व्याकरणमहाभाष्य · भाग 120
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {1।10} अथ शब्दानुशासनम् .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {2।10} अथ इति अयम् शब्दः अधिकारार्थः प्रयुज्यते .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {3।10} शब्दानुशासनम् शास्त्रम् अधिकृतम् वेदितव्यम् .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {4।10} केषाम् शब्दानाम् .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {5।10} लौकिकानाम् वैदिकानाम् च .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {6।10} तत्र लौकिकाः तावत् : गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {7।10} वैदिकाः खलु अपि : शम् नः देवीः अभिष्टये .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {8।10} इषे त्वा ऊर्जे त्वा .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {9।10} अग्निम् ईळे पुरोहितम् .
(पस्_1) क_इ,1.1-5 रो_इ,1-4 {10।10} अग्ने अयाहि वीतये इति .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {1।19} अथ गौः इति अत्र कः शब्दः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {2।19} किम् यत् तत् सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपम् सः शब्दः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {3।19} न इति आह .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {4।19} द्रव्यम् नाम तत् .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {5।19} यत् तर्हि तत् इङ्गितम् चेष्टितम् निमिषितम् सः शब्दः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {6।19} न इति आह .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {7।19} क्रिया नाम सा .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {8।19} यत् तर्हि तत् शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {9।19} न इति आह .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {10।19} गुणः नाम सः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {11।19} यत् तर्हि तत् भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतम् सः शब्दः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {12।19} न इति आह .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {13।19} आकृतिः नाम सा .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {14।19} कः तर्हि शब्दः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {15।19} येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम् सम्प्रत्ययः भवति सः शब्दः .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {16।19} अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {17।19} तत् यथा शब्दम् कुरु मा शब्दम् कार्षीः शब्दकारी अयम् माणवकः इति .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {18।19} ध्वनिम् कुर्वन् एवम् उच्यते .
(पस्_2) क_इ,1.6-13 रो_इ,5-7 {19।19} तस्मात् ध्वनिः शब्दः .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {1।17} कानि पुनः शब्दानुशासनस्य प्रयोजनानि .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {2।17} रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {3।17} रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {4।17} लोपागमवर्णविकारज्ञः हि सम्यक् वेदान् परिपालयिष्यति .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {5।17} ऊहः खलु अपि. न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः. ते च अवश्यम् यज्ञगतेन यथायथम् विपरिणमयितव्याः. तान् न अवैयाकरणः शक्नोति यथायथम् विपरिणमयितुम्. तस्मात् अध्येयम् व्याकरणम् .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {6।17} आगमः खलु अपि .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {7।17} ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {8।17} प्रधानम् च षट्सु अङ्गेषु व्याकरणम् .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {9।17} प्रधाने च कृतः यत्नः फलवान् भवति .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {10।17} लघ्वर्थम् च अध्येयम् व्याकरणम्. ब्राह्मणेन अवश्यम् शब्दाः ज्ञेयाः इति .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {11।17} न च अन्तरेण व्याकरणम् लघुना उपायेन शब्दाः शक्याः ज्ञातुम् .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {12।17} असन्देहार्थम् च अध्येयम् व्याकरणम् .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {13।17} याज्ञिकाः पठन्ति .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {14।17} स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {15।17} तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {16।17} ताम् न अवैयाकरणः स्वरतः अध्यवस्यति .
(पस्_3) क_इ,1.14-2.2 रो_इ,8-14 {17।17} यदि पूर्वपदप्रकृतिस्वरत्वम् ततः बहुव्रीहिः. अथ अन्तोदात्तत्वम् ततः तत्पुरुषः इति .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {1।8} इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {2।8} ते असुराः , दुष्टः शब्दः , यत् अधीतम् , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिम् कुर्वन्ति , यः वै इमाम् , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीम् , दशम्याम् पुत्रस्य , सुदेवः असि वरुण इति .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {3।8} ते असुराः .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {4।8} ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {5।8} तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {6।8} म्लेच्छः ह वै एषः यत् अपशब्दः .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {7।8} म्लेच्छाः मा भूम इति अध्येयम् व्याकरणम् .
(पस्_4.1) क_इ,2.3-9 रो_इ,11-12 {8।8} ते असुराः
(पस्_4.2) क_इ,2.10-14 रो_इ,12-13 {1।5} दुष्टः शब्दः .
(पस्_4.2) क_इ,2.10-14 रो_इ,12-13 {2।5} दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह .
(पस्_4.2) क_इ,2.10-14 रो_इ,12-13 {3।5} सः वाग्वज्रः यजमानम् हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात् .
(पस्_4.2) क_इ,2.10-14 रो_इ,12-13 {4।5} दुष्टान् शब्दान् मा प्रयुक्ष्महि इति अध्येयम् व्याकरणम् .
(पस्_4.2) क_इ,2.10-14 रो_इ,12-13 {5।5} दुष्टः शब्दः .
(पस्_4.3) क_इ,2.14-17 रो_इ,3 {1।3} यत् अधीतम् .
(पस्_4.3) क_इ,2.14-17 रो_इ,3 {2।3} यत् अधीतम् अविज्ञातम् निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत् ज्वलति कर्हि चित् .
(पस्_4.3) क_इ,2.14-17 रो_इ,3 {3।3} तस्मात् अनर्थकम् मा अधिगीष्महि इति अध्येयम् व्याकरणम्. यत् अधीतम् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {1।27} यः तु प्रयुङ्क्ते .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {2।27} यः तु प्रयुङ्क्ते कुशलः विशेषे शब्दान् यथावत् व्यवहारकाले सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {3।27} कः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {4।27} वाग्योगवित् एव .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {5।27} कुतः एतत् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {6।27} यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {7।27} यथा एव हि शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {8।27} अथ वा भूयान् अधर्मः प्राप्नोति .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {9।27} भूयांसः अपशब्दाः अल्पीयांसः शब्दाः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {10।27} एकैकस्य हि शब्दस्य बहवः अपशब्दाः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {11।27} तत् यथा गौः इति अस्य शब्दस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {12।27} अथ यः अवाग्योगवित् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {13।27} अज्ञानम् तस्य शरणम् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {14।27} न अत्यन्ताय अज्ञानम् शरणम् भवितुम् अर्हति .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {15।27} यः हि अजानन् वै ब्राह्मणम् हन्यात् सुराम् वा पिबेत् सः अपि मन्ये पतितः स्यात्. एवम् तर्हि सः अनन्तम् आप्नोति जयम् परत्र वाग्योगवित् दुष्यति च अपशब्दैः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {16।27} कः. अवाग्योगवित् एव .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {17।27} अथ यः वाग्योगवित् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {18।27} विज्ञानम् तस्य शरणम् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {19।27} क्व पुनः इदम् पठितम् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {20।27} भ्राजाः नाम श्लोकाः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {21।27} किम् च भोः श्लोकाः अपि प्रमाणम् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {22।27} किम् च अतः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {23।27} यदि प्रमाणम् अयम् अपि श्लोकः प्रमाणम् भवितुम् अर्हति .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {24।27} यत् उदुम्बरवर्णानाम् घटीनाम् मण्डलम् महत् पीतम् न स्वर्गम् गमयेत् किम् तत् क्रतुगतम् नयेत् इति .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {25।27} प्रमत्तगीतः एषः तत्रभवतः .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {26।27} यः तु अप्रमत्तगीतः तत् प्रमानम् .
(पस्_4.4) क_इ,2.18-3.5 रो_इ,13-15 {27।27} यस् तु प्रयुङ्क्ते .
(पस्_4.5) क_इ,3.6-9 रो_इ,15 {1।4} अविद्वांसः .
(पस्_4.5) क_इ,3.6-9 रो_इ,15 {2।4} अविद्वांसः प्रत्यभिवादे नाम्नः ये प्लुतिम् न विदुः कामम् तेषु तु विप्रोष्य स्त्रीषु इव अयम् अहम् वदेत् .
(पस्_4.5) क_इ,3.6-9 रो_इ,15 {3।4} अभिवादे स्त्रीवत् मा भूम इति अध्येयम् व्याकरणम् .
(पस्_4.5) क_इ,3.6-9 रो_इ,15 {4।4} अविद्वांसः
(पस्_4.6) क_इ,3.10-11 रो_इ,16 {1।3} विभक्तिम् कुर्वन्ति .
(पस्_4.6) क_इ,3.10-11 रो_इ,16 {2।3} याज्ञिकाः पठन्ति : प्रयाजाः सविभक्तिकाः कार्याः इति .
(पस्_4.6) क_इ,3.10-11 रो_इ,16 {3।3} न च अन्तरेण व्याकरणम् प्रयाजाः सविभक्तिकाः शक्याः कर्तुम्. विभक्तिम् कुर्वन्ति
(पस्_4.7) क_इ,3.12-13 रो_इ,16 {1।4} यः वै इमाम् .
(पस्_4.7) क_इ,3.12-13 रो_इ,16 {2।4} यः वै इमाम् पदशः स्वरशः अक्षरशः वाचम् विदधाति सः आर्त्विजीनः .
(पस्_4.7) क_इ,3.12-13 रो_इ,16 {3।4} आर्त्विजीनाः स्याम इति अध्येयम् व्याकरणम् .
(पस्_4.7) क_इ,3.12-13 रो_इ,16 {4।4} यः वै इमाम् .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {1।29} चत्वारि .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {2।29} चत्वरि शृङ्गा त्रयः अस्य पदा द्वे शीर्षे सप्त हस्तासः अस्य त्रिधा बद्धः वृषभः रोरवीति महः देवः मर्त्यान् अ विवेश .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {3।29} चत्वारि शृङ्गानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {4।29} त्रयः अस्य पादाः त्रयः कालाः भूतभविष्यद्वर्तमानाः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {5।29} द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यः च .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {6।29} सप्त हस्तासः अस्य सप्त विभक्तयः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {7।29} त्रिधा बद्धः त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसि इति .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {8।29} वृषभः वर्षणात् .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {9।29} रोरवीति शब्दम् करोति .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {10।29} कुतः एतत् .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {11।29} रौतिः शब्दकर्मा .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {12।29} महः देवः मर्त्यान् आविवेश इति .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {13।29} महान् देवः शब्दः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {14।29} मर्त्याः मरणधर्माणः मनुष्याः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {15।29} तान् आविवेश .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {16।29} महता देवेन नः साम्यम् यथा स्यात् इति अध्येयम् व्याकरणम् .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {17।29} अपरः आह : चत्वरि वक् परिमिता पदनि तनि विदुः ब्राह्मण ये मनीषिणः गुहा त्रीणि निहिता न इङ्गयन्ति तुरीयम् वाचः मनुष्याः वदन्ति .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {18।29} चत्वारि वाक् परिमिता पदानि .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {19।29} चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः च .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {20।29} तानि विदुः ब्राह्मणाः ये मनीषिणः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {21।29} मनसः ईषिणः मनीषिणः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {22।29} गुहा त्रीणि निहिता न इङ्गयन्ति .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {23।29} गुहायाम् त्रीणि निहितानि न इङ्गयन्ति .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {24।29} न चेष्टन्ते .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {25।29} न निमिषन्ति इति अर्थः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {26।29} तुरीयम् वाचः मनुष्याः वदन्ति .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {27।29} तुरीयम् ह वै एतत् वाचः यत् मनुष्येषु वर्तते .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {28।29} चतुर्थम् इति अर्थः .
(पस्_4.8) क_इ,3.14-29 रो_इ,16-18 {29।29} चत्वारि .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {1।11} उत त्वः .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {2।11} उत त्वः पश्यन् न ददर्श वचम् उत त्वः श्र्ण्वन् न शृणोति एनाम् उतो त्वस्मै तन्वम् विसस्रे जाय इव पत्ये उशती सुवसाः .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {3।11} अपि खलु एकः पश्यन् अपि न पश्यति वाचम् .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {4।11} अपि खलु एकः श्र्ण्वन् अपि न श्र्णोति एनाम् .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {5।11} अविद्वांसम् आह अर्धम् .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {6।11} उतो त्वस्मै तन्वम् विसस्रे .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {7।11} तनुम् विवृणुते .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {8।11} जाया इव पत्ये उशती सुवासाः .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {9।11} तद् यथा जाया पत्ये कामयमाना सुवासाः स्वम् आत्मानम् विवृणुते एवम् वाक् वाग्विदे स्वात्मानम् विवृणुते .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {10।11} वाक् नः विवृणुयात् आत्मानम् इति अध्येयम् व्याकरणम् .
(पस्_4.9) क_इ,4.5-8 रो_इ,18-19 {11।11} उत त्वः .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {1।17} सक्तुम् इव .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {2।17} सक्तुम् इव तितौना पुनन्तः यत्र धीराः मनसा वचम् अक्रत अत्रा सखायः सख्यनि जानते भद्र एषाम् लक्ष्मीः निहिता अधि वाचि .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {3।17} सक्तुः सचतेः दुर्धावः भवति .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {4।17} कसतेः वा विपरीतात् विकसितो भवति .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {5।17} तितौ परिपवनम् भवति ततवत् वा तुन्नवत् वा .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {6।17} धीराः ध्यानवन्तः मनसा प्रज्ञानेन वाचम् अक्रत वाचम् अकृषत .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {7।17} अत्रा सखायः सख्यानि जानते .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {8।17} सायुज्यानि जानते .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {9।17} क्व .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {10।17} यः एषः दुर्घः मार्गः एकगम्यः वाग्विषयः .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {11।17} के पुनः ते .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {12।17} वैयाकरणाः .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {13।17} कुतः एतत् .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {14।17} भद्रा एषाम् लक्ष्मीः निहिता अधि वाचि .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {15।17} एषाम् वाचि भद्रा लक्ष्मीः निहिता भवति .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {16।17} लक्ष्मीः लक्षणात् भासनात् परिवृढा भवति .
(पस्_4.10) क_इ,4.9-18 रो_इ,19-20 {17।17} सक्तुम् इव .
(पस्_4.11) क_इ,4.19-21 रो_इ,21 {1।3} सारस्वतीम्. याज्ञिकाः पठन्ति : आहिताग्निः अपशब्दम् प्रयुज्य प्रायश्चित्तीयाम् सारस्वतीम् इष्टिम् निर्वपेत् इति .
(पस्_4.11) क_इ,4.19-21 रो_इ,21 {2।3} प्रायश्चित्तीयाः मा भूम इति अध्येयम् व्याकरणम् .
(पस्_4.11) क_इ,4.19-21 रो_इ,21 {3।3} सारस्वतीम् .
(पस्_4.12) क_इ,4.22-25 रो_इ,21 {1।6} दशम्याम् पुत्रस्य .
(पस्_4.12) क_इ,4.22-25 रो_इ,21 {2।6} याज्ञिकाः पठन्ति : दशम्युत्तरकालम् पुत्रस्य जातस्य नाम विदध्यात् घोषवदादि अन्तरन्तःस्थम् अवृद्धम् त्रिपुरुषानूकम् अनरिप्रतिष्ठितम् .
(पस्_4.12) क_इ,4.22-25 रो_इ,21 {3।6} तत् हि प्रतिष्ठिततमम् भवति .
(पस्_4.12) क_इ,4.22-25 रो_इ,21 {4।6} द्व्यक्षरम् चतुरक्षरम् वा नाम कृतम् कुर्यात् न तद्धितम् इति .
(पस्_4.12) क_इ,4.22-25 रो_इ,21 {5।6} न च अन्तरेण व्याकरणम् कृतः तद्धिताः वा शक्याः विज्ञातुम् .
(पस्_4.12) क_इ,4.22-25 रो_इ,21 {6।6} दशम्याम् पुत्रस्य .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {1।11} सुदेवः असि .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {2।11} सुदेवः असि वरुण यस्य ते सप्त सिन्धवः अनुक्षरन्ति काकुदम् सूर्म्यम् सुषिरम् इव .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {3।11} सुदेवः असि वरुण सत्यदेवः असि यस्य ते सप्त सिन्धवः सप्त विभक्तयः .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {4।11} अनुक्षरन्ति काकुदम् .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {5।11} काकुदम् तालु .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {6।11} काकुः जिह्वा सा अस्मिन् उद्यते इति काकुदम् .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {7।11} सूर्म्यम् सुषिराम् इव .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {8।11} तद् यथा शोभनाम् ऊर्मीम् सुषिराम् अग्निः अन्तः प्रविश्य दहति एवम् तव सप्त सिन्धवः सप्त विभक्तयः तालु अनुक्षरन्ति .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {9।11} तेन असि सत्यदेवः .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {10।11} सत्यदेवाः स्याम इति अध्येयम् व्याकरणम् .
(पस्_4.13) क_इ,4.26-5.4 रो_इ,21-22 {11।11} सुदेवः असि .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {1।8} किम् पुनः इदम् व्याकरनम् एव अधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते न पुनः अन्यत् अपि किम् चित् .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {2।8} ओम् इति उक्त्वा वृत्तान्तशः शम् इति एवमादीन् शब्दान् पठन्ति .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {3।8} पुराकल्पे एतत् आसीत् : संस्कारोत्तरकालम् ब्राह्मणाः व्याकरणम् स्म अधीयते .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {4।8} तेभ्यः तत्र स्थानकरणानुप्रदानज्ञेभ्यः वैदिकाः शब्दाः उपदिश्यन्ते .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {5।8} तत् अद्यत्वे न तथा .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {6।8} वेदम् अधीत्य त्वरिताः वक्तारः भवन्ति : वेदात् नः वैदिकाः शब्दाः सिद्धाः लोकात् च लौकिकाः .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {7।8} अनर्थकम् व्याकरणम् इति .
(पस्_5) क_इ,5.5-11 रो_इ,22-23 {8।8} तेभ्यः विप्रतिपन्नबुद्धिभ्यः अध्येतृभ्यः आचार्यः इदम् शास्त्रम् अन्वाचष्टे : इमानि प्रयोजनानि अध्येयम् व्याकरणम् इति .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {1।20} उक्तः शब्दः .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {2।20} स्वरूपम् अपि उक्तम् .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {3।20} प्रयोजनानि अपि उक्तानि .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {4।20} शब्दानुशासनम् इदानीम् कर्तव्यम् .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {5।20} तत् कथम् कर्तव्यम् .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {6।20} किम् शब्दोपदेशः कर्तव्यः आहोस्वित् अपशब्दोपदेशः आहोस्वित् उभयोपदेशः इति .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {7।20} अन्यतरोपदेशेन कृतम् स्यात् .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {8।20} तत् यथा भक्ष्यनियमेन अभक्ष्यप्रतिषेधो गम्यते .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {9।20} पञ्च पञ्चनखाः भक्ष्याः इति उक्ते गम्यते एतत् : अतः अन्ये अभक्ष्याः इति .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {10।20} अभक्ष्यप्रतिषेधेन वा भक्ष्यनियमः .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {11।20} तत् यथा अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते गम्यते एतत् : आरण्यः भक्ष्यः इति .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {12।20} एवम् इह अपि : यदि तावत् शब्दोपदेशः क्रियते गौः इति एतस्मिन् उपदिष्टे गम्यते एतत् : गाव्यादयः अपशब्दाः इति .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {13।20} अथ अपशब्दोपदेशः क्रियते गाव्यादिषु उपदिष्टेषु गम्यते एतत् : गौः इति एषः शब्दः इति .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {14।20} किम् पुनः अत्र ज्यायः .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {15।20} लघुत्वात् शब्दोपदेशः .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {16।20} लघीयान् शब्दोपदेशः गरीयान् अपशब्दोपदेशः .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {17।20} एकैकस्य शब्दस्य बहवः अपभ्रंशाः .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {18।20} तत् यथा .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {19।20} गौः इति अस्य शब्दस्य गावीगोणीगोतागोपोतलिकादयः अपभ्रंशाः .
(पस्_6) क_इ,5.11-22 रो_इ,23-24 {20।20} इष्टान्वाख्यानम् खलु अपि भवति .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {1।21} अथ एतस्मिन् शब्दोपदेशे सति किम् शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः कर्तव्यः : गौः अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति एवमादयः शब्दाः पठितव्याः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {2।21} न इति आह .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {3।21} अनभ्युपायः एषः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {4।21} एवम् हि श्रूयते : बृहस्पतिः इन्द्राय दिव्यम् वर्षसहस्रम् प्रतिपदोक्तानाम् शब्दानाम् शब्दपारायणम् प्रोवाच न अन्तम् जगाम .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {5।21} बृहस्पतिः च प्रवक्ता इन्द्रः च अध्येता दिव्यम् वर्षसहस्रम् अध्ययनकालः न च अन्तम् जगाम .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {6।21} किम् पुनः अद्यत्वे .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {7।21} यः सर्वथा चिरम् जीवति सः वर्षशतम् जीवति .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {8।21} चतुर्भिः च प्रकारैः विद्या उपयुक्ता भवति आगमकालेन स्वाध्यायकालेन प्रवचनकालेन व्यवहारकालेन इति .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {9।21} तत्र च आगमकालेन एव आयुः पर्युपयुक्तम् स्यात् .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {10।21} तस्मात् अनभ्युपायः शब्दानाम् प्रतिपत्तौ प्रतिपदपाठः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {11।21} कथम् तर्हि इमे शब्दाः प्रतिपत्तव्याः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {12।21} किम् चित् सामन्यविशेषवत् लक्षणम् प्रवर्त्यम् येन अल्पेन यत्नेन महतः महतः शब्दौघान् प्रतिपद्येरन् .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {13।21} किम् पुनः तत् .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {14।21} उत्सर्गापवादौ .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {15।21} कः चित् उत्सर्गः कर्तव्यः कः चित् अपवादः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {16।21} कथञ्जातीयकः पुनः उत्सर्गः कर्तव्यः कथञ्जातीयकः अपवादः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {17।21} सामन्येन उत्सर्गः कर्तव्यः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {18।21} तत् यथा कर्मणि अण् .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {19।21} तस्य विशेषेण अपवादः .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {20।21} तत् यथा .
(पस्_7) क_इ,5.23-6.7 रो_इ,24-25 {21।21} आतः अनुपसर्गे कः .
(पस्_8) क_इ,6.8-11 रो_इ,25-26 {1।6} किम् पुनः आकृतिः पदार्थः आहोस्वित् द्रव्यम् .
(पस्_8) क_इ,6.8-11 रो_इ,25-26 {2।6} उभयम् इति आह .
(पस्_8) क_इ,6.8-11 रो_इ,25-26 {3।6} कथम् ज्ञायते .
(पस्_8) क_इ,6.8-11 रो_इ,25-26 {4।6} उभयथा हि आचार्येण सूत्राणि पठितानि .
(पस्_8) क_इ,6.8-11 रो_इ,25-26 {5।6} आकृतिम् पदार्थम् मत्वा जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् इति उच्यते .
(पस्_8) क_इ,6.8-11 रो_इ,25-26 {6।6} द्रव्यम् पदार्थम् मत्वा सरूपाणाम् एकशेषः एकविभक्तौ इति एकशेषः आरभ्यते .
(पस्_9) क_इ,6.12-14 रो_इ,26-27 {1।4} किम् पुनः नित्यः शब्दः आहोस्वित् कार्यः .
(पस्_9) क_इ,6.12-14 रो_इ,26-27 {2।4} सङ्ग्रहे एतत् प्राधान्येन परीक्षितम् नित्यः वा स्यात् कार्यः वा इति .
(पस्_9) क_इ,6.12-14 रो_इ,26-27 {3।4} तत्र उक्ताः दोषाः प्रयोजनानि अपि उक्तानि .
(पस्_9) क_इ,6.12-14 रो_इ,26-27 {4।4} तत्र तु एषः निर्णयः यदि एव नित्यः अथ अपि कार्यः उभयथा अपि लक्षणम् प्रवर्त्यम् इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {1।33} कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {2।33} सिद्धे शब्दार्थसम्बन्धे .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {3।33} सिद्धे शब्दे अर्थे सम्बन्धे च इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {4।33} अथ सिद्धशब्दस्य कः पदार्थः .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {5।33} नित्यपर्यायवाची सिद्धशब्दः .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {6।33} कथम् ज्ञायते .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {7।33} यत् कूटस्थेषु अविचालिषु भावेषु वर्तते .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {8।33} तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् आकाशम् इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {9।33} ननु च भोः कार्येषु अपि वर्तते .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {10।33} तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {11।33} यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः सिद्धशब्दः इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {12।33} सङ्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {13।33} इह अपि तत् एव .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {14।33} अथ वा सन्ति एकपदानि अपि अवधारणानि .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {15।33} तत् यथा : अब्भक्षः वायुभक्षः इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {16।33} अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {17।33} एवम् इह अपि सिद्धः एव न साध्यः इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {18।33} अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः : अत्यन्तसिद्धः सिद्धः इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {19।33} तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {20।33} अथ वा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {21।33} किम् पुनः अनेन वर्ण्येन .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {22।33} किम् न महता कण्ठेन नित्यशब्दः एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {23।33} मङ्गलार्थम् .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {24।33} माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् सिद्धशब्दम् आदितः प्रयुङ्क्ते .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {25।33} मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {26।33} अध्येतारः च सिद्धार्थाः यथा स्युः इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {27।33} अयम् खलु अपि नित्यशब्दः न अवश्यम् कूटस्थेषु अविचालिषु भावेषु वर्तते .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {28।33} किम् तर्हि .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {29।33} आभीक्ष्ण्ये अपि वर्तते .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {30।33} तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {31।33} यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {32।33} पश्यति तु आचार्यः मङ्गलार्थः च एव सिद्धशब्दः आदितः प्रयुक्तः भविष्यति शक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति .
(पस्_10.1) क_इ,6.14-7.7 रो_इ,27-30 {33।33} अतः सिद्धशब्दः एव उपात्तः न नित्यशब्दः
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {1।47} अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {2।47} आकृतिम् इति आह .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {3।47} कुतः एतत् .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {4।47} आकृतिः हि नित्या .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {5।47} द्रव्यम् अनित्यम् .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {6।47} अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {7।47} सिद्धे शब्दे अर्थसम्बन्धे च इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {8।47} नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {9।47} अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति. द्रव्यम् हि नित्यम् आकृतिः अनित्या .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {10।47} कथम् ज्ञायते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {11।47} एवम् हि दृश्यते लोके .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {12।47} मृत् कया चित् आकृत्या युक्ता पिण्डः भवति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {13।47} पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {14।47} घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {15।47} तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {16।47} पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {17।47} रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {18।47} कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {19।47} पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {20।47} आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {21।47} आकृत्युपमर्देन द्रव्यम् एव अवशिष्यते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {22।47} आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {23।47} ननु च उक्तम् आकृतिः अनित्या इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {24।47} न एतत् अस्ति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {25।47} नित्या आकृतिः .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {26।47} कथम् .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {27।47} न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {28।47} द्रव्यान्तरस्था तु उपलभ्यते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {29।47} अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {30।47} तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {31।47} किम् पुनः तत्त्वम् .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {32।47} तद्भावः तत्त्वम् .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {33।47} आकृतौ अपि तत्त्वम् न विहन्यते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {34।47} अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {35।47} यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {36।47} कथम् पुनः ज्ञायते सिद्धः शब्दः अर्थः सम्बन्धः च इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {37।47} लोकतः .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {38।47} यत् लोके अर्थम् उपादाय शब्दान् प्रयुञ्जते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {39।47} न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {40।47} ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {41।47} तत् यथा .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {42।47} घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {43।47} कार्यम् अनेन करिष्यामि इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {44।47} न तद्वत् शब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {45।47} कुरु शब्दान् .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {46।47} प्रयोक्ष्ये इति .
(पस्_10.2) क_इ,7.8-8.1 रो_इ,30-32 {47।47} तावति एव अर्थम् उपादाय शब्दान् प्रयुञ्जते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {1।35} यदि तर्हि लोकः एषु प्रमाणम् किम् शास्त्रेण क्रियते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {2।35} लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {3।35} लोकतः अर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {4।35} किम् इदम् धर्मनियमः इति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {5।35} धर्माय नियमः धर्मनियमः धर्मार्थः वा नियमः धर्मनियमः धर्मप्रयोजनः वा नियमः धर्मनियमः .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {6।35} यथा लौकिकवैदिकेषु .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {7।35} प्रियतद्धिताः दाक्षिणात्याः .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {8।35} यथा लोके वेदे च इति प्रयोक्तव्ये यथा लौकिकवैदिकेषु इति प्रयुञ्जते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {9।35} अथ वा युक्तः एव तद्धितार्थः .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {10।35} यथा लौकिकेषु वैदिकेषु च कृतान्तेषु .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {11।35} लोके तावत् अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उच्यते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {12।35} भक्ष्यम् च नाम क्षुत्प्रतीघातार्थम् उपादीयते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {13।35} शक्यम् च अनेन श्वमांसादिभिः अपि क्षुत् प्रतिहन्तुम् .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {14।35} तत्र नियमः क्रियते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {15।35} इदम् भक्ष्यम् .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {16।35} इदम् अभक्ष्यम् इति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {17।35} तथा खेदात् स्त्रीषु प्रवृत्तिः भवति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {18।35} समानः च खेदविगमः गम्यायाम् च अगम्यायाम् च .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {19।35} तत्र नियमः क्रियते : इयम् गम्या इयम् अगम्या इति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {20।35} वेदे खलु अपि पयोव्रतः ब्राह्मणः यवागूव्रतः राजन्यः आमिक्षाव्रतः वैश्यः इति उच्यते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {21।35} व्रतम् च नाम अभ्यवहारार्थम् उपादीयते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {22।35} शक्यम् च अनेन शालिमांसादीनि अपि व्रतयितुम् .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {23।35} तत्र नियमः क्रियते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {24।35} तथा बैल्वः खादिरः वा यूपः स्यात् इति उच्यते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {25।35} यूपः च नाम पश्वनुबन्धार्थम् उपादीयते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {26।35} शक्यम् च अनेन किम् चित् एव काष्ठम् उच्छ्रित्य अनुच्छ्रित्य वा पशुः अनुबन्द्धुम् .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {27।35} तत्र नियमः क्रियते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {28।35} तथा अग्नौ कपालानि अधिश्रित्य अभिमन्त्रयते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {29।35} भृगूणाम् अङ्गिरसाम् घर्मस्य तपसा तप्यध्वम् इति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {30।35} अन्तरेण अपि मन्त्रम् अग्निः दहनकर्मा कपालानि सन्तापयति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {31।35} तत्र नियमः क्रियते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {32।35} एवम् क्रियमाणम् अभ्युदयकारि भवति इति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {33।35} एवम् इह अपि समानायाम् अर्थगतौ शब्देन च अपशब्देन च धर्मनियमः क्रियते .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {34।35} शब्देन एव अर्थः अभिधेयः न अपशब्देन इति .
(पस्_11) क_इ,8.1-22 रो_इ,32-35 {35।35} एवम् क्रियमाणम् अभ्युदयकारि भवति इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {1।62} अस्ति अप्रयुक्तः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {2।62} सन्ति वै शब्दाः अप्रयुक्ताः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {3।62} तत् यथा ऊष तेर चक्र पेच इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {4।62} किम् अतः यत् सन्ति अप्रयुक्ताः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {5।62} प्रयोगात् हि भवान् शब्दानाम् साधुत्वम् अध्यवस्यति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {6।62} ये इदानीम् अप्रयुक्ताः न अमी साधवः स्युः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {7।62} इदम् विप्रतिषिद्धम् यत् उच्यते सन्ति वै शब्दाः अप्रयुक्ताः इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {8।62} यदि सन्ति न अप्रयुक्ताः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {9।62} अथ अप्रयुक्ताः न सन्ति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {10।62} सन्ति च अप्रयुक्ताः च इति विप्रतिषिद्धम् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {11।62} प्रयुञ्जानः एव खलु भवान् आह सन्ति शब्दाः अप्रयुक्ताः इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {12।62} कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {13।62} न एतत् विप्रतिषिद्धम् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {14।62} सन्ति इति तावत् ब्रूमः यत् एतान् शास्त्रविदः शास्त्रेण अनुविदधते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {15।62} अप्रयुक्ताः इति ब्रूमः यत् लोके अप्रयुक्ताः इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {16।62} यत् अपि उच्यते कः च इदानीम् अन्यः भवज्जातीयकः पुरुषः शब्दानाम् प्रयोगे साधुः स्यात् इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {17।62} न ब्रूमः अस्माभिः अप्रयुक्ताः इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {18।62} किम् तर्हि .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {19।62} लोके अप्रयुक्ताः इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {20।62} ननु च भवान् अपि अभ्यन्तरः लोके .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {21।62} अभ्यन्तरः अहम् लोके न तु अहम् लोकः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {22।62} अस्ति अप्रयुक्तः इति चेत् न अर्थे शब्दप्रयोगात् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {23।62} अस्ति अप्रयुक्तः इति चेत् तत् न .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {24।62} किम् कारणम् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {25।62} अर्थे शब्दप्रयोगात् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {26।62} अर्थे शब्दाः प्रयुज्यन्ते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {27।62} सन्ति च एषाम् शब्दानाम् अर्थाः येषु अर्थेषु प्रयुज्यन्ते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {28।62} अप्रयोगः प्रयोगान्यत्वात् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {29।62} अप्रयोगः खलु एषां शब्दानाम् न्याय्यः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {30।62} कुतः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {31।62} प्रयोगान्यत्वात् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {32।62} यत् एतेषाम् शब्दानाम् अर्थे अन्यान् शब्दान् प्रयुञ्जते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {33।62} तत् यथा .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {34।62} ऊष इति एतस्य शब्दस्य अर्थे क्व यूयम् उषिताः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {35।62} तेर इति अस्य अर्थे किम् यूयम् तीर्णाः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {36।62} चक्र इति अस्य अर्थे किम् यूयम् कृतवन्तः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {37।62} पेच इति अस्य अर्थे किम् यूयम् पक्ववन्तः इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {38।62} अप्रयुक्ते दीर्घसत्त्रवत् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {39।62} यदि अपि अप्रयुक्ताः अवश्यम् दीर्घसत्त्रवत् लक्षणेन अनुविधेयाः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {40।62} तत् यथा .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {41।62} दीर्घसत्त्राणि वार्षशतिकानि वार्षसहस्रिकाणि च .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {42।62} न च अद्यत्वे कः चित् अपि व्यवहरति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {43।62} केवलम् ऋषिसम्प्रदायः धर्मः इति कृत्वा याज्ञिकाः शास्त्रेण अनुविदधते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {44।62} सर्वे देशान्तरे .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {45।62} सर्वे खलु अपि एते शब्दाः देशान्तरे प्रयुज्यन्ते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {46।62} न च एते उपलभ्यन्ते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {47।62} उपलब्धौ यत्नः क्रियताम् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {48।62} महान् हि शब्दस्य प्रयोगविषयः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {49।62} सप्तद्वीपा वसुमती त्रयः लोकाः चत्वारः वेदाः साङ्गाः सरहस्याः बहुधा विभिन्नाः एकशतम् अध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंसतिधा बाह्वृच्यम् नवधा आथर्वणः वेदः वाकोवाक्यम् इतिहासः पुराणम् वैद्यकम् इति एतावान् शब्दस्य प्रयोगविषयः .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {50।62} एतावन्तम् शब्दस्य प्रयोगविषयम् अननुनिशम्य सन्ति अप्रयुक्ताः इति वचनम् केवलम् साहसमात्रम् .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {51।62} एतस्मिन् अतिमहति शब्दस्य प्रयोगविषये ते ते शब्दाः तत्र तत्र नियतविषयाः दृश्यन्ते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {52।62} तत् यथा .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {53।62} शवतिः गतिकर्मा कम्बोजेषु एव भाषितः भवति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {54।62} विकारे एनम् आर्याः भाषन्ते शवः इति .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {55।62} हम्मतिः सुराष्ट्रेषु रंहतिः प्राच्यमध्येषु गमिम् एव तु आर्याः प्रयुञ्जते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {56।62} दातिः लवनार्थे प्राच्येषु दात्रम् उदीच्येषु .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {57।62} ये च अपि एते भवतः अप्रयुक्ताः अभिमताः शब्दाः एतेषाम् अपि प्रयोगः दृश्यते .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {58।62} क्व .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {59।62} वेदे .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {60।62} यत् वः रेवतीः रेवत्यम् तत् ऊष .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {61।62} यत् मे नरः श्रुत्यम् ब्रह्म चक्र .
(पस्_12) क_इ,8.23-10.3 रो_इ,35-39 {62।62} यत्र नः चक्र जरसम् तनुनाम् इति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {1।54} किम् पुनः शब्दस्य ज्ञाने धर्मः आहोस्वित् प्रयोगे .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {2।54} कः च अत्र विशेषः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {3।54} ज्ञाने धर्मः इति चेत् तथा अधर्मः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {4।54} ज्ञाने धर्मः इति चेत् तथा अधर्मः प्राप्नोति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {5।54} यः हि शब्दान् जानाति अपशब्दान् अपि असौ जानाति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {6।54} यथा एव शब्दज्ञाने धर्मः एवम् अपशब्दज्ञाने अपि अधर्मः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {7।54} अथ वा भूयान् अधर्मः प्राप्नोति .भूयांसः अपशब्दाः अल्पीयांसः शब्दाः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {8।54} एकैकस्य शब्दस्य बहवः अपभ्रंशाः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {9।54} तत् यथा .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {10।54} गौः इति अस्य गावी गोणी गोता गोपोतलिका इति एवमादयः अपभ्रंशाः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {11।54} आचारे नियमः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {12।54} आचारे पुनः ऋषिः नियमम् वेदयते .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {13।54} ते असुराः हेलयः हेलयः इति कुर्वन्तः पराबभूवुः इति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {14।54} अस्तु तर्हि प्रयोगे .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {15।54} प्रयोगे सर्वलोकस्य .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {16।54} यदि प्रयोगे धर्मः सर्वः लोकः अभ्युदयेन युज्येत .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {17।54} कः च इदानीम् भवतः मत्सरः यदि सर्वः लोकः अभ्युदयेन युज्येत .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {18।54} न खलु कः चित् मत्सरः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {19।54} प्रयत्नानर्थक्यम् तु भवति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {20।54} फलवता च नाम प्रयत्नेन भवितव्यम् न च प्रयत्नः फलात् व्यतिरेच्यः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {21।54} ननु च ये कृतप्रयत्नाः ते साधीयः शब्दान् प्रयोक्ष्यन्ते .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {22।54} ते एव साधीयः अभ्युदयेन योक्ष्यन्ते .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {23।54} व्यतिरेकः अपि वै लक्ष्यते .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {24।54} दृश्यन्ते हि कृतप्रयत्नाः च अप्रवीणाः अकृतप्रयत्नाः च प्रवीणाः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {25।54} तत्र फलव्यतिरेकः अपि स्यात् .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {26।54} एवम् तर्हि न अपि ज्ञाने एव धर्मः न अपि प्रयोगे एव .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {27।54} किम् तर्हि शास्त्रपूर्वके प्रयोगे अभ्युदयः तत् तुल्यम् वेदशब्देन .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {28।54} शास्त्रपूर्वकम् यः शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {29।54} तत् तुल्यम् वेदशब्देन .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {30।54} वेदशब्दाः अपि एवम् अभिवदन्ति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {31।54} यः अग्निष्टोमेन यजते यः उ च एनम् एवम् वेद .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {32।54} यः अग्निम् नाचिकेतम् चिनुते यः उ च एनम् एवम् वेद .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {33।54} अपरः आह : तत् तुल्यम् वेदशब्देन इति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {34।54} यथा वेदशब्दाः नियमपूर्वम् अधीताः फलवन्तः भवन्ति एवम् यः शास्त्रपूर्वकम् शब्दान् प्रयुङ्क्ते सः अभ्युदयेन युज्यते इति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {35।54} अथ वा पुनः अस्तु ज्ञाने एव धर्मः इति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {36।54} ननु च उक्तम् ज्ञाने धर्मः इति चेत् तथा अधर्मः इति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {37।54} न एषः दोषः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {38।54} शब्दप्रमाणकाः वयम् .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {39।54} यत् शब्दः आह तत् अस्माकम् प्रमाणम् .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {40।54} शब्दः च शब्दज्ञाने धर्मम् आह न अपशब्दज्ञाने अधर्मम् .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {41।54} यत् च पुनः अशिष्टाप्रतिषिद्धम् न एव तत् दोषाय भवति न अभ्युदयाय .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {42।54} तत् यथा .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {43।54} हिक्कितहसितकण्डूयितानि न एव दोषाय भवन्ति न अपि अभ्युदयाय .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {44।54} अथ वा अभ्युपायः एव अपशब्दज्ञानम् शब्दज्ञाने .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {45।54} यः अपशब्दान् जानाति शब्दान् अपि असौ जानाति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {46।54} तत् एवम् ज्ञाने धर्मः इति ब्रुवतः अर्थात् आपन्नम् भवति अपशब्दज्ञानपूर्वके शब्दज्ञाने धर्मः इति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {47।54} अथ वा कूपखानकवत् एतत् भवति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {48।54} तत् यथा कूपखानकः खनन् यदि अपि मृदा पांसुभिः च अवकीर्णः भवति सः अप्सु सञ्जातासु ततः एव तम् गुणम् आसादयति येन सः च दोषः निर्हण्यते भूयसा च अभ्युदयेन योगः भवति एवम् इह अपि यदि अपि अपशब्दज्ञाने अधर्मः तथा अपि यः तु असौ शब्दज्ञाने धर्मः तेन सः च दोषः निर्घानिष्यते भूयसा च अभ्युदयेन योगः भविष्यति .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {49।54} यत् अपि उच्यते आचारे नियमः इति याज्ञे कर्मणि सः नियमः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {50।54} एवम् हि श्रूयते .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {51।54} यर्वाणः तर्वाणः नाम ऋषयः बभूवुः प्रत्यक्षधर्माणः परापरज्ञाः विदितवेदितव्याः अधिगतयाथातथ्याः .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {52।54} ते तत्रभवन्तः यत् वा नः तत् वा नः इति प्रोयोक्तव्ये यर् वा णः तर् वा णः इति प्रयुञ्जते याज्ञे पुनः कर्मणि न अपभाषन्ते .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {53।54} तैः पुनः असुरैः याज्ञे कर्मणि अपभाषितम् .
(पस्_13) क_इ,10.4-11.14 रो_इ,39-42 {54।54} ततः ते पराबभूताः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {1।59} अथ व्याकरणम् इति अस्य शब्दस्य कः पदार्थः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {2।59} सूत्रम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {3।59} सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {4।59} सूत्रे व्याकरणे षष्ठ्यर्थः न उपपद्यते व्याकरणस्य सूत्रम् इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {5।59} किम् हि तत् अन्यत् सूत्रात् व्याकरणम् यस्य अदः सूत्रम् स्यात् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {6।59} शब्दाप्रतिपत्तिः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {7।59} शब्दानाम् च अप्रतिपत्तिः प्राप्नोति व्याकरणात् शब्दान् प्रतिपद्यामहे इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {8।59} न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {9।59} किम् तर्हि .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {10।59} व्याख्यानतः च .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {11।59} ननु च तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {12।59} न केवलानि चर्चापदानि व्याख्यनम् वृद्धिः आत् ऐच् इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {13।59} किम् तर्हि .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {14।59} उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {15।59} एवम् तर्हि शब्दः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {16।59} शब्दे ल्युडर्थः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {17।59} यदि शब्दः व्याकरणम् ल्युडर्थः न उपपद्यते व्याक्रियते अनेन इति व्याकरणम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {18।59} न हि शब्देन किम् चित् व्याक्रियते .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {19।59} केन तर्हि .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {20।59} सूत्रेण .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {21।59} भवे .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {22।59} भवे च तद्धितः न उपपद्यते व्याकरणे भवः योगः वैयाकरणः इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {23।59} न हि शब्दे भवः योगः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {24।59} क्व तर्हि .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {25।59} सूत्रे .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {26।59} प्रोक्तादयः च तद्धिताः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {27।59} प्रोक्तादयः च तद्धिताः न उपपद्यन्ते पाणिनिना प्रोक्तम् पाणिनीयम् , आपिशलम् , काशकृत्स्नम् इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {28।59} न हि पाणिनिना शब्दाः प्रोक्ताः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {29।59} किम् तर्हि .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {30।59} सूत्रम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {31।59} किमर्थम् इदम् उभयम् उच्यते भवे प्रोक्तादयः च तद्धिताः इति न प्रोक्तादयः च तद्धिताः इति एव भवे अपि तद्धितः चोदितः स्यात् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {32।59} पुरस्तात् इदम् आचार्येण दृष्टम् भवे तद्धितः इति तत् पठितम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {33।59} ततः उत्तरकालम् इदम् दृष्टम् प्रोक्तादयः च तद्धिताः इति तत् अपि पठितम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {34।59} न च इदानीम् आचार्याः सूत्राणि कृत्वा निवर्तयन्ति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {35।59} अयम् तावत् अदोषः यत् उच्यते शब्दे ल्युडर्थः इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {36।59} न अवश्यम् करणाधिकरणयोः एव ल्युट् विधीयते किम् तर्हि अन्येषु अपि कारकेषु कृत्यल्युटः बहुलम् इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {37।59} तत् यथा प्रस्कन्दनम् प्रपतनम् इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {38।59} अथ वा शब्दैः अपि शब्दाः व्याक्रियन्ते .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {39।59} तत् यथा गौः इति उक्ते सर्वे सन्देहाः निवर्तन्ते न अश्वः न गर्दभः इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {40।59} अयम् तर्हि दोषः भवे प्रोक्तादयः च तद्धिताः इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {41।59} एवम् तर्हि लक्ष्यलक्षणे व्याकरणम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {42।59} लक्ष्यम् च लक्षणम् च एतत् समुदितम् व्याकरणम् भवति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {43।59} किम् पुनः लक्ष्यम् लक्षणम् च .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {44।59} शब्दः लक्ष्यम् सूत्रम् लक्षणम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {45।59} एवम् अपि अयम् दोषः समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे न उपपद्यते .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {46।59} सूत्राणि च अधीयानः इष्यते वैयाकरणः इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {47।59} न एषः दोषः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {48।59} समुदायेषु हि शब्दाः प्रवृत्ताः अवयवेषु अपि वर्तन्ते .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {49।59} तत् यथा पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {50।59} एवम् अयम् समुदाये व्याकरणशब्दः प्रवृत्तः अवयवे अपि वर्तते .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {51।59} अथ वा पुनः अस्तु सूत्रम् .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {52।59} ननु च उक्तम् सूत्रे व्याकरणे षष्ठ्यर्थः अनुपपन्नः इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {53।59} न एष दोषः .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {54।59} व्यपदेशिवद्भावेन भविष्यति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {55।59} यत् अपि उच्यते शब्दाप्रतिपत्तिः इति न हि सूत्रतः एव शब्दान् प्रतिपद्यन्ते किम् तर्हि व्याख्यानतः च इति परिहृतम् एतत् तत् एव सूत्रम् विगृहीतम् व्याख्यानम् भवति इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {56।59} ननु च उक्तम् न केवलानि चर्चापदानि व्याख्यानम् वृद्धिः आत् ऐच् इति किम् तर्हि उदाहरणम् प्रत्युदाहरणम् वाक्याध्याहारः इति एतत् समुदितम् व्याख्यानम् भवति इति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {57।59} अविजानतः एतत् एवम् भवति .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {58।59} सूत्रतः एव हि शब्दान् प्रतिपद्यन्ते .
(पस्_14) क_इ,11.14-12.27 रो_इ,42-47 {59।59} आतः च सूत्रतः एव यः हि उत्सूत्रम् कथयेत् न अदः गृह्येत .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {1।80} अथ किमर्थः वर्णानाम् उपदेशः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {2।80} वृत्तिसमवायार्थः उपदेशः . वृत्तिसमवायार्थः वर्णानाम् उपदेशः कर्तव्यः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {3।80} किम् इदम् वृत्तिसमवयार्थः इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {4।80} वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {5।80} का पुनः वृत्तिः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {6।80} शास्त्रप्रवृत्तिः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {7।80} अथ कः समवयः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {8।80} वर्णानाम् आनुपूर्व्येण सन्निवेशः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {9।80} अथ कः उपदेशः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {10।80} उच्चारणम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {11।80} कुतः एतत् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {12।80} दिशिः उच्चारणक्रियः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {13।80} उच्चार्य हि वर्णान् आह : उपदिष्टाः इमे वर्णाः इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {14।80} अनुबन्धकरणार्थः च . अनुबन्धकरणार्थः च वर्णानाम् उपदेशः कर्तव्यः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {15।80} अनुबन्धान् आसङ्क्ष्यामि इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {16।80} न हि अनुपदिश्य वर्णान् अनुबन्धाः शक्याः आसङ्क्तुम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {17।80} सः एषः वर्णानाम् उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {18।80} वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {19।80} प्रत्याहारः वृत्त्यर्थः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {20।80} इष्टबुद्ध्यर्थः च .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {21।80} इष्टबुद्ध्यर्थः च वर्णानाम् उपदेशः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {22।80} इष्टान् वर्णान् भोत्स्ये इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {23।80} इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः . इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः कर्तव्यः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {24।80} एवङ्गुणाः अपि हि वर्णाः इष्यन्ते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {25।80} आकृत्युपदेशात् सिद्धम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {26।80} आकृत्युपदेशात् सिद्धम् एतत् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {27।80} अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {28।80} तथा इवर्णकुलाकृतिः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {29।80} तथा उवर्णकुलाकृतिः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {30।80} आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {31।80} आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {32।80} के पुनः संवृतादयः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {33।80} संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {34।80} अपरः आह : ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {35।80} अतः अन्ये व्यञ्जनदोषाः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {36।80} न एषः दोषः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {37।80} गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {38।80} अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {39।80} किम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {40।80} समुदायानाम् साधुत्वम् यथा स्यात् इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {41।80} एवम् तर्हि अष्टादशधा भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {42।80} सा तर्हि वक्तव्या .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {43।80} लिङ्गार्था तु प्रत्यापत्तिः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {44।80} लिङ्गार्थ सा तर्हि भविष्यति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {45।80} तत् तर्हि वक्तव्यम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {46।80} यदि अपि एतत् उच्यते अथ वा एतर्हि अनुबन्धशतम् न उच्चार्यम् इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {47।80} यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {48।80} सिध्यति एवम् अपाणिनीयम् तु भवति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {49।80} यथान्यासम् एव अस्तु .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {50।80} ननु च उक्तम् आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति .परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {51।80} ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {52।80} किम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {53।80} समुदायानाम् साधुत्वम् यथा स्यात् इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {54।80} एवम् तर्हि उभयम् अनेन क्रियते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {55।80} पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {56।80} कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {57।80} लभ्यम् इति आह .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {58।80} कथम् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {59।80} द्विगताः अपि हेतवः भवन्ति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {60।80} तत् यथा : आम्राः च सिक्ताः पितरः च प्रीणिताः इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {61।80} तथा वाक्यानि अपि ड्विष्ठानि भवन्ति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {62।80} श्वेतः धावति , अलम्बुसानाम् याता इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {63।80} अथ वा इदम् तावत् अयम् प्रष्टव्यः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {64।80} क्वे इमे संवृतादयः श्रूयेरन् इति .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {65।80} आगमेषु .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {66।80} आगमाः शुद्धाः पठ्यन्ते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {67।80} विकारेषु तर्हि .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {68।80} विकाराः शुद्धाः पठ्यन्ते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {69।80} प्रत्ययेषु तर्हि .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {70।80} प्रत्ययाः शुद्धाः पठ्यन्ते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {71।80} धातुषु तर्हि .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {72।80} धातवः अपि शुद्धाः पठ्यन्ते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {73।80} प्रातिपदिकेषु तर्हि .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {74।80} प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {75।80} यानि तर्हि अग्रहणानि प्रातिपदिकानि .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {76।80} एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {77।80} शशः षषः इति मा भूत् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {78।80} पलाशः पलाषः इति मा भूत् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {79।80} मञ्चकः मञ्जकः इति मा भूत् .
(पस्_15) क_इ,13.1-14.22 रो_इ,47-53 {80।80} आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {1।74} अकारस्य विवृतोपदेशः आकारग्रहणार्थः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {2।74} अकारस्य विवृतोपदेशः कर्तव्यः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {3।74} किम् प्रयोजनम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {4।74} आकारग्रहणार्थः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {5।74} अकारः सवर्णग्रगणेन आकारम् अपि यथा गृह्णीयात् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {6।74} किम् च कारणम् न गृह्णीयात् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {7।74} विवारभेदात् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {8।74} किम् उच्यते विवारभेदात् इति न पुनः कालभेदाद् अपि .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {9।74} यथा एव हि विवारभिन्नः एवम् कालभिन्नः अपि .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {10।74} सत्यम् एतत् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {11।74} वक्ष्यति तुल्यास्यप्रयत्नम् सवर्णम् इति अत्र आस्यग्रहणस्य प्रयोजनम् आस्ये येषाम् तुल्यः देशः प्रयत्नः च ते सवर्णसञ्ज्ञकाः भवन्ति इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {12।74} बाह्यः च पुनः आस्यात् कालः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {13।74} तेन स्यात् एव कालभिन्नस्य ग्रहणम् न पुनः विवारभिन्नस्य .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {14।74} किम् पुनः इदम् विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते आहोस्वित् संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {15।74} विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {16।74} कथम् ज्ञायते .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {17।74} यत् अयम् अ* अ इति अकारस्य विवृतस्य संवृतताप्रत्यापत्तिम् शास्ति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {18।74} न एतत् अस्ति ज्ञापकम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {19।74} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {20।74} किम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {21।74} अतिखट्वः , अतिमालः इति अत्र आन्तर्यतः विवृतस्य विवृतः प्राप्नोति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {22।74} संवृतः स्यात् इति एवमर्था प्रत्यापत्तिः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {23।74} न एतत् अस्ति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {24।74} न एव लोके न च वेदे अकारो विवृतः अस्ति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {25।74} कः तर्हि .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {26।74} संवृतः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {27।74} यः अस्ति सः भविष्यति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {28।74} तत् एतत् प्रत्यापत्तिवचनम् ज्ञापकम् एव भविष्यति विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {29।74} कः पुनः अत्र विशेषः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायेत संवृतस्य उपदिश्यमानस्य वा विवृतोपदेशः चोद्येत इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {30।74} न खलु कः चिद् विशेषः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {31।74} आहोपुरुषिकामात्रम् तु भवान् आह संवृतस्य उपदिश्यमानस्य विवृतोपदेशः चोद्यते इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {32।74} वयम् तु ब्रूमः विवृतस्य उपदिश्यमानस्य प्रयोजनम् अन्वाख्यायते इति. तस्य विवृतोपदेशात् अन्यत्र अपि विवृतोपदेशः सवर्णग्रहणार्थः . तस्य एतस्य आक्षरसमाम्नायिकस्य विवृतोपदेशात् अन्यत्र अपि विवृतोपदेशः कर्तव्यः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {33।74} क्व अन्यत्र .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {34।74} धातुप्रातिपदिकप्रत्ययनिपातस्थस्य .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {35।74} किम् प्रयोजनम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {36।74} सवर्णग्रहणार्थः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {37।74} आक्षरसमाम्नायिकेन अस्य ग्रहणम् यथा स्यात् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {38।74} किम् च कारणम् न स्यात् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {39।74} विवारभेदात् एव .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {40।74} आचार्यप्रवृत्तिः ज्ञापयति भवति आक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणम् इति यत् अयम् अकः सवर्णे दीर्घः इति प्रत्याहारे अकः ग्रहणम् करोति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {41।74} कथम् कृत्वा ज्ञापकम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {42।74} न हि द्वयोः आक्षरसमाम्नायिकयोः युगपत् समवस्थानम् अस्ति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {43।74} न एतत् अस्ति ज्ञापकम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {44।74} अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {45।74} किम्. यस्य आक्षरसमाम्नायिकेन ग्रहणम् अस्ति तदर्थम् एतत् स्यात् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {46।74} खट्वाढकम् मालाढकम् इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {47।74} सति प्रयोजने न ज्ञापकम् भवति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {48।74} तस्मात् विवृतोपदेशः कर्तव्यः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {49।74} कः एषः यत्नः चोद्यते विवृतोपदेशः नाम .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {50।74} विवृतः वा उपदिश्येत संवृतः वा कः नु अत्र विशेषः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {51।74} सः एषः सर्वः एवमर्थः यत्नः यानि एतानि प्रातिपदिकानि अग्रहणानि तेषाम् एतेन अभ्युपायेन उपदेशः चोद्यते .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {52।74} तत् गुरु भवति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {53।74} तस्मात् वक्तव्यम् धात्वादिस्थः च विवृतः इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {54।74} दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः . दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः विवृतोपदेशः कर्तव्यः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {55।74} दीर्घप्लुतौ संवृतौ मा भूताम् इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {56।74} वृक्षाभ्याम् देवदत्ता इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {57।74} न एव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {58।74} कौ तर्हि .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {59।74} विवृतौ .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {60।74} यौ स्तः तौ भविष्यतः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {61।74} स्थानी प्रकल्पयेत् एतौ अनुस्वारः यथा यणम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {62।74} संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत् अनुस्वारः यथा यणम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {63।74} तत् यथा सय्श्यन्ता सव्श्वत्सरः यल्श् लोकम् तल्श् लोकम् इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {64।74} अन्स्वारः स्थानी यणम् अनुनासिकम् प्रकल्पयति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {65।74} विषमः उपन्यासः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {66।74} युक्तम् यत् सतः तत्र प्रकॢप्तिः भवति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {67।74} सन्ति हि यणः सानुनासिकाः निरनुनासिकाः च .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {68।74} दीर्घप्लुतौ पुनः न एव लोके न च वेद संवृतौ स्तः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {69।74} कौ तर्हि .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {70।74} विवृतौ .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {71।74} यौ स्तः तौ भविष्यतः .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {72।74} एवम् अपि कुतः एतत् तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः न पुनः तुल्यप्रयत्नौ स्थानभिन्नौ स्याताम् ईकारः ऊकारः वा इति .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {73।74} वक्ष्यति स्थाने अन्तरतमः इति अत्र स्थाने इति वर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनम् .
(श्स्_1.1) क_इ,15.2-16.18 रो_इ,54-60 {74।74} यत्र अनेकविधम् आन्तर्यम् तत्र स्थानतः एव आन्तर्यम् बलीयः यथा स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {1।109} तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {2।109} तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {3।109} अस्य च्वौ यस्य ईति च .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {4।109} किम् कारणम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {5।109} अनण्त्वात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {6।109} न हि एते अणः ये अनुवृत्तौ .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {7।109} के तर्हि .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {8।109} ये अक्षरसमाम्नये उपदिश्यन्ते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {9।109} एकत्वात् अकारस्य सिद्धम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {10।109} एकः अयम् अकारः यः च अक्षरसमाम्नये यः च अनुवृत्तौ यः च धात्वादिस्थः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {11।109} अनुबन्धसङ्करः तु .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {12।109} अनुबन्धसङ्करः तु प्राप्नोति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {13।109} कर्मणि अण् , आतः अनुपसर्गे कः इति के अपि णित्कृतम् प्राप्नोति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {14।109} एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {15।109} एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः भविष्यति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {16।109} तत्र कः दोषः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {17।109} किरिणा गिरिणा इति अत्र एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {18।109} इह च घटेन तरति घटिक इति द्व्यज्लक्षणः ठन् न प्राप्नोति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {19।109} द्रव्यवत् च उपचाराः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {20।109} द्रव्यवत् च उपचाराः प्राप्नुवन्ति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {21।109} तत् यथा .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {22।109} द्रव्येषु न एकेन घटेन अनेकः युगपत् कार्यम् करोति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {23।109} एवम् इमम् अकारम् न अनेकः युगपत् उच्चारयेत् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {24।109} विषयेण तु नानालिङ्गकारणात् सिद्धम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {25।109} यत् अयम् विषये विषये नानालिङ्गम् अकारम् करोति कर्मणि अण् आतः अनुपसर्गे कः इति तेन ज्ञायते नानुबन्धसङ्करः अस्ति इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {26।109} यदि हि स्यात् नानालिङ्गकरणम् अनर्थकम् स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {27।109} एकम् एव अयम् सर्वगुणम् उच्चारयेत् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {28।109} न एतत् अस्ति ज्ञपकम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {29।109} इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {30।109} न हि अयम् अनुबन्धैः शल्यकवत् शक्यः उपचेतुम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {31।109} इत्सञ्ज्ञयाम् हि दोषः स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {32।109} आयम्य हि द्वयोः इत्सञ्ज्ञा स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {33।109} कयोः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {34।109} आद्यन्तयोः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {35।109} एवम् तर्हि विषयेण तु पुनः लिङ्गकरणात् सिद्धम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {36।109} यत् अयम् विषये विषये पुनः लिङ्गम् अकारम् करोति प्राक् दीव्यतः अण् , शिवादिभ्यः अण् इति तेन ज्ञायते न अनुबन्धसङ्करः अस्ति इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {37।109} यदि हि स्यात् पुनः लिङ्गकरणम् अनर्थकम् स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {38।109} अथ वा पुनः अस्तु विषयेण तु नानालिङ्गकारणात् सिद्धम् इति एव .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {39।109} ननु च उक्तम् इत्सञ्ज्ञाप्रकॢप्त्यर्थम् एतत् स्यात् इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {40।109} न एष दोषः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {41।109} लोकतः एतत् सिद्धम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {42।109} तत् यथा : लोके कः चित् देवदत्तम् आह : इह मुण्डो भव , इह जटी भव , इह शिखी भव इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {43।109} यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपतिष्ठते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {44।109} एवम् अकारः यल्लिङ्गः यत्र उच्यते तल्लिङ्गः तत्र उपस्थास्यते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {45।109} यत् अपि उच्यते एकाजनेकाज्ग्रहणेषु च अनुपपत्तिः इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {46।109} एकाजनेकाज्ग्रहणेषु च आवृत्तिसङ्ख्यानात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {47।109} एकाजनेकाज्ग्रहणेषु च आवृत्तेः सङ्ख्यानात् अनेकाच्त्वम् भविष्यति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {48।109} तत् यथा सप्तदश सामिधेन्यः भवन्ति इति त्रिः प्रथमम् अन्वाह त्रिः उत्तमम् इति आवृत्तितः सप्तदशत्वम् भवति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {49।109} एवम् इह अपि आवृत्तितः अनेकाच्त्वम् भविष्यति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {50।109} भवेद् आवृत्तितः कार्यम् परिहृतम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {51।109} इह तु खलु किरिणा गिरिणा इति एकाज्लक्षणम् अन्तोदात्तत्वम् प्राप्नोति एव .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {52।109} एतत् अपि सिद्धम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {53।109} कथम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {54।109} लोकतः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {55।109} तत् यथा लोके ऋषिसहस्रम् एकाम् कपिलाम् एकैकशः सहस्रकृत्वः दत्त्वा तया सर्वे ते सहस्रदक्षिणः संपन्नाः एवम् इह अपि अनेकाच्त्वम् भविष्यति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {56।109} यत् अपि उच्यते द्रव्यवत् च उपचाराः प्राप्नुवन्ति इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {57।109} भवेत् यत् असम्भवि कार्यम् तत् न अनेकः युगपत् कुर्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {58।109} यत् तु खलु सम्भवि कार्यम् अनेकः अपि तत् युगपत् करोति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {59।109} तत् यथा घटस्य दर्शनम् स्पर्शनम् वा .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {60।109} सम्भवि च इदम् कार्यम् अकारस्य उच्चारणम् नाम अनेकः अपि तत् युगपत् करिष्यति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {61।109} आन्यभाव्यम् तु कालशब्दव्यवायात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {62।109} आन्यभाव्यम् तु अकारस्य .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {63।109} कुतः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {64।109} कालशब्दव्यवायात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {65।109} कालव्यवायात् शब्दव्यवायात् च .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {66।109} कालव्यावायात् : दण्ड , अग्रम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {67।109} शब्दव्यवायात् : दण्डः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {68।109} न च एकस्य आत्मनः व्यवायेन भवितव्यम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {69।109} भवति चेत् भवति आन्यभाव्यम् अकारस्य .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {70।109} युगपत् च देशपृथक्त्वदर्शनात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {71।109} युगपत् च देशपृथक्त्वदर्शनात् मन्यामहे आन्यभाव्यम् अकारस्य इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {72।109} यत् अयम् युगपत् देशपृथक्त्वेषु उपलभ्यते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {73।109} अश्वः , अर्कः , अर्थः इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {74।109} न हि एकः देवदत्तः युगपत् स्रुघ्ने च भवति मथुरायाम् च .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {75।109} यदि पुनः इमे वर्णाः शकुनिवत् स्युः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {76।109} तत् यथा शकुनयः आशुगमित्वात् पुरस्तात् उत्पतिताः पश्चात् दृश्यन्ते एवम् अयम् अकारः द इति अत्र दृष्टः ण्ड इति अत्र दृश्यते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {77।109} न एवम् शक्यम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {78।109} अनित्यत्वम् एवम् स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {79।109} नित्याः च शब्दाः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {80।109} नित्येषु च शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {81।109} यदि च अयम् द इति अत्र दृष्टः ण्ड इति अत्र दृश्येत न अयम् कूटस्थः स्यात् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {82।109} यदि पुनः इमे वर्णाः आदित्यवत् स्युः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {83।109} तत् यथा एकः आदित्यः अनेकाधिकरण्स्थः युगपत् देशपृथक्त्वेषु उपलभ्यते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {84।109} विषमः उपन्यासः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {85।109} न एकः द्रष्टा आदित्यम् अनेकाधिकरणस्थम् युगपत् देशपृथक्त्वेषु उपलभते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {86।109} अकारम् पुनः उपलभते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {87।109} अकारम् अपि न उपलभते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {88।109} किम् कारणम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {89।109} श्रोत्रोपलब्धिः बुद्धिनिर्ग्राह्यः प्रयोगेण अभिज्वलितः आकाशदेशः शब्दः एकम् च आकाशम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {90।109} आकाशदेशाः अपि बहवः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {91।109} यावता बहवः तस्मात् आन्यभाव्यम् अकारस्य .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {92।109} आकृतिग्रहणात् सिद्धम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {93।109} अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {94।109} तथा इवर्णाकृतिः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {95।109} तथा उवर्णाकृतिः .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {96।109} तद्वत् च तपरकरणम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {97।109} एवम् च कृत्वा तपराः क्रियन्ते .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {98।109} आकृतिग्रहणेन अतिप्रसक्तम् इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {99।109} ननु च सवर्णग्रहणेन अतिप्रसक्तम् इति कृत्वा तपराः क्रियेरन् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {100।109} प्रत्याख्यायते तत् : सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् अनन्यत्वात् च इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {101।109} हल्ग्रहणेषु च .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {102।109} किम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {103।109} आकृतिग्रहणात् सिद्धम् इति एव .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {104।109} झलो झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति : अण् सवर्णान् गृह्णाति इति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {105।109} रूपसामन्यात् वा .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {106।109} रूपसामान्यात् वा सिद्धम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {107।109} तत् यथा : तान् एव शाटकान् आच्छादयामः ये मथुरायाम् , तान् एव शालीन् भुञ्ज्महे ये मगधेषु , तत् एव इदम् भवतः कार्षापणम् यत् मथुरायाम् गृहीतम् .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {108।109} अन्यस्मिन् च अन्यस्मिन् च रूपसामान्यात् तत् एव इदम् इति भवति .
(श्स्_1.2) क_इ,16.19-19.8 रो_इ,60-69 {109।109} एवम् इह अपि रूपसामान्यात् सिद्धम्
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {1।115} ऌकारोपदेशः किमर्थः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {2।115} किम् विशेषेण ऌकारोपदेशः चोद्यते न पुनः अन्येषाम् अपि वर्णानाम् उपदेशः चोद्यते .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {3।115} यदि किम् चित् अन्येषाम् अपि वर्णानाम् उपदेशे प्रयोजनम् अस्ति ऌकारोपदेशस्य अपि तत् भवितुम् अर्हति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {4।115} कः वा विशेषः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {5।115} अयम् अस्ति विशेषः .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {6।115} अस्य हि ऌकारस्य अल्पीयान् च एव प्रयोगविषयः यः च अपि प्रयोगविषयः सः अपि कॢपिस्थस्य .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {7।115} कॢपेः च लत्वम् असिद्धम् .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {8।115} तस्य असिद्धत्वात् ऋकारस्य एव अच्कार्याणि भविष्यन्ति .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {9।115} न अर्थः ऌकारोपदेशेन .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {10।115} अतः उत्तरम् पठति : ऌकारोपदेशः यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः . ऌकारोपदेशः क्रियते यदृच्छाशब्दार्थः अशक्तिजानुकरणार्थः प्लुत्याद्यर्थः च .
(श्स्_2) क_इ,19.10-21.28 रो_इ,70-79 {11।115} यदृच्छाशब्दार्थः तावत् .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0