भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 101120

(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {5।14} यदि अपि वैयाकरणाः विभक्तिलोपम् आरभमाणाः अविभक्तिकान् शब्दाञ् प्रयुञ्जते ये तु एते वैयाकरणेभ्यः अन्ये मनुष्याः कथम् ते अविभक्तिकान् शब्दान् प्रयुञ्जते इति .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {6।14} अभिज्ञाः च पुनः लौकिकाः एकत्वादीनाम् अर्थानाम् .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {7।14} आतः च अभिज्ञाः : अन्येन हि वस्नेन एकम् गाम् क्रीणन्ति , अन्येन द्वौ , अन्येन त्रीन् .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {8।14} अभिज्ञाः च न च प्रयुञ्जते .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {9।14} तत् एतत् एवम् सन्दृश्यताम् : अर्थरूपम् एतत् एवञ्जातीयकम् येन अत्र विभक्तिः न भवति इति .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {10।14} तत् च अपि एतत् एवम् अनुगम्यमानम् दृश्यताम् : किम् चित् अव्ययम् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {11।14} उच्चैः , नीचैः इति विभक्त्यर्थप्रधानम् , हिरुक् पृथक् इति क्रियाप्रधानम् .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {12।14} तद्धितः च अपि कः चित् विभक्त्यर्थप्रधानः कः चित् क्रियाप्रधानः .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {13।14} तत्र यत्र इति विभक्त्यर्थप्रधानः , नाना विन इति क्रियाप्रधानः .
(प्_1,1.38.3) क_इ,95.12-22 रो_इ,303-304 {14।14} न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {1।16} अथ अपि असर्वविभक्तिः इति उच्यते एवम् अपि न दोषः .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {2।16} कथम् .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {3।16} इदम् च अपि अद्यत्वे अतिबहु क्रियते : एकस्मिन् एकवचनम् , द्वयोः द्विवचनम् , बहुषु बहुवचनम् इति .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {4।16} कथम् तर्हि .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {5।16} एकवचनम् उत्सर्गः करिष्यते .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {6।16} तस्य द्विबह्वोः अर्थयोः द्विवचनबहुवचने बाधके भविष्यतः .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {7।16} न च अपि एवम् विग्रहः करिष्यते : न सर्वाः असर्वाः , असर्वाः विभक्तयः अस्मात् इति .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {8।16} कथम् तर्हि .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {9।16} न सर्वा असर्वा , असर्वा विभक्तिः अस्मात् इति .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {10।16} त्रिकम् पुनः विभक्तिसञ्ज्ञम् .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {11।16} एवम् गते कृति अपि तुल्यम् एतत् मान्तस्य कार्यम् ग्रहणम् न तत्र .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {12।16} ततः परे च अभिमताः कार्याः त्रयः कृदर्थाः ग्रहणेन योगाः .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {13।16} कृत्तद्धितानाम् ग्रहणम् तु कार्यम् सङ्ख्याविशेषम् हि अभिनिश्रिताः ये .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {14।16} तेषाम् प्रतिषेधः भवति इति वक्तव्यम् .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {15।16} इह मा भूत् : एकः , द्वौ , बहवः इति .
(प्_1,1.38.4) क_इ,95.23-96.5 रो_इ,304-307 {16।16} तस्मात् स्वरादिग्रहणम् च कार्यम् कृत्तद्धितानाम् च पाठे .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {1।22} पाठेन इयम् अव्ययसञ्ज्ञा क्रियते .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {2।22} सा इह न प्राप्नोति : परमोच्चैः , परमनीचैः इति .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {3।22} तदन्तविधिना भविष्यति .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {4।22} इह अपि तर्हि प्राप्नोति : अत्युच्चैः अत्युच्चैसौ अत्युच्चैसः इति .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {5।22} उपसर्जनस्य न इति प्रतिषेधः भविष्यति .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {6।22} सः तर्हि प्रतिषेधः वक्तव्यः .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {7।22} न वक्तव्यः .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {8।22} सर्वनामसञ्ज्ञायाम् प्रकृतः प्रतिषेधः इह अनुवर्तिष्यते .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {9।22} सः वै तत्र प्रत्याख्यायते .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {10।22} यथा सः तत्र प्रत्याख्यायते इह अपि तथा शक्यः प्रत्याख्यातुम् .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {11।22} कथम् सः तत्र प्रत्याख्यायते .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {12।22} महती इयम् सञ्ज्ञा क्रियते .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {13।22} इयम् अपि च महती सञ्ज्ञा क्रियते .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {14।22} सञ्ज्ञा च नाम यतः न लघीयः .

(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {15।22} कुतः एतत् .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {16।22} लघ्वर्थम् हि सञ्ज्ञाकरणम् .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {17।22} तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत : न व्येति इति अव्ययम् इति .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {18।22} क्व पुनः न व्येति .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {19।22} स्त्रीपुंनपुंसकानि सत्त्वगुणाः एकत्वद्वित्वबहुत्वानि च .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {20।22} एतान् अर्थान् के चित् वियन्ति के चित् न वियन्ति .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {21।22} ये न वियन्ति तद् अव्ययम् .
(प्_1,1.38.5) क_इ,96.6-17 रो_इ,307-308 {22।22} सदृशम् त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {1।22} कथम् इदम् विज्ञायते : कृत् यः मान्तः इति आहोस्वित् कृदन्तम् यत् मान्तम् इति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {2।22} किम् च अतः .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {3।22} यदि विज्ञायते कृत् यः मान्तः इति कारयाम् चकार हारयाम् चकार इति अत्र न प्राप्नोति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {4।22} अथ विज्ञायते कृदन्तम् यत् मान्तम् इति प्रतामौ प्रतामः इति अत्र अपि प्राप्नोति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {5।22} यथा इच्छसि तथा अस्तु .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {6।22} अस्तु तावत् कृत् यः मान्तः इति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {7।22} कथम् कारयाम् चकार हारयाम् चकार इति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {8।22} किम् पुनः अत्र अव्ययसञ्ज्ञया प्रार्थ्यते .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {9।22} अव्ययात् इति लुक् यथा स्यात् .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {10।22} मा भूत् एवम् .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {11।22} आमः इति एवम् भविष्यति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {12।22} न सिध्यति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {13।22} लिग्रहणम् तत्र अनुवर्तते .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {14।22} लिग्रहणम् निवर्तिष्यते .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {15।22} यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {16।22} इष्यते च प्रत्ययमात्रस्य .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {17।22} आतः च इष्यते .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {18।22} एवम् हि आह : कृञ् च अनुप्रयुज्यते लिटि इति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {19।22} यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {20।22} अथ वा पुनः अस्तु कृदन्तम् यत् मान्तम् इति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {21।22} कथम् प्रतामौ प्रतामः इति .
(प्_1,1.39.1) क_इ,96.19-97.2 रो_इ,308-310 {22।22} आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन अव्ययसञ्ज्ञा भवति इति यत् अयम् प्रशान्शब्दम् स्वरादिषु पठति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {1।123} कृत् मेजन्तः च अनिकारोकारप्रकृतिः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {2।123} कृत् मेजन्तः च अनिकारोकारप्रकृतिः इति वक्तव्यम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {3।123} इह मा भूत् : आधये , आधेः , चिकीर्षवे , चिकीर्षोः इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {4।123} अनन्यप्रकृतिः इति वा .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {5।123} अथ वा अनन्यप्रकृतिः कृत् अव्ययसञ्ज्ञः भवति इति वक्तव्यम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {6।123} किम् पुनः अत्र ज्यायः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {7।123} अनन्यप्रकृतिवचनम् एव ज्यायः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {8।123} इदम् अपि सिद्धम् भवति : कुम्भकारेभ्यः , नगरकारेभ्यः इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {9।123} तत् तर्हि वक्तव्यम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {10।123} न वा सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य .

(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {11।123} न वा वक्तव्यम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {12।123} किम् कारणम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {13।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति एषा परिभाषा कर्तव्या .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {14।123} कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अनन्यप्रकृतिः इति वा उच्येत .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {15।123} अवश्यम् एषा परिभाषा कर्तव्या .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {16।123} बहूनि एतस्याः परिभाषायाः प्रयोजनानि .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {17।123} कानि पुनः तानि .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {18।123} प्रयोजनम् ह्रस्वतम् तुग्विधेः ग्रामणिकुलम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {19।123} ग्रामणिकुलम् , सेनानिकुलम् इति अत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {20।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {21।123} न एतत् अस्ति प्रयोजनम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {22।123} बहिरङ्गम् ह्रस्वत्वम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {23।123} अन्तरङ्गः तुक् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {24।123} असिद्धम् बहिरङ्गम् अन्तरङ्गे .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {25।123} नलोपः वृत्रहभिः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {26।123} वृत्र्हभिः , भ्रूण्हभिः इति अत्र नलोपे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {27।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {28।123} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {29।123} असिद्धः नलोपः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {30।123} तस्य असिद्धत्वात् न भविष्यति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {31।123} उदुपधत्वम् अकित्त्वस्य निकुचिते .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {32।123} उदुपधत्वम् अकित्त्वस्य अनिमित्तम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {33।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {34।123} निकुचिते .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {35।123} निकुचितः इति अत्र नलोपे कृते उदुपधात् भावादिकर्मणोः अन्यतरस्याम् इति अकित्त्वम् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {36।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {37।123} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {38।123} अस्तु अत्र अकित्त्वम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {39।123} न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {40।123} नाभावः यञि दीर्घत्वस्य अमुना .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {41।123} नाभावः यञि दीर्घत्वस्य अस्निमित्तम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {42।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {43।123} अमुना .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {44।123} नाभावे कृते अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {45।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {46।123} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {47।123} वक्ष्यति एतत् : न मु टादेशे इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {48।123} आत्त्वम् कित्त्वस्य उपादास्त .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {49।123} आत्त्वम् कित्त्वस्य अनिमित्तम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {50।123} क्व .

(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {51।123} उपादास्त अस्य स्वरः शिक्षकस्य इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {52।123} आत्त्वे कृते स्थाघ्वोः इत् च इति इत्त्वम् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {53।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {54।123} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {55।123} उक्तम् एतत् : दीङः प्रतिषेधः स्थाघ्वोः इत्त्वे इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {56।123} तिसृचतसृत्वम् ङीब्विधेः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {57।123} तिसृचतसृत्वम् ङीब्विधेः अनिमित्तम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {58।123} तिस्रः तिष्ठन्ति चतस्रः तिष्ठन्ति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {59।123} तिसृचतसृभावे कृते ऋन्नेभ्यः ङीप् इति ङीप् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {60।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {61।123} एतत् अपि न अस्ति प्रयोजनम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {62।123} आचार्यप्रवृत्तिः ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवति इति यत् अयम् न तिसृचतसृ इति नामि दीर्घत्वप्रतिषेधम् शास्ति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {63।123} इमानि तर्हि प्रयोजनानि : शतानि सहस्राणि .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {64।123} नुमि कृते ष्णान्ता षट् इत् षट्सञ्ज्ञा प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {65।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {66।123} शकटौ पद्धतौ .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {67।123} अत्त्वे कृते अतः इति टाप् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {68।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {69।123} इयेष , उवोष .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {70।123} गुणे कृते इजादेः च गुरुमतः अनृच्छः इति आम् प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {71।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति न दोषः भवति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {72।123} तस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {73।123} तस्य एतस्य लक्षणस्य दोषः वर्णाश्रयः प्रत्ययः वर्णविचालस्य अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {74।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {75।123} अत इञ् : दाक्षिः , प्लाक्षिः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {76।123} न प्रत्ययः सन्निपातलक्षणः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {77।123} अङ्गसञ्ज्ञा तर्हि अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {78।123} आत्त्वम् पुग्विधेः क्रापयति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {79।123} आत्त्वम् पुग्विधेः अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {80।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {81।123} क्रापयति इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {82।123} पुग् ह्रस्वत्वस्य अदीदपत् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {83।123} पुक् ह्रस्वत्वस्य अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {84।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {85।123} अदीदपत् इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {86।123} त्यदाद्यकारः टाब्विधेः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {87।123} त्यदाद्यकारः टाब्विधेः अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {88।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {89।123} या सा .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {90।123} इड्विधिः आकारलोपस्य पपिवान् .

(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {91।123} इड्विधिः आकारलोपस्य अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {92।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {93।123} पपिवान् तस्थिवान् इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {94।123} मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {95।123} मतुब्विभक्त्युदात्तत्वम् पूर्वनिघातस्य अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {96।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {97।123} अग्निमान् वायुमान् परमवाचा परमवाचे .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {98।123} नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {99।123} नदीह्रस्व्रत्वम् सम्बुद्धिलोपस्य अनिमित्तम् स्यात् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {100।123} क्व .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {101।123} नदि कुमारि किशोरि ब्राह्मणि ब्रह्मबन्धु .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {102।123} ह्रस्वत्वे कृते एङ्ह्रस्वात् सम्बुद्धेः इति लोपः न प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {103।123} मा भूत् एवम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {104।123} ङ्यन्तात् इति एवम् भविष्यति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {105।123} न सिध्यति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {106।123} दीर्घात् इति उच्यते .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {107।123} ह्रस्वान्तात् च न प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {108।123} इदम् इह सम्प्रधार्यम् : ह्रस्वत्वम् क्रियताम् सम्बुद्धिलोपः इति किम् अत्र कर्तव्यम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {109।123} परत्वात् ह्रस्वत्वम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {110।123} नित्यः सम्बुद्धिलोपः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {111।123} कृते अपि ह्रस्वत्वे प्राप्नोति अकृते अपि .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {112।123} अनित्यः सम्बुद्धिलोपः .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {113।123} न हि कृते ह्रस्वत्वे प्राप्नोति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {114।123} किम् कारणम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {115।123} सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {116।123} एते दोषाः समाः भूयांसः वा .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {117।123} तस्मात् न अर्थः अनया परिभाषया .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {118।123} न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {119।123} न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {120।123} दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {121।123} कुतः एतत् .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {122।123} न हि दोषाणाम् लक्षणम् अस्ति .
(प्_1,1.39.2) क_इ,97.3-100.4 रो_इ,310-318 {123।123} तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {1।32} अव्ययीभावस्य अव्ययत्वे प्रयोजनम् लुग्मुख्स्वरोपचाराः .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {2।32} अव्ययीभावस्य अव्ययत्वे प्रयोजनम् किम् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {3।32} लुग्मुख्स्वरोपचाराः .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {4।32} लुक् : उपाग्नि प्रत्यग्नि .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {5।32} अव्ययात् इति लुक् सिद्धः भवति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {6।32} मुखस्वरः .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {7।32} उपाग्निमुखः , प्रत्यग्निमुखः .

(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {8।32} न अव्ययदिक्शब्द्गोमहत्स्थूलपृथुवत्सेभ्यः इति प्रतिषेधः सिद्धः भवति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {9।32} उपचारः : उपपयःकारः , उपपयःकामः इति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {10।32} अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य इति प्रतिषेधः सिद्धः भवति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {11।32} किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {12।32} परिगणनम् इति आह .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {13।32} अपि खलु अपि आहुः .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {14।32} यत् अन्यत् अव्ययीभावस्य अव्ययकृतम् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः इति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {15।32} किम् पुनः तत् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {16।32} पराङ्गवद्भावः .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {17।32} पराङ्गवद्भावे अव्ययप्रतिषेधः चोदितः उच्चैः अधीयान नीचैः अधीयान इति एवमर्थम् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {18।32} सः इह अपि प्राप्नोति : उपाग्नि अधीयान प्रत्यग्नि अधीयान .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {19।32} अकचि अव्ययग्रहणम् क्रियते उच्चकैः , नीचकैः इति एवमर्थम् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {20।32} तत् इह अपि प्राप्नोति : उपाग्निकम् , प्रत्यग्निकम् इति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {21।32} मुमि अव्ययप्रतिषेधः उच्यते दोषामन्यम् अहः , दिवामन्या रात्रिः इति एवमर्थम् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {22।32} सः इह अपि प्राप्नोति : औपकुम्भम्मन्यः , उपमणिकम्मन्यः .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {23।32} अस्य च्वौ अव्ययप्रतिषेधः उच्यते दोषाभूतम् अहः , दिवाभूता रात्रिः इति एवमर्थम् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {24।32} सः इह अपि प्राप्नोति : उपकुम्भीभूतम् उपमणिकीभूतम् .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {25।32} यदि परिगणनम् क्रियते न अर्थः अव्ययीभावस्य अव्ययसञ्ज्ञया .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {26।32} कथम् यानि अव्ययीभावस्य अव्ययत्वे प्रयोजनानि .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {27।32} न एतानि सन्ति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {28।32} यत् तावत् उच्यते लुक् इति : आचार्यप्रवृत्तिः ज्ञापयति भवति अव्ययीभावात् लुक् इति यद् अयम् न अव्ययीभावात् अतः इति प्रतिषेधम् शास्ति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {29।32} उपचारः : अनुत्तरपदस्थस्य इति वर्तते .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {30।32} तत्र मुखस्वरः एकः प्रयोजयति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {31।32} न च एकम् प्रयोजनम् योगारम्भम् प्रयोजयति .
(प्_1,1.41) क_इ,100.6-26 रो_इ,318-320 {32।32} यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् नाव्ययात् अव्ययीभावात् च इति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {1।25} शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {2।25} शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति : कुण्डानि तिष्ठन्ति वनानि तिष्ठन्ति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {3।25} असमर्थसमासः च अयम् द्रष्टव्यः अनपुंसकस्य इति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {4।25} न हि नञः नपुंसकेन सामर्थ्यम्. केन तर्हि .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {5।25} भवतिना : न भवति नपुंसकस्य इति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {6।25} यत् तावत् उच्यते शि सर्वनामस्थानम् सुट् अनपुंसकस्य इति चेत् जसि शिप्रतिषेधः इति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {7।25} न अप्रतिषेधात् .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {8।25} न अयम् प्रसज्यप्रतिषेधः : नपुंसकस्य न इति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {9।25} किम् तर्हि .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {10।25} पर्युदासः अयम् : यत् अन्यत् नपुंसकात् इति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {11।25} नपुंसके अव्यापारः .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {12।25} यदि केन चित् प्राप्नोति तेन भविष्यति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {13।25} पूर्वेण च प्राप्नोति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {14।25} अप्राप्तेः वा .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {15।25} अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते .

(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {16।25} कुतः एतत् .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {17।25} अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {18।25} पूर्वा प्राप्तिः अप्रतिषिद्धा .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {19।25} तया भविष्यति .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {20।25} ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {21।25} न उत्सहते प्रतिषिद्धा सती बाधितुम् .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {22।25} यत् अपि उच्यते .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {23।25} असमर्थसमासः च अयम् द्रष्टव्यः इति यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {24।25} कानि .
(प्_1,1.42-43) क_इ,101.2-16 रो_इ,320-322 {25।25} असूर्यम्पश्यानि मुखानि , अपुनर्गेयाः श्लोकाः , अश्राद्धभोजी ब्राह्मणः इति .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {1।23} न वा इति विभाषायाम् अर्थसञ्ज्ञाकरणम् .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {2।23} न वा इति विभाषायाम् अर्थस्य सञ्ज्ञा कर्तव्या .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {3।23} नवाशब्दस्य यः अर्थः तस्य सञ्ज्ञा भवति इति वक्तव्यम् .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {4।23} किम् प्रयोजनम् .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {5।23} शब्दसञ्ज्ञायाम् हि अर्थासम्प्रत्ययः यथा अन्यत्र .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {6।23} शब्दसञ्ज्ञायाम् हि सत्याम् अर्थस्य असम्प्रत्ययः स्यात् यथा अन्यत्र .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {7।23} अन्यत्र अपि शब्दसञ्ज्ञायाम् शब्दस्य सम्प्रत्ययः भवति न अर्थस्य .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {8।23} क्व अन्यत्र .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {9।23} दाधाः घु अदाप् तरप्तमपौ घः इति घुग्रहणेषु घग्रहणेषु च शब्दस्य सम्प्रत्ययः भवति न अर्थस्य .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {10।23} तत् तर्हि वक्तव्यम् .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {11।23} न वक्तव्यम् .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {12।23} इतिकरणः अर्थनिर्देशार्थः .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {13।23} इतिकरणः क्रियते .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {14।23} सः अर्थनिर्देशार्थः भविष्यति .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {15।23} किम् गतम् एतत् इतिना आहोस्वित् शबाधिक्यात् अर्थाधिक्यम् .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {16।23} गतम् इति आह .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {17।23} कुतः .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {18।23} लोकतः .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {19।23} तत् यथा लोके गौः अयम् इति आह इति गोशब्दात् इतिकरणः परः प्रयुज्यमानः गोशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {20।23} सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ अर्थपदार्थकता तस्याः शब्दपदार्थकः सम्पद्यते .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {21।23} एवम् इह अपि नवाशब्दात् इतिकरणः परः प्रयुज्यमानः नवाशब्दम् स्वस्मात् पदार्थात् प्रच्यावयति .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {22।23} सः असौ स्वस्मात् पदार्थात् प्रच्युतः या असौ शब्दपदार्थकता तस्याः लौकिकम् अर्थम् सम्प्रत्याययति .
(प्_1,1.44.1) क_इ,101.18-102.10 रो_इ,322-323 {23।23} न वा इति यत् गम्यते न वा इति यत् प्रतीयते इति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {1।29} समानशब्दप्रतिषेधः .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {2।29} समानशब्दानाम् प्रतिषेधः वक्तव्यः : नवा कुण्डिका नवा घटिका इति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {3।29} किम् च स्यात् यदि एतेषाम् अपि विभाषासञ्ज्ञा स्यात् .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {4।29} विभाषा दिक्समासे बहुव्रीहौ : दक्षिणपूर्वस्याम् शालायाम् .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {5।29} अचिरकृतायाम् सम्प्रत्ययः स्यात् .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {6।29} न वा विधिपूर्वकत्वात् प्रतिषेधसमप्रत्ययः यथा लोके .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {7।29} न वा एषः दोषः .

(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {8।29} किम् कारणम् .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {9।29} विधिपूर्वकत्वात् .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {10।29} विधाय किम् चित् न वा इति उच्यते .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {11।29} तेन प्रतिषेधवाचिनः समप्रत्ययः भवति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {12।29} तत् यथा लोके : ग्रामः भवता गन्तव्यः न वा .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {13।29} न इति गम्यते .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {14।29} अस्ति कार्णम् येन लोके प्रतिषेधवाचिनः समप्रत्ययः भवति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {15।29} किम् कारणम् .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {16।29} विलिङ्गम् हि भवान् लोके निर्देशम् करोति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {17।29} आङ्ग हि समानलिङ्गः निर्देशः क्रियताम् प्रत्यग्रवाचिनः सम्प्रत्ययः भविष्यति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {18।29} तत् यथा : ग्रामः भवता गन्तव्यः नवः .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {19।29} प्रत्यग्रः इति गम्यते .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {20।29} एतत् च एव न जानीमः : क्व चित् व्याकरणे समानलिङ्गः निर्देशः क्रियते इति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {21।29} अपि च कामचारः प्रयोक्तुः शब्दानाम् अभिसम्बन्धे .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {22।29} तत् यथा : यवागूः भवता भोक्तव्या नवा .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {23।29} यदा यवागूशब्दः भुजिना अभिसम्बध्यते भुजिः नवाशब्देन तदा प्रतिषेधवाचिनः सम्प्रत्ययः भवति : यवागूः भवता भोक्तव्या नवा .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {24।29} न इति गम्यते .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {25।29} यदा यवागूशब्दः नवाशब्देन अभिसम्बध्यते न भुजिना तदा प्रत्यग्रवाचिनः सम्प्रत्ययः भवति : यवागूः नवा भवता भोक्तव्या .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {26।29} प्रत्यग्रा इति गम्यते .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {27।29} न च इह वयम् विभाषाग्रहणेन सर्वादीनि अभिसम्बध्नीमः : दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा भवन्ति इति .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {28।29} किम् तर्हि .
(प्_1,1.44.2) क_इ,102.11-103.2 रो_इ,324-325 {29।29} भवतिः अभिसम्बध्यते : दिक्समासे बहुव्रीहौ सर्वादीनि भवन्ति विभाषा इति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {1।44} विध्यनित्यत्वम् अनुपपन्नम् प्रतिषेधसञ्ज्ञाकरणात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {2।44} विध्यनित्यत्वम् न उपपद्यते : शुशाव , शुशुवतुः , शुशुवुः , शिश्वाय , शिश्वियतुः , शिश्वियुः .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {3।44} किम् कारणम् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {4।44} प्रतिषेधसञ्ज्ञाकरणात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {5।44} प्रतिषेधस्य इयम् सञ्ज्ञा क्रियते .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {6।44} तेन विभाषाप्रदेशेषु प्रतिषेधस्य एव सम्प्रत्ययः स्यात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {7।44} सिद्धम् तु प्रसज्यप्रतिषेधात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {8।44} सिद्धम् एतत् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {9।44} कथम् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {10।44} प्रसज्यप्रतिषेधात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {11।44} प्रसज्य किम् चित् न वा इति उच्यते .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {12।44} तेन उभयम् भविष्यति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {13।44} विप्रतिषिद्धम् तु .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {14।44} विप्रतिषिद्धम् तु भवति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {15।44} अत्र न ज्ञायते : केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {16।44} न वा प्रसङ्गसामर्थ्यात् अन्यत्र प्रतिषेधविषयात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {17।44} न वा एषः दोषः .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {18।44} किम् कारणम् .

(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {19।44} प्रसङ्गसामर्थ्यात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {20।44} प्रसङ्गसामर्थ्यात् च विधिः भविष्यति अन्यत्र प्रतिषेधविषयात् प्रतिषेधसामर्थ्यात् च प्रतिषेधः भविष्यति अन्यत्र विधिविषयात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {21।44} तत् एतत् क्व सिद्धम् भवति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {22।44} या अप्राप्ते विभाषा .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {23।44} या हि प्राप्ते कृतसामर्थ्यः तत्र पूर्वेण विधिः इति कृत्वा प्रतिषेधस्य एव सम्प्रत्ययः स्यात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {24।44} एतत् अपि सिद्धम् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {25।44} कथम् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {26।44} विभाषा इति महतीसञ्ज्ञा क्रियते .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {27।44} सञ्ज्ञा च नाम यतः न लघीयः .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {28।44} कुतः एतत् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {29।44} लघ्वर्थम् हि सञ्ज्ञाकरणम् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {30।44} तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् उभयोः सञ्ज्ञा यथा विज्ञायेत : न इति च वा इति च .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {31।44} तत्र या तावत् अप्राप्ते विभाषा तत्र प्रतिषेध्यम् न अस्ति इति कृत्वा वा इति अनेन विकल्पः भविष्यति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {32।44} या हि प्राप्ते विभाषा तत्र उभयम् उपस्थितम् भवति : न इति च वा इति च .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {33।44} तत्र न इति अनेन प्रतिषिद्धे वा इति अनेन विकल्पः भविष्यति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {34।44} एवम् अपि विप्रतिषेधयोः युगपद्वचनानुपपत्तिः .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {35।44} विप्रतिषेधयोः युगपद्वचनम् न उपपद्यते : शुशाव शुशुवतुः शुशुवुः शिश्वाय शिश्वियतुः शिश्वियुः .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {36।44} किम् कारणम् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {37।44} भवति इति चेत् न प्रतिषेधः .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {38।44} भवति इति चेत् प्रतिषेधः न प्राप्नोति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {39।44} न इति चेत् न विधिः .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {40।44} न इत् चेत् विधिः न सिध्यति .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {41।44} सिद्धम् तु पूर्वस्य उत्तरेण बाधितत्वात् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {42।44} सिद्धम् एतत्. कथम् .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {43।44} पूर्वविधिम् उत्तर्विधिः बाधते .
(प्_1,1.44.3) क_इ,103.3-104.7 रो_इ,325-328 {44।44} इतिकरणः अर्थनिर्देशाऋथः इति उक्तम् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {1।43} साध्वनुशासने अस्मिन् यस्य विभाषा तस्य साधुत्वम् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {2।43} साध्वनुशासने अस्मिन् शास्त्रे यस्य विभाषा क्रियते सः विभाषा साधुः स्यात् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {3।43} समासः च एव हि विभाषा .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {4।43} तेन समासस्य एव विभाषा साधुत्वम् स्यात् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {5।43} अस्तु .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {6।43} यः साधुः सः प्रयोक्ष्यते. असाधुः न प्रयोक्ष्यते .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {7।43} न च एव हि कदा चित् राजपुरुषः इति अस्याम् अवस्थायाम् असाधुत्वम् इष्यते .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {8।43} अपि च द्वेधाप्रतिपत्तिः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {9।43} द्वैधम् शब्दानाम् अप्रतिपत्तिः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {10।43} इच्छामः च पुनः विभाषाप्रदेशेषु द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {11।43} यस्य पुनः कार्याः शब्दाः विभाषा असौ समासम् निर्वर्तयति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {12।43} यस्य अपि नित्याः शब्दाः तस्य अपि एषः न दोषः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {13।43} कथम् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {14।43} न विभाषाग्रहणेन साधुत्वम् अभिसम्बध्यते .

(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {15।43} किम् तर्हि .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {16।43} समाससञ्ज्ञा अभिसम्बध्यते : समासः इति एषा सञ्ज्ञा विभाषा भवति इति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {17।43} तत् यथा : मेध्यः पशुः विभाषितः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {18।43} मेध्यः अनड्वान् विभाषितः इति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {19।43} न एतत् विचार्यते : अनड्वान् न अनड्वान् इति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {20।43} किम् तर्हि आलब्धव्यः न आलब्धव्यः इति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {21।43} कार्ये युगपदन्वाचययौगपद्यम् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {22।43} कार्येषु शब्देषु युगपत् अन्वाचयेन च यत् उच्यते तस्य युगपद्वचनता प्राप्नोति : तव्यत्तव्यानीयरः , ढक् च मण्डूकात् इति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {23।43} यस्य पुनः नित्याः शब्दाः प्रयुक्तानाम् असौ साधुत्वम् अन्वाचष्टे .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {24।43} ननु च यस्य अपि कार्याः तस्य अपि एषः न दोषः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {25।43} कथम् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {26।43} प्रत्ययः परः भवति इति उच्यते .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {27।43} न च एकस्याः प्रकृतेः अनेकस्य प्रत्ययस्य युगपत् परत्वेन सम्भवः अस्ति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {28।43} न अपि ब्रूमः प्रत्ययमाला प्राप्नोति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {29।43} किम् तर्हि .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {30।43} कर्तव्यम् इति प्रयोक्तव्ये युगपत् द्वितीयस्य तृतीयस्य च प्रयोगः प्राप्नोति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {31।43} न एषः दोषः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {32।43} अर्थगत्यर्थः शब्दप्रयोगः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {33।43} अर्थम् सम्प्रत्याययिष्यामि इति शब्दः प्रयुज्यते .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {34।43} तत्र एकेन उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {35।43} आचार्यदेशशीलने च तद्विषयता .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {36।43} आचार्यदेशशीलनेन यत् उच्यते तस्य तद्विषयता प्राप्नोति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {37।43} इकः ह्रस्वः अङ्यः गालवस्य प्राचाम् अवृद्धात् फिन् बहुलम् इति गालवाः एव ह्रस्वान् प्रयुञ्जीरन् प्राक्षु च एव हि फिन् स्यात् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {38।43} तत् यथा : जमदग्निः वै एतत् पञ्चमम् अवदानम् अवाद्यत् तस्मात् न अजामदग्न्यः पञ्चावत्तम् जुहोति .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {39।43} यस्य पुनः नित्याः शब्दाः गालवग्रहणम् तस्य पूजार्थम् देशग्रहणम् च कीर्त्यर्थम् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {40।43} ननु च यस्य अपि कार्याः तस्य अपि पूजार्थम् गालवग्रहणम् स्यात् देशग्रहम् च कीर्त्यर्थम् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {41।43} तत्कीर्तने च द्वेधाप्रतिपत्तिः .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {42।43} तत्कीर्तने च द्वैधम् शब्दानाम् अप्रतिपत्तिः स्यात् .
(प्_1,1.44.4) क_इ,104.8-105.13 रो_इ,328-332 {43।43} इच्छामः च पुनः आचार्यग्रहणेषु देशग्रहणेषु च द्वैधम् शब्दानाम् प्रतिपत्तिः स्यात् इति तत् च न सिध्यति .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {1।12} अशिष्यः वा विदितत्वात् .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {2।12} अशिष्यः वा पुनः अयम् योगः .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {3।12} किम् कारणम् .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {4।12} विदितत्वात् .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {5।12} यत् अनेन योगेन प्रार्थ्यते तस्य अर्थस्य विदितत्वात् .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {6।12} ये अपि हि एताम् सञ्ज्ञाम् न आरभन्ते ते अपि विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {7।12} याज्ञिकाः खलु अपि सञ्ज्ञाम् अनारभमाणाः विभाषा इति उक्ते अनित्यत्वम् अवगच्छन्ति .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {8।12} तत् यथा .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {9।12} मेध्यः पशुः विभाषितः .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {10।12} मेध्यः अनड्वान् विभाषितः इति .
(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {11।12} आलब्धव्यः न आलब्धव्यः इति गम्यते .

(प्_1,1.44.5) क_इ,105.14-20 रो_इ,332-333 {12।12} आचार्यः खलु अपि सञ्ज्ञाम् आरभमाणः भूयिष्ठम् अन्यैः अपि शब्दैः एतम् अर्थम् सम्प्रत्याययति बहुलम् अन्यतरस्याम् उभयथा वा एकेषाम् इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {1।100} अप्राप्ते त्रिसंशयाः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {2।100} इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः अप्राप्ते ताः द्रष्टव्याः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {3।100} त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {4।100} द्वन्द्वे च विभाषा जसि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {5।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {6।100} उभयशब्दः सर्वादिषु पठ्यते तयपः च अयजादेशः क्रियते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {7।100} तेन वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {8।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {9।100} अयच् प्रत्ययान्तरम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {10।100} यदि प्रत्ययान्तरम् उभयी इति ईकारः न प्राप्नोति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {11।100} मा भूत् एवम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {12।100} मात्रचः इति एवम् भविष्यति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {13।100} कथम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {14।100} मात्रच् इति न इदम् प्रत्ययग्रहणम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {15।100} किम् तर्हि .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {16।100} प्रत्याहारग्रहणम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {17।100} क्व सन्निविष्टानाम् प्रत्याहारः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {18।100} मात्रशब्दात् प्रभृति आ आयचः चकारात् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {19।100} यदि प्रत्याहारग्रहणम् कति तिष्ठन्ति : अत्र अपि प्राप्नोति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {20।100} अतः इति वर्तते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {21।100} एवम् अपि तैलमात्रा घ्र्तमात्रा इति अत्र अपि प्राप्नोति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {22।100} सदृशस्य अपि असन्निविष्टस्य न भविष्यति प्रत्याहारेण ग्रहणम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {23।100} ऊर्णोः विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {24।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {25।100} असंयोगात् लिट् कित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {26।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {27।100} अन्यत् हि कित्त्वम् अन्यत् ङित्त्वम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {28।100} एकम् चेत् ङित्कितौ .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {29।100} यदि एकम् ङित्कितौ ततः अस्ति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {30।100} अथ हि नाना न अस्ति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {31।100} यदि अपि नाना एवम् अपि सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {32।100} कथम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {33।100} प्रौर्णुवि इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {34।100} सार्वधातुकम् अपित् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {35।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {36।100} विभाषा उपयमने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {37।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {38।100} गन्धने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {39।100} अप्राप्ते .

(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {40।100} गन्धने इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {41।100} अनुपसर्गात् वा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {42।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {43।100} वृत्तिसर्गतायनेषु क्रमः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {44।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {45।100} वृत्त्यादिषु इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {46।100} विभाषा वृक्षमृगादीनाम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {47।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {48।100} जातिः अप्राणिनाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {49।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {50।100} जातिः अप्राणिनाम् इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {51।100} उषविदजागृभ्यः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {52।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {53।100} प्रत्ययान्तात् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {54।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {55।100} प्रत्ययान्ताः धात्वन्तराणि .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {56।100} दीपादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {57।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {58।100} भावकर्मणोः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {59।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {60।100} कर्तरि इति वर्तते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {61।100} एवम् अपि सन्देहः : न्याय्ये वा कर्तरि कर्मकर्तरि वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {62।100} न अस्ति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {63।100} सकर्मकस्य कर्ता कर्मवत् भवति अकर्मकाः च दीपादयः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {64।100} अकर्मकाः अपि वै सोपसर्गाः सकर्मकाः भवन्ति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {65।100} कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् च भवन्ति कर्तृस्थभावकाः च दीपादयः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {66।100} विभाषा अग्रेप्रथमपूर्वेषु : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {67।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {68।100} आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {69।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {70।100} आभीक्ष्ण्ये इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {71।100} तृनादीनाम् विभाषा : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {72।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {73।100} आक्रोशे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {74।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {75।100} आक्रोशे इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {76।100} एकहलादौ पूरयितव्ये अन्यतरस्याम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {77।100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {78।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {79।100} उदकस्य उदः सञ्ज्ञायाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .

(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {80।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {81।100} सञ्ज्ञायाम् इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {82।100} श्वादेः इञि पदान्तस्य अन्यतरस्याम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {83।100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {84।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {85।100} इञि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {86।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {87।100} इञि इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {88।100} सपूर्वायाः प्रथमायाः विभाषा .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {89।100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {90।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {91।100} चादिभिः योगे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {92।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {93।100} चादिभिः योगे इति निवृत्तम् .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {94।100} ग्रः यङि अचि विभाषा .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {95।100} प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {96।100} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {97।100} यङि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {98।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {99।100} अप्राप्ते .
(प्_1,1.44.6) क_इ,105.21-108.7 रो_इ,333-339 {100।100} यङि इति निवृत्तम्
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {1।28} प्राप्ते च .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {2।28} इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः प्राप्ते ताः द्रष्टव्याः .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {3।28} त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {4।28} विभाषा विप्रलापे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {5।28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {6।28} व्यक्तवाचाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {7।28} प्राप्ते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {8।28} व्यक्तवाचाम् इति हि वर्तते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {9।28} विभाषा उपपदेन प्रतीयमाने : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {10।28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {11।28} स्वरितञितः इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {12।28} प्राप्ते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {13।28} स्वरितञितः इति हि वर्तते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {14।28} तिरः अन्तर्धौ विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {15।28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {16।28} अन्तर्धौ इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {17।28} प्राप्ते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {18।28} अन्तर्धौ इति हि वर्तते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {19।28} अधिः ईश्वरे विभाषा कृञि : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .

(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {20।28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {21।28} ईश्वरे इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {22।28} प्राप्ते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {23।28} ईश्वरे इति हि वर्तते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {24।28} दिवः तदर्थस्य विभाषा उपसर्गे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {25।28} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {26।28} तदर्थस्य इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {27।28} प्राप्ते .
(प्_1,1.44.7) क_इ,108.8-109.3 रो_इ,339-40 {28।28} तदर्थस्य इति वर्तते
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {1।34} उभयत्र च .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {2।34} इतः उत्तरम् याः विभाषाः अनुक्रमिष्यामः उभयत्र ताः द्रष्टव्याः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {3।34} त्रिसंशयाः तु भवन्ति : प्राप्ते अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {4।34} हृक्रोः अन्यतरस्याम् : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {5।34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {6।34} गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {7।34} उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {8।34} प्राप्ते तावत् : अभ्यवहारयति सैन्धवान् , अभ्यवहारयति सैन्धवैः , विकारयति सैन्धवान् , विकारयति सैन्धवैः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {9।34} अप्राप्ते : हरति भारम् देवदत्तः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {10।34} हारयति भारम् देवदत्तम् , हारयति भारम् देवदत्तेन .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {11।34} करोति कटम् देवदत्तः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {12।34} कारयति कटम् देवदत्तम् , कारयति कटम् देवदत्तेन .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {13।34} न यदि विभाषा साकाङ्क्षे : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {14।34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .यदि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {15।34} उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {16।34} प्राप्ते तावत् : अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः , यत् कश्मीरेषु अवसाम , यत् तत्र ओदनान् भोक्ष्यामहे , यत् तत्र ओदनान् अभुञ्ज्महि .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {17।34} अप्राप्ते : अभिजानासि देवदत्त कश्मीरान् गमिष्यामः , कश्मीरान् अगच्छाम , तत्र ओदनाम् भोक्ष्यामहे , तत्र ओदनान् अभुञ्ज्महि .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {18।34} विभाषा श्वेः : प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {19।34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .किति इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {20।34} उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {21।34} प्राप्ते तावत् : शुशुवतुः , शुशुवुः , शिश्वियतुः , शिश्वियुः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {22।34} अप्राप्ते : शुशाव शुशविथ शिश्वाय शिश्वयिथ .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {23।34} विभाषा सङ्घुषास्वनाम् : सम्पूर्वात् घुषेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {24।34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {25।34} घुषिः अविशब्दने इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {26।34} उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {27।34} प्राप्ते तावत् : सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {28।34} अप्राप्ते : सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {29।34} आङ्पूर्वात् स्वनेः प्राप्ते अप्राप्ते उभयत्र वा इति सन्देहः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {30।34} कथम् च प्राप्ते कथम् वा अप्राप्ते कथम् वा उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {31।34} मनसि इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते उभयत्र वा इति .

(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {32।34} उभयत्र .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {33।34} प्राप्ते तावत् : आस्वान्तम् मनः , आस्वनितम् मनः .
(प्_1,1.44.8) क_इ,109.4-110.8 रो_इ,340-341 {34।34} अप्राप्ते : आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {1।49} fकिम् इयम् वाक्यस्य सम्प्रसारणसञ्ज्ञा क्रियते : इक् यणः इति एतत् वाक्यम् सम्प्रसारणसञ्ज्ञम् भवति इति , आहोस्वित् वर्णस्य : इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {2।49} कः च अत्र विशेषः .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {3।49} सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {4।49} सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः न सिध्यति : सम्प्रसारणात् परः पूर्वः भवति , सम्प्रसारणस्य दीर्घः भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {5।49} न हि वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {6।49} अस्तु तर्हि वर्णस्य .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {7।49} वर्णसञ्ज्ञा चेत् निर्वृत्तिः . वर्णसञ्ज्ञा चेत् निर्वृत्तिः न सिध्यति : ष्यङः सम्प्रसारणम् इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {8।49} सः एव हि तावत् इक् दुर्लभः यस्य सञ्ज्ञा क्रियते .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {9।49} अथ अपि कथम् चित् लभ्येत केन असु यणः स्थाने स्यात् .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {10।49} अनेन एव हि असौ व्यवस्थाप्यते .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {11।49} तत् एतत् इतरेतराश्रयम् भवति , इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {12।49} विभक्तिविशेषनिर्देशः तु ज्ञापकः उभयसञ्ज्ञात्वस्य .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {13।49} यत् अयम् विभक्तिविशेषैः निर्देशम् करोति सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति ष्यङः सम्प्रसारणम् इति तेन ज्ञायते उभयोः सञ्ज्ञा भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {14।49} यत् तावत् आह सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति तेन ज्ञायते वर्णस्य भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {15।49} यत् अपि आह ष्यङः सम्प्रसारणम् इति तेन ज्ञायते वाक्यस्य अपि सञ्ज्ञा भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {16।49} अथ वा पुनः अस्तु वाक्यस्य एव .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {17।49} ननु च उक्तम् सम्प्रसारणसञ्ज्ञायाम् वाक्यसञ्ज्ञा चेत् वर्णविधिः इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {18।49} न एषः दोषः .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {19।49} यथा काकात् जातः काकः , श्येनात् जातः श्येनः एवम् सम्प्रसारणात् जातम् सम्प्रसारणम् .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {20।49} यत् तत् सम्प्रसारणात् जातम् सम्प्रसारणम् तस्मात् परः पूर्वः भवति तस्य दीर्घः भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {21।49} अथ वा दृश्यन्ते हि वाक्येषु वाक्यैकदेशान् प्रयुञ्जानाः पदेषु च पदैकदेशान् .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {22।49} वाक्येषु तावत् वाक्यैकदेशान् : प्रविश पिण्डीम् , प्रविश तर्पर्णम् .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {23।49} पदेषु पदैकदेशान् : देवदत्तः दत्तः , सत्यभामा भामा इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {24।49} एवम् इह अपि सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति एतस्य वाक्यस्य अर्थे सम्प्रसारणात् सम्प्रसारणस्य इति वाक्यैकदेशः प्रयुज्यते .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {25।49} तेन निर्वृत्तस्य विधिम् विज्ञास्यामः .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {26।49} सम्प्रसारणनिर्वृत्तात् सम्प्रसारणनिर्वृत्तस्य इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {27।49} अथ वा आह अयम् सम्प्रसारणात् परः पूर्वः भवति सम्प्रसारणस्य दीर्घः भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {28।49} न च वाक्यस्य सम्प्रसारणसञ्ज्ञायाम् सत्याम् एषः निर्देशः उपपद्यते न अपि एतयोः कार्ययोः सम्भवः अस्ति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {29।49} तत्र वचनात् भविष्यति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {30।49} अथ वा पुनः अस्तु वर्णस्य .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {31।49} ननु च उक्तम् वर्णसञ्ज्ञा चेत् निर्वृत्तिः इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {32।49} न एषः दोषः .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {33।49} इतरेतराश्रयमात्रम् एतत् चोदितम् .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {34।49} सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {35।49} न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {36।49} न हि तत्र किम् चित् उच्यते अस्य स्थाने ये आकारैकारौकाराः भाव्यन्ते ते वृद्धिसञ्ज्ञाः भवन्ति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {37।49} इह पुनः उच्यते इक् यः यणः स्थाने सः सम्प्रसारणसञ्ज्ञः भवति इति .

(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {38।49} एवम् तर्हि भाविनी इयम् सञ्ज्ञा विज्ञास्यते .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {39।49} तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {40।49} सः पश्यति : यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {41।49} शाटकः वातव्यः इति विप्रतिषिद्धम् .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {42।49} भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {43।49} सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {44।49} एवम् इह अपि सः यणः स्थाने भवति यस्य अभिनिर्वृत्तस्य सम्प्रसारणम् इति एषा सञ्ज्ञा भविष्यति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {45।49} अथ वा इजादियजादिप्रवृत्तिः च एव हि लोके लक्ष्यते .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {46।49} यजाद्युपदेशात् तु इजादिनिवृत्तिः प्रसक्ता .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {47।49} प्रयुञ्जते च पुनः लोकाः इष्टम् उप्तम् इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {48।49} ते मन्यामहे : अस्य यणः स्थाने इमम् इकम् प्रयुञ्जते इति .
(प्_1,1.45) क_इ,111.2-112.17 रो_इ,342-346 {49।49} तत्र तस्य असाध्वभिमतस्य शास्त्रेण साधुत्वम् अवस्थाप्यते : किति साधुः भवति ङिति साधुः भवति इति .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {1।8} समासनिर्देशः अयम् .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {2।8} तत्र न ज्ञायते कः आदिः कः अन्तः इति .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {3।8} तत् यथा : अजाविधनौ देवदत्तयज्ञदत्तौ इति उक्ते न ज्ञायते कस्य अजाः धनम् कस्य अवयः इति .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {4।8} यदि अपि तावत् लोके एषः दृष्टान्तः दृष्टान्तस्य अपि पुरुषारम्भः निवर्तकः भवति .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {5।8} अस्ति च इह कः चित् पुरुषारम्भः .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {6।8} अस्ति इति आह .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {7।8} कः .
(प्_1,1.46.1) क_इ,112.19-22 रो_इ, 346 {8।8} सङ्ख्यातनुदेशः नाम .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {1।35} कौ पुनः टकितौ आद्यन्तौ भवतः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {2।35} आगमौ इति आह .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {3।35} युक्तम् पुनः यत् नित्येषु नाम शब्देषु आगमशासनम् स्यात् न नित्येषु शब्देषु कूटस्थैः अविचालिभिः वर्णैः भवितव्यम् अनपायोपजनविकारिभिः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {4।35} आगमः च नाम अपूर्वः शब्दोपजनः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {5।35} अथ युक्तम् यत् नित्येषु शब्देषु आदेशाः स्युः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {6।35} बाढम् युक्तम् .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {7।35} शब्दान्तरैः इह भवितव्यम् .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {8।35} तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिः युक्ता .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {9।35} आदेशाः तर्हि इमे भविष्यन्ति अनागमकानाम् सागमकाः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {10।35} तत् कथम् .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {11।35} सञ्ज्ञाधिकारः अयम् .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {12।35} आद्यन्तौ च इह सङ्कीर्त्येते .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {13।35} टकार्ककारौ इतौ उदाह्रियेते .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {14।35} तत्र आद्यन्तयोः टकारककारौ इतौ सञ्ज्ञे भविष्यतः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {15।35} तत्र आर्धधातुकस्य इट् वलादेः इति उपस्थितम् इदम् भवति : आदिः इति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {16।35} तेन इकारादिः आदेशः भविष्यति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {17।35} एतावत् इह सूत्रम् इट् इति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {18।35} कथम् पुनः इयता सूत्रेण इकारादिः आदेशः लभ्यः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {19।35} लभ्यः इति आह .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {20।35} कथम्. बहुव्रीहिनिर्देशात् .

(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {21।35} बहुव्रीहिनिर्देशः अयम् : इकारः आदिः अस्य इति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {22।35} यदि अपि तावत् अत्र एतत् शक्यते वकुत्म् इह कथम् : लुङ्लङ्लृङ्क्षु अट् उदात्तः इति यत्र अशक्यम् उदात्तग्रहणेन अकारः विशेषयितुम् .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {23।35} तत्र कः दोषः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {24।35} अङ्गस्य उदात्तत्वम् प्रसज्येत .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {25।35} न एषः दोषः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {26।35} त्रिपदः अयम् बहुव्रीहिः .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {27।35} तत्र वाक्ये एव उदात्तग्रहणेन अकारः विशेष्यते : अकारः उदात्तः आदिः अस्य इति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {28।35} यत्र तर्हि अनुवृत्त्या एतत् भवति : आट् अजादीनाम् इति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {29।35} वक्ष्यति एतत् : अजादीनाम् अटा सिद्धम् इति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {30।35} अथ वा यत् तावत् अयम् सामान्येन शक्नोति उपदेष्टुम् तत् तावत् उपदिशति प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {31।35} तेन अयम् विशेषेण शब्दान्तरम् समुदायम् प्रतिपद्यते .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {32।35} तत् यथा खदिरबुर्बुरयोः : खदिरबुर्बुरौ गौरकाण्डौ सूक्ष्मपर्णौ .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {33।35} ततः पश्चात् आह कण्टकवान् खदिरः इति .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {34।35} तेन असौ विशेषेण द्रव्यान्तरम् समुदायम् प्रतिपद्यते .
(प्_1,1.46.2) क_इ,112.23-113.15 रो_इ,346-349 {35।35} अथ वा एतया आनुपूर्व्या अयम् शब्दान्तरम् उपदिशति : प्रकृतिम् ततः वलादि आर्धधातुकम् ततः पश्चात् इकारम् यस्मिन् तस्य आगमबुद्धिः भवति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {1।44} टकितोः आद्यन्तविधाने प्रत्ययप्रतिषेधः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {2।44} टकितोः आद्यन्तविधाने प्रत्ययस्य प्रतिषेधः वक्तव्यः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {3।44} प्रत्ययः आदिः अन्तः वा मा भूत् : चरेः टः आतः अनुपसर्गे कः इति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {4।44} परवचनात् सिद्धम् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {5।44} परवचनात् प्रत्ययः आदिः अन्तः वा न भविष्यति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {6।44} परवचनात् सिद्धम् इति चेत् न अपवादत्वात् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {7।44} परवचनात् सिद्धम् इति चेत् न .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {8।44} किम् कारणम् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {9।44} अपवादत्वात् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {10।44} अपवादः अयम् योगः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {11।44} तत् यथा मित् अचः अन्त्यात् परः इति एषः योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {12।44} विषमः उपन्यासः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {13।44} युक्तम् तत्र यत् अनवकाशम् मित्करणम् स्थानेयोगत्वम् प्रत्ययपरत्वम् च बाधते .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {14।44} इह पुनः उभयम् सावकासम् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {15।44} कः अवकाशः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {16।44} टित्करणस्य अवकाशः : टितः इति ईकारः यथा स्यात् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {17।44} कित्करणस्य अवकाशः : किति इति आकारलोपः यथा स्यात् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {18।44} प्रयोजनम् नाम तत् वक्तव्यम् यत् नियोगतः स्यात् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {19।44} यदि च अयम् नियोगतः परः स्यात् ततः एतत् प्रयोजनम् स्यात् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {20।44} कुतः नु खलु एतत् टित्करणात् अयम् परः भविष्यति न पुनः आदिः इति कित्करणात् च परः भविष्यति न पुनः अन्तः इति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {21।44} टितः खलु अपि एषः परिहारः यत्र न अस्ति सम्भवः यत् परः च स्यात् आदिः च .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {22।44} कितः तु अपरिहारः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {23।44} अस्ति हि सम्भवः यत् परः च स्यात् अन्तः च .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {24।44} तत्र कः दोषः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {25।44} उपसर्गे घोः किः : आध्योः , प्रध्योः .

(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {26।44} नोङ्धात्वोः इति प्रतिषेधः प्रसज्येत .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {27।44} टितः च अपि अपरिहारः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {28।44} स्यात् एव हि अयम् टित्करणात् आदिः न पुनः परः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {29।44} क्व तर्हि इदानीम् इदम् स्यात् : टितः ईकारः भवति इति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {30।44} यः उभयवान् : गापोः टक् इति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {31।44} सिद्धम् तु षष्ठ्यधिकारे वचनात् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {32।44} सिद्धम् एतत् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {33।44} कथम् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {34।44} षष्ठ्यधिकारे अयम् योगः करत्व्यः : आद्यन्तौ टकितौ षष्ठीनिर्दिष्टस्य इति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {35।44} आद्यन्तयोः वा षष्थ्यर्थत्वात् तदभावे असम्प्रत्ययः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {36।44} आद्यन्तयोः वा षष्थ्यर्थत्वात् षष्ठ्याः अभावे असम्प्रत्ययः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {37।44} आदिः अन्तः वा न भविष्यति .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {38।44} युक्तम् पुनः यत् शब्दनिमित्तकः नाम अर्थः स्यात् न अर्थनिमित्तकेन शब्देन भवितव्यम् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {39।44} अर्थनिमित्तकः एव शब्दः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {40।44} तत् कथम् .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {41।44} आद्यन्तौ षष्ठ्यर्थौ .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {42।44} न च अत्र षष्ठीम् पश्यामः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {43।44} ते मन्यामहे : आद्यन्तौ एव अत्र न स्तः .
(प्_1,1.46.3) क_इ,113.16-114.16 रो_इ,349-351 {44।44} तयोः अभावे षष्ठी अपि न भवति इति .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {1।16} किमर्थम् इदम् उच्यते .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {2।16} मित् अचः अन्त्यात् परः इति स्थानपरप्रत्ययापवादः .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {3।16} मित् अचः अन्त्यात् परः इति उच्यते स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च अपवादः .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {4।16} स्थानेयोगत्वस्य तावत् : कुण्डानि वनानि पयांसि यशांसि .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {5।16} प्रत्ययपरत्वस्य : भिनत्ति छिनत्ति .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {6।16} भवेत् इदम् युक्तम् उदाहरणम् कुण्डानि वनानि यत्र न अस्ति सम्भवः यत् अयम् अचः अन्य्तात् परः च स्यात् स्थाने च इति .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {7।16} इदम् तु अयुक्तम् पयांसि यशांसि .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {8।16} अस्ति हि सम्भवः यत् अचः अन्य्तात् परः च स्यात् स्थाने च .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {9।16} एतत् अपि युक्तम् .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {10।16} कथम् .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {11।16} न एव ईश्वरः आज्ञापयति न अपि धर्मसूत्रकाराः पठन्ति अपवादैः उत्सर्गाः बाध्यन्ताम् इति .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {12।16} किम् तर्हि .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {13।16} लौकिकः अयम् दृष्टान्तः .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {14।16} लोके हि सति अपि सम्भवे बाधनम् भवति .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {15।16} तत् यथा : दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति .
(प्_1,1.47.1) क_इ,114.18-115.4 रो_इ,352 {16।16} एवम् इह अपि सति अपि सम्भवे अचाम् अन्त्यात् परत्वम् षष्ठीस्थानेयोगत्वम् बाधिष्यते .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {1।15} अन्त्यात् पूर्वः मस्जेः अनुषङ्गसंयोगादिलोपार्थम् .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {2।15} अन्त्यात् पूर्वः मस्जेः मित् वक्तव्यः .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {3।15} किम् प्रयोजनम् .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {4।15} अनुषङ्गसंयोगादिलोपार्थम् .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {5।15} अनुषङ्गलोपार्थम् संयोगादिलोपार्थम् च .

(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {6।15} अनुषङ्गलोपार्थम् तावत् : मग्नः , मग्नवान् .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {7।15} संयोगादिलोपार्थम् मङ्क्ता मङ्क्तुम् , मङ्क्तव्यम् .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {8।15} भर्जिमर्च्योः च .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {9।15} भर्जिमर्च्योः च अन्त्यात् पूर्वः मित् वक्तव्यः .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {10।15} भरूजा मरीचयः इति .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {11।15} सः तर्हि वक्तव्यः .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {12।15} न वक्तव्यः .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {13।15} निपातनात् सिद्धम् .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {14।15} किम् निपातनम् .
(प्_1,1.47.2) क_इ,115.5-12 रो_इ,352-353 {15।15} भरूजाशब्दः अङ्गुल्यादिषु पठ्यते मरीचिशब्दः बाह्वादिषु .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {1।76} किम् पुनः अयम् पूर्वान्तः आहोस्वित् परादिः आहोस्वित् अभक्तः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {2।76} कथम् च अयम् पूर्वान्तः स्यात् कथम् वा परादिः कथम् वा अभक्तः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {3।76} यदि अन्तः इति वर्तते ततः पूर्वान्तः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {4।76} अथ आदिः इति वर्तते ततः परादिः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {5।76} अथ उभयम् निवृत्तम् ततः अभक्तः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {6।76} कः च अत्र विशेषः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {7।76} अभक्ते दीर्घनलोपस्वरणत्वानुस्वारशीभावाः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {8।76} यदि अभक्तः दीर्घत्वम् न प्राप्नोति : कुण्डानि वनानि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {9।76} नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {10।76} दीर्घ .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {11।76} नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {12।76} नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {13।76} नलोप .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {14।76} स्वर : स्वरः च न सिध्यति : सर्वाणि ज्योतींषि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {15।76} सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {16।76} स्वर .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {17।76} णत्व : णत्वम् च न सिध्यति : माषवापाणि व्रीहिवापाणि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {18।76} पूर्वान्ते प्रातिपदिकान्तनकारस्य इति सिद्धम् , परादौ विभक्तिनकारस्य , अभक्ते नुमः ग्रहणम् कर्तव्यम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {19।76} न कर्तव्यम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {20।76} क्रियते न्यासे एव : प्रातिपदिकान्तनुम्विभक्तिषु इति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {21।76} णत्व .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {22।76} अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {23।76} मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {24।76} मा भूत् एवम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {25।76} नः च अपदान्तस्य झलि इति एवम् भविष्यति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {26।76} यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {27।76} अनुस्वार .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {28।76} शीभाव : शीभावः च न सिध्यति : त्रपुणी जतुनी तुम्बुरुणी .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {29।76} नपुंसकात् उत्तरस्य औङः शीभावः भवति इति शीभावः न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {30।76} शीभाव .

(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {31।76} एवम् तर्हि परादिः करिष्यते .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {32।76} परादौ गुणवृद्ध्यौत्त्वदीर्घनलोपानुस्वारशीभावेनकारप्रतिषेधः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {33।76} यदि परादिः गुणः प्रतिषेध्यः : त्रपुणे जतुने तुम्बुरुणे .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {34।76} घेः ङिति इति गुणः प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {35।76} गुण .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {36।76} वृद्धि : वृद्धिः प्रतिषेध्या : अतिसखीनि ब्राह्मणकुलानि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {37।76} सख्युः असम्बुद्धौ इति णित्त्वे अचः ञ्णिति इति वृद्धिः प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {38।76} वृद्धि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {39।76} औत्त्व : औत्त्वम् च प्रतिषेध्यम् : त्रपुणि जतुनि तुम्बुरुणि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {40।76} इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {41।76} औत्त्व .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {42।76} दीर्घ : दीर्घत्वम् च न सिध्यति : कुण्डानि वनानि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {43।76} नोपधायाः सर्वनामस्थाने च असम्बुद्धौ इति दीर्घत्वम् न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {44।76} मा भूत् एवम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {45।76} अतः दीर्घः यञि सुपि च इति एवम् भविष्यति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {46।76} इह तर्हि : अस्थीनि दधीनि प्रियसखीनि ब्राह्मणकुलानि .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {47।76} दीर्घ .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {48।76} नलोप : नलोपः च न सिध्यति : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {49।76} नलोपः प्रातिपदिकान्तस्य इति नलोपः न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {50।76} नलोप .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {51।76} अनुस्वार : अनुस्वारः च न सिध्यति : द्विषन्तपः , परन्तपः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {52।76} मः अनुस्वारः हलि इति अनुस्वारः न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {53।76} मा भूत् एवम् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {54।76} नः च अपदान्तस्य झलि इति एवम् भविष्यति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {55।76} यः तर्हि न झल्परः : वहंलिहः गौः , अभ्रंलिहः वायुः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {56।76} अनुस्वार .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {57।76} शीभावेनकारप्रतिषेधः : शीभावे नकारस्य प्रतिषेधः वक्तव्यः : त्रपुणी जतुनी तुम्बुरुणी .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {58।76} सनुम्कस्य शीभावः प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {59।76} न एषः दोषः .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {60।76} निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {61।76} यः तर्हि निर्दिश्यते तस्य न प्राप्नोति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {62।76} कस्मात् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {63।76} नुमा व्यवहितत्वात् .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {64।76} एवम् तर्हि पूर्वान्तः करिष्यते .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {65।76} पूर्वान्ते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {66।76} यदि पूर्वन्तः क्रियते नपुंसकोपसर्जनह्रस्वत्वम् द्विगुस्वरः च न सिध्यति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {67।76} नपुंसकोपसर्जनह्रस्वत्वम् : आराशस्त्रिणी धानाशष्कुलिनी निष्कौशाम्बिनी निर्वाराणसिनी .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {68।76} द्विगुस्वर : पञ्चारत्निनी दशारत्निनी .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {69।76} नुमि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुन्वन्ति .
(प्_1,1.47.3) क_इ,115.13-117.2 रो_इ,353-357 {70।76} न वा बहिरङ्गलक्षणत्वात् .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc