भाषा

ENहिગુ
ग्रंथ पाठ

वृत्तरत्नाकर (टीका सहित) · अध्याय 6

6.1

विषमाक्षराणि येषु ते पादा यस्मिन् विषमाक्षरपादं यदेवमेव अष्टौ दशसप्तनवाक्षरं वा सर्वपादैरसमं त्रिपादं षट्पादं वा दशधर्मवत् । यथा ।
दश धर्मं न जानन्ति धृतिराष्ट्र निबोध तान् ।
मत्तः प्रमत्त उन्मत्तश्श्रांतः क्रुद्धो बुभुक्षितः ।
त्वरमाणश भीरुश्च लुब्धः कामी च ते दशः ॥ इति षट्पदी गाथा ।
इत्येवमादि अस्मिन् च्छंदस्यर्थे नोक्तं प्रयोगेषु दृश्यते तद्गाथेति विद्वद्भिरुक्तम् । मंगलगीतिकावेष्टकविपद्विध्रुवकचच्चरीपाद्धतिकाद्विपथक प्रभृति तत्सर्वं गाथासंज्ञमवगन्तव्यम् । छंदसामानंत्यात्प्रतिपदमभिधातुमशक्यं तत्सर्वसंग्रहणीयं एका संज्ञा कृतेति ॥ 12 ॥
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ विषमवृत्ताध्यायः पंचमः ॥
षष्ठो ऽध्यायः
षट्प्रत्ययाध्यायः
[प्रस्तारः]
प्रस्तारो नष्टमुद्दिष्टमेकद्व्यादिलगुक्रिया ।
संख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः

6.2

इदानीं उक्तानां वृत्तानां षट्प्रत्ययानाह ।
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम्

6.3

ऊने दद्याद्गुरूण्येवं यावत्सर्वलघुर्भवेत् ।
प्रस्तारो ऽयं समाख्यातः छंदोविचितिवेदिभिः

6.4

पादे सर्वगुरौ यावतां वर्णानां वृत्तस्य पादस्तावंत एव गुरवो विलिख्यन्ते । यथा । चतुरक्षरच्छंदसि आद्या द्गुरोरधः अधोविभागे लघुं वर्णं न्यस्य स्थापयित्वा तदनंतरं न्यस्तलघोः सकाशात् शेषेभ्यो वर्णेभ्यो अधः किं स्थाप्यत इत्याह । यथोपरि तथा शेषं । यद्युपरि गुरुस्तदा अधस्तादपि गुरुर्यद्युपरि लघुस्तदा अधस्तादपि लघुः शेषम् । उपरि तुल्यो दीयते इत्यर्थः । तेन लघोरनंतरं त्रीणि गुरूणी स्थाप्यन्ते । भूयः पुनरपि कुर्यादमुं विधिमिति । लघुं न्यस्य गुरोरधः यथोपरि तथा शेषमिति पुनरप्यमुं विधिं कुर्यात् । यदा उपरि गुरुर्भवति लघुं न्यस्य गुरोरध इति विधेरभावाद्यः पूर्वदेशा दूने दद्याद्गुरूणि इति ऊनप्रदेशो गुरुभिः पूर्यत इत्यर्थः । एवम नेन प्रकारेण तावन्न्यासः कर्तव्यो यावत्सर्वलघुः पदो भवति । प्रस्तार्यते इति प्रस्तारः वर्णानां विन्यासविशेषः । एवं चतुरक्षरपादे षोडशवृत्तानि भवन्ति । छंदांसि विलीयन्ते अस्यामिति छंदोविचिति श्छंदःशास्त्रम् । प्रस्तारो व्याख्यातः ॥ 2-3 ॥
[नष्टम्]
इदानीं नष्टं व्याख्यातुमाह ।
नष्टस्य यो भवेदंकः तस्यार्धे ऽर्धे समे च लः ।
विषमे चैकमाधाय तदर्धे ऽर्धे गुरुर्भवेत्

6.5

प्रस्तारदर्शितानां वृत्तानां मध्ये यद्वृत्तं नष्टं लुप्तं भवति तस्य नष्टस्य यो भवेदंक एकादिसंख्या तस्य अर्धे ऽर्धे समे च अंके सति लो लघुर्भवति । विषमे एकं आधाय प्रक्षिप्य तस्यार्धे ऽर्धे गुरुर्भवेत् । यथैतस्मिंश्चतुरक्षरे छंदसि पंचमं वृतं नष्टम् । तस्य अंकः पंच स च अर्धं न प्रयच्छति । सैकः क्रियते तदा षड्भवन्ति । ते अर्धं क्रियन्ते । अर्धितास्त्रयो भवन्ति । तदर्धे गुरुः प्राप्यते पुनस्त्रयो ऽर्धं न प्रयच्छन्ति । सैकाश्चत्वारः । ते ऽपि अर्धस्तदर्धे पुनर्लब्धो गुरुद्वयोः समत्वात् । तदर्धे लघुः प्राप्यते पुनरेको ऽर्धं न प्रयच्छति । सैकोर्द्व्यः तदर्धे पुनरपि गुरुरेव लभ्यते । इत्थं नष्टस्योदाहरणम् । तथा च । आद्यौ द्वौ गुरू ताभ्यां परको लघुस्ततो गुरुरिति । ऽ; ऽ; । ऽ; एतच्चतुरक्षरे छंदसि पंचमं वृत्तं भवति ॥ 4 ॥
[उद्दिष्टम्]
उद्दिष्टं व्याख्यातुमाह ।
उद्दिष्टं द्विगुणानाद्यादुपर्यंकान्समालिखेत् ।
लघुस्था ये तु तत्रांकास्तैः सैकैर्मिश्रितैर्भवेत्

6.6

केनचित्तद्वृत्तं प्रस्तार्यकतमत् इति संख्यापरिज्ञाना उक्तं तदुद्दिष्टमुच्यते । पूर्वत्र वृत्तं न ज्ञायते । अतः संख्यया नष्टमुद्ध्रियते । अत्र पुनर्वृत्तं ज्ञायते संख्या न ज्ञायते अतः संख्यापरिज्ञानार्थं उद्दिष्टमिदमुच्यते । तस्य उद्दिष्टवृत्तस्य प्रथमादक्षरादारभ्य उपरि द्विगुणा नंकान् समालिखेत् । यथा । अस्मिन्नेव चतुराक्षरे छंदसि एकं वृत्तं उद्दिष्टं तस्य द्वौ वर्णौ गुरू ततो लघुस्ततो ऽपि गुरुः । तत्र उद्दिष्टे वृत्ते लघुनि तिष्ठन्तीति लघुस्था ये पुनरंकाश्चत्वारः तैश्चतुर्भिः सैकैः एकेन सहितैः पंचभिरुद्दिष्टं भवेत् । उद्दिष्टसंख्या भवेत् । चतुरक्षरायां जातौ तत्पंचमं वृत्तं भवतीत्यर्थः ॥ 5 ॥
[एकद्वयादिलगक्रिया]
एकद्व्यादिलगुक्रियार्थमाह ।
वर्णान् वृत्तभवान् सैकान् औत्तराधर्यतः स्थितान् ।
एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत्

6.7

उपान्त्यतो निवर्तेत त्यजन्नैकैकमूर्ध्वतः ।
उपर्याद्याद्गुरोरेवमेकद्व्यादिलगुक्रिया

6.8

यावंत एव वृत्तभवा वर्णा तावत एव सैकान् एकसहितान्यथा । चतुरक्षरजातौ चत्वारो ये वर्णास्तान् सैकान् पंच । औत्तराधर्यतःस्थितान् उपर्युपरिभावेन स्थितान् एकादिक्रमेणै व एतानुपरि उपरि निक्षिपेत् निदध्यात् । उपान्त्यतो अन्त्यसमीपा न्निवर्तेत व्याद्युद्येत । त्यजन् परिहरन् एकैकं ऊर्ध्व भागात् । एवम नेन प्रकारेण कस्मादियं एकद्व्यादिलगुक्रियां प्रवर्तत इत्याह । उपर्याद्याद्गुरो रिति उपरिस्थितान् आद्याद्गुरोः । को ऽर्थः । सर्वगुरुवर्णवृत्तसकाशात् इत्यर्थः । आद्यं किल सर्वगुर्वक्षरमेकं वृत्तं परिकल्पते । एतच्च प्रस्तारे दर्शितं यथा ।
‘पादे सर्वगुरावाद्याल्लघुं न्यस्येऽ ति तेन तस्मात् अध इयं एकद्व्यादिलगुक्रिया प्रवर्तते । तत्र पंचसु वर्णेषु उत्तराधरभावेन स्थापितेषु अधःस्थित एकस्तदुपरिस्थे निक्षिप्यते । स च तथैव तिष्ठति त्यजन्नेकैकमूर्ध्वत इति वीप्सवशादेकदैव स्थितिमंतरेण निक्षिप्तत्वात् पुनर्निक्षेपभावादेकैकत्यागश्च न संभवति तस्मात्स्वरूपेण स्थित एव उपरि क्षिप्यते । ततो द्वितीये स्थाने द्वौ वर्णौ भवतः तौ तृतीयेन क्षिप्येत तत्र त्रयो भवन्ति । तच्च चतुर्थे निक्षिप्यन्ते ते चत्वारो भवन्ति । ‘ उपान्त्यतो निवर्तते त्यजन्नेकैकमूर्ध्वतःऽ उपरितनमेकं त्यज्यते तत्र न क्षिप्यते इत्यर्थः । वीप्सा त एव अधोभागात् पुनर्निक्षेपे क्रिया प्रवर्तते तेन अधःस्थित एव एको द्वितीये स्थाने निक्षिप्यते तत्र च त्रयो भवन्ति । तच्च तृतीये निक्षिप्यन्ते तत्र षट्भवन्ति उपरि एकं त्यजन्निवर्तेत । आद्यं एकं वृत्तं सर्वगुरुः तस्माद्देकद्व्यादिलगुक्रिया प्रवर्तेते । तत एकः सर्वगुरुः चत्वारि द्विलघूनि षट्त्रिलघूनि चत्वारि चतुर्लघूनि एकं सर्वलघुः एषा लगुक्रिया सर्वलघुप्रस्तारेण प्रतीयते अस्यास्तु एष एव क्रमः पंचाक्षरादिवृत्तेष्वपि ॥ 6-7 ॥
[उदाहरणम् -
1
41
631
4321
11111]
[सङ्ख्यानम्]
संख्यार्थमाह ।
[लगुक्रियाङ्कसन्दोहः भवेत्संख्याविमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैको वा जनयेदिमाम्

6.9

]
लगुक्रियायां ये अंका स्तेषां सन्दोह स्तस्मि न्विमिश्रिते पीडीकृते संख्या भवेत् । इयं तावद्धारणं स्यात् । तथा एकश्चत्वारः षट्चत्वारः एकमेषामेकीकृता वै षोडश भवन्ति चतुरक्षरजातौ प्रस्तार्यमाणायां षोडश वृत्तानि भवन्तीत्यर्थः । स च प्रस्तारः पूर्वमेव व्याख्यातः ।
पक्षान्तरमाह ।
उद्दिष्टस्य वृत्तस्य उपरि ये अंका द्विगुणास्तेषां समाहारः एकीभावः सैको वा अथवा जनयेदु त्पादये दिमां संख्याम् । यथा । चतुरक्षरजातौ द्विगुणा ये अंका उपर्यारोपितास्तेषां समाहारः पंचदश सैकः षोडशेति ॥ 8 ॥
[अध्वयोगः]
अध्वार्थमाह ।
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।
वृत्तस्यांगुलिकीं व्याप्तिमधः कुर्यात्तथांगुलम्

6.10

चतुरक्षरजातौ या षोडश संख्या स्याद्द्विगुणा द्वात्रिंशतिः एकोना एकरहिता एकत्रिंशतिः सद्भिः पण्डितै रध्वा मार्गः प्रकीर्तितः । कथम् । वृत्तस्य आंगुलिकीं अंगुलप्रमाणां व्याप्तिं कुर्यात् ॥ 9 ॥
अधुना पुनरपि कविरन्वयपूर्वकं पित्रा सह सात्मानं निर्द्दिशति ।
वंशे ऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता ।
विप्रः पव्येकनामा विमलतरमतिः शैवतत्वावबोधे

6.11

केदारस्तस्य सूनः शिवचरणयुगाराधनैकाग्रचित्तः ।
छंदस्तेनाभिरामं प्रविरचितमिदं वृत्तरत्नाकराख्याम्

मूल पाठ: Vṛttaratnākara with Sulhaṇa's commentary Sukavihṛdayānandinī · Edition: a manuscript from Patan. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc