् शास्ति तत् ज्ञापयति आचार्यः न ङिदादेशाः ङितः भवन्ति इति .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {7।14} यदि एतत् ज्ञाप्यते कथम् नित्यम् ङितः इतः च इति .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {8।14} ङितः यत् कार्यम् तत् भवति ङिति यत् कार्यम् तत् न भवति इति .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {9।14} किम् वक्तव्यम् एतत् .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {10।14} न हि .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {11।14} कथम् अनुच्यमानम् गंस्यते .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {12।14} यासुटः एव ङिद्वचनात् .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {13।14} अपर्याप्तः च एव हि यासुट् समुदायस्य ङित्त्वे ङितम् च एनम् करोति .
(प्_1,1.5.3) क_इ,55.6-18 रो_इ,177-180 {14।14} तस्य एतत् प्रयोजनम् ङितः यत् कार्यम् तत् यथा स्यात् ङिति यत् कार्यम् तत् मा भूत् इति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {1।40} किमर्थम् इदम् उद्यते .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {2।40} गुणवृद्धी मा भूताम् इति : आदीध्यनम् आदीध्यकः , आवेव्यनम् आवेव्यकः इति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {3।40} अयम् योगः शक्यः अकर्तुम् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {4।40} कथम् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {5।40} दीधीवेव्योः छन्दोविषयत्वात् दृष्टानुविधित्वात् च छन्दसः अदीधेत् अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {6।40} दीधीवेव्योः छन्दोविषयत्वात् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {7।40} दीधीवेव्यौ छन्दोविषयौ .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {8।40} दृष्टानुविधित्वात् च छन्दसः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {9।40} दृष्टानुविधिः च छन्दसि भवति .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {10।40} अदीधेत् , अदीधयुः इति च गुणदर्शनात् अप्रतिषेधः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {11।40} अनर्थकः प्रतिषेधः अप्रतिषेधः .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {12।40} प्रजपतिः वै यत् किम् चन मनसा अदीधेत् .
(प्_1,1.6) क_इ,55.20-56.16 रो_इ,180-182 {13।40} होत्रय वृतः कृपयन् अदीधेत् .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc