वृत्तरत्नाकर (टीका सहित) · अध्याय 5
यस्य विषमे पादे रगणजगणौ रगणजगणौ समे जगणरगणौ जगणरगणौ गुरुश्च तद्वृत्तं यवात्परामतीयं भवतीत्यर्थः । यथा ।
मालवक्षितीश मासमुद्गशालि यवानतारिभूयमेदिनी समग्रा ।
आत्मसात्कृता त्वया रिपून् विजित्य समग्रसैन्यसंयुतानपि प्रसह्य ॥ 12 ॥
इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ अर्धसमवृत्ताध्यायः चतुर्थः ।
पञ्चमो ऽध्यायः
विषमवृत्ताध्यायः
विषमवृत्ताध्याय आरभ्यते ।
मुखपादो ऽष्टभिर्वर्णैः ।
[पदचतुरूर्ध्व-प्रकरणम् (5.1-5)]
परे ऽस्मात् मकरालयैः क्रमाद्वृद्धाः ।
सततं यस्य विचित्रैः पादैः संपन्नसौंदर्यम् ।
तदभिहितममलधीभिः पदचतुरूर्ध्वाभिधं वृत्तम्
प्रथमपादो ऽष्टाक्षरः । परे च द्वितीयतृतीयचतुर्थाः । अस्मात्प्र थमपादा त्मकरालयै श्चतुर्भिश्चतुर्भिरक्षरैः क्रमाद्वृद्धा वर्धिताः । क्रमादिति को ऽर्थः । द्वितीयो द्वादशाक्षरः । तृतीयो षोडशाक्षरः । चतुर्थो विंशत्यक्षर इति क्रमाद्वृद्धिं प्राप्ताः । सतत मनवरतं इति विविधैश्चतुर्विंशतिप्रकारप्रस्तारेण विचित्रैः पादैः प्राप्तसौंदर्यं त द्वृत्तं आचार्यैः पदचतुरूर्ध्वं नामोक्तम् । यथा ।
आक्रम्यमाकृष्य धनु-
र्ये त्वया निहिता रणांगणे शरैः ।
रिपवः सहसा गतासवः क्षितिपते श्रुतम् ।
पदचतुरूर्ध्वं न चलन्ति तत्रैव निपतन्ति सशल्याः ॥
अत्र गणपादाभावात् गुरुलघू नेष्यते । अत्र च प्रस्तार्यमाणं चतुर्विंशतिधा भवति । षोडशद्वादशअष्टौ षोडशविंशतिद्वादश अष्टौ इत्यादि ॥ 1 ॥
प्रथममुदितवृत्ते ।
विरचितविषमचरणभाजि ।
गुरुकयुगलनिधन इह कलित आङा ।
विधृतरुचिरपदविततियतिरिह भवति पीडः
प्रथममुदितवृत्ते पदचतुरूर्ध्वे विरचितान् विषमान् अष्टौद्वादशषोडशविंशत्यक्षरान् पदान् भजतीति तस्मिन् विषमचरणभाजि इह छंदसि आङा कलितो युक्तः पीडो भवति । आपीड इत्यर्थः । क्व सति इत्याह । गुरुकयुगलनिधने गुरुद्वयं निधने ऽवसाने यस्य तस्मिन्सति । कीदृशं इत्याह । विधृतरुचिराणां पादानां वितत्या यति र्विरामो यस्य स तथोक्तः । अन्ते गुरुद्वयोपादनादत्र शेषाणां लघुत्वमस्यानुज्ञानं केदारेणेति मन्यामहे । यथा ।
ध्रुवमिह वनितानां
हृदि विनिहितदयितगुणानाम् ।
प्रसरति मलयमरुति विरहवतीनां
स्मरसुहृदि विजयिनि भवति नियतमसुविनाशः ॥
द्विगुरूणि छंदसि आपीडेति त्रयाणां गुरूणां अप्रवेशा च्छर्गण्ड इति नाम नोक्तम् ।
इदमपि पूर्ववच्चतुर्विंशतिप्रस्तारो भवति । तेभ्यश्चतुर्विंशतिभ्यस्त्रीनवकृष्य समान्यभिधातुमाह ॥ 2 ॥
प्रथममितरचरणसमुत्थं
श्रयति जगति लक्ष्म ।
इतरदितरचरणजनितमपि च तुर्यं
चरणयुगकमविकृतमपरमिह कलिका सा
आपीडस्य प्रथमं तुर्यं चतुर्थं इतरचरणसमुत्थं द्वितीयपादं द्वादशाक्षरोपलक्षितं लक्ष्म श्रयति भजति । को ऽर्थः । प्रथमपदे द्वादशाक्षरः । द्वितीयो ऽष्टाक्षरः । अपरमपि चरणयुगलमविकृतम प्रत्ययाभावमित्येवंलक्षणा कलिका नाम । मञ्जरीति वक्तव्ये छंदोभंगभयात् कलिकेत्युक्तमेकार्थत्वान्न दोषः । यथा ।
अधमजनसुहृदि कलिकाले
सुजनकृतविरोधे ।
सकलुषमुषि सपदि विधुवनायाः
तदनु विमनमनसि मुदमिह जनयति निवासा ॥ 3 ॥
द्विगुरुयुतसकलचरणांता
मुखचरणरचितमनुभवति तृतीयः ।
चरण इह हि लक्ष्म
प्रकृतमपरमखिलमपि यदि भवति लवली सा
यस्या स्तृतीयः पादः प्रथम चरणरचितं लक्षण मनुभवति द्वाभ्यां गुरुभ्यां युता सकलचरणानामन्तो यस्याः सा तथोक्ता लवली नाम । अपरं लवल्यां सर्वमपि प्राक्तनं प्रस्तुतं पूर्ववदिति भवति । यथा ।
गगनतलममलमलिमेतत्
सपदि शशभृदयं अनलवितिकरौघैः ।
जनयति च लवल्याः
चलमिति सरसं भुविद्भविपरिणति(?) परिपीडः ॥ 4 ॥
प्रथममधिवसति यदि तुर्यं
चरमचरणपदमवसितिगुरुयुग्मा ।
निखिलपरमुपरितनसममिह ललितपादा
तदियममृतधारा
प्रथमं पादमष्टाक्षरं चरमचरणपदं पश्चिमपादस्थानं य द्यधिवसति । अपर मप्यन्यत्सर्वं उपरितनं पूर्ववत् । अन्ते गुरुद्वययुक्ता सुललितपदपंक्ति रमृतधारा नाम । यथा ।
शशधरमुखि सखि परिरम्भं
तव मम वपुषि मलयजरसनिषेकः ।
श्रवणपुटयुगलसुखकृदतिचतुरमभिहृद्या
वचनममृतधारा ॥
पिंगलनागस्तु पदचतुरूर्ध्वादिषु प्रथमपादविपर्यासे सति मंजर्यादि नामानि वीक्ष्यति ॥ 5 ॥
॥ पदचतुरूर्ध्वप्रकरणम् ॥
[उद्गता-प्रकरणम् (5.6-8)]
सजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता ।
त्र्यङ्ध्रिगतभनजला गयुता सजसा जगौ चरणमेकत पठेत्
प्रथमपादे सगणजगणसगणा लघुश्च तथा द्वितीयपादे नगणसगणजगणगुरवो भवन्ति त्रिसंख्योपलक्षितो ऽङ्ध्रि स्त्रङ्ध्रि स्तृतीयः पादस्तस्मिन् गता भगणनगणजगणलघुगुरवस्तैर्युता । चतुर्थे चरणे सगणजगणसगणा जगणो गुरुश्च यत्र सा उद्गता नाम । एकत इति । प्रथमं द्वितीयेन सहाविलंबितं पठेदित्यर्थः । यथा ।
जितमत्सरा सुकृतिनो ऽपि परिहृतकलंकबांधवाः ।
वीक्ष्य सपदि युवतिं विकृतिं नियतं प्रयाति विपुलोद्गतास्तनुः ॥ 6 ॥
चरणत्रयं भजति लक्ष्म यदि सकलमुद्गतागतम् ।
र्नौ भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके
यद्युद्गतायास्तृतीये पादे रगणनगणभगणगुरवो भवन्ति तदा सौरभकं नाम वृत्तं भवेत् । यथा ।
मलयानिलः प्रियवियुक्तयुवतिजनतावियत्यतः ।
मंदमंदमयमेतितरां घनसारसौरभकमुद्वमन्निव ॥ 7 ॥
नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम्
यद्यु द्गताया स्तृतीये चरणे द्वौ नगणौ द्वौ सगणौ च भवतः तदा ललितं नाम । शेषमुद्गतावत् । यथा ।
ललितांगहाररमणीयमभिनवललितं समांसलम् ।
इयमतिनयति मुदा प्रमत्ता पुरतो वयस्य तव लास्यमुत्तमम् ॥ 8 ॥
॥ उद्गताप्रकरणम् ॥
[उपस्थितप्रचुपित-प्रकरणम् (5.9-11)]
म्सौ ज्भौ गौ प्रथमाङ्ध्रिरेकतः पृथगन्यत्
त्रितयं सनजरगास्तथा ननौ सः ।
त्रिनपरिकलितजयौ
प्रचुपितमितमुदितमुपस्थितपूर्वम्
यस्य प्रथमे पादे मगणसगणजगणभगणा द्वौ गुरू एकतः । पृथक् अन्यत्त्रितयं पादत्रितयं कथमित्यर्थः । द्वितीये पादे सगणनगणजगणरगणा गुरुश्च तथा तृतीये पादे द्वौ नगणौ सगणश्चतुर्थे नगणत्रयं जगणयगणौ च तद्वृत्तं उपस्थितपूर्वं उपस्थितप्रचुपितमि त्यर्थः । यथा ।
आरुह्यान्यभृतप्रिया लसत्सहकारं प्रकटीकृतनवमंजरिं सगर्वा ।
निजकलरवनिनदैः प्रकटयति रतिपतिमहोत्सवमालि ॥ 9 ॥
नौ पादे ऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्ध्रिकृतयतिस्तु वर्धमानम् ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं खलु वृत्तम्
तदेव पदचतुरूर्ध्वं तृतीये पादे नगणौ सगणनगणौ च भवतः प्रथमस्य चतुरूर्ध्वस्याङ्धिः प्रथमाङ्ध्रिवत् कृता यतिर्यस्य क्रियाविशेषणस्य त त्प्रथमाङ्ध्रिकृतयति र्यथा भवति । एव मपर पादत्रयं पूर्वसदृशमिह तन्त्रे त द्वृत्तं आचार्यै र्वर्धमानं नामोक्तम् । यथा ।
पादेन स्वयमुन्नतस्तनीभिरशोकः प्रमदाभिरभिहतः प्रवर्धमानः ।
विकसितकुसुमसमृद्धिमनुभवति बकुलतरुरपि वरयुवतिमुखासवसिक्तः ॥ 10 ॥
अस्मिन्नेव तृतीयके पादे तजरा स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति ।
तच्छुद्धविराट्पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात्
अस्मिन्नेव पदचतुरूर्ध्ववृत्ते तृतीये पादे तगणजगणरगणा भवेयुः, अपरं पादत्रयमपि पूर्वसमं भवति तदा शुद्धविराट्पुरःस्थितं आर्षभं वदन्ति शुद्धविराडार्षभमित्यर्थः । यथा ।
बिभ्राणा वदनं शशांकबिंबसमानं कमलायतनयना कृशांगशोभिता ।
पीनोच्चपयोधरद्वया जनयति मुदमधिकतरां वनितेयम् ॥ 11 ॥
॥ उपस्थितप्रचुपितप्रकरणम् ॥
विषमाक्षरपादं वा पादैरसमं दशधर्मवत् ।
यच्छंदो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम्
मूल पाठ: Vṛttaratnākara with Sulhaṇa's commentary Sukavihṛdayānandinī · Edition: a manuscript from Patan. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0