व्याकरणमहाभाष्य · भाग 2140
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {12।115} यदृच्छया कः चित् ऌतकः नाम तस्मिन् अच्कार्याणि यथा स्युः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {13।115} दधि ऌतक देहि .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {14।115} मधु ऌतक देहि .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {15।115} उदङ् ऌतकः अगमत् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {16।115} प्रत्यङ् ऌतकः अगमत् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {17।115} चतुष्टयी शब्दानाम् प्रवृत्तिः : जातिशब्दाः गुणशब्दाः क्रियाशब्दाः यदृच्छाशब्दाः चतुर्थाः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {18।115} अशक्तिजानुकरणार्थः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {19।115} अशक्त्या कया चित् ब्राह्मण्या ऋतकः इति प्रयोक्तव्ये ऌतकः इति प्रयुक्तम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {20।115} तस्य अनुकरणम् : ब्राह्मणी ऌतकः इति आह .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {21।115} कुमारी ऌतकः इति आह इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {22।115} प्लुताद्यर्थः च ऌकारोपदेशः कर्तव्यः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {23।115} के पुनः प्लुतादयः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {24।115} प्लुतिद्विर्वचनस्वरिताः : कॢप्तशिख कॢप्प्तः , प्रकॢप्तः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {25।115} प्लुत्यादिषु कार्येषु कॢपेः लत्वम् सिद्धम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {26।115} तस्य सिद्धत्वात् अच्कार्याणि न सिध्यन्ति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {27।115} तस्मात् ऌकारोपदेशः कर्तव्यः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {28।115} न एतानि सन्ति प्रयोजनानि .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {29।115} न्याय्यभावात् कल्पनम् सञ्ज्ञादिषु . न्याय्यस्य ऋतकशब्दस्य भावात् कल्पनम् सञ्ज्ञादिषु साधु मन्यन्ते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {30।115} ऋतकः एव असौ न ऌतकः इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {31।115} अपरः आह : न्याय्यः ऋतकशब्दः शास्त्रान्वितः अस्ति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {32।115} सः कल्पयितव्यः साधुः सञ्ज्ञादिषु .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {33।115} ऋतकः एव असौ न ऌतकः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {34।115} अयम् तर्हि यदृच्छाशब्दः अपरिहार्यः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {35।115} ऌफिडः ऌफिड्डः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {36।115} एषः अपि ऋफिडः ऋफिड्डः च .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {37।115} कथम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {38।115} अर्तिप्रवृत्तिः च एव लोके लक्ष्यते फिडिफिड्डौ औणादिकौ प्रत्ययौ .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {39।115} त्रयी च शब्दानाम् प्रवृत्तिः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {40।115} जातिशब्दाः गुणशब्दाः क्रियाशब्दाः इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {41।115} न सन्ति यदृच्छाशब्दाः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {42।115} अन्यथा कृत्वा प्रयोजनम् उक्तम् अन्यथा कृत्वा परिहारः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {43।115} सन्ति यदृच्छाशब्दाः इति कृत्वा प्रयोजनम् उक्तम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {44।115} न सन्ति इति परिहारः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {45।115} समाने च अर्थे शास्त्रान्वितः अशास्त्रान्वितस्य निवर्तकः भवति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {46।115} तत् यथा .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {47।115} देवदत्तशब्दः देवदिण्णशब्दं निवर्तयति न गाव्यादीन् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {48।115} न एष दोषः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {49।115} पक्षान्तरैः अपि परिहाराः भवन्ति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {50।115} अनुकरणम् शिष्टाशिष्टाप्रतिषिद्धेषु यथा लौकिकवैदिकेषु . अनुकरणम् हि शिष्टस्य साधु भवति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {51।115} अशिष्टाप्रतिषिद्धस्य वा न एव तत् दोषाय भवति न अभ्युदयाय .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {52।115} यथा लौकिकवैदिकेषु .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {53।115} यथा लौकिकेषु वैदिकेषु च कृतान्तेषु .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {54।115} लोके तावत् : यः एवम् असौ ददाति यः एवम् असौ यजते यः एवम् असौ अधीते इति तस्य अनुकुर्वन् दद्यात् च यजेत च अधीयीत च सः अभ्युदयेन युज्यते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {55।115} वेदे अपि : ये एवम् विश्वसृजः सत्त्राणि अध्यासते इति तेषाम् अनुकुर्वन् तद्वत् सत्त्राणि अध्यासीत सः अपि अभ्युदयेन युज्यते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {56।115} अशिष्टाप्रतिषिद्धम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {57।115} यः एवम् असौ हिक्कति यः एवम् असौ हसति यः एवम् असौ कण्डूयति इति तस्य अनुकुर्वन् हिक्केत् च हसेत् च कण्डूयेत् च न एव तत् दोषाय स्यात् न अभ्युदयाय .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {58।115} यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {59।115} विषमः उपन्यासः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {60।115} यः च एवम् हन्ति यः च अनुहन्ति उभौ तौ हतः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {61।115} यः च पिबति यः च अनुपिबति उभौ तौ पिबतः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {62।115} यः तु खलु एवम् असौ ब्राह्मणम् हन्ति एवम् असौ सुराम् पिबति इति तस्य अनुकुर्वन् स्नातानुलिप्तः माल्यगुणकण्ठः कदलीस्तम्भम् छिन्द्यात् पयः वा पिबेत् न स मन्ये पतितः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {63।115} एवम् इह अपि यः एवम् असौ अपशब्दम् प्रयुङ्क्ते इति तस्य अनुकुर्वन् अपशब्दम् प्रयुञ्जीत सः अपि अपशब्दभाक् स्यात् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {64।115} अयम् तु अन्यः अपशब्दपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {65।115} न च अपशब्दपदार्थकः शब्दः अपशब्दः भवति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {66।115} अवश्यम् च एतत् एवम् विज्ञेयम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {67।115} यः हि मन्येत अपशब्दपदार्थकः शब्दः अपशब्दः भवति इति अपशब्दः इति एव तस्य अपशब्दः स्यात् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {68।115} न च एषः अपशब्दः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {69।115} अयम् खलु अपि भूयः अनुकरणशब्दः अपरिहार्यः यदर्थः उपदेशः कर्तव्यः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {70।115} साधु ऌकारम् अधीते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {71।115} मधु ऌकारम् अधीते इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {72।115} क्वस्थस्य पुनः एतत् अनुकरणम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {73।115} कॢपिस्थस्य .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {74।115} यदि कॢपिस्थस्य कॢपेः च लत्वम् असिद्धम् तस्य असिद्धत्वात् ऋकारे एव अच्कार्याणि भविष्यन्ति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {75।115} भवेत् तदर्थेन न अर्थः स्यात् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {76।115} अयम् तु अन्यः कॢपिस्थपदार्थकः शब्दः यदर्थः उपदेशः कर्तव्यः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {77।115} न कर्तव्यः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {78।115} इदम् अवश्यम् वक्तव्यम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {79।115} प्रकृतिवत् अनुकरणम् भवति इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {80।115} किम् प्रयोजनम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {81।115} द्विः पचन्तु इति आह .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {82।115} तिङ् अतिङः इति निघातः यथा स्यात् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {83।115} अग्नी इति आह .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {84।115} ईदूदेत् द्विवचनम् प्रगृह्यम् इति प्रगृह्यसञ्ज्ञा यथा स्यात् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {85।115} यदि प्रकृतिवत् अनुकरणम् भवति इति उच्यते अपशब्दः एव असौ भवति कुमारीऌतकः इति आह .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {86।115} ब्रह्मणी ऌतकः इति आह .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {87।115} अपशब्दः हि अस्य प्रकृतिः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {88।115} न चापशब्दः प्रकृतिः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {89।115} न हि अपशब्दाः उपदिश्यन्ते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {90।115} न च अनुपदिष्टा प्रकृतिः अस्ति. एकदेशविकृतस्य अनन्यत्वात् प्लुत्यादयः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {91।115} एकदेशविकृतम् अनन्यवत् भवति इति प्लुत्यादयः भविष्यन्ति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {92।115} यदि एकदेशविकृतम् अनन्यवत् भवति इति उच्यते राज्ञः क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {93।115} एकदेशविकृतम् अनन्यवत् षष्ठीनिर्दिष्टस्य इति वक्ष्यामि .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {94।115} यदि षष्ठीनिर्दिष्टस्य इति उच्यते कॢप्तशिख इति प्लुतः न प्राप्नोति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {95।115} न हि अत्र ऋकारः षष्ठीनिर्दिष्टः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {96।115} कः तर्हि .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {97।115} रेफः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {98।115} ऋकारः अपि अत्र षष्ठीनिर्दिष्टः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {99।115} कथम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {100।115} अविभक्तिकः निर्देशः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {101।115} कृप उः रः लः कृपो रो लः इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {102।115} अथ वा पुनः अस्तु अविशेषेण .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {103।115} ननु च उक्तम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {104।115} राज्ञः क च राजकीयम् अल्लोपः अनः इति लोपः प्राप्नोति इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {105।115} वक्ष्यति एतत् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {106।115} श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {107।115} तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {108।115} अल्लोपः अनः नकारान्तस्य इति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {109।115} इह तर्हि कॢप्तशिख इति अनृतः इति प्रतिषेधः प्राप्नोति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {110।115} रवत्प्रतिषेधात् च . रवत्प्रतिषेधात् च एतत् सिध्यति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {111।115} गुरोः अरवतः इति वक्ष्यामि .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {112।115} यदि अरवतः इति उच्यते होतृ-ऋकार , होतॄऋकार , अत्र न प्राप्नोति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {113।115} गुरोः अरवतः ह्रस्वस्य इति वक्ष्यामि .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {114।115} सः एषः सूत्रभेदेन ऌकारः प्लुत्याद्यर्थः सन् प्रत्याख्यायते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {115।115} सा एषा महतः वंशस्तम्बात् लट्वा अनुकृष्यते .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {1।80} इदम् विचार्यते .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {2।80} इमानि सन्ध्यक्षराणि तपराणि वा उपदिश्येरन् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {3।80} एत् , ओत् , ङ् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {4।80} ऐत् , औत् , च् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {5।80} अतपराणि वा यथान्यासम् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {6।80} कः च अत्र विशेषः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {7।80} सन्ध्यक्षरेषु तपरोपदेशः चेत् तपरोच्चारणम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {8।80} सन्ध्यक्षरेषु तपरोपदेशः चेत् तपरोच्चारणम् कर्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {9।80} प्लुत्यादिषु अज्विधिः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {10।80} प्लुत्यादिषु अजाश्रयः विधिः न सिध्यति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {11।80} गोत्रात नौत्रात इति अत्र अनचि च इति अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् न प्राप्नोति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {12।80} इह च प्रत्यङ् ऐतिकयन उदङ् औपगव इति अचि इति ङमुट् न प्राप्नोति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {13।80} प्लुतसञ्ज्ञा च .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {14।80} प्लुतसञ्ज्ञा च न सिध्यति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {15।80} ऐतिकयन औपगव .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {16।80} ऊकलः अच् ह्रस्वदीर्घप्लुतः इति प्लुतसञ्ज्ञा न प्राप्नोति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {17।80} सन्तु तर्हि अतपराणि .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {18।80} अतपरे एचः इक् ह्रस्वादेशे .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {19।80} यदि अतपराणि एचः इक् ह्रस्वादेशे इति वक्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {20।80} किम् प्रयोजनम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {21।80} एचः ह्रस्वादेशशासनेषु अर्धः एकारः अर्धः ओकारः वा मा भूत् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {22।80} ननु च यस्य अपि तपराणि तेन अपि एतत् वक्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {23।80} इमौ ऐचौ समाहारवर्णौ मात्रा अवर्णस्य मात्रा इवर्णोवर्णयोः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {24।80} तयोः ह्रस्वादेशशासनेषु कदा चित् अवर्णः स्यात् कदा चित् इवर्णोवर्णौ .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {25।80} मा कदा चित् अवर्णम् भूत् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {26।80} प्रत्याख्यायते एतत् : ऐचोः च उत्तरभूयस्त्वात् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {27।80} यदि प्रत्याख्यानपक्षः इदम् अपि प्रत्याख्यायते : सिद्धम् एङः सस्थानत्वात् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {28।80} ननु च एङः सस्थानतरौ अर्धः एकारः अर्धः ओकारः च .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {29।80} न तौ स्तः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {30।80} यदि हि तौ स्याताम् तौ एव अयम् उपदिशेत् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {31।80} ननु च भोः छन्दोगानाम् सात्यमुग्रिराणायनीयाः अर्धम् एकारम् अर्धम् ओकारम् च अधीयते : सुजाते एश्वसूनृते , अध्वर्यो ओद्रिभिः सुतम् , शुक्रम् ते एन्यत् यजतम् ते एन्यत् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {32।80} पार्षदकृतिः एषा तत्रभवताम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {33।80} न एव हि लोके न अन्यस्मिन् वेदे अर्धः एकारः अर्धः ओकारः वा अस्ति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {34।80} एकादेशे दीर्घग्रहणम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {35।80} एकादेशे दीर्घग्रहणम् कर्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {36।80} आत् गुणः दीर्घः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {37।80} वृद्धिः एचि दीर्घः इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {38।80} किम् प्रयोजनम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {39।80} आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनाम् त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति. खट्वा , इन्द्रः खट्वेन्द्रः , खट्वा , उदकम् खट्वोदकम् , खट्वा , ईषा खट्वेषा , खट्वा , ऊढा खट्वोढा , खट्वा , एलका खट्वैलका , खट्वा , ओदनः खट्वौदनः , खट्वा , ऐतिकायनः खट्वैतिकायनः , खट्वा , औपगवः खट्वौपगवः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {40।80} तत् तर्हि दीर्घग्रहणम् कर्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {41।80} न कर्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {42।80} उपरिष्टात् योगविभागः करिष्यते .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {43।80} अकः सवर्णे एकः भवति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {44।80} ततः दीर्घः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {45।80} दीर्घः च स भवति यः सः एकः पूर्वपरयोः इति एवम् निर्दिष्टः इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {46।80} इह अपि तर्हि प्राप्नोति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {47।80} पशुम् , विद्धम् , पचन्ति इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {48।80} न एषः दोषः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {49।80} इह तावत् पशुम् इति अमि एकः इति इयता सिद्धम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {50।80} सः अयम् एवम् सिद्धे सति यत् पूर्वग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकः पूर्वः तथाजातीयकः उभयोः यथा स्यात् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {51।80} विद्धम् इति पूर्वः इति एव अनुवर्तते .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {52।80} अथ वा आचार्यप्रवृत्तिः ज्ञापयति न अनेन सम्प्रसारणस्य दीर्घः भवति इति यत् अयम् हलः उत्तरस्य सम्प्रसारणस्य दीर्घत्वम् शास्ति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {53।80} पचन्ति इति अतः गुणे परः इति इयता सिद्धम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {54।80} सः अयम् एवम् सिद्धे सति यत् रूपग्रहणम् करोति तस्य एतत् प्रयोजनम् यथाजातीयकम् परस्य रूपम् तथाजातीयकम् उभयोः यथा स्यात् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {55।80} इह तर्हि खट्वर्श्यः मालर्श्यः इति दीर्घवचनात् अकारः न आनन्तर्यात् एकाकौकारौ न .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {56।80} तत्र कः दोषः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {57।80} विगृहीतस्य श्रवणम् प्रसज्येत .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {58।80} न ब्रूमः यत्र क्रियमाणे दोषः तत्र कर्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {59।80} किम् तर्हि .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {60।80} यत्र क्रियमाणे न दोषः तत्र कर्तव्यम् इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {61।80} क्व च क्रियमाणे न दोषः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {62।80} सञ्ज्ञाविधौ .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {63।80} वृद्धीः आत् ऐच् दीर्घः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {64।80} अत् एङ् गुणः दीर्घः इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {65।80} तत् तर्हि दीर्घग्रहणम् कर्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {66।80} न कर्तव्यम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {67।80} कस्मात् एव आन्तर्यतः त्रिमात्रचतुर्नात्राणाम् स्थानिनम् त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {68।80} तपरे गुणवृद्धी .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {69।80} ननु च भोः तः परः यस्मात् सः अयम् तपरः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {70।80} न इति आह .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {71।80} तात् अपि परः तपरः इति .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {72।80} यदि तात् अपि परः तपरः ॠदोः अप् इति इह एव स्यात् : यवः स्तवः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {73।80} लवः पवः इति अत्र न स्यात् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {74।80} न एषः तकारः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {75।80} कः तर्हि .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {76।80} दकारः .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {77।80} किम् दकारे प्रयोजनम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {78।80} अथ किम् तकारे प्रयोजनम् .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {79।80} यदि असन्देहार्थः तकारः दकारः अपि .
(श्स्_3-4.1) क_इ,22.2-23.23 रो_इ,79-84 {80।80} अथ मुखसुखार्थः तकारः दकारः अपि .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {1।138} इदम् विचार्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {2।138} ये एते वर्णेषु वर्णैकदेशाः वर्णान्तरसमानाकृतयः एतेषाम् अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {3।138} कुतः पुनः इयम् विचारणा .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {4।138} इह समुदायाः अपि उपदिश्यन्ते अवयवाः अपि .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {5।138} अभ्यन्तरः च समुदाये अवयवः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {6।138} तत् यथा : वृक्षः प्रचलन् सह अवयवैः प्रचलति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {7।138} तत्र समुदायस्थस्य अवयवस्य अवयवग्रहणेन ग्रहणम् स्यात् वा न वा इति जायते विचारणा .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {8।138} कः च अत्र विशेषः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {9।138} व् अर्णैकदेशाः वर्णग्रहणेन चेत् सन्ध्यक्ष्रे समानाक्षरविधिप्रतिषेधः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {10।138} वर्णैकदेशाः वर्णग्रहणेन इति चेत् सन्ध्यक्षरे समानाक्षराश्रयः विधिः प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {11।138} स प्रतिषेध्यः : अग्ने , इन्द्रम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {12।138} वायो , उदकम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {13।138} अकः सवर्णे दीर्घः इति दीर्घत्वम् प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {14।138} दीर्घे ह्रस्वविधिप्रतिषेधः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {15।138} दीर्घे ह्रस्वाक्षराश्रयः विधिः प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {16।138} स प्रतिषेध्यः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {17।138} ग्रामणीः , आलूय , प्रलूय .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {18।138} ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {19।138} न एषः दोषः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {20।138} आचार्यप्रवृत्तिः ज्ञापयति न दीर्घे ह्रस्वाश्रयः विधिः भवति इति यत् अयम् दीर्घात् छे तुकम् शास्ति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {21।138} न एतत् अस्ति ज्ञापकम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {22।138} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {23।138} किम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {24।138} पदान्तात् वा इति विभाषाम् वक्ष्यामि इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {25।138} यत् तर्हि योगविभागम् करोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {26।138} इतरथा हि दीर्घात् पदान्तात् वा इति एव ब्रूयात् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {27।138} इह तर्हि खट्वाभिः , मालाभिः , अतः बिह्सः ऐस् , इति ऐस्भावः प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {28।138} तपरकरणसामर्थ्यात् न भविष्यति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {29।138} इह तर्हि याता वाता , अतः लोपः आर्धधातुके इति अकारलोपः प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {30।138} ननु च अत्र अपि तपरकरणसामर्थ्यात् एव न भविष्यति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {31।138} अस्ति हि अन्यत् तपरकरणे प्रयोजनम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {32।138} किम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {33।138} सर्वस्य लोपः मा भूत् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {34।138} अथ क्रियमाणे अपि तपरे परस्य लोपे कृते पूर्वस्य कस्मात् न भवति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {35।138} परलोपस्य स्थानिवद्भावात् असिद्धत्वात् च .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {36।138} एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नाकारस्थस्य अकारस्य लोपः भवति इति यत् अयम् आतः अनुपसर्गे कः इति ककारम् अनुबन्धम् करोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {37।138} कथम् कृत्वा ज्ञापकम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {38।138} कित्करणे एतत् प्रयोजनम् किति इति आकार्लोपः यथा स्यात् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {39।138} यदि च आकारस्थस्य अपि अकार्लोपः स्यात् कित्करणम् अनर्थकम् स्यात् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {40।138} परस्य अकारस्य लोपे कृते द्वयोः अकारयोः पररूपे हि सिद्धम् रूपम् स्यात्: गोदः , कम्बलदः इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {41।138} पश्यति तु आचार्यः नाकारस्थस्य अकारस्य लोपः भवति इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {42।138} अतः ककारम् अनुबन्धम् करोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {43।138} न एतत् अस्ति ज्ञापकम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {44।138} उत्तरार्थम् एतत् स्यात् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {45।138} तुन्दशोकयोः परिमृजापनुदोः इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {46।138} यत् तर्हि गापोः ठक् इति अनन्यार्थम् ककारम् अनुबन्धम् करोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {47।138} एकवर्णवत् च .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {48।138} एकवर्णवत् च दीर्घः भवति इति वक्तव्यम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {49।138} किम् प्रयोजनम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {50।138} वाचा तरति इति द्व्यज्लक्षणः ठन् मा भूत् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {51।138} इह च वाचः निमित्तम् , तस्य निमित्तम् संयोगोत्पात्तौ इति द्व्यज्लक्षणः यत् मा भूत् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {52।138} अत्र अपि गोनौग्रहणम् ज्ञापकम् दीर्घात् द्व्यज्लक्षणः विधिः न भवति इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {53।138} अयम् तु सर्वेषाम् परिहारः : न अव्यपवृक्तस्य अवयवे तद्विधिः यथा द्रव्येषु .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {54।138} न अव्यपवृक्तस्य अवयव्स्य अवयवाश्रयः विधिः भवति यथा द्रव्येषु .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {55।138} तत् यथा द्रव्येषु : सप्तदश सामिधेन्यः भवन्ति इति न सप्तदशारत्निमात्रम् काष्ठम् अग्नौ अभ्याधीयते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {56।138} विषमः उपन्यासः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {57।138} प्रत्यृचम् च एव हि तत् कर्म चोद्यते असम्भवः च अग्नौ वेद्याम् च .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {58।138} यथा तर्हि सप्तदश प्रादेशमात्रीः अश्वत्थीः समिधः अभ्यादधीत इति न सप्तदशप्रादेशमात्रम् काष्ठम् अभ्याधीयते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {59।138} अत्र अपि प्रतिप्रवणम् च एतत् कर्म चोद्यते तुल्यः च असम्भवः अग्नौ वेद्याम् च .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {60।138} यथा तर्हि तैलम् न विक्रेतव्यम् , मांसम् न विक्रेतव्यम् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {61।138} व्यपवृत्कम् च न विक्रीयते , अव्यपवृक्तम् च गावः च सर्षपाः च विक्रियन्ते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {62।138} तथा लोमनखम् स्पृष्ट्वा शौचम् कर्तव्यम् इति , व्यपवृक्तम् स्पृष्ट्वा नियोगतः कर्तव्यम् अव्यपवृक्ते कामचारः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {63।138} यत्र तर्हि व्यपवर्गः अस्ति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {64।138} क्व च व्यपवर्गः अस्ति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {65।138} सन्ध्यक्षरेषु .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {66।138} सन्ध्यक्षरेषु विवृतत्वात् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {67।138} यत् अत्र अवर्णम् विवृततरम् तत् अन्यस्मात् अवर्णात् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {68।138} ये*अपि इवर्णोवर्णे विवृततरे ते*अन्याभ्याम् इवर्णोवर्णाभ्याम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {69।138} अथवा पुनः न गृह्यन्ते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {70।138} अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {71।138} अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारस्य ग्रहणम् कर्तव्यम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {72।138} तस्मात् नुट् द्विहलः , ऋकारे च इति वक्तव्यम् इह अपि यथा स्यात् : आनृधतुः , आनृधुः इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {73।138} यस्य पुनः गृह्यन्ते द्विहलः इति एव तस्य सिद्धम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {74।138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {75।138} द्विहल्ग्रहणम् न करिष्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {76।138} तस्मात् नुट् भवति इति एव .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {77।138} यदि न क्रियते आटतुः , आटुः इति अत्र अपि प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {78।138} अश्नोतिग्रहणम् नियमार्थम् भविष्यति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {79।138} अश्नोतेः एव अवर्णोपधस्य न अन्यस्य अवर्णोपधस्य इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {80।138} लादेशे च ऋकारग्रहणम् कर्तव्यम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {81।138} कृपः रः लः , ऋकारस्य च इति वक्तव्यम् इह अपि यथा स्यात् : कॢप्तः , कॢप्तवान् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {82।138} यस्य पुनः गृह्यन्ते रः इति एव तस्य सिद्धम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {83।138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {84।138} ऋकारः अपि अत्र निर्दिश्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {85।138} कथम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {86।138} अविभक्तिकः निर्देशः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {87।138} कृप , उः , रः , लः कृपो रो लः इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {88।138} अथ वा उभयतः स्फोटमात्रम् निर्दिश्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {89।138} रश्रुतेः लश्रुतिः भवति इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {90।138} विनामे ऋकारग्रहणम् कर्तव्यम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {91।138} रषाभ्याम् नः णः समानपदे , ऋकारात् च इति वक्तय्वम् इह अपि यथा स्यात् : मातॄणाम् , पितॄणाम् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {92।138} यस्य पुनः गृह्यन्ते रषाभ्याम् इति एव तस्य सिद्धम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {93।138} न सिध्यति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {94।138} यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {95।138} मा भूत् एवम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {96।138} अड्व्यवाये इति एव सिद्धम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {97।138} न सिध्यति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {98।138} वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {99।138} ये व्यपवृक्ताः अपि वर्णाः भवन्ति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {100।138} यत् च अपि रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {101।138} एवम् तर्हि योगविभागः करिष्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {102।138} रषाभ्याम् नः णः समानपदे .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {103।138} ततः व्यवाये .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {104।138} व्यवाये च रषाभ्याम् नः णः भवति इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {105।138} ततः अट्कुप्वाङ्नुम्भिः इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {106।138} इदम् इदानीम् किमर्थम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {107।138} नियमार्थम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {108।138} एतैः एव आक्षरसमम्नायिकैः व्यवाये न अन्यैः इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {109।138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {110।138} आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् नः णत्वम् इति यत् अयम् क्षुभादिषु नृनमनशब्दम् पठति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {111।138} न एतत् अस्ति ज्ञापकम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {112।138} वृद्ध्यर्थम् एतत् स्यात् : नार्नमनिः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {113।138} यत् तर्हि तृप्नोतिशब्दम् पठति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {114।138} यत् च अपि नृनमनशब्दम् पठति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {115।138} ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {116।138} बहिरङ्गा वृद्धिः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {117।138} अन्तरङ्गम् णत्वम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {118।138} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {119।138} अथ वा उपरिष्टात् योगविभागः करिष्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {120।138} ऋतो नः णः भवति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {121।138} ततः छन्दसि अवग्रहात् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {122।138} ऋतः इति एव .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {123।138} प्लुतौ ऐचः इदुतौ .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {124।138} एतत् च वक्तव्यम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {125।138} यस्य पुनः गृह्यन्ते गुरोः टेः इति एव प्लुत्या तस्य सिद्धम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {126।138} यस्य अपि न गृह्यन्ते तस्य अपि एषः न दोषः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {127।138} क्रियते एतत् न्यासे एव .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {128।138} तुल्यरूपे संयोगे द्विव्यञ्जनविधिः .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {129।138} तुल्यरूपे संयोगे द्विव्यञ्जनाश्रयः विधिः न सिध्यति : कुक्कुटः , पिप्पलः , पित्तम् इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {130।138} यस्य पुनः गृह्यन्ते तस्य द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {131।138} यस्य अपि न गृह्यन्ते तस्य अपि द्वौ ककारौ द्वौ पकारौ द्वौ तकारौ .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {132।138} कथम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {133।138} मात्राकालः अत्र गम्यते .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {134।138} न च मात्रिकम् व्यञ्जनम् अस्ति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {135।138} अनुपदिष्टम् सत् कथम् शक्यम् विज्ञातुम् .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {136।138} यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति इह तु कथम् सय्श्यन्ता सव्श्वत्सरः यल्श् लोकम् तल्श् लोकम् इति यत्र एतत् अस्ति अण् सवर्णान् गृह्णाति इति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {137।138} अत्र अपि मात्राकलः गृह्यते न च मात्रिकम् व्यञ्जनम् अस्ति .
(श्स्_3-4.2) क_इ,23.24-26.27 रो_इ,84-93 {138।138} अनुपदिष्टम् सत् कथम् शक्यम् प्रतिपत्तुम् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {1।30} सर्वे वर्णाः सकृत् उपदिष्टाः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {2।30} अयम् हकारः द्विः उपदिश्यते पूर्वः च परः च .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {3।30} यदि पुनः पूर्वः एव उपदिश्येत परः एव वा .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {4।30} कः च अत्र विशेषः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {5।30} हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {6।30} हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् कर्तव्यम् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {7।30} आतः अटि नित्यम् , शः छः अटि , दीर्घात् अटि समानपदे .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {8।30} हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : महाश् हि सः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {9।30} उत्त्वे च . उत्त्वे च हकारग्रहणम् कर्तव्यम् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {10।30} अतः रोः अप्लुतात् अप्लुते , हशि च .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {11।30} हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : पुरुषः हसति , ब्राह्मणः हसति इति .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {12।30} अस्तु तर्हि पूर्वोपदेशः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {13।30} पूर्वोपदेशे कित्त्वक्सेड्विधयः झल्ग्रहणानि च .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {14।30} यदि पूर्वोपदेशः कित्त्वम् विधेयम् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {15।30} स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {16।30} रलः व्युपधात् हलादेः इति कित्त्वम् न प्राप्नोति .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {17।30} क्सविधिः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {18।30} क्सः च विधेयः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {19।30} अधुक्षत् अलिक्षत् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {20।30} शलः इगुपधात् अनिटः क्सः इति क्सः न प्राप्नोति .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {21।30} इड्विधिः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {22।30} इट् च विधेयः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {23।30} रुदिहि स्वपिहि .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {24।30} वलादिलक्षणः इट् न प्राप्नोति. झल्ग्रहणानि च .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {25।30} किम् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {26।30} अहकाराणि स्युः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {27।30} तत्र कः दोषः .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {28।30} झलः झलि इति इह न स्यात् : अदाग्धाम् अदाग्धम् .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {29।30} तस्मात् पूर्वः च उपदेष्टव्यः परः च .
(श्स्_5.1) प्. इ.27.2-20 रो_इ,93-94 {30।30} यदि च किम् चित् अन्यत्र अपि उपदेशे प्रयोजनम् अस्ति तत्र अपि उपदेशः कर्तव्यः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {1।36} इदम् विचार्यते : अयम् रेफः यकारवकाराभ्याम् पूर्वः एव उपदिश्येत ह र य वट् इति परः एव वा यथान्यासम् इति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {2।36} कः च अत्र विशेषः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {3।36} रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {4।36} रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णानाम् प्रतिषेधः वक्तव्यः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {5।36} अनुनासिकस्य : स्वः नयति , प्रातः नयति इति यरः अनुनासिके अनुनासिकः वा इति अनुनासिकः प्राप्नोति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {6।36} द्विर्वचनस्य : भद्रह्रदः , मद्रह्रदः इति यरः इति द्विर्वचनम् प्राप्नोति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {7।36} परसवर्णस्य : कुण्डम् रथेन , वनम् रथेन .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {8।36} अनुस्वारस्य ययि इति परसवर्णः प्राप्नोति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {9।36} अस्तु तर्हि पूर्वोपदेशः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {10।36} पूर्वोपदेशे कित्त्वप्रतिषेधः व्यलोपवचनम् च .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {11।36} यदि पूर्वोपदेशः कित्त्वम् प्रतिषेध्यम् .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {12।36} देवित्वा दिदेविषति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {13।36} रलः व्युपधात् इति कित्त्वम् प्राप्नोति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {14।36} न एषः दोषः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {15।36} न एवम् विज्ञायते रलः व्युपधात् इति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {16।36} किम् तर्हि .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {17।36} रलः अव्व्युपधात् इति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {18।36} किम् इदम् अव्व्युपधात् इति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {19।36} अवकारान्तात् व्युव्पधात् अव्व्युपधात् इति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {20।36} व्यलोपवचनम् च .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {21।36} व्योः च लोपः वक्तव्यः : गौधेरः , पचेरन् यजेरन् .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {22।36} जीवेः रदानुक् : जीरदानुः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {23।36} वलि इति लोपः न प्राप्नोति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {24।36} न एषः दोषः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {25।36} रेफः अपि अत्र निर्दिश्यते .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {26।36} लोपः व्योः वलि इति रेफे च वलि च इति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {27।36} अथ वा पुनः अस्तु परोपदेशः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {28।36} ननु च उक्तम् रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः इति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {29।36} अनुनासिकपरसवर्णयोः तावत् प्रतिषेधः न वक्तव्यः .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {30।36} रेफोष्मणाम् सवर्णाः न सन्ति .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {31।36} द्विर्वचने अपि न इमौ रहौ कार्यिणौ द्विर्वचनस्य .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {32।36} किम् तर्हि .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {33।36} निमित्तम् इमौ रहौ द्विर्वचनस्य .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {34।36} तत् यथा .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {35।36} ब्राह्मणाः भोज्यन्ताम् .
(श्स्_5.2) क_इ,27.21-28.15 रो_इ,95-97 {36।36} माठरकौण्डिन्यौ परिवेविष्टाम् इति. न इदानीम् तौ भुञ्जाते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {1।74} इदम् विचार्यते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {2।74} इमे अयोगवाहाः न क्व चित् उपदिश्यन्ते श्रूयन्ते च .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {3।74} तेषाम् कार्यार्थः उपदेशः कर्तव्यः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {4।74} के पुनः अयोगवाहाः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {5।74} विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारानुनासिक्ययमाः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {6।74} कथम् पुनः अयोगवाहाः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {7।74} यत् अयुक्ताः वहन्ति अनुपदिष्टाः च श्रूयन्ते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {8।74} क्व पुनः एषाम् उपदेशः कर्तव्यः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {9।74} अयोगवाहानाम् अट्सु णत्वम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {10।74} अयोगवाहानाम् अट्सु उपदेशः कर्तव्यः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {11।74} किम् प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {12।74} णत्वम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {13।74} उरःकेण , उरःपेण : अड्व्यवाये इति णत्वम् सिद्धम् भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {14।74} शर्षु जश्भावषत्वे .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {15।74} शर्षु उपदेशः कर्तव्यः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {16।74} किम् प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {17।74} जश्भावषत्वे .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {18।74} अयम् उब्जिः उपध्मानीयोपधः पठ्यते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {19।74} तस्य जश्त्वे कृते उब्जिता उब्जितुम् इति एतत् रूपम् यथा स्यात् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {20।74} यदि उब्जिः उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयादेः एव द्विर्वचनम् प्राप्नोति. दकारोपधे पुनः नन्द्राः संयोगादयः इति प्रतिषेधस्ः सिद्धः भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {21।74} यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {22।74} असिद्धे भः उद्जेः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {23।74} इदम् अस्ति स्तोः श्चुना श्चुः इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {24।74} ततः वक्ष्यामि भः उद्जेः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {25।74} उद्जेः श्चुना सन्निपाते भः भवति इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {26।74} तत् तर्हि वक्तव्यम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {27।74} न वक्तव्यम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {28।74} निपातनात् एव सिद्धम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {29।74} किम् निपातनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {30।74} भुजन्युब्जौ पण्युपतपयोः इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {31।74} इह अपि तर्हि प्राप्नोति अभ्युद्गः , समुद्गः इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {32।74} अकुत्वविषये तत् निपातनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {33।74} अथ वा न एतत् उब्जेः रूपम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {34।74} गमेः द्व्युपर्सर्गात् डः विधीयते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {35।74} अभ्युद्गतः अभ्युद्गः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {36।74} समुद्गतः समुद्गः इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {37।74} षत्वम् च प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {38।74} सर्पिःषु धनुःषु .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {39।74} शर्व्यवाये इति षत्वम् सिद्धम् भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {40।74} नुम्विसर्जनीयशर्व्यवाये अपि इति विसर्जनीयग्रहणम् न कर्तव्यम् भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {41।74} नुमः च अपि तर्हि ग्रहणम् शक्यम् अकर्तुम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {42।74} कथम् सर्पींषि धनूंषि .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {43।74} अनुस्वारे कृते शर्व्यवाये इति एव सिद्धम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {44।74} अवश्यम् नुमः ग्रहणम् कर्तव्यम् अनुस्वारविशेषणम् नुम्ग्रहणम् नुमः यः अनुस्वारः तत्र यथा स्यात् इह मा भूत् : पुंसु इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {45।74} अथ वा अविशेषेण उपदेशः कर्तव्यः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {46।74} किम् प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {47।74} अविशेषेण संयोगोपधासञ्ज्ञालोन्त्यद्विर्वचनस्थानिवद्भावप्रतिषेधाः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {48।74} अविशेषेण संयोगसञ्ज्ञा प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {49।74} ऊब्जक .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {50।74} हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {51।74} उपधासञ्ज्ञा च प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {52।74} दुष्कृतम् , निष्कृतम् , निष्पीतम् , दुष्पीतम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {53।74} इदुदुपधस्य च अप्रत्ययस्य इति षत्वम् सिद्धम् भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {54।74} न एतत् अस्ति प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {55।74} न इदुदुपधग्रहणनेन विसर्जनीयः विशेष्यते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {56।74} किम् तर्हि .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {57।74} सकारः विशेष्यते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {58।74} इदुदुपधस्य सकारस्य यः विसर्जनीयः इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {59।74} अथ वा उपधाग्रहणम् न करिष्यते .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {60।74} इदुद्भ्याम् तु विसर्जनीयम् विशेषयिष्यामः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {61।74} इदुद्भ्याम् उत्तरस्य विसर्जनीयस्य इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {62।74} अलः अन्त्यविधिः प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {63।74} वृक्षः तरति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {64।74} प्लक्षः तरति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {65।74} अलः अन्त्यस्य विधयः भवन्ति इति अलः अन्त्यस्य सत्वम् सिद्धम् भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {66।74} एतत् अपि न अस्ति प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {67।74} निर्दिश्यमानस्य आदेशाः भवन्ति इति विसर्जनीयस्य एव भविष्यति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {68।74} द्विर्वचनम् प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {69।74} उरःकः , उरःपः .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {70।74} अनचि च .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {71।74} अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् सिद्धम् भवति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {72।74} स्थानिवद्भावप्रतिषेधः च प्रयोजनम् .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {73।74} यथा इह भवति उरःकेण , उरःपेण इति अड्व्यवाये अपि इति णत्वम् एवम् इह अपि स्थानिवद्भावात् प्राप्नोति व्यूढोरस्केन महोरस्केन इति .
(श्स्_5.3) क_इ,28.16-29.28 रो_इ,97-101 {74।74} तत्र अनल्विधौ इति प्रतिषेधः सिद्धः भवति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {1।101} किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {2।101} अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {3।101} धातवः एकवर्णाः अर्थवन्तः दृश्यन्ते : एति , अध्येति , अधीते इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {4।101} प्रातिपदिकनि एकवर्णानि अर्थवन्ति : आभ्याम् , एभिः , एषु .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {5।101} प्रत्ययाः एकवर्णाः अर्थवन्तः : औपगवः , कापटवः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {6।101} निपाताः एकवर्णाः अर्थवन्तः : अ*अपेहि .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {7।101} इ*इन्द्रम् पश्य .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {8।101} उ*उत्तिष्ठ .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {9।101} धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् मन्यामहे अर्थवन्तः वर्णाः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {10।101} वर्णव्यत्यये च अर्थान्तरगमनात् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {11।101} वर्णव्यत्यये च अर्थान्तरगमनात् मन्यामहे अर्थवन्तः वर्णाः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {12।101} कूपः , सूपः , यूपः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {13।101} कूपः इति सककारेण कः चित् अर्थः गम्यते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {14।101} सूपः इति ककारापाये सकारोपजने च अर्थान्तरम् गम्यते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {15।101} यूपः इति ककारसकारापाये यकारोपजने च अर्थान्ततम् गम्यते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {16।101} ते मन्यामहे : यः कूपे कूपार्थः सः ककारस्य .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {17।101} यः सूपे सूपार्थः सः सकारस्य .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {18।101} यः यूपे यूपार्थः सः यकारस्य इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {19।101} वर्णानुपलब्धौ च अनर्थगतेः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {20।101} वर्णानुपलब्धौ च अनर्थगतेः मन्यामहे अर्थवन्तः वर्णाः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {21।101} वृक्षः , ऋक्षः , काण्डीरः , आण्डीरः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {22।101} वृक्षः इति सककारेण कः चित् अर्थः गम्यते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {23।101} ऋक्षः इति वकारापाये सः अर्थः न गम्यते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {24।101} काण्डीरः इति सककारेण कः चित् अर्थः गम्यते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {25।101} आण्डीरः इति ककारापाये सः अर्थः न गम्यते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {26।101} किम् तर्हि उच्यते अनर्थगतेः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {27।101} न साधीयः हि अत्र अर्थस्य गतिः भवति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {28।101} एवम् तर्हि इदम् पठितव्यम् स्यात् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {29।101} वर्णानुपलब्धौ च अतदर्थगतेः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {30।101} किम् इदम् अतदर्थगतेः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {31।101} तस्य अर्थः तदर्थः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {32।101} तदर्थस्य गतिः तदर्थगतिः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {33।101} न तदर्थगतिः अतदर्थगतिः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {34।101} अतदर्थगतेः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {35।101} अथ वा सः अर्थः तदर्थः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {36।101} तदर्थस्य गतिः तदर्थगतिः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {37।101} न तदर्थगतिः अतदर्थगतिः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {38।101} अतदर्थगतेः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {39।101} सः तर्हि तथा निर्देशः कर्तव्यः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {40।101} न कर्तव्यः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {41।101} उत्तरपदलोपः अत्र द्रष्टव्यः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {42।101} तत् यथा: उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखम् इव मुखम् अस्य खरमुखः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {43।101} एवम् अतदर्थगतेः अनर्थगतेः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {44।101} सङ्घातार्थवत्त्वात् च .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {45।101} सङ्घातार्थवत्त्वात् च मन्यामहे अर्थवन्तः वर्णाः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {46।101} येषाम् सङ्घाताः अर्थवन्तः अवयवाः अपि तेषाम् अर्थवन्तः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {47।101} येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {48।101} तत् यथा: एकः चक्षुष्मान् दर्शने समर्थः तत्समुदायः च शतम् अपि समर्थम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {49।101} एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {50।101} येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {51।101} तत् यथा: एकः अन्धः दर्शने असमर्थः तत्समुदायः च शतम् अपि असमर्थम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {52।101} एका च सिकता तैलदाने असमर्था तत्समुदायः च खारीशतम् अपि असमर्थम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {53।101} यदि तर्हि इमे वर्णाः अर्थवन्तः अर्थवत्कृतानि प्राप्नुवन्ति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {54।101} कानि .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {55।101} अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा प्रातिपदिकात् इति स्वाद्युत्पत्तिः सुबन्तम् पदम् इति पदसञ्ज्ञा .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {56।101} तत्र कः दोषः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {57।101} पदस्य इति नलोपादीनि प्राप्नुवन्ति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {58।101} धनम् , वनम् इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {59।101} सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {60।101} सङ्घातस्य एकत्वम् अर्थः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {61।101} तेन वर्णात् सुबुत्पत्तिः न भविष्यति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {62।101} अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {63।101} अनर्थकाः तु वर्णाः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {64।101} कुतः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {65।101} प्रतिवर्णम् अर्थानुपलब्धेः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {66।101} न हि प्रतिवर्णम् अर्थाः उपलभ्यन्ते .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {67।101} किम् इदम् प्रतिवर्णम् इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {68।101} वर्णम् वर्णम् प्रति प्रतिवर्णम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {69।101} वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {70।101} वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् मन्यामहे अनर्थकाः वर्णाः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {71।101} वर्णव्यत्यये: कृतेः तर्कुः , कसेः सिकताः , हिंसेः सिंहः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {72।101} वर्णव्यत्ययः न अर्थव्यत्ययः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {73।101} अपायः लोपः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {74।101} घ्नन्ति , घन्तु , अघ्नन् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {75।101} वर्णापायः नार्थापायः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {76।101} उपजनः आगमः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {77।101} लविता , लवितुम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {78।101} वर्णोपजनः न अर्थोपजनः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {79।101} विकारः आदेशः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {80।101} घातयति , घातकः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {81।101} वर्णविकारः न अर्थविकारः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {82।101} यथा एव वर्णव्यत्ययापायोपजनविकाराः भवन्ति तद्वत् अर्थव्यत्ययापायोपजनविकारैः भवितव्यम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {83।101} न च इह तद्वत् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {84।101} अतः मन्यामहे अनर्थकाः वर्णाः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {85।101} उभयम् इदम् वर्णेषु उक्तम् अर्थवन्तः अनर्थकाः इति च .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {86।101} किम् अत्र न्याय्यम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {87।101} उभयम् इति आह .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {88।101} कुतः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {89।101} स्वभावतः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {90।101} तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {91।101} न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् , कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {92।101} तत्र किम् अस्माभिः शक्यम् कर्तुम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {93।101} यत् धातुप्रत्ययप्रातिपदिकनिपाताः एकवर्णाः अर्थवन्तः अतः अन्ये अनर्थकाः इति स्वाभाविकम् एतत् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {94।101} कथम् यः एषः भवता वर्णानाम् अर्थवत्तायाम् हेतुः उपदिष्टः अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् वर्णव्यत्यये च अर्थान्तरगमनात् वर्णानुपलब्धौ च अनर्थगतेः सङ्घातार्थवत्त्वात् च इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {95।101} सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्ते: कूपः , सूपः , यूपः इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {96।101} यदि हि वर्णव्यत्ययकृतम् अर्थान्तरगमनम् स्यात् भूयिष्ठः कूपार्थः सूपे स्यात् सूपार्थः च कूपे कूपार्थः च यूपे यूपार्थः च कूपे सूपार्थः च यूपे यूपार्थः च सूपे .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {97।101} यतः तु खलु न कः चित् कूपस्य वा सूपे सूपस्य वा कूपे कूपस्य वा यूपे यूपस्य वा कूपे सूपस्य वा यूपे यूपस्य वा सूपे अतः मन्यामहे सङ्घातान्तराणि एव एतानि एवञ्जातीयकानि अर्थान्तरेषु वर्तन्ते इति .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {98।101} इदम् खलु अपि भवता वर्णानाम् अर्थवत्ताम् ब्रुवता साधीयः अनर्थकत्वम् द्योतितम् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {99।101} यः मन्यते यः कूपे कूपार्थः सः ककारस्य सूपे सूपार्थः सः सकारस्य यूपे यूपार्थः सः यकारस्य इति ऊपशब्दः तस्य अनर्थकः स्यात् .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {100।101} तत्र इदम् अपरिहृतम् सङ्घातार्थवत्त्वात् च .
(श्स्_5.4) क_इ,30.1-32.11 रो_इ,101-106 {101।101} एतस्य अपि प्रातिपदिकस्ञ्ज्ञायाम् वक्ष्यति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {1।29} अ , इ , उण् ऋ , ऌक् ए , ओङ् ऐ , औच् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {2।29} प्रत्याहारे अनुबन्धानाम् कथम् अज्ग्रहणेषु न .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {3।29} ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषाम् अज्ग्रहणेषु ग्रहणम् कस्मात् न भवति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {4।29} किम् च स्यात् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {5।29} दधि णकारीयति मधु णकारीयति इति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {6।29} इकः यण् अचि इति यणादेशः प्रसज्येत .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {7।29} आचारात् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {8।29} किम् इदम् आचारात् इति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {9।29} आचार्याणाम् उपचारात् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {10।29} न एतेषु आचार्याः अच्कार्याणि कृतवन्तः .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {11।29} अप्रधानत्वात् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {12।29} अप्रधानत्वात् च .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {13।29} न खलु अपि एतेषाम् अक्षु प्राधान्येन उपदेशः क्रियते .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {14।29} क्व तर्हि .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {15।29} हल्षु .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {16।29} कुतः एतत् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {17।29} एषा हि आचार्यस्य शैली लक्ष्यते यत् तुल्यजातीयान् तुल्यजातीयेषु उपदिशति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {18।29} अचः अक्षु हलः हल्षु .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {19।29} लोपः च बलवत्तरः .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {20।29} लोपः खलु अपि तावत् भवति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {21।29} ऊकालः अच् इति वा योगः तत्कालानाम् यथा भवेत् अचाम् ग्रहणम् अच्कार्यम् तेन एतेषाम् न भविष्यति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {22।29} अथ वा योगविभागः करिष्यते .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {23।29} ऊकालः अच् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {24।29} उ ऊ उ3 इति एवङ्कालः अच् भवति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {25।29} ततः ह्रस्वदीर्घप्लुतः .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {26।29} ह्रस्वदीर्घप्लुतसञ्ज्ञः च भवति ऊकालः अच् .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {27।29} एवम् अपि कुक्कुटः इति अत्र अपि प्राप्नोति .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {28।29} तस्मात् पूर्वोक्तः एव परिहारः .
(श्स्_5.5) क_इ,32.12-33.4 रो_इ,107-108 {29।29} एषः एव अर्थः. अपरः आह : ह्रस्वादीनाम् वचनात् प्राक् यावत् तावत् एव योगः अस्तु अच्कार्याणि यथा स्युः तत्कालेषु अक्षु कार्याणि
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {1।43} अथ किमर्थम् अन्तःस्थानाम् अण्सु उपदेशः क्रियते .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {2।43} इह सय्श्य्श्यन्ता सव्श्व्श्वत्सरः यल्श् ल्श्लोकम् तल्श् ल्श्लोकम् इति परसवर्णस्य असिद्धत्वात् अनुस्वारस्य एव द्विर्वचनम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {3।43} तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात् पूर्वस्य अपि परसवर्णः यथा स्यात् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {4।43} न एतत् अस्ति प्रयोजनम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {5।43} वक्ष्यति एतत् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {6।43} द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् इति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {7।43} यावता सिद्धत्वम् उच्यते परसवर्णः एव तावद् भवति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {8।43} परसवर्णे तर्हि कृते तस्य यर्ग्रहणेण ग्रहणात् द्विर्वचनम् यथा स्यात् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {9।43} मा भूत् द्विर्वचनम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {10।43} ननु च भेदः भवति. सति द्विर्वचने त्रियकारम् असति द्विर्वचने द्वियकारम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {11।43} न अस्ति भेदः .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {12।43} सति अपि द्विर्वचने द्वियकारम् एव .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {13।43} कथम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {14।43} हलः यमाम् यमि लोपः इति एवम् एकस्य लोपेन भवितव्यम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {15।43} एवम् अपि भेदः .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {16।43} सति द्विर्वचने कदा चित् द्वियकारम् कदा चित् त्रियकारम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {17।43} सः एषः कथम् भेदः न स्यात् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {18।43} यदि नित्यः लोपः स्यात् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {19।43} विभाषा च सः लोपः .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {20।43} यथा अभेदः तथा अस्तु .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {21।43} अनुवर्तते विभाषा शरः अचि यत् वारयति अयम् द्वित्वम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {22।43} यत् अयम् शरः अचि इति द्विर्वचनप्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनुवर्तते विभाषा इति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {23।43} कथम् कृत्वा ज्ञापकम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {24।43} नित्ये हि तस्य लोपे प्रतिषेधार्थः न कः चित् स्यात् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {25।43} यदि नित्यः लोपः स्यात् प्रतिषेधवचनम् अनर्थकम् स्यात् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {26।43} अस्तु अत्र द्विर्वचनम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {27।43} झरः झरि सवर्णे इति लोपः भविष्यति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {28।43} पश्यति तु आचार्यः विभाषा सः लोपः इति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {29।43} ततः द्विर्वचनप्रतिषेधम् शास्ति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {30।43} न एतत् अस्ति ज्ञापकम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {31।43} नित्ये अपि तस्य लोपे सः प्रतिषेधः अवश्यम् वक्तव्यः .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {32।43} यत् एतत् अचः रहाभ्याम् इति द्विर्वचनम् लोपापवादः सः विज्ञायते .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {33।43} कथम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {34।43} यरः इति उच्यते .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {35।43} एतावन्तः च यरः यत् उत झरः वा यमः वा .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {36।43} यदि च अत्र नित्यः लोपः स्यात् द्विर्वचनम् अनर्थकम् स्यात् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {37।43} किम् तर्हि तयोः योगयोः उदाहरणम् .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {38।43} यत् अकृते द्विर्वचने त्रिव्यञ्जनः संयोगः .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {39।43} प्रत्त्तम् , अवत्त्तम् , आदित्य्यः .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {40।43} इह इदानीम् कर्त्ता , हर्त्ता इति द्विर्वचनसामर्थ्यात् लोपः न भवति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {41।43} एवम् इह अपि लोपः न स्यात्:: कर्षति वर्षति इति .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {42।43} तस्मात् नित्ये अपि लोपे अवश्यम् सः प्रतिषेधः वक्तव्यः .
(श्स्_5.6) क_इ,33.5-34.2 रो_इ,108-110 {43।43} तत् एतत् अत्यन्तम् सन्दिग्धम् वर्तते आचार्याणाम् विभाषा अनुवर्तते न वा इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {1।81} अयम् णकारः द्विः अनुबध्यते पूर्वः च परः च .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {2।81} तत्र अण्ग्रहणेषु इण्ग्रहणेषु च सन्देहः भवति पूर्वेण वा स्युः परेण वा इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {3।81} कतरस्मिन् तावत् अण्ग्रहणे सन्देहः .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {4।81} ढ्रलोपे पूर्वस्य दीर्घः अणः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {5।81} असन्दिग्धम् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {6।81} कुतः एतत् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {7।81} पराभावात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {8।81} न हि ढ्रलोपे परे अणः सन्ति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {9।81} ननु च अयम् अस्ति : आतृढम् आवृढम् इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {10।81} एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {11।81} यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {12।81} ढ्रलोपे पूर्वस्य दीर्घः अचः इति एव ब्रूयात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {13।81} अथ वा एतत् अपि न ब्रूयात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {14।81} अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {15।81} अस्मिन् तर्हि अण्ग्रहणे सन्देहः के अणः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {16।81} असन्दिग्धम् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {17।81} कुतः एतत् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {18।81} पराभावात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {19।81} न हि के परे अणः सन्ति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {20।81} ननु च अयम् अस्ति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {21।81} गोका नौका इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {22।81} एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {23।81} यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {24।81} के अचः इति एव ब्रूयात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {25।81} अथ वा एतत् अपि न ब्रूयात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {26।81} अचः हि एतत् भवति ह्रस्वः दीर्घः प्लुतः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {27।81} अस्मिन् तर्हि अण्ग्रहणे सन्देहः अणः अप्रगृह्यस्य अनुनासिकः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {28।81} असन्दिग्धम् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {29।81} कुतः एतत् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {30।81} पराभावात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {31।81} न हि पदान्ताः परे अणः सन्ति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {32।81} ननु च अयम् अस्ति कर्तृ हर्तृ इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {33।81} एवम् तर्हि सामर्थ्यात् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {34।81} यदि हि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् .अचः अप्रगृह्यस्य अनुनासिकः इति एव ब्रूयात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {35।81} अथ वा एतत् अपि न ब्रूयात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {36।81} अचः एव हि प्रगृह्याः भवन्ति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {37।81} अस्मिन् तर्हि अण्ग्रहणे सन्देहः उः अण् रपरः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {38।81} असन्दिग्धम् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {39।81} कुतः एतत् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {40।81} पराभावात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {41।81} न हि उः स्थाने परे अणः सन्ति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {42।81} ननु च अयम् अस्ति कर्त्रर्थम् हर्त्रर्थम् इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {43।81} किम् च स्यात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {44।81} यदि अत्र रपरत्वम् स्यात् द्वयोः रेफयोः श्रवणम् प्रसज्येत .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {45।81} हलः यमाम् यमि लोपः इति एवम् एकस्य अत्र लोपः भवति. विभाषा सः लोपः .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {46।81} विभाषा श्रवणम् प्रसज्येत .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {47।81} अयम् तर्हि नित्यः लोपः रः रि इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {48।81} पदान्तस्य इति एवम् सः .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {49।81} न शक्यः पदान्तस्य विज्ञातुम् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {50।81} इह हि लोपः न स्यात् जर्गृधेः लङ् अजर्घाः पास्पर्धेः अपास्पाः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {51।81} इह तर्हि मातॄणाम् पितॄणाम् इति रपरत्वम् प्रसज्येत .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {52।81} आचार्यप्रवृत्तिः ज्ञापयति न अत्र रपरत्वम् भवति इति यत् अयम् ॠतः इत् धातोः इति धातुग्रहणम् करोति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {53।81} कथम् कृत्वा ज्ञापकम् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {54।81} धातुग्रहणस्य एतत् प्रयोजनम् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {55।81} इह मा भूत् : मातॄणाम् , पितॄणाम् इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {56।81} यदि च अत्र रपरत्वम् स्यात् धातुग्रहणम् अनर्थकम् स्यात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {57।81} रपरत्वे कृते अनन्त्यत्वात् इत्त्वम् न भविष्यति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {58।81} पश्यति तु आचार्यः न अत्र रपरत्वम् भवति इति ततः धातुग्रहणम् करोति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {59।81} इह अपि तर्हि इत्त्वम् न प्राप्नोति चिकीर्षति जिहीर्षति इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {60।81} मा भूत् एवम् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {61।81} उपधायाः च इति एवम् भविष्यति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {62।81} इह अपि तर्हि प्राप्नोति मातॄणाम् , पितॄणाम् इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {63।81} तस्मात् तत्र धातुग्रहणम् कर्तव्यम् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {64।81} एवम् तर्हि अण्ग्रहणसामर्थ्यात् पूर्वेण न परेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {65।81} यदि परेण स्यात् अण्ग्रहणम् अनर्थकम् स्यात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {66।81} उः अच् रपरः इति एव ब्रूयात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {67।81} अस्मिन् तर्हि अण्ग्रहणे सन्देहः : अणुदित्सवर्णस्य च अप्रत्ययः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {68।81} असन्दिग्धम् परेण न पूर्वेण इति. कुतः एतत् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {69।81} सवर्णे अण् तपरम् हि उः ऋत् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {70।81} यत् अयम् उः ऋत् इति ऋकारम् तपरम् करोति तत् ज्ञापयति आचार्यः परेण न पूर्वेण .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {71।81} इण्ग्रहणेषु तर्हि सन्देहः .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {72।81} असन्दिग्धम् परेण न पूर्वेण इति. कुतः एतत् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {73।81} य्वोः अन्यत्र परेण इण् स्यात् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {74।81} यत्र इच्छति पूर्वेण सम्मृद्य ग्रहणम् तत्र करोति य्वोः इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {75।81} तत् च गुरु भवति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {76।81} कथम् कृत्वा ज्ञापकम् .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {77।81} तत्र विभक्तिनिर्देशे सम्मृद्य ग्रहणे अर्धचतस्रः मात्राः .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {78।81} प्रत्याहारग्रहणे पुनः तिस्रः मात्राः .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {79।81} सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः परेण न पूर्वेण इति .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {80।81} किम् पुनः वर्णोत्सत्तौ इव णकारः द्विः अनुबध्यते .
(श्स्_6) क_इ,34.4-35.18 रो_इ,111-115 {81।81} एतत् ज्ञापयति आचार्यः भवति एषा परिभाषा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति. अणुदित्सवर्णम् परिहाय पूर्वेण अण्ग्रहणम् परेण इण्ग्रहणम् इति व्याख्यास्यामः .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {1।17} किमर्थम् इमौ मुखनासिकावचनौ वर्णौ उभौ अपि अनुबध्येते न ञकार एव अनुबध्येत .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {2।17} कथम् यानि मकारेण ग्रहणानि हलः यमाम् यमि लोपः इति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {3।17} सन्तु ञकारेण हलः यञाम् यञि लोपः इति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {4।17} न एवम् शक्यम्. झकारभकारपरयोः अपि हि झकारभकार्योः लोपः प्रसज्येत .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {5।17} न झकारभकारौ झकारभकारयोः स्तः .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {6।17} कथम् पुमः खय्यि अम्परे इति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {7।17} एतत् अपि अस्तु ञकारेण पुमः खय्यि अञ्परे इति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {8।17} न एवम् शक्यम् .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {9।17} झकारभकारपरे हि खय्यि रुः प्रसज्येत .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {10।17} न झकारभकारपरः खय् अस्ति .कथम् ङमः ह्रस्वात् अचि ङमुट् नित्यम् इति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {11।17} एतत् अपि अस्तु ञकारेण ङञः ह्रस्वात् अचि ङञुट् नित्यम् इति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {12।17} न एवम् शक्यम् .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {13।17} झकारभकारपरयोः अपि हि पदान्तयोः झकारभकारौ आगमौ स्याताम् .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {14।17} न झकारभकारौ पदान्तौ स्तः .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {15।17} एवम् अपि पञ्च आगमाः त्रयः आगमिनौ वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {16।17} सन्तु तावत् येषाम् आगमानाम् आगमिनः सन्ति .
(श्स्_7-8.1) क_इ,35.20-36.4 रो_इ,115-116 {17।17} झकारभकारौ पदान्तौ न स्तः इति कृत्वा आगमौ अपि न भविष्यतः .
(श्स्_7-8.2) क_इ,36.5-11 रो_इ,117 {1।6} अथ किम् इदम् अक्षरम् इति .
(श्स्_7-8.2) क_इ,36.5-11 रो_इ,117 {2।6} अक्षरम् न क्षरम् विद्यात् . न क्षीयते न क्षरति इति वा अक्षरम् .
(श्स्_7-8.2) क_इ,36.5-11 रो_इ,117 {3।6} अश्नोतेः वा सरः अक्षरम् .
(श्स्_7-8.2) क_इ,36.5-11 रो_इ,117 {4।6} अश्नोतेः वा पुनः अयम् औणादिकः सरन्प्रत्ययः .
(श्स्_7-8.2) क_इ,36.5-11 रो_इ,117 {5।6} वर्णम् वा आहुः पूर्वसूत्रे .
(श्स्_7-8.2) क_इ,36.5-11 रो_इ,117 {6।6} अथ वा पूर्वसूत्रे वर्णस्य अक्षरम् इति सञ्ज्ञा क्रियते .
(श्स्_7-8.3) क_इ,36.12-18 रो_इ,118-120 {1।7} किमर्थम् इदम् उपदिश्यते .
(श्स्_7-8.3) क_इ,36.12-18 रो_इ,118-120 {2।7} अथ किमर्थम् इदम् उपदिश्यते .
(श्स्_7-8.3) क_इ,36.12-18 रो_इ,118-120 {3।7} वर्णज्ञानम् वाग्विषयः यत्र ब्रह्म वर्तते .
(श्स्_7-8.3) क_इ,36.12-18 रो_इ,118-120 {4।7} तदर्थम् इष्टद्बुद्ध्यर्थम् लघ्वर्थम् च उपदिश्यते .
(श्स्_7-8.3) क_इ,36.12-18 रो_इ,118-120 {5।7} सः अयम् अक्षरसमाम्नायः वाक्समाम्नायः पुष्पितः फलितः चन्द्रतारकवत् प्रतिमण्डितः वेदितव्यः ब्रह्मराशिः .
(श्स्_7-8.3) क_इ,36.12-18 रो_इ,118-120 {6।7} सर्ववेदपुण्यफलावाप्तिः च अस्य ज्ञाने भवति .
(श्स्_7-8.3) क_इ,36.12-18 रो_इ,118-120 {7।7} मातापितरौ च अस्य स्वर्गे लोके महीयेते .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {1।13} कुत्वम् कस्मात् न भवति चोः कुः पदस्य इति .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {2।13} भत्वात् .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {3।13} कथम् भसञ्ज्ञा .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {4।13} अयस्मयादीनि छन्दसि इति .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {5।13} छन्दसि इति उच्यते .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {6।13} न च इदम् छन्दः .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {7।13} छन्दोवत् सूत्राणि भवन्ति .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {8।13} यदि भसञ्ज्ञा वृद्धिः आद् ऐच् अत् एङ् गुणः इति जश्त्वम् अपि न प्राप्नोति .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {9।13} उभयसञ्ज्ञानि अपि छन्दांसि दृश्यन्ते .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {10।13} तत् यथा .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {11।13} सः सुष्टुभा सः ऋक्वता गणेन .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {12।13} पदत्वात् कुत्वम् भत्वात् जश्व्तम् न भवति .
(प्_1,1.1.1) क_इ,37.2-7 रो_इ,121-123 {13।13} एवम् इह अपि भत्वात् कुत्वम् न भविष्यति
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {1।23} किम् पुनः इदम् तद्भावितग्रहणम् : वृद्धिः इति एवम् ये आकारैकारौकाराः भाव्यन्ते तेषाम् ग्रहणम् आहोस्वित् आदैज्मात्रस्य .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {2।23} किम् च अतः .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {3।23} यदि तद्भावितग्रहणम् शालीयः मालीयः इति वृद्धलक्षणः छः न प्राप्नोति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {4।23} आम्रमयम् शालमयम् वृद्धलक्षणः मयट् न प्राप्नोति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {5।23} आम्रगुप्तायनिः शालगुप्तयनिः वृद्धलक्षणः फिञ् न प्राप्नोति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {6।23} अथ ऐज्मात्रस्य ग्रहणम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {7।23} इह च तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {8।23} अस्तु तर्हि ऐज्मात्रस्य .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {9।23} ननु च उक्तम् सर्वः भासः सर्वभासः इति उत्तरपदपदवृद्धौ सर्वम् च इति एषः विधिः प्राप्नोति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {10।23} न एषः दोषः .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {11।23} न एवम् विज्ञायते उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः उत्तरपदवृद्धौ इति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {12।23} कथम् तर्हि .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {13।23} उत्तरपदस्य इति एवम् प्रकृत्य या वृद्धिः तद्वति उत्तरपदे इति एवम् एतत् विज्ञायते .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {14।23} अवश्यम् च एतत् एवम् विज्ञेयम् .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {15।23} तद्भावितग्रहणे सति अपि इह प्रसज्येत : सर्वः कारकः सर्वकारकः इति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {16।23} यद् अपि उच्यते इह तावती भार्या अस्य तावद्भार्यः यावद्भार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः प्राप्नोति इति न एषः दोषः .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {17।23} न एवम् विज्ञायते वृद्धेः निमित्तम् वृद्धिनिमित्तम् वृद्धिनिमित्तस्य इति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {18।23} कथम् तर्हि .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {19।23} वृद्धेः निमित्तम् यस्मिन् सः अयम् वृद्धिनिमित्तः वृद्धिनिमित्तस्य इति .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {20।23} किम् च वृद्धेः निमित्तम्. यः असौ ककारः णकारः ञकारः वा .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {21।23} अथ वा यः कृत्स्नायाः वृद्धेः निमित्तम् .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {22।23} कः च कृत्स्नायाः वृद्धेः निमित्तम् .
(प्_1,1.1.2) क_इ,37.8-24 रो_इ,123-124 {23।23} यः त्रयाणाम् आकारैकारौकाराणाम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {1।139} सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {2।139} अथ सञ्ज्ञा इति प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {3।139} किम् प्रयोजनम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {4।139} सञ्ज्ञासम्प्रत्ययार्थः .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {5।139} वृद्ध्यादीनाम् शब्दानाम् सञ्ज्ञा इति एषः सम्प्रत्ययः यथा स्यात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {6।139} इतरथा हि असम्प्रत्ययः यथा लोके .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {7।139} अक्रियमाणे हि सञ्ज्ञाधिकारे वृद्ध्यादीनाम् सञ्ज्ञा इति एषः सम्प्रत्ययः न स्यात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {8।139} इदम् इदानीम् बहुसूत्रम् अनर्थकम् स्यात् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {9।139} अनर्थकम् इति आह .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {10।139} कथम् .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {11।139} यथा लोके .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {12।139} लोके हि अर्थवन्ति च अनर्थकानि च वाक्यानि दृश्यन्ते .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {13।139} अर्थवन्ति तावत् : देवदत्त गाम् अभ्याज शुक्लाम् दण्डेन .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {14।139} देवदत्त गाम् अभ्याज कृष्णाम् इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {15।139} अनर्थकानि च .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {16।139} दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {17।139} सञ्ज्ञासञ्ज्ञ्यसन्देहः च .
(प्_1,1.1.3) क_इ,37.25-40.17 रो_इ,125-133 {18।139} क्रियमाणे अपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्ज्ञिनोः असन्देहः वक्तव्यः .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0