भाषा

ENहिગુ
ग्रंथ पाठ

वृत्तरत्नाकर (टीका सहित) · अध्याय 3

3.1

त्रिभिर्गुणितार्नव लघवो यस्यां सा तथोक्ता सप्ताविंशल्लघुरित्यर्थः । अवसिति रवसानं तस्मिन् गुरु र्यस्याः सा तथोक्ता इति पूर्वोक्तप्रकारेण सप्तविंशल्लघवो ऽन्ते गुरुः एवं दलयुगलकृततनुः विरचितशरीरा अतिरुचिरा नाम । यथा ।
समदगजगतिरुरुकुचयुगकृतनततनुरमलवदनकमला ।
अनवरतमपहरति मम हृदयमिह हि युवतिरियमतिरुचिरा ॥ 42 ॥
॥ इति मात्रासमकप्रकरणम् ॥
इति सुल्हणविरचितायां सुकविहदयानन्दिन्याभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ मात्रावृत्ताध्यायो द्वितीयः समाप्तः ॥
तृतीयो ऽध्यायः
समवृत्ताध्यायः
उक्तायाम्
ग् श्रीः

3.2

एकाक्षरायां जातौ एको गुरुर्यस्य वृत्तस्य पादे तद्वृत्तं श्री र्नाम । यथा ।
श्रीस्तत्तैलम् ॥ 1 ॥
अत्युक्तायाम्
गौ स्त्री

3.3

गुरुद्वयं यत्र तद्वृत्तं स्त्री नाम । यथा ।
आद्या सा स्त्री गौरी पायात् ॥ 2 ॥
मध्यायाम्
मो नारी

3.4

यत्र म गणस्तद्वृत्तं नारी नाम ।
श्रीनारीगोविंदौ भूयास्तवोद्बुद्ध्यै ॥ 3 ॥
रो मृगी

3.5

यत्र र गणस्तद्वृत्तं मृगी नाम । यथा ।
कथ्यतां यात्यसौ
गीतगा हा मृगी ॥ 4 ॥
प्रतिष्ठायाम्
म्गौ चेत्कन्या

3.6

चेद्य दि पादे मगणगुरू भवतः तद्वृत्तं कन्या नाम । यथा ।
कामक्रीडारूढायासा ।
एताः कन्या कीदृश्यास्ताः ॥
तथा च ।
सर्वेषां यः सामान्यर्द्धिः ।
तस्येशस्स्ताद्भूयो वृद्ध्यै ॥ 5 ॥
सुप्रतिष्ठायाम्
भ्गौ गिति पंक्तिः

3.7

यत्र भगणो द्वौ गुरू भवतः तद्वृत्तं पंक्ति र्नाम भवति । यथा ।
व्योमनि नीलां नीरदपंक्तिम् ।
वीक्ष्य विपन्नाः प्रोषितवध्वः ॥ 6 ॥
गायत्र्याम्
त्यौ स्तस्तनुमध्या

3.8

यत्र तगणयगणौ भवतः तद्वृत्तं तनुमध्या नाम । यथा ।
कस्यापि महद्भिः पुण्यैरनुकूला ।
श्यामा तनुमध्या गेहे भवति स्त्री ॥ 7 ॥
शशिवदना न्यौ

3.9

यत्र नगणयगणौ भवतस्तद्वृत्तं शशिवदना नाम । यथा ।
मलयजलेपः कुवलयशय्या ।
दहति वियोगे शशिवदनायाः ॥ 8 ॥
त्सौ चेद्वसुमती

3.10

चेत्त गणसगणौ पादे भवतः तद्वृत्तं वसुमती नाम । यथा ।
पृथ्वी धृतवती राज्ञा नयवता ।
मुद्यज्जनपदा श्लाघ्या वसुमती ॥ 9 ॥
उष्णिहि
मधुमतिननगाः

3.11

नगणनगणगुरवो यत्र तद्वृत्तं मधुमती नाम । यथा ॥ 10 ॥
म्सौ गः स्यान्मदलेखा

3.12

मगणसगणौ गुरुश्च यत्र तद्वृत्तं मदनलेखा नाम । यथा ।
लावण्याम्भसि मग्ने तस्याः काममहेभे ।
भ्रष्टेयं स्तनकुम्भाद्रोमलीमदलेखा ॥ 11 ॥
कुमारललिता ज्सौ ग्

3.13

जगणसगणौ गुरुश्च यत्र तद्वृत्तं कुमारललिता नाम । यथा ।
कुमारललितानि प्रमोदजननानि ।
नयाभिमुदमग्र्यां विलोक्य नमनीका ॥ (?) 12 ॥
सरगा हंसमाला

3.14

यत्र सगणरगणगुरवस्तद्वृत्तं हंसमाला नाम । यथा ।
शरदि प्रेक्ष्य यान्तीं मुदितां हंसमालाम् ।
त्यजति प्रेयसीं कः सुखलिप्सुः स्वतन्त्रः ॥ 13 ॥
अनुष्टुभि
मो मो गो गो विद्युन्माला

3.15

द्वौ मगणौ द्वौ गुरू च यत्र तद्वृत्तं विद्युन्माला नाम । यथा ।
चतुर्भिर्यतिः । यथा ममैव छंदसि ।
मौ गौ वेदैर्विद्युन्माला ।
व्योम्नि व्याप्ते तप्तरेखानाकुर्वन्ती वंग्यांमानम्रां त्वां भर्तुः स्त्रीणां जागर्यका विद्युन्माला ॥ (??) 14 ॥
भौ गिति चित्रपदा गः

3.16

भगणद्वयं गुरू च यत्र तद्वृत्तं चित्रपदा नाम । यथा ।
नूपुरशब्दमनोज्ञं ताललयान्वितगीतम् ।
पीनपयोधरयुग्मा नृत्यति विचित्रपदेयम् ॥ 15 ॥
माणवकं भात्तलगाः

3.17

भगणतगणलघुगुरवो यत्र तद्वृत्तं माणवकं नाम । यथा ।
वाञ्छसि शं चेद्विपुलं तर्हि सखे मुञ्च शठ -
मेधा किं ज्ञास्य रुचिं मित्रमपि त्वचपलम् ॥ (?)
चतुर्भिर्यतिरित्याम्नायः । माणवकाक्रीडितमिति पिंगलः ॥ 16 ॥
म्नौ गौ हंसरुतमेतत्

3.18

यत्र मगणनगणौ द्वौ गुरू तद्वृत्तं हंसरुतं नाम । यथा ।
दृष्ट्वा कासकुसुमानि श्रुत्वा हंसरुतमेतत् ।
कामार्तः शरदि पान्थ कष्टं जीवति निकृष्टः ॥ 17 ॥
र्जौ समानिका गलौ च

3.19

रगणजगणौ गुरुलघू च यत्र तद्वृत्तं समानिका नाम । यथा ।
ते समानिका च यान्ति शत्रवो भयेन धीर ।
राजसंपदं विहाय यद्यजेयबाहवो ऽपि ॥ 18 ॥
प्रमाणिका जरौ लगौ

3.20

जगणरगणौ लघुगुरू यत्र तद्वृत्तं प्रमाणिका नाम । यथा ।
प्रवाति दक्षिणानिलः सुपुष्पिताम्रकिंशुकः ।
वसंत एष सांप्रतं प्रमाणिका ऽत्र कोकिला ॥ 19 ॥
[चम्पकमाला चेद्भमसा गः

3.21

भगणमगणसगणाः गुरुश्च यत्र तद्वृत्तं चंपकमाला नाम ] ॥ 20 ॥
[नाराचकं तरौ लगौ

3.22

तगणरगणौ लघुगुरू च यत्र तद्वृत्तं नाराचकं नाम । यथा ] ॥ 21 ॥
वितानमाभ्यां यदन्यत्

3.23

आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यद ष्टाक्षरं छन्दस्त द्वितानं नाम । आभ्यां यदन्यदि ति ब्रुवन् सूत्रकारो वितानस्यानेकप्रकारत्वं दर्शयति । अन्यथा गणनियमं ब्रूयात् । यथा ।
ज्योत्स्नावितानमैन्दवं पश्य प्रिये मनोरमम् ।
कोपं त्यज प्रियं भज स्त्रीणां प्रियं हि यौवनम् ॥
अन्यच्च ।
तस्याः स्मरामि सुंदरं चन्द्रोपमानमाननम् ।
कंदर्पचापभंगुरं श्रुतिभ्रमोपशोभितमिति ॥
अपि च ।
कंकालमालधारणं कंदर्पदर्पहारिणम् ।
संसारबन्धमोचनं वंदामहे त्रिलोचनम् ॥
‘अन्यदतो हि वितानमिऽति श्वेतपटजयदेवेन यदुक्तम् ।
इत्यनेन गतार्थत्वात् ॥ 22 ॥
बृहत्याम्
रान्नसाविह हलमुखी

3.24

यत्र रगणनगणसगणास्तद्वृत्तं हलमुखी नाम । यथा ।
निंदितां वपुषि पुरुषद्वेषिणीं विरदशनाम् ।
तां सखे परिणयविधौ दूरतस्त्यज हलमुखीम् ॥ 23 ॥
भुजगशिशुभृता नौ मः

3.25

द्वौ नगणौ मगणश्च यत्र तद्वृत्तं भुजगशिशुभृता नाम । सप्तभिर्यतिरित्याम्नायः । यथा ।
वरतरुलवलीवल्लीकिसलयगहनछिन्नाः ।
भुजगशिशुभृता रम्या मलयगिरिवनोद्देशाः ॥ 24 ॥
पंक्तौ
म्सौ ज्गौ शुद्धविराडिदं मतम्

3.26

मगणसगणजगणा गुरुश्च यत्र तद्वृत्तं शुद्धविराट् नाम । यथा ।
कुर्वन् राज्यमपीह संततं कामक्रोधविवर्जितः सदा ।
मित्रो मे न समोभयानतः(?) सत्यं शुद्धविराडसि प्रभो ॥ 25 ॥
म्नौ य्गौ चेति पणव नामेदम्

3.27

यत्र मगणनगणयगणा गुरुश्च यत्र तद्वृत्तं पणव नाम । पञ्चभिर्यतिः । यथा ।
यासां वक्ष्यसि घनवक्षोजे हारः संप्रति शुशुभे तारः ।
पादौ नूपुररववाचालौ भ्रातस्ताः पणवनिताः पश्य ॥ 26 ॥
र्जौ रगौ मयूरसारिणी स्यात्

3.28

रगणजगणरगणा गुरुश्च यत्र तद्वृत्तं मयूरसारिणी नाम । यथा ।
विस्तारेण बर्हिभाररम्या बर्हिणी मयूरसारणीयम् ।
गर्जितं निशम्य वारिदानां नृत्यति प्रमोदनिर्भराङ्गी ॥ 27 ॥
भ्मौ सगयुक्तौ रुक्मवतीयम्

3.29

भगणमगणसगणा गुरुश्च यत्र तद्वृत्तं रुक्मवती नाम । यथा ।
चेतसि यस्या जीवितनाथस्तत्प्रियकार्यासक्तमनस्का ।
देवगुरुश्वश्रूद्विजभक्ता रुक्मवती स्यात्कीर्तिमती वा ॥ 28 ॥
ज्ञेया मत्ता मभसगयुक्ता

3.30

मगणभगणसगणगुरवो यत्र तद्वृत्तं मत्ता नाम । चतुर्भिर्यतिरित्याम्नायः । यथा ।
यच्चूताग्रे स्मरशरबंधौ बद्धावासा पिकसहवयः ।
गायन्त्येताः कलमिति मत्तास्तन्मध्ये ऽहं सखि मधुरेषः ॥ 29 ॥
नरजगैर्भवेन्मनोरमा

3.31

यत्र नगणरगणजगणगुरवो तद्वृत्तं मनोरमा नाम । यथा ।
युवतिरिंदुसुंदरानना पृथुघनस्तनी कृशोदरी ।
गुरुनितम्बभारमंथरा हरति मे मनो मनोरमा ॥ 30 ॥
त्जौ जो गुरुणेयमुपस्थिता

3.32

तगणजगणौ जगणो गुरुश्च तद्वृत्तं उपस्थिता नाम । अत्र द्वाभ्यामष्टभिश्च यतिरित्येके । यथा ।
त्यक्त्वा निजशस्त्रमुपस्थिता ये प्रांजलयस्तव शत्रवः ।
तेषामवनीश्वर जीवितं दत्तं भवता समराजिरे ॥ 31 ॥
त्रिष्टुभि
स्यादिन्द्रवज्रा यदि तौ जगौ गः

3.33

यत्र तगणौ द्वौ जगणो गुरू च तद्वृत्तं इन्द्रवज्रा नाम । यथा ।
स्यादिन्द्रवज्रादि कर्कशं मे
चेतो यदीये विरहागमे ऽस्मिन् ।
नूनं तदानीं यदि तद्वियोग-
संतापसंयत्सहनक्षमः स्याम् ॥ 32 ॥
उपेन्द्रवज्रा जतजास्ततो गौ

3.34

यत्र जगणतगणजगणा द्वौ गुरू च तद्वृत्तं उपेन्द्रवज्रा नाम । यथा ।
उपेन्द्रवज्रादि महाभिघाता
प्रयान्ति नाशं स्मरतो नरस्य ।
अहर्निशं त्वां विजितामरेश
श्रीकृष्ण विष्णोर्गुरु मे प्रसादम् ॥ 33 ॥
अनंतरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ।
इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम

3.35

न विद्यन्ते ऽन्तरं व्यवधानं यस्य त दनंतरं उदीरित मुक्तं लक्ष्म लक्षणम् । भजत इति यस्याः पादौ ता वनंतरोदीरितभाजौ इन्द्रवज्रोपेन्द्रवज्रयोरित्यर्थः ।
इत्थम मुना प्रकारे णान्यास्वपि उक्ताप्रभृतिषु जातिषु मिश्रितास्विदमेवो पजातिं नाम स्मरन्ति वदन्ति छंदोविदः । यथा ।
विहाय पंकेरुहकाननानि स्फारस्फुरत्केतकमभ्युपास्य ।
मेघागमे ऽस्मिन्नुपजातिसर्वे भ्रमन्त्यमी षट्चरणा रणंतः ॥
एवमन्यान्यप्युदाहरणानि कुमारसम्भवादिमहाकाव्येषु दृष्टव्यानि ।
समवृत्ताध्याये ऽपि प्रसंगादुपजातीनां पाठा लाघवार्थः । एषां प्रस्तारवशाच्चतुर्दशप्रकारा भवन्ति । ते च लेखकेन पूर्वपत्रे रचिताः । अत्र प्रथमगणकृत एव विशेषः । जत एव प्रस्तार्यन्तो । यथा ।
^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^ ^_^ __^
__^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^ ^_^ __^ __^ ^_^
__^ __^ __^ __^ ^_^ ^_^ ^_^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^
__^ __^ __^ __^ __^ __^ __^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^ ^_^
॥ 34 ॥
सान्द्रपदं भ्तौ नगगुरुभिश्च

3.36

भगणतगणनगणा द्वौ गुरू तत्र तद्वृत्तं सान्द्रपदं नाम । यथा ॥ 35 ॥
नजजलगैर्गदिता सुमुखी

3.37

नगणजगणजगणा लघुगुरू च यत्र तद्वृत्तं सुमुखी नाम । पंचभिर्यतिरित्याम्नायः । यथा ।
सुतजननी सुकुलप्रभवा
मृदुवचना सुरते चतुरा ।
भवति गृहे विपुलैः सुकृतैः
मृगनयना युवतिः सुमुखी ॥ 36 ॥
दोधकवृत्तमिदं भभभाद्गौ

3.38

यत्र भगणत्रयं द्वौ गुरू च तद्वृत्तं दोधकं नाम । यथा ।
यस्य नरस्य भवेदिह साक्षाद्वृत्तमदोधकयोरपि तुल्यम् ।
तेन समं कथमर्थवतापि प्रेमकथां कथयामि वयस्ये ॥ 37 ॥
शालिन्युक्ता म्तौ तगौ गो ऽब्धिलोकैः

3.39

यत्र मगणतगणतगणा द्वौ गुरू च तद्वृत्तं शालिनी नाम । चतुर्भिः सप्तभिर्यतिरित्याम्नायः । यथा ।
नो जानीते शालिनी वारायार्यप्रायेणेह स्तादभेदं मनुष्यः ।
सो ऽपि प्रेम प्राप्य देवीप्रियायाः धुर्यात्मानं वेत्ति वैदग्धभाजाम् ॥ 38 ॥
वातोर्मीयं गदिता म्भौ तगौ गः

3.40

मगणभगणतगणा गुरुद्वयं यत्र तद्वृत्तं वातोर्मी नाम । अत्र वक्ष्यामणसूत्रे च विशेषानभिधाना त्प्रागुक्तैव यति र्यथा ।
बलाद्वातोर्मय एते सनक्राः सामुद्राणां सलिलानां समूहाः ।
आब्रह्मादीनपि संहृत्य लोकान् येषामन्तः सुखशायी मुरारिः ॥ 39 ॥
म्भौ न्लौ गः स्याद्भ्रमरविलसितम्

3.41

मगणभगणनगणा लघुगुरू च यत्र तद्वृत्तं भ्रमरविलसितं नाम ।
प्राच्येव यतिर्यथा ।
त्यक्त्वा मानं चरणविपतितस्तन्मन्ये ऽहं प्रिय सखि नियतम् ।
त्वद्वक्त्राब्जभ्रमरविलसितं कर्तुं वांछत्ययमिह दयितः ॥ 40 ॥
पञ्चरसैर्श्रीर्भतनगगैः स्यात्

3.42

भगणतगणनगणा द्वौ गुरू च यत्र तद्वृत्तं श्रीः नाम । पंचभिः षड्भिर्यति र्यथा ।
द्रव्यविमोहाज्जलनिधियानं संगरभूमौ त्यजति च देहम् ।
कृत्यमकृत्यं गणयति नैव श्रीरसलुब्धो ध्रुवमिह जन्तुः ॥ 41 ॥
कुड्मलदंतीत्येके ।
रो नराविह रथोद्धता लगौ

3.43

यत्र रगणनगणरगणा लघुगुरू च तद्वृत्तं रथोद्धता नाम । यथा ।
लग्न एव पदयोरथोद्धतान्यायताक्षिवचनानि संवृणु ।
सत्रवाभिरिति या प्रबोधिता तां स्मरामि निजजीवितौषधिम् ॥ 42 ॥
स्वागतेति रनभाद्गुरुयुग्मम्

3.44

यस्य पादे रगणनगणभगणा गुरू च तद्वृत्तं स्वागता नाम । यथा ।
सर्वलोकसुखदास्वपि वर्षास्वागतासु न सुखी रिपुवर्गः ।
विन्ध्यवर्मनृपते तव खड्गभ्रान्तिभाजमचिरामभिवीक्ष्य ॥ 43 ॥
ननसगगुरुरचिता वृन्ता

3.45

द्वौ नगणौ सगणो गुरुद्वयं यस्य पादे तद्वृत्तं वृन्ता नाम । अत्र मण्डूकप्लुतन्यायेन शालिन्युक्तेति सूत्रा दब्धिलोकैरिति पदमनुवर्तते । तेन हि चतुर्भिर्यतिः । यथा ।
मधुकरचरणभराक्रान्तं पथ तदिह कुसुममिदं वृन्तात् ।
कथयति विषयवियुक्तानां विधिपरिणतिमिव लोकानाम् ॥ 44 ॥
ननरलगुरुभिश्च भद्रिका

3.46

द्वौ नगणौ रगणो लघुगुरू च यत्र तद्वृत्तं भद्रिका नाम । यथा ।
विविधपरकथाप्रगल्भवागतिविरलविसंस्थुलद्विजा ।
कपिलचिकुरसंचया कृशा न भवति वनिता प्रभद्रिका ॥ 45 ॥
श्येनिका रजौ रलौ गुरुर्यदा

3.47

रगनजगणरगणा लघुगुरू च यत्र तद्वृत्तं श्येनिका नाम । यथा ।
श्येनिकाशृगालसंकुले रणे विंध्यवर्मदेव ये त्वया हताः ।
शत्रवस्त एव तारकाश्रयं तन्वते विमानगाः सुरावृताः ॥ 46 ॥
उपस्थितमिदं ज्सौ ताद्गकारौ

3.48

जगणसगणतगणा द्वौ गुरू च यत्र तद्वृत्तं उपस्थितं नाम । यथा ।
उपस्थितमनेकाश्चेतकी चुलुक्यनृपतेः सैन्यं विशालम् ।
अवन्तिप्रिय निहित्वा न को ऽपि ध्रुवं क्षितितले जेतुं समर्थः ॥ 47 ॥
शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत्

3.49

जगणसगणौ तगणगुरू गुरुश्चेत्त द्वृत्तं शिखण्डितं नाम । यथा । 48
मौक्तिकमाला भवेद्भभ्तलगाः

3.50

भगणभगणतगणलघुगुरवो यत्र भवेत्तद्वृत्तं मौक्तिकमाला नाम । यथा ॥ 49 ॥
जगत्याम् ।
चन्द्रवर्त्म गदितं तु रनभसैः

3.51

यत्र रगणनगणभगणसगणा भवन्ति तद्वृत्तं चन्द्रवर्त्म गदितम् । यथा ।
चक्षुषी परिविमृश्य करयुगात् क्रान्तहर्यपरिशोभितवदना ।
चन्द्रवर्त्म कथयेत्यतिविवशा कांतमेवमवदन्निशि वनिता ॥ 50 ॥
जतौ तु वंशस्थमुदीरितं जरौ

3.52

यत्र जगणतगणजगणरगणास्तद्वृत्तं वंशस्थं नाम । यथा ।
स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेंगितैः ।
जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ 51 ॥
स्यादिन्द्रवंशा ततजैः रसंयुतैः

3.53

यत्र द्वौ तगणौ जगणरगणौ तद्वृत्तं इन्द्रवंशा नाम यथा ।
आदीन्द्रवंशाद्दिवमस्तभूरुहप्रच्छादितानेकगुहा गृहो ऽपि सन् ।
धाराधिनाथस्य भयेन विद्रुतान् भूगोप्तुरिष्टान्न भवामि नेश्वरः ॥ 52 ॥
इह तोटकमम्बुधिसैः प्रथितम्

3.54

यत्र चत्वारि सगणास्तद्वृत्तं तोटकं नाम । यथा ।
त्यज मानममानमनंतगुणं कुरु वाक्यमिदं परिणामहितम् ।
त्वयि तोटकजायतनेत्रयुगे त्वरितं दयितांतिकमिन्दुमुखि ॥ 53 ॥
द्रुतविलम्बितमाह नभौ भरौ

3.55

नगणभगणौ भगणरगणौ यत्र तद्वृत्तं द्रुतविलम्बितं नाम । यथा ।
द्रुतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्दता ।
गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूर्नृप निन्द्यते ॥ 54 ॥
वसुयुगविरतिर्नौ म्यौ पुटो ऽयम्

3.56

द्वौ नगणौ मगणयगणौ यत्र तद्वृत्तं पुटो नाम । वसु भिरष्टभि र्युगै श्चतुर्भिर्यतिः ।
अपि चरणनतो ऽहं तत्प्रसीद त्यज सरसिजनेत्रे मौनमुद्राम् ।
वचनममृतकल्पं श्रोतुकामा श्रवणपुटनिपेयं सर्वदा ते ॥ 55 ॥
प्रमुदितवदना भवेन्नौ ररौ

3.57

द्वौ नगणौ द्वौ रगणौ यत्र तद्वृत्तं प्रमुदितवदना नाम । यथा ।
गुरुकुचयुगलां विशंलक्षणां विकटकटितटां मनोज्ञां सदा ।
विविधसुरतिकेलिदक्षामहं प्रमुदितवदनां स्मरामि प्रियाम् ॥ 56 ॥
चतुर्जगणं वद मौक्तिकदाम

3.58

नयसहितौ न्यौ कुसुमविचित्रा

3.59

नगणयगणौ पुनर्नगणयगणौ यत्र तद्वृत्तं कुसुमविचित्रा नाम । षड्भिर्यतिरित्युपदेशः ।
यथा ।
परिहृतरोषा कृतबहुवेषा सह निजभर्ता तरुणि वसंते ।
प्रमुदितपुंस्कोकिल इव रम्यां व्रज वनराजिं कुसुमविचित्राम् ॥ 58 ॥
रसैर्जसजसा जलोद्धतगतिः

3.60

यत्र जगणसगणजगणा सगणश्च तद्वृत्तं जलोद्धतगति र्नाम । यथा ।
अतीत्य सरितो जलोद्धतगतीरनेकगहना कुलानपि गिरीन् ।
समुद्रतरमाश्रिता रिपुनृपाः सुखं न निशि शेरते तव भयात् ॥ 59 ॥
भुजंगप्रयातं भवेद्यैश्चतुर्भिः

3.61

चत्वारो यगणा यत्र तद्वृत्तं भुजंगप्रयातं नाम । यथा ।
विदग्धांगनालोचनानन्दकारी सखि स्वेच्छया वीक्षितुं प्राणनाथः ।
मया नैव लब्धो हत ग्राममार्गे भुजंगप्रयातानुकारिण्यमुष्णिग् (?) ॥ 60 ॥
रैश्चतुर्भिर्युता स्रग्विणी संमता

3.62

चत्वारो रगणा यस्य पादे तद्वृत्तं स्रग्विणी नाम । यथा ।
पद्मपत्रायताक्षी शशांकानना कुंकुमोद्वर्तितांगी घनोच्चस्तनी ।
अंगहारैरनेकप्रकारैर्युता नृत्यति स्त्री सखे स्रग्विणी सुंदरा ॥ 61 ॥
भुवि भवेन्नभजरैः प्रियंवदा

3.63

नगणभगणजगणरगणा यत्र तद्वृत्तं प्रियंवदा नाम । यथा ।
गुरुपयोधरवती सुमध्यमा विपुलपुण्यनिचयैः स्ववेश्मनि ।
भवति पार्वणशशांकसुंदराननवती प्रियतमा प्रियंवदा ॥ 62 ॥
त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः

3.64

तगणयगणतगणयगणा यत्र तद्वृत्तं मणिमाला नाम । षड्भिर्यतिः । यथा ।
मातः सुरसिन्धो त्रैलोक्यपवित्रे पश्यामि कदा ते पापापहमम्भः ।
चंचन्मणिमालालंकारमणीनां त्यक्त्वा वनितानां संगं विषतुल्यम् ॥ 63 ॥
धीरैरभाणि ललिता तभौ जरौ

3.65

यत्र तगणभगणजगणरगणास्तद्वृत्तं ललिता नाम । यथा ।
पीनोन्नतस्तनभरोपरिस्फुरद्धारावलीसुभगमायतेक्षणा ।
नृत्यत्यसौ सुललितं हि नूपुराध्वानप्रबोधितमनोभवा वधूः ॥ 64 ॥
प्रमिताक्षरा सजससैरुदिता

3.66

सगणजगणौ सगणौ यत्र तद्वृत्तं प्रमिताक्षरा नाम । यथा ।
चरणानतिं गतवति प्रसभं दयिते नितांतसुभगे सुभगे ।
परुषाणि संत्यज वचांसि सखि प्रमिताक्षरा भव शशांकमुखि ॥ 65 ॥
ननभरसहिता ऽभिहितोज्ज्वला

3.67

द्वौ नगणौ भगणरगणौ च यत्र तद्वृत्तं उज्ज्वला नाम । यथा ।
इह शरदि भवन्त्युकाशया (?) विमलतरशशांककरोज्ज्वला ।
विदधति गमनं विजयार्थिनः प्रतिदिवसमवनीपतयः स्वयम् ॥ 66 ॥
पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ

3.68

द्वौ मगणौ द्वौ यगणौ च यत्र तद्वृत्तं वैश्वदेवी नाम । पञ्चभिः सप्तभिर्यतिः । यथा ।
वश्यात्मा नित्यस्नानशीलो महात्मा मित्रे शत्रौ वा तुल्यचित्तप्रवृत्तिः ।
श्रद्धासंपन्नो वैश्वदेवी च लोके स स्वर्गस्त्रीणां वल्लभः स्यात्सदैव ॥ 67 ॥
अब्ध्यंगैः स्याज्जलधरमाला म्भौ स्मौ

3.69

मगणभगणसगणमगणा यत्र तद्वृत्तं जलधरमाला नाम । चतुर्भिरष्टभिश्च यतिः । यथा ।
सत्याकाशे जलधरमालाव्याप्ते नीपामोदे प्रसरति झंझावाते ।
वर्षाकाले मुदितमयूरव्राते त्यक्त्वा कान्तां व्रजसि कथं पाथ त्वम् ॥ 68 ॥
इह नवमालिनी नजपरौ भ्यौ

3.70

नगणजगणभगणयगणा यत्र तद्वृत्तं नवमालिनी नाम । इहेत्यवग्रहणादब्ध्यंगैरिति पदविरीततया विपरिणमति तेनाष्टभिः चतुर्भिर्यथा ।
तव निशितासिघातदलिता रिद्धिपदकुम्भमौक्तिकसमूहैः ।
कृतनवमालिनीव भजति त्वां प्रति स्मरं नरेन्द्र जयलक्ष्मीः ॥ 69 ॥
स्वरशरविरतिर्नौ रौ प्रभा नाम

3.71

भवति नजावथ मालती जरौ

3.72

नगणजगणौ जगणरगणौ यत्र तद्वृत्तं मालती नाम । यथा ।
भ्रमरयुवा भ्रमतीह मालतीतरुतलमप्यपहाय केतकीम् ।
युवतिजनेन गृहीत नाम कः कथमपि न प्रतिबोधमेत्यसौ ॥ 71 ॥
वरतनुरित्येके ।
जरौ जरौ वदन्ति पञ्चचामरम्

3.73

इति वद तामरसं नजजाद्यः

3.74

नगणजगणौ जगणयगणौ यत्र तद्वृत्तं तामरस मिति वद शिक्षमिति शेषः । यथा ।
मृदुतरतामरसारुणपादव्रणतितिविस्रवदस्रजलौघाः ।
विदधति पर्व तिरोधसि यानं करपिहितोच्चक्रु वा रिपुवधः ॥ 73 ॥
अतिजगत्याम् ।
तुरगरसयतिर्नौ ततौ गः क्षमा

3.75

यत्र द्वौ नगणौ द्वौ तगणौ गुरुश्च तद्वृत्तं क्षमा नाम । यथा ।
सप्तभिः षड्भिश्च यतिः । यथा ।
चकितमृगदृशा नेक्षितो लीलया त्रिवलितवदनश्रीचयाहं मुहुः ।
न च सुरतटिनी न क्षमा चाश्रिता गतमिदमधुना जीवितं मे वृथा ॥ 74 ॥
म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्

3.76

मगणनगणजगणरगणगुरवो यत्र तद्वृत्तं प्रहर्षिणी नाम । त्रिभिर्दशभिर्यतिः । यथा ।
लोलाक्षी विपुलनितम्बबद्धकाञ्ची पीनोच्चस्तनयुगला सुरोमराजिः ।
नृत्यन्ती सुललितमंगहाररम्यं वारस्त्री गमनलसत्प्रहर्षिणीयम् ॥ 75 ॥
[पाठान्तरम्:
चतुर्ग्रहैरिह रुचिरा जभौ स्यौ गः ॥ क्व्र्क्_3.76* ॥ ]
चतुर्ग्रहैरिह रुचिरा जभौ स्जगाः

3.77

जगणभगणसगणजगणा गुरुश्च यत्र तद्वृत्तं रुचिरा नाम । यथा ।
समीहते य इह परापदापदं वियच्छरित्तटरुचिरोटजालयः ।
मृगीदृशो वदनसरोजदर्शनं न तस्य तत्प्रमदकरं कवत् ॥ 76 ॥
वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम्

3.78

यत्र मगणतगणयगणसगणगुरवस्तद्वृत्तं मत्तमयूरम् । चतुर्भिर्नवभिर्यतिः । यथा ।
चञ्चं चूतं पुष्पितकं केल्लितरूभिः क्रीडत्क्रोडं संचरदुन्मत्तमृगोधम् ।
स्निग्धच्छायं वारिततापं तरुखण्डैः माद्यद्भृंगं मत्तमयूरं वनमेतत् ॥ 77 ॥
[पाठान्तरम्:
नजसजगैर्भवति मञ्जुभाषिणी ॥ क्व्र्क्_3.78* ॥ ]
सजसा जगौ भवति मञ्जुभाषिणी

3.79

यस्य पादे सगणजगणसगणजगणा गुरुश्च तद्वृत्तं मञ्जुभाषिणी नाम । यथा ।
स्मर सुंदराकृतिमनेकवल्लभं चरणप्रणामनतमीप्सितं पतिम् ।
परुषोक्तिभिः किमिति खेदयस्यमु सखि वल्लभा भवति मञ्जुभाषिणी ॥ 78 ॥
इह नंदिनी सजससैर्गुरुयुक्तैः

3.80

सश्च जश्च सश्च सश्च तैः सगुरुभिर्नन्दिनी ॥ 79 ॥
ननतरगुरुभिश्चन्द्रिका चतुर्भिः

3.81

द्वौ नगणौ तगणरगणौ गुरुश्च यत्र तद्वृत्तं चन्द्रिका नाम । चतुर्भिर्यतिर्यथा ।
वितरति कुमुदानां श्रियं समग्रां तम इव वनितानां भिनत्ति मानम् ।
ततमपि भुवनं चन्द्रिका भुवस्थाधवलितमिव चक्रे शरन्निशासु ॥
अष्टभिर्यतिरित्येके ॥ 80 ॥
शक्वर्याम्
म्तौ न्सौ गावक्षग्रहविरतिरसंबाधा

3.82

मगणतगणनगणसगणा द्वौ गुरू च यत्र तद्वृत्तं असंबाधा नाम । अक्षै रिन्द्रियैः पञ्चभि र्ग्रहै र्नवभिश्च यतिः । यथा ।
यावद्गच्छेयंदयितविहितसंकेतस्थानस्याभ्यां सङ्कृतनिवृततुलाकोटिः ।
तावच्चक्रे ऽग्रे द्रुतमुदयमयं वैरी भित्वा संबंधान्यपि सखि तिमिराणीन्दुः ॥ 81 ॥
ननरसलघुगैः स्वरैरपराजिता

3.83

द्वौ नगणौ रगणसगणलघुगुरवो यत्र तद्वृत्तं अपराजिता नाम ।
सप्तभिर्यतिः । यथा ।
तुरगरजवतीं तुलार्कमहीपतेरितरनृपशतैश्चमूमपराजिताम् ।
जयति विजयिदोर्युगैकसहायवानवनिपतिरसौ प्रमारकुलोद्भवः ॥ 82 ॥
ननभनलगिति प्रहरणकलिका

3.85

नगणौ भगणनगणलघुगुरवश्च यत्र तद्वृत्तं प्रहरणकलिका नाम । इति शब्दस्याव्ययस्य ग्रहणात्सैव यतिः । यथा ।
रणभुवि भवता प्रहरणकलिता परहृतवनितास्तव नृप रिपवः ।
विदधति शयनं कृततृणशयना वनभुवि सततं भयचकितहृदः ॥ 83 ॥
उक्ता वसंततिलका तभजा जगौ गः ॥ क्व्र्क्_3.84(1) ॥
तगणभगणौ द्वौ जगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं वसंततिलका नाम । यथा ।
भ्रातर्वसंततिलकानतिमुक्तकं च संदश्यते ऽत्र किमु मत्परमस्त्वमेतत् ।
ना ऽहं स यो ऽभवदनेकविधोत्सवश्रीः संप्रत्यसत्यविरहैकगृहं प्रियायाः ॥
सिंहोद्धतेयमुदिता मुनिकाश्यपेन ॥ क्व्र्क्_3.84(2) ॥
इयमेव वसंततिलका कश्यप स्याचार्यस्य मतेन सिंहोद्धता नाम । यथा ।
उन्निद्रपद्मवदनः सुभगो ऽङ्गनानामारक्तपादतलपाणीरदीनसत्त्वः ।
सिंहोद्धता समगलः सुविशालवक्षाः स्यादीदृशो नरपतिः पुरुषः पृथिव्याः ॥
उद्धर्षिणी निगदिता मुनिसैतवेन ॥ क्व्र्क्_3.84(3) ॥
सैव वसंततिलका सैतव मुनिना उद्धर्षिणी निगदिता उक्ता । यथा ।
संवत्सरे रसपयोनिधिसूर्यसंख्यैः श्रीविक्रमान्नरपते रचिता ममेयम् ।
उक्ता सनामभिरुदाहरण्यैरुदारैरुद्धर्षिणी भवतु चेतसि सत्कवीनाम् ॥
गोमेन सैवमुदिता मधुमाधवीति ॥ क्व्र्क्_3.84(4) ॥
वसंततिलकामित्येके ॥ 84 ॥
इन्दुवदना भजसनैः सगुरुयुग्मैः

3.86

भगणजगणसगणनगणा द्वौ गुरू च यस्य पादे तद्वृत्त मिन्दुवदना नाम । यथा ।
मारुतवशप्रचलितोत्पलदलाक्षं शोभनललाटतटमध्यकृतपुण्ड्रम् ।
रे पथिक संप्रति मधौ मदनबन्धौ संस्मरसि तद्वदनमिन्दुवदनायाः ॥ 85 ॥
द्विः सप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत्

3.87

यस्य चरणे पादे मगणसगणमगणभगणा द्वौ गुरू तद्वृत्तं अलोला नाम । सप्त भिर्यतिः । यथा ।
यो देव द्विजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्ता त्यक्तविकल्पः ।
मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभुवने स्याल्लोला नूनमलोला ॥ 86 ॥
अतिशक्वर्याम् ।
द्विहतहयलघुरथ गिति शशिकला

3.88

द्विहतहयलघु रित्यर्थः गुरुश्च भवति यस्य चरणे तद्वृत्तं शशिकला नाम । सप्तभिरष्टभिर्यतिः । पारिशेष्याद्यथा ।
कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा ।
तव भवतु सुखकृदयमिह सततं प्रविपदि सुनभसि वसति शशिकला ॥ 87 ॥
स्रगिति भवति रसनवकयतिरियम्

3.89

षड्भिर्नवभिश्च यदा यति र्भवति तदा स्रगि ति नाम । माले ति वक्तव्ये छंदोभंगभयात् स्रगित्युक्तम् । एकार्थत्वान्न दोषः । यथा ।
घनपरिमलमिलितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे ।
कटकयुगलमपि कलरवसुभगं श्रियमिदमिह जनयति सुचरणया ॥ 88 ॥
वसुहययतिरिति मणिगुणनिकरः

3.90

इयमेव शशिकला वस्व ष्टभि र्हयैः सप्तभिर्यदा मणिगुणनिकरः नाम । यथा ।
परजनहितकरवरधनकलितः सुवचनकृतवरजनसुखनिवहः ।
भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ॥ 89
ननमयययुतेयं मालिनी भोगिलोकैः

3.91

द्वौ नगणौ मगणो द्वौ यगणौ यस्य तद्वृत्तं मालिनी नाम । यथा । अष्टभिः सप्तभिर्यतिः ।
नवजलधरमालामालिनीं तां विलोक्य
निजदयितवियोगप्रान्तभावं निबोधम् ।
न न खलु जलधराणां नादमाकर्ण्य कश्चि-
द्भवति शिथिलबुद्धिर्वेश्म गन्तुं प्रवासी ॥ 90 ॥
भवति नजौ भजौ रसहितौ प्रभद्रकम्

3.92

यस्य पादे नगणजगणभगणजगणरगणास्तद्वृत्तं प्रभद्रकं नाम । यथा ।
अलभत दुश्चरेण तपसा हिमाद्रिजा
यमिह पतिं पतिं त्रिजगतां महेश्वरम् ।
पवनसमुद्धुतामलिशिखाहुतस्मरो
दिशतु सतां सदैव सवि सुप्रभद्रकम् ॥ 91 ॥
सजना नयौ शरदशकविरतिरेला

3.93

सगणजगणनगणनगणयगणा यत्र तद्वृत्त मेला नाम । पंचभिर्दशभिर्यतिः । यथा ।
वरचंदनद्रुमकिशलयमरिचैला-
लवलीलताप्रभृतिवनमिह धुन्वन् ।
मलयानिलः सपदि विदलितप्रयुक्त-
प्रमदाजनः प्रसरितपतिबन्धुः ॥ 92 ॥
म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा

3.94

यस्य पादे मगणरगणमगणा द्वौ यगणौ तद्वृत्तं चन्द्रलेखा नाम । सप्तभिरष्टभिर्यतिः । यथा ।
विभ्रान्तिश्चन्द्रलेखां चूडामणिस्थानभृत्तां
यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे ।
कण्ठे यस्यास्थिमाला भस्मांगरागः शरीरे
कल्पांतां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ 93 ॥
अष्टौ
भ्रत्रिनगैः रसात् खमृषभजगविलसितम्

3.95

भगणरगणौ त्रयो नगणा गुरुश्च यत्र तद्वृत्तं ऋषभगजविलसितं नाम । षट्दशभिर्यतिः ।
यत्र चतुष्पथेषु विविधयुवतिजनता
साममनोरमेषु तव रिपुवरनगरे ।
त्वद्भुजविक्रमेण नृपतिवर विजयति
संप्रति तत्र वन्यमृषभगजविलसितम् ॥ 94 ॥
नजभजरैः सदा भवति वाणिनी गयुक्तैः

3.96

नगणजगणभगणजगणरगणा गुरवो यत्र तद्वृत्तं वाणिनी नाम । यथा ।
चकितमृगेक्षणा गुरुनितम्बबद्धकाञ्ची
गुणकलकिंकिणीरवविबोधासमेषुः ।
जनयति वाणिनी चतुरवाक्यपण्डितेयं
मुदमधिकां सखे मनसि करोति दृष्टा ॥ 95 ॥
अत्यष्टौ
रसैः रुद्रैश्छिन्ना यमनसभला गः शिखरिणी

3.97

यगणमगणनगणसगणभगणा लघुगुरू च यत्र तद्वृत्तं शिखरिणी नाम । षड्भिरेकादशभिर्यतिः ।
शशांकास्या चंचत्कुवलयदलस्पर्धिनयना
सलीलं गच्छंती गुरुजघनभारालसगतिः ।
इयं पीनोत्तुंगस्तनशिखरिणी वारवनिता
कटाक्षैर्विक्षोभं जनयति मुनीनामपि हृदि ॥ 96 ॥
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः

3.98

जगणसगणजगणसगणयगणलघुगुरवो यत्र तद्वृत्तं पृथ्वी नाम । यथा ।
किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः
किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः ।
तदेहि कुरु मण्डनं त्यज रुषं वसंतोत्सवे
यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ 97 ॥
दिङ्मुनि वंशपत्रपतितं भरनभनलगैः

3.99

भगणरगणनगणभगणनगणलघुगुरवो यत्र तद्वृत्तं वंशपत्रपतितं नाम । दशभिः सप्तभिर्यतिः । यथा ।
नैव विदुस्तृषातुरधियस्तव रिपुनगरे
मंदिरदीर्घिकासु सलिलं सविधमपि मृगाः ।
अम्बुजवंशपत्रपतितद्रुमदलनिकरैः
छादितमातपे तु महति क्षितिपति तलका (?) ॥ 98 ॥
रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा

3.100

नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तद्वृत्तं हरिणी नाम । षड्भिः चतुर्भिर्यतिः । यथा ।
वदनममलं धत्ते शोभां शशांकसमाश्रितां
श्रवणयुगलं दोलालीलां तनोति मनोभुवः ।
स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः
किमिह न चेत्तस्याहारि ध्रुवं हरिणीदृशः ॥
ऋषभचरितमित्येके ॥ 99 ॥
मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ ताद्गुरू चेत्

3.101

मगणभगणनगणा द्वौ तगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं मन्दाक्रान्ता नाम । चतुर्भिः षड्भिश्चेद्यतिर्भवति । यथा ।
मन्दाक्रान्ताधरकिसलया पाणिपद्मं धुनाना
गाढाश्लेषप्रणयिशिथिला वेपमानांगयष्टिः ।
स्विद्यद्वक्त्रा पुलकिततनुः किंचिदामीलिताक्षी
चेतःप्रीतिं जनयति भृशं नूतनोढा विवोढा ॥ 100 ॥
यदि भवतो नजौ भजजला गुरुर्नर्कुटकम्

3.102

नगनजगणभगणा द्वौ जगणौ लघुगुरू अह तद्वृत्तं नर्कुटकं नाम । अवितथमि ति अन्ये । यथा ।
सुरभिसमागमे विरहिणीजनशोककरे
कृतबहुमण्डना त्वमतिभामनि मद्वचनैः ।
निजदयितांतिकं यदि न यासि गतं तदहो
अवितथवाक्यकौशलमिदं मम निष्फलताम् ॥ 101 ॥
मुनिगुहकार्णवैः कृतयतिं वद कोकिलकम्

3.103

नर्कुटकमेव सप्तभिः गुहकैः कार्तिकेयशिरोभिः षड्भिश्चतुर्भिः कृतयतिं तद्वृत्तं वद कोकिलकं हे शिष्येति विशेषः । यथा ।
मदनमहोत्सवे मुदितकोकिलकान्तरवे
न भजति या प्रियं प्रणयसुन्दरमिन्दुमुखि ।
ध्रुवमिह साबला स्वयमहर्निशमेव भृशं
सखि परितप्यते गुरुमनोभवतापवती ॥ 102 ॥
धृतौ
स्याद्बाणर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ

3.104

मगणतगणौ नगणस्त्रयो यगणा यत्र तद्वृत्तं कुसुमितलतावेल्लिता नाम । पंचभिः षड्भिः सप्तभिर्यतिः । यथा ।
उद्यानाब्जानां प्रकरधुननावाससौरभ्यसंपत्
कंकोलैलानां कुसुमितलतावेल्लितान्यः पुनानः ।
आगस्त्यो वायुर्दिवि सुरतायासयातांगनानां
स्वेदाम्भोबिन्दून्हरति पुनरप्यादिशन्संगमेच्छाम् ॥ 103 ॥
अतिधृत्याम्
रसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुता मेघविस्फूर्जितं स्यात्

3.105

यगणमगणनगणसगणा द्वौ रगणौ गुरुश्च यस्य पादे तद्वृत्तं मेघविस्फूर्जितं नाम । षड्भिः षड्भिः सप्तभिर्यतिः । यथा ।
समायातः स्वैरं कुटजकुसुमामोदवाही समीरः
श्रुतं धैर्यं ध्वंसि प्रसभमधुना मेघविस्फूर्जितं च ।
वियोगे सद्भर्तुः निजलवणिमा ऽधःकृतस्वंतिजस्य
प्रयान्ती मे प्राणा कुलिशकठिना मेघनाशं तथापि ॥ 104 ॥
सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्

3.106

मगणसगणजगणसगणा द्वौ तगणौ गुरुर्यस्य पादे तद्वृत्तं शार्दूलविक्रीडितं नाम । द्वादशभिः सप्तभिर्यतिः । यथा ।
श्रीखण्डाचलकंदरात्सरभसं निर्गत्य सांद्रं द्रुमां-
श्चंचच्चम्पकचारुकेसरभरं धन्वन्मुहुर्लीलया ।
इत्थं विभ्रदयं वसन्तपवनः शार्दूलविक्रीडितम्
स्त्रीणां मानगजं हनिष्यति हठात् मानोत्कटानामपि ॥ 105 ॥
[कृतौ]
ज्ञेया सप्ताश्वषड्भिर्मरभनययुतो भ्लौ गः सुवदना

3.107

यस्य वृत्तस्य पादे मगणरगणभगणनगणयगणभगणलघुगुरुस्तद्वृत्तं सुवदना नाम । सप्तभिः सप्तभिः षष्ठश्च यतिः ।
रम्भास्तम्भोपमोरुः सुगुरुघनकुचा सारंगनयना
मध्यक्षामा सुरोमावलिरमलमदंता चन्द्रवदना ।
हृत्स्थं भावं कटाक्षैर्निजमिव कथयत्येषा सुवदना
यूनां चेतांसि सद्यो मदयति युवतिश्छेकोक्तिकुशला ॥ 106 ॥
त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम

3.108

त्रीन्वारान्रगणजगणौ गुरुलघू यस्य पादे तद्वृत्तं वृत्तनाम वृत्ताभिधानमित्यर्थः ।
संपदाप्तिसम्भवो मदः कदाचिदेव मानसे नगस्य
न प्रमाणविद्यया परप्रमेयजालभंगदक्षया ऽपि ।
नाप्यरूपरूपया परांगनाभिमर्शनो रसः कदापि
तस्य वृत्तमीदृशं शिरोभिरुह्यते नरैरतो विचार्यः ॥ 107 ॥
प्रकृतौ
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्

3.109

मगणरगणभगणनगणा यगणत्रयं यस्य पादे तद्वृत्तं स्रग्धरा नाम । वारत्रयं सप्तभिर्यतिः ।
यासामुन्निद्रपद्मद्युतिमुखममलं स्फारविस्फारिताक्षम्
चञ्चत्काञ्चीगुणेन स्फुरदुरुमणिना ऽ; ऽवर्तलक्ष्मीं वितन्वत् ।
चेतःप्रीतिं नराणां विदधति विलसन्नाभिमध्यप्रदेशा
गच्छन्त्यो
राजमार्गे विकचविचकिलस्रग्धरा राजवध्वः ॥ 108 ॥
आकृतौ
भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि मद्रकमिदम्

3.110

भगणरगणनगणा रगणनगणरगणनगणगुरवो यस्य पादे तद्वृत्तं मद्रकं नाम । दशभिर्द्वादशभिर्यतिः । यथा ।
त्वत्कथितैरलीकवचनैः करोमि कथमस्य कोपमसमम्
यस्य न विप्रियं सखि मया श्रुतं न च निरीक्षितं कथमपि ।
मद्रकरैरयं प्रियतमः करोति वचनैर्मनः समदनम्
पाश्यविमुक्तजालमधुना ममाङ्ध्रियुगले लुठत्यपि भृशम् ॥ 109 ॥
विकृतौ
यदिह नजौ भजौ भ्जभलगास्तदाश्वललितं हरार्कयतिमत्

3.111

यस्य पादे नगणजगणौ भगणजगणभगणजगणभगणलघुगुरवो भवन्ति तद्वृत्तं अश्वललितं नाम । एकादशभिर्द्वादशभिर्यतिः । यथा ।
समरविनिर्जितारिनिवहक्षितीश्वरविचित्रमश्वललितम्
हृदयचमत्कृतिप्रदमिदं विलोक्य भवतो वदन्ति कवयः ।
ध्रुवमुररीचकार नृपतेर्दिवस्पतिरिमं तुरंगमवरं
बहुतरमन्यथा न वियति क्रथैरिह विवेलते ऽतिबहुलैः (?) ॥ 110 ॥
मत्ताक्रीडं मौ त्नौ नौ न्लौ गिति भवति वसुशरदशयतियुतम्

3.112

यस्य पादे द्वौ मगणौ तगणनगणौ द्वौ नगणौ नगणलघुगुरवस्तद्वृत्तं मत्ताक्रीडं नाम । अष्टभिः पञ्चभि दशभिश्च यतिः । यथा ।
दृष्ट्वा चान्द्रं बिम्बं रात्रौ करनिकरविनिहिततिमिरनिकरम्
गायन्ति स्म स्वैरं यस्मिन्सुविकसितकुसुमवति मधुसमये ।
पौरा बद्धास्तस्मिन् संप्रत्यवनिपतितिलक तव नगरे
मत्ताक्रीडातिस्वच्छन्दं विगतभयभवभमितमृगनिवहाः ॥ 111 ॥
संकृतौ
भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी

3.113

भगणतगणनगणसगणा द्वौ भगणौ नगणयगणौ यस्य पादे तद्वृत्तं तन्वी नाम । पंचभिः सप्तभिरादित्यैश्च यतिः । यथा ।
या मुखपद्मं शशधरसदृशं सुन्दरलोलनयनमतिरम्यम्
सुभ्रु बिभर्ति त्रिभुवनजयिनो वासनिवासमिव मकरकेतोः ।
पीननितम्बा गुरुकुचयुगला वृत्तसुकोमलभुजकरयुग्मा
सा मम चित्ते जनयति युवती हर्षमनल्पमियमिह सुतन्वी ॥ 112 ॥
अतिकृतौ
क्रौञ्चपदा भ्मौ स्भौ ननना न्गी इषुशरवसुमुनिविरतिरिह भवेत्

3.114

भगणमगणसगणभगणाश्चत्वारो नगणा गुरुश्च यस्य पादे तद्वृत्तं क्रौञ्चपदा नाम । पञ्चभिरष्टभिः सप्तभिश्च यतिः । यथा ।
क्रौञ्चपदा या रोमशगात्री विकटदशनतनिरतिपरुषतनुः
पिंगलदृष्टिः सूक्ष्मनितम्बा कपिलकचनिचयविषमकुचयुगा ।
या च हसन्ती लोचनवारि प्रकटयति रहसि निजपतिविमुखी
मुञ्च सखे तामिष्टतमं चेच्चिरतरमिह तव चर विषयसुखम् ॥ 113 ॥
उत्कृतौ
वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजंगविजृम्भितम्

3.115

द्वौ मगणौ तगणस्त्रयो नगणा रगणसगणौ लघुगुरू च यस्य पादे तद्वृत्तं भुजंगविजृम्भितं नाम । अष्टभिरेकादशभिः सप्तभिर्यतिः । यथा ।
प्रालेयांशुज्योत्स्नाकांतद्युतिशुभमविमलसद्वितानमनोहरे
क्रीडागारे चञ्चच्चिरत्र कुसुमपरिमलमिलदलिव्रजेशुधयोज्ज्वले ।
प्रेमोद्रेका वेश्यावृत्तं कुलयुवतिरपि वितनुते यदा सुरतोत्सवे
प्रेयानप्यानन्देनेव प्रकटयति रहसि न तदा भुजंगविजृम्भितम् ॥ 114 ॥
मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम्

3.116

यस्य पादे मगणो नगणा षट् सगणो द्वौ गुरू च यत्र तद्वृत्त मपवाहं नाम । नवभिः षड्भिः षड्भिः पंचभिः यतिः । यथा ।
आत्मानं कलयति तृणमिव सुरगुरुधरणितलसुरगवामर्थो
यो नित्यं विकसितमुखकमलमिह वितरति धनममलमर्थिभ्यः ।
संपत्या समुपहसितधनदविभवनिवहदौरभ्यात्
लोकः पश्यति विगलितबहुविधिमतिमतिकृशतनुमपवाहं तम् ॥ 115 ॥
॥ उक्तादिजातिप्रकरणम् ॥
अत एवं उर्ध्वं शेषजातिप्रकरणं भवति । तच्चात्र नोक्तं ग्रन्थगौरवभयात्केदारेण एवमुक्तादिजातिषु उत्कृत्यवसानासु श्रीप्रभृति अपवाहान्तानि समवृत्तानि पदर्श(?) । ‘ यत्किंचिद्दृश्यते छन्दः षड्विंशत्यधिकाक्षरम् । शेषजात्यादिकं मुक्त्वा तत्सर्वं दण्डका विदु ऽरित्यादिलक्षणान् दण्डकानाह ।
यदिह नयुक्तगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रयातो भवेद्दण्डकः

3.117

इह शास्त्रे चण्डवृष्टिप्रयातो नाम दण्डको भवेत् । यदा नगणौ द्वौ सप्तरगणाश्च भवन्ति । शतमाण्डवाभ्यामृषिभ्यामनेका ऽस्य संज्ञा कृता । यथा ।
कुवलयदलदीर्घनेत्रा सुमध्या पृथुश्रोणिबिम्बा नवप्रागसंसक्तहृत्
प्रथमविरहपीडिता सा मृता प्रेयसी गर्जितं वारिदानां निशम्य ध्रुवम् ।
नभसि कुटजपुष्पसंभारगंधासवोन्मत्तभृंगांगना गीयमानागमे
हत पथिक वृथा किमायास................................... ।
चण्डवृष्टिरित्येके ॥ 116 ॥
प्रतिचरणविवृद्धरेफाः स्युरर्णार्णवव्यालजीमूतलीलाकरोद्दामशंखादयः

3.118

चरणं चरणं प्रति प्रतिचरणं रगणानां वृद्ध्या इहार्णादयो दण्डकास्स्युः ।
अष्टभी रगणैरर्णो यथा ।
श्रमसलिलमपकरोति द्रुतं कामिनीनां रसायासजं मरुच्चीकरामोदवान्
जनयति मधुपस्य तीरद्रुमाली लसत्पल्लवालंकृतां कामिनीविभ्रमादेशकम् ।
अयमिह दयितैः पुरोर्णानिधिं यस्य शक्यं समसायुवज्रप्रहारानभिज्ञभ्युसी (?)
भुजगपुरवधूलसल्लोचनानन्दकरो स्फुरन्ती न लीलां तनोति राजात्मजः ॥
नवभी रगणैरर्णवो यथा ।
त्रिनयननगतुंगशृंगश्रियं बिभ्रदुद्दण्डडिंडीरपिण्डावदातैस्तरंगोत्तरैरुल्लसन्
मकरतिमितिमिंगिलो विस्तृताधिष्ठितक्रोडसंप्राप्तशोभैर्नभःप्रांगणज्ञापकैः ।
भुजगशयनशयितो देवदेवस्य यो वास वेश्मश्रियो जनेनार्णवसो ऽयमग्रीः प्रिये
तव नयनपथं प्रयातस्तनोतुं प्रमोदं विनोदास्पदं तीरसंभूतपुन्नागपूगद्रुमैः ॥
दशभी रगणैः व्यालो यथा ।
प्रसयति मलयानिले विप्रयुक्तांगनादीर्घनिःश्वाससंपर्कसंववर्धितप्रौहितावेमतोनन्दनि
स्फुडितबकुलकर्णिकाराम्रदुन्नागमाकंदकंकिल्लिसच्चम्पकामोदवाहिन्यमुष्मिन् वसंतागमे ।
भज चरणयुगानतं संनतांगिप्रियं प्रीतिसंदोहकामिनी नाम नगातुराणां मृगीचक्षुषाम्
तरुणीमनि (?) सखि स्फुरज्ज्वालजिह्वाग्रलोले ऽङ्गनानां सदा सौख्यं विध्वंसिना ऽनेन किं दग्धमानेन ते ॥
तैरेकादशभिर्जीमूतैर्यथा ।
प्रियविरहितकामिनी जीविता सा विनाशैकदक्षानिलोद्धूतकादम्बपुष्पासवामूर्च्छिताशेषभृंगध्वजो ।
नभसि नभमिवांक्षसौदामिनीमालयालंकृतं नीलजीमूतपंक्तिं बलाकावलीसेवितां लोचनानन्ददाम् ।
विरचितमधुरस्वरं चातकानां च रम्यं समूहं तु सास्कांतमप्युन्मदं(?) भाविनीं तृप्तिमाकांक्षमाणम् ।
मुहुकृतविततसुबर्हिभारः
शिखीसंवन्मन्मथा प्रेयसी प्रीतिमुत्पादयन् नृत्यति स्वाङ्ध्रिविन्याससौंदर्यवत् ॥
द्वादशभिर्लीलाकरो यथा ।
अभिनवनवपल्लवास्वादसंशुद्धकण्ठान्यपुष्टांगनासुंदरारध्वगीतध्वनिप्राप्तबोधिर्यदि चक्रवाले वने ।
कुसुमितबहुपाटला कर्णिकाराम्रसत्सिंदुवारोत्तमाशोकसत्पुष्पभारा वनश्रीकृताशेषशाखालसत्पल्लवे वने ।
विलपति वनिता घनस्याभिमानग्रहं लास्यलीलाकरो माधवी पल्लवानामयं कामदेवैकबन्धवसन्तानिलो ।
जगति विजयिनीं स्मराज्ञामिवाविष्करोत्यंगनानां रतायासजस्वेदबिन्दुप्रसक्तालकप्रांतकंपं विधित्सुर्मुहुः ॥
त्रयोदशभी रगणैरुद्दामो यथा ।
शशधरसदृशं मुखाम्भोरुहं बिभ्रती पक्वबिम्बाधरोद्दामहारावलीशोभितोच्चस्तनी सूक्ष्मरोमावलीप्राप्तनाभिहृदा ।
श्रवणयुगनिवेशितस्वर्णताण्डंकसंलग्नरत्नप्रभासितापांगरंगांगणोत्संगसंनृत्यमानेक्षणक्षोभितक्ष्मातला ।
कलरववरकिंकिणीपक्वणन्मेखलालंकृतश्रोणिबिम्बानुवृत्तानुपूर्वोरुयुग्मा सरोजारुणाङ्ध्रिद्वयन्यस्तसन्नूपुरा ।
हृदयमशरणं मुनीनामपीयं सलीलं व्रजंती करोति स्फुरच्चीवरप्रांजलोद्बोधितानंगलक्ष्मीकृताशेषलोकं भृशाम् ॥
चतुर्दशभी रैः शंखो यथा ।
क्वचिदुपरि तरच्चंदवल्लीवितानैः क्वचिद्द्रुमाणां लतासंचयैः संचरन्नक्रचक्रैः क्वचिन्नीरसंभूतपूगद्रुमैः शोभितम् ।
क्वचिदपि घनसांम्रहिंतालतालावलीचारुताम्बूलवल्लीसमूहैः (?) क्वचिद्व्यालसल्लोलकोलाहलोत्पादितोर्वीप्रकंपम् ।
क्वचिदभिनवचम्पकोन्निद्रचंचत्प्रस्तनासवामोदसंपर्कः संप्राप्तसौरभ्यसंपत्समीरागमातीततोयकणैः सेकितं नीरहृतं विद्रुतम् ।
सलिलनिधिमनेकरत्नाकरप्रीतिसंदोहदं सेतुसीमंतमंतं विलोक्य द्रुतं विलोचनानां निपातं च यस्याशु साफल्यमापादयः ॥
आदिशब्दात्पंचदशभिः रैः समुद्रः षोडशैर्भुजंग इत्येवमादयो यथेष्टकृतनामानो दण्डका भवन्ति ॥ 117 ॥
प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः

मूल पाठ: Vṛttaratnākara with Sulhaṇa's commentary Sukavihṛdayānandinī · Edition: a manuscript from Patan. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc