वृत्तरत्नाकर (टीका सहित) · अध्याय 2
एकाक्षरा उक्ता । द्व्यक्षरा अत्युक्ता । त्र्यक्षरा मध्या । चतुरक्षरा प्रतिष्ठा । पंचाक्षरा सुप्रतिष्ठा । षडक्षरा गायत्री । सप्ताक्षरा उष्णिक् । अष्टाक्षरा अनुष्टुप् । नवाक्षरा बृहती । दशाक्षरा पंक्तिः । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगती । त्रयोदशाक्षरा ऽतिजगती । चतुर्दशाक्षरा शर्करी । पंचदशाक्षरा अतिशर्करी । षोडशाक्षरा अष्टिः । सप्तदशाक्षरा अत्यष्टिः । अष्टादशाक्षरा धृतिः । एकोनविंशत्यक्षरा अतिधृतिः । विंशत्यक्षरा कृतिः । एकविंशत्यक्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः । चतुर्विंशत्यक्षरा संकृतिः । पंचविंशत्यक्षरा अभिकृतिः । षड्विंशत्यक्षरा उत्कृतिः । इति छंदसां संज्ञा उक्ताः ।
अधुना सर्वेषां वृत्तानां लक्षणमभिधास्यामि । लक्ष्यते ज्ञायते अनेनेति लक्षणम् । परं मात्रावृत्तानुपूर्वकम् । मात्रावृत्तान्यार्याप्रभृतीनि प्रथममुक्त्वेत्यर्थः ॥ 19-22 ॥
इति सुल्हणविरचितायां सुकविहृदयानंदिन्यां वृत्तरत्नाकरछंदोवृत्तौ प्रथमो ऽध्यायः ॥
द्वितियो ऽध्यायः
मात्रावृत्ताध्यायः
[आर्या-प्रकरणम् (2.1-7)]
मात्रावृत्ताध्यायो द्वितीयः प्रारभ्यते ।
मात्रावृत्तानुपूर्वकमित्युक्तत्वात् ।
लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठो ऽयं च नलघु वा प्रथमे ऽर्धे नियतमार्यायाः
षष्ठे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमे ऽर्धे पंचमके तस्मादिह भवति षष्ठो लः
[2.1] आर्याया एतल्लक्ष्म लक्षणम् । सप्त चतुष्कला गणा गुरुणा उपेता युक्ता भवन्ति । सामान्येनाभिधाय विशेषमाह । भवति नेह विषमे जः इति । इह आर्यालक्षणे विषमे स्थाने प्रथमतृतीयादौ जो जगणो न भवति । षष्ठश्चायं जगणो भवति । नलघु वा । नगणयुक्तो लघु वा भवति । नियतं निश्चित मार्यायाः । प्रथमे ऽर्धे आद्ये दले इति । चरमे ऽर्धे द्वितीये ऽर्धे षष्ठो ल घुरेवेति नियमः ।
[2.2] एवमुभयोरप्यर्धयोर्लक्षणमभिधाय पदनियममाह । षष्ठे द्वितीयलादि ति । षष्ठे गणे सर्वलघौ द्वितीयाल्लघ्वक्षरादारभ्य पदं भवति । सप्तमश्चेत्सर्वलघुगणो भवति तदा प्रथमाक्षरादारभ्य पदं चरमे ऽर्धे पंचमके द्वितीये ऽर्धे पंचमे सर्वलघौ गणे तस्मात्पूर्वोक्तात् । प्रथमाक्षराल्लघ्वक्षरादारभ्य पदनियमो भवति । इति । अत्रार्धग्रहणात्पादव्यवस्था नास्तीति एतच्च प्रथमाध्याय एव पदादाविति सूत्रे प्रपंचितमस्ति ।
क्रमेणोदाहरणं यथा ।
वंदारुदेववृन्दैरहमहमिकया सदैव या वंद्या ।
स्वर्गापवर्गदात्रीं तामार्यां संततं नौमि ॥
इत्युदाहरणं यथा ।
यस्यांगनामुवेद्या कोकिलनादश्च मलयगिरिपवनः ।
एकैकमस्त्रकृत्यं करोति स जयति मनोजन्मा ॥ 1-2 ॥
त्रिष्वंशकेषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याश्छन्दोविद्भिः समाख्यातम्
यस्या आर्याया आद्येषु त्रिषु गणेषु पादो विरामो भवति । सा पथ्या नाम । यथा ।
उज्झितनेपथ्यालकमुज्झिततिलकांजनं यदेणाक्ष्याः ।
तस्याः स्मरामि विरहप्रारम्भे वदनमपि रम्यम् ॥ 3 ॥
संलंघ्य गणत्रयमादिमं सकलयोर्द्वयोर्भवति पादः ।
यस्यास्तं पिंगलनागो विपुलामिति समाख्याति
यस्या आर्याया आद्य गणत्रय मभिलंघ्य द्वयो रप्यर्धयोः पादो विरामो यतिर्भवति । सा विपुला नाम यथा ।
मम खलु न याति नयनयुगमचलनिर्मेषपिश्यतस्तृप्तिम् ।
त्रस्तमृगशिशुदृशस्तन्वंग्या जघनस्थलीं विपुलाम् ॥
सामान्येन विधानमेतदाद्यंतोभयभेदपूर्वकत्वात्त्रिधा भवति ।
तत्रादिविपुला यथा ।
प्रमदानां जयति कटाक्षो ऽयं निशि स्फुरत्स्मरशराभः ।
हृदयस्थितानुरागप्रकटनपटुतां दधात्स्वैरं ॥
अन्त्यविपुला यथा ।
प्रीतिं कस्य न जनयति प्रकुर्वती केशबंधनं नारी ।
दर्शितभुजमूलालंकारसुभूतार्द्रनखपंक्तिः ॥
उभयविपुलो दाहरणं पूर्वमेवोदाहृतमिति ॥ 4 ॥
उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः ।
चपलेति नाम तस्याः प्रकीर्तिता नागराजेन
यस्या आर्याया उभयोरर्धयोर्द्वितीयतुर्यौ द्वितीयचतुर्थौ गुर्वोर्मध्यगौ गमध्यगौ गमध्यगाविति । वदता सूत्रकृता गणनियम उक्तः । तथा हि प्रथमो गणो ऽन्तगुरुरेव तृतीयो गणो द्विगुरुरेव पंचमश्चादिगुरुरेवेति निश्चयः । शेषं यथा प्रोक्तम् । सा आर्या चपला नाम यथा ।
चपलाक्षि मौनमुद्रां त्यजेति संभाषिता मया सुतनुः ।
संजातरोमहर्षा बभूवात्युत्सुका तन्वी ॥ 5 ॥
आद्यं दलं समस्तं भजेल्लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना
यस्या आर्याया आद्यं दल मर्धं समस्त मपि चपला या लक्षणं भजेत् । शेषे उत्तरार्धे पूर्वोक्तलक्षणा सा मुखचपला नाम । यथा ।
यस्यात्सिराचितांगी (?) लघुस्तनी पिंगलाक्षियुगला च ।
मुखचपला पुरुषाकृतिरतिदीर्घकृशा परित्याज्या ॥ 6 ॥
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे तु चपलायाः ।
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला
या आर्या प्रथमे ऽर्धे प्राक्प्रतिपादितं पूर्वमुक्तं लक्षणमाश्रयेत् प्रथमेतरे तु उत्तरार्धे तु चपलाया लक्षणं सा जघनचपला उक्ता विशुद्धधीभि र्निर्मलबुद्धिभिः । यथा ।
कुंचितलोचनयुगलं समदनमदमोदसुंदरालम् ।
सुरतं स्मरामि तस्या मृगीदृशोः जघनचपलायाः ॥ 7 ॥
॥ आर्याप्रकरणम् ॥
[गीति-प्रकरणम् (2.8-11)]
आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः कृतयतिशोभां तां गीतिं गीतिवान्भुजङ्गेशः
आर्या याः प्रथमे ऽर्धे यदुक्तं लक्षणं तद्यदि द्वयोरप्यर्धयोर्भवति तां गीति मिति गीतवान् उक्तवान् भुजंगेशः पिंगलनागः । यथा ।
रोमांचं जनयंती सुखयंती नेत्रयोर्युगं यूनाम् ।
सद्यो मनांसि मदयति गीतिः स्त्रीणां मदेन मत्तानाम् ॥ 8 ॥
आर्याद्वितीयके ऽंशे यद्गदितं लक्षणं तत्स्यात् ।
यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्ब्रूते
आर्याद्वितीये ऽर्धे यल्लक्षण मुक्तं तद्यदि द्वयोरप्यर्धयोर्भवति तामुपगीति मिति पिंगलनागो मुनिर्ब्रूते । यथा ।
शारदचंद्रोद्योते पायंपायं मधु स्वैरम् ।
पौरस्त्रीभिरभीष्टा क्रियते सोत्कण्ठमुपगीतिः ॥ 9 ॥
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता
यस्या आर्याया उत्तरार्धलक्षणं पूर्वार्धे भवति पूर्वार्धलक्षणमुत्तरार्धे सा उद्गीतिः ।
यथा ।
मण्डपनगरवधूनामुद्गीतिं वत्समल्लारम् ।
आकर्णयति स नूनं दूरादाभ्येति चन्द्रहरिणो ऽपि ॥ 10 ॥
आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।
इतरत्तद्वन्निखिलं यद्दीयमुदितैवमार्यागीतिः
यद्यार्यायाः पूर्वार्ध मुत्तरार्धं च निधने ऽवसाने एकेन गुरुणाधिकेन युक्तं भवति तदा ऽ; ऽ र्यागीति र्यथा ।
स्त्रीणां हर्षवतीनां सशिरःकम्पस्तुवन्ति (?) विगतविकल्पाः ।
अप्यार्यागीतिमिमामनेकलयसुन्दरामाकर्ण्य ॥
स्कन्धकमित्यिके ॥ 11 ॥
॥ गीतिप्रकरणम् ॥
[वैतालीय-प्रकरणम् (2.12-20)]
षड्विषमे ऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।
न समा ऽत्र पराश्रिता कला वैतालीये ऽन्ते रलौ गुरुः
सिंहावलोकितन्यायेन ‘तृतीययुग्दक्षिणान्तिकेऽत्यादिसूत्रपठितः पादशब्दो ऽत्र दृष्टव्यः । पैंगलीयसूत्रपादशब्दोपादानात् । यथा ‘वैतालीयं द्विःस्वरा ऽयुक्पादेषु सर्वो ऽन्तलाऽ; इति । यत्र विषमे पादे प्रथमे तृतीये षट्कला मात्रा भवन्ति समे पादे द्वितीये चतुर्थे अष्टौ कला भवन्ति । अन्ते ऽवसाने रगणलघू गुरुः च भवतस्तद्वृत्तं वैतालीयं नाम । उत्सर्गेण यथा । क्वचित्प्राये गुरुलघुभावे ऽपवादमाह । न समा ऽत्र पराश्रिता कले ति । समा द्वितीयचतुर्थादिका पराश्रिता तृतीयपंचमाद्याश्रिता न भवति । समे पादे द्वितीये चतुर्थे निर्गतमंतरं व्यवधानं यासां ता निरन्तरा अंतररहिता लघवो न भवेयुरित्यर्थः । यथा ।
प्रविशत्यनिशं निरर्गला सुपरित्यक्तविभूषणांशुका ।
विरहे तव सा वरांगना वैतालीयमुवाह विभ्रमम् ॥ 12 ॥
पर्यन्ते र्यौ तथैव शेषं औपच्छंदसिकं सुधीभिरुक्तम्
षण्णामष्टानां च कलानां पर्यन्ते ऽवसाने र्यौ रगणयगणौ भवतः । शेषं पूर्ववत्तदा वैतालीयमेव औपच्छंदसिकं नाम । यथा ।
बहुविप्रियकारकं परोक्षे प्रत्यक्षे प्रियचाटुकारदक्षम् ।
शठवृत्तमिमं द्रुतं वयस्ये औपच्छंदसिकं विमुञ्च कान्तम् ॥ 13 ॥
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत्
‘यदा षड्विषमे ऽष्टौ समे कलाऽ; इत्यादि सर्वं पूर्ववद्भ वति । विशेषोक्तौ भगणात्परौ गौ गुरू भवतः तदा वैतालीयमे वापातलिका नाम । यथा ।
नरनाथ भवंतमरीणां नाशकरं प्रसमीक्ष्य पुरस्तात् ।
रिपवो जहति स्म भयार्ता आपातलिकां संगरभूमिम् ॥
आपातलिकां अस्थिरामित्यर्थः ।
उक्तं च पिंगलवृत्तौ भट्टश्रीहलायुधेन । यथा ।
पिंगलकेशा कपिलाक्षी वाचाटा विकटोन्नतदन्ती ।
आपातलिका पुनरेषा नृपतिकुले ऽपि न भाग्यमुपैति ॥ 14 ॥
तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयलः
वैतालीयमेव सर्वेष्वपि पादेषु द्वितीयो लघु तृतीये न सह युक्तो भवति ‘न समा ऽत्र पराश्रिता कलेऽति बाधित्वा तदा दक्षिणान्तिका नाम । यथा ।
ववौ मरुद्दक्षिणान्तिको वियोगिनीनां प्राणहारकः ।
प्रकंपिताशोकचम्पके वसन्त एषो ऽनंगबोधकः ॥ 15 ॥
उदीच्यवृत्तिर्द्वितीयलः सक्तो ऽग्र्येण भवेदयुग्मयोः
अयुग्मयोः प्रथमतृतीययोः पादयोः द्वितीयो ल घुरग्रिमेन तृतीयेन लघुना सह युज्यते तदा वैतालीयमे वोदीच्यवृत्ति र्नाम यथा ।
गिरं मनोज्ञां पिकांगना मुदिताश्चिक्यत्स्वयमुद्गिरत्यसौ ।
उदीच्यवृत्तौ दिवाकरे सहकारो ऽपि तनोति मञ्जरी ॥ 16 ॥
पूर्वेण युतो ऽथ पंचमः प्राच्यवृत्तिरुदितेति युग्मयोः
लघुरित्यनुवर्तते । समपादयोर्द्वितीयचतुर्थयोः पंचमो लघुः पूर्वेण चतुर्थेन लघुना सह युक्तो यदा स्यात्तदा प्राच्यवृत्ति र्नाम वैतालीयं भवति । यथा ।
स्वगुणैरनुरंजितप्रजः प्राच्यवृत्तपरिपालने रतः ।
रणभूमिषु भीमविक्रमो विंध्यवर्मनृपतिर्जयत्यसौ ॥ 17 ॥
यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम्
पूर्वो क्तयोरुदीच्यप्राच्यवृत्त्योः समौ सदृशौ औजयुग्मकौ विषमसमौ पादौ यदा भवतः तदा वैतालीयमेव प्रवृत्तकं स्यात् । यथा ।
प्रवृत्तकान्ते दुःरश्मिभिर्व्याप्तमंबरमिदं विलोक्यताम् ।
गृहाण ताम्बूलमुत्तमं कोपमाशु विजहीहि कोपने ॥ 18 ॥
अस्य युग्मरचिता ऽपरान्तिका
अस्य प्रवृत्तकस्य समपादकृता समपादलक्षणयुक्तैश्चतुर्भिः पादै रचिता अपरान्तिका नाम । यथा ।
तुंगपीवरघनस्तनालसा चारुकुण्डलवती मृगेक्षणा ।
पूर्वचन्द्रवदना ऽपरान्तिका चित्तमुन्मदयतीयमंगना ॥ 19 ॥
अयुग्भवा चारुहासिनी
प्रवृत्तकस्यैव विषमपादलक्षणयुक्तैश्चतुर्भिः पादैः रचिता चारुहासिनी नाम यथा ।
न कस्य चेतः समन्मथं करोति सा सुंदराकृतिः ।
विचित्रवाक्योक्तिपण्डिता विलासिनी चारुहासिनी ॥ 20 ॥
॥ वैतालीयप्रकरणम् ॥
[वक्त्र-प्रकरणम् (2.21-30)]
वक्त्रं नाद्यान्नसौ स्यातामब्धेर्यो अनुष्टुभि ख्यातम्
‘पादऽ; इत्यनुवर्तते । अनुष्टुभ्य ष्टाक्षरायां जातौ पादस्य चतुर्थादक्षरा द्यो यगणो यदा भवति तदा वक्त्रं नाम वृत्तं ख्यातं कथितम् । अब्धे रिति निर्विशेषणत्वेनाद्यादक्षरान्नगणसगणौ न भवतः । यथा ।
अपाण्डुगण्डमाकर्णविशालनयनं सुभ्रु ।
विरहे चारुसर्वांग्यास्तस्याः स्मराम्यहं वक्त्रम् ॥ 21 ॥
युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम्
युजोः समपादयोर्चतुर्थादक्षरा ज्जेन जगणेन परेण वक्त्रमेव पथ्ये ति कीर्तितम् । यथा ।
त्वद्दन्तिदन्तलग्नोरुशाखाः पथ्यायताः द्रुमाः ।
कथयन्तीव भग्नानां दिग्जयं तव भूपते ॥ 22 ॥
औजयोर्जेन वारिधेस्तदेव विपरीतादि
विपरितपथ्ये त्यर्थः । युक्पादे यगण एव कर्तव्यः । यथा ।
विपरीतान्यपि प्रियः कुर्वाणो मुदमाधत्ते ।
अनुकूलस्त्वसौ सदा तेन प्राणाधिको नूनम् ॥ 23 ॥
चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेः
य द्ययुजो र्विषमयोः पादयोश्चतुर्थादक्षरान्नगणो भवेत् तदा वक्त्र मेव चपला भवति । युक्पादयोर्यगण एव । यथा ।
चपलापांगनयने पक्वबिम्बोष्ठि चन्द्रास्ये ।
स्वाधीनत्वं भज दयितं तारुण्यमस्थिरं यस्मात् ॥ 24 ॥
यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता
युक्पादे द्वितीयचतुर्थे लघुः सप्तमो यस्याः सा युग्मविपुला नाम । ननु पथ्यालक्षणसाम्यात्पुनरुक्तमेतत् । नैवम् । विपुलाधिकारस्येदानीमारभ्यमानत्वात् विना ऽनुत्पत्तिः पथ्यालक्षणं त्वयुक्पादे अवश्यमेव यगणेन भवितव्यम् । अत्र तु न नियमः । यथा ।
अहो कस्यापि धन्यस्य महाकुलप्रसूतया ।
प्रीतिः स्वकान्तया सार्धं विपुला जायते गृहे ॥ 25 ॥
सैतवस्याखिलेष्वपि
सैतवस्या चार्यस्य मतेन चतुर्ष्वपि पादेषु सप्तमो लघुः कर्तव्यः । यथा ।
अहो धन्यस्य कस्यचित्सुकवेर्जायते मतिः ।
नूनं ययाधिक्रियते सैतवं काव्यमुत्तमम् ॥ 26 ॥
भेनाब्धितो भाद्विपुला
सैतवस्येति निवृत्तम् । ‘ चपलावक्त्रमयुजोर्नकारश्चेत्पयोराशेऽरित्यनुवर्तते । ‘ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मतेऽति सर्वमनुवर्तनीयम् । अयुक्पादयोः प्रथमतृतीययोश्चतुर्थ्यादक्षरात्परयो यगणं बाधित्वा भगणश्चेद्भवति तदा भेनोपलक्षिता विपुला स्यात् भविपुले त्यर्थः । यथा ।
विशालाक्षी कामगजकुम्भाम्भविपुलस्तनी ।
मध्यक्षामा हंसगतिः कस्य न स्याद्गतिप्रदा ॥
अयुजोरिति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् व्यक्तिपक्षे पुनरेकस्य । एकपक्षे पुनः प्रथमस्य तृतीयस्य वा तथा चाहुर्महाकवयः ।
‘वटे वटे वैश्रवणश्चत्वरे चत्वरे शिवऽ; इति ।
‘यस्य प्रभाद्भुवनं शाश्वते पथि तिष्ठतीऽति ।
‘उपस्थितं प्राञ्जलिना विनीतेन गरुत्मताऽ; इति महाकविप्रयोगाः ॥ 27 ॥
इत्थमन्या रश्चतुर्थात्
इत्थं पूर्वोक्तप्रकारेणायुक्पादयो श्चतुर्थाद क्षरात्परतो रगणो भवति तदा रविपुला स्यात् । यथा ।
तथा जितः शत्रुवर्गो राजन् बाहुबलेन ते ।
सहान्तःपुरो यथा ऽसौ ततार विपुला नदी ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
[महाकविकालिदासवस्वाग्देवतागुरुम् ।
यज्ञाने विषयाभ्यान्ति दर्पणे प्रतिबिम्बवत् ।]
तृतीयपादे यथा ।
कामिनीभिः सह प्रीतिः कस्य नाम न रोचते ।
यदि न स्याद्वारिवीचिचंचलं हत जीवितम् ॥ इति ॥ 28 ॥
नो ऽम्बुधेश्चेन्नविपुला
अयुक्पादयोश्चतुर्थादक्षराच्चेन्नगणो भवतीति तदा नविपुला स्यात् ।
लीलया येन विपुला दंष्ट्राग्रेणोद्धृता मही ।
बिभ्रता सौकरमपि वपुर्वन्दामि तं हरिम् ॥
अत्रैव भारविकविर्यथा ।
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
तव मंत्रकृतो मंत्रैर्दूरात्संशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ इत्यादि ॥ 29 ॥
तो ऽम्बुधेस्तत्पूर्वा भवेत्
अयुक्पादयोः चतुर्थादक्षराच्चे त्तगणो भवति तदा तत्पूर्वं तविपुले त्यर्थः । यथा ।
तृष्णेयं रे तात श्रियं संचितां विपुलां हरे -
द्विहाय तस्मात्तां भव सुखी वैराग्यसम्पदा ॥
व्यक्तिपक्षे प्रथमपादे यथा ।
लोकवत्प्रतिपत्तव्यो लौकिको ऽर्थः परीक्षकैः ।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥
अन्येति ग्रहणात् मगणसगणविपुला ऽपि बोद्धव्या । यथा ममैव छन्दसि ।
‘अम्बुधौ नतभरमसा औजे तद्युतविपुला भवेत्ऽ; । यथा ।
सर्वातिरिक्तं सौभाग्यं बिभ्रती चारुलोचना ।
स्त्रीलोकसृष्टिः सौम्येव निः साम्यमस्य वेधसा ॥ (?)
व्यक्तिपक्षे प्रथमपादे यथा ।
मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ॥ इति ।
तृतीयपादे यथा ।
अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यदिति ॥
सविपुला यथा ।
क्षणविध्वंसिनि काये का चिन्ता मरणे रणे । इति ।
सर्वेषां विपुलाभेदानां चतुर्थो वर्णः प्रायेण गुरुर्भवति । इत्याम्नायः ॥ ॥ 30
॥ इति वक्त्रप्रकरणम् ॥
[मात्रासमक-प्रकरणम् (2.31-38)]
द्विकगुणितवसुलघुरचलधृतिरिति
द्वाभ्यां गुणिता वसवो अष्टौ लघव इत्यर्थः । षोडशभिर्लघुभि रचलधृति र्नाम । यथा ।
इतरजनहितमितरमृतरमतिमनवरतमवनितिलकमिव सपदि ।
स्वयमपि जलनिधिजननिरतिलषति पुरुषवरमचलधृतिविभविनमिह ॥
गीत्यार्ये ति पिंगलः ॥ 31 ॥
मात्रासमकं नवमो ल्गन्तं
‘द्विकगुणितवसुलघुऽरित्यनुवर्तते । यदा अचलधृतिरेव गुर्वन्तो भवति नवमोश्च लघुरेव तदा मात्रासमकं नाम ।
प्राक्सूत्राल्लघुरित्यनुवर्तमाने ऽपि ‘नवमो लिऽति वदता सूत्रकारेणान्येषां लघु वो ऽनुज्ञातस्तस्माऽ न्न समा ऽत्र पराश्रिता कले ऽत्यप्यनुवर्तनीयम् । अत्रैव सूत्रे लक्ष्यलक्षणत्वात् । यथा ।
धूलीधूसंस्कृततनशोभः प्रकटितनूतनवदनद्वंद्वः ।
प्रमुदितवदनो जटिलशिरस्कः खेलति मात्रासमकं बालः ॥ 32 ॥
जो न्लावथाम्बुधेर्विश्लोकः
अम्बुधे र्लघुचतुष्टयात्परयो र्जगणो न्लौ नगणलघू यदा भवतस्तदा मात्रासमकमेव विश्लोको नाम । यथा ।
मुञ्चति तृणमिव गतविकल्पः पुत्रं प्रियमविश्लोकं यतः ।
संग्रामभुवि विजितारिसमूहः क्षोणीमिमां स साक्षदव्यात् (?) ॥ 33 ॥
तद्युगलाद्वानवासिका स्यात्
तद्युगलाद म्बुधियुगलाल्लघ्वष्टकात्परयो जगणो नगणलघू यदा भवतस्तदा वानवासिका भवेत् । यथा ।
कुंकुमपंकानुलिप्तगात्रा मध्यक्षामा विपुलनितम्बा ।
अस्माकं वानवासिका स्त्री चेतःप्रीतिं सपदि विधत्ते ॥ 34 ॥
बाणाष्टनवसु यदि लश्चित्रा
पंचमो ऽष्टमो नवमो यदि चे ल्लघु र्भवति तदा चित्रा नाम यथा ।
दृष्ट्वा तव रिपुनगरे शून्ये चित्रानि धवलगृहभित्तीनाम् ।
यान्ति द्रुततरमिभयूथातित्रासम् नरवरजनता बुद्ध्या ॥ 35 ॥
अष्टाभ्यो ऽथ गलावुपचित्रा
लघ्वष्टकाद्यदा गुरुलघू भवतस्तदा उपचित्रा नाम । यथा ।
मानं मानिनि मुञ्च भज त्वं कान्तं यावदितीरितमाल्या ।
तावद्व्योम बभूव पुरस्तान्नक्षत्रैरुपचित्रितमेतत् ॥ 36 ॥
यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमकादिपादैः कलितम् ।
अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सु पादाकुलकम्
अतीतं प्रागुक्तं कृतं लक्ष्म लक्षणं येन तेन युतैः सहितैः मात्रासमक विश्लोकवानवासिकाचित्रोपचित्राणां पादै श्चरणैः कलितं युक्तं अनियतवृत्तपरिमाणसहितं अनियतममर्यादं वृत्तानां परिमाणं तेन सहितम् । को ऽर्थः । मात्रासमकादीनां पञ्चानामपि पादैर्यैः कैश्चिदपि चतुर्भिः पादाकुलक मिति कथितम् ।
अत्र मात्रासमकविश्लोकवानवासिकाचित्रोपचित्राणामुदाहरणम् । यथा ।
दक्षिणमारुतचलिताशोके कोकिलकलरवमुदितालोके ।
मुग्धे मन्मथसुहृदवसन्ते पादाकुलकं याति पतिस्ते ॥
तथा विश्लोकोपचित्रादिपादैर्यथा ।
वाताहतदलपङ्कजनेत्रे असितदुकूलाच्छादितगात्रे ।
कथय सखि त्वं क्व नु मे व्यक्तं पादाकुलकं गच्छसि नक्तम् ॥
एवमन्ये ऽपि महाकविप्रयोगा यथा ।
चत्वरमण्डपतरुमूलानि संचितसलिलान्यवकूलानि ।
क्वचिदपि न भवति भिक्षाहानिः तत्किं क्रियते मानम्लानिः ॥
अन्ते यमक इत्याम्नायः ॥ 37 ॥
अधुना गुरुलघुप्रमाणमाह ।
वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरवो लैर्दले नित्यं प्रमाणमिति निश्चितम्
यस्य कस्यचि द्वृत्तस्य लः कला मात्रा वर्णै रक्षरै र्विना गुरवो भवन्ति । वर्णा गुरुभिस्तथा ताः कला गुरुभिर्विना वर्णा न भवन्ति । गुरवो र्लैर्दलै नित्यं ता एव कला लैर्लघुभिर्विना दले ऽर्धे कृते सति गुरवो भवन्ति । यथा । अस्मिन्नेव वृत्ते एकपंचाशत्कलावर्णैः द्वात्रिंशद्भिर्विना एकोनविंशतिगुरवोः भवन्ति । पुनस्ता एव मात्रा एकोनविंशत्या गुरुभिर्विना द्वात्रिंशद्भवन्ति । पुनस्ता कला एकपंचाशत्त्रयोदशभिर्लघुभिर्विना अष्टत्रिंशद्भवन्ति । ततो दले ऽर्धे कृते सति एकोनविंशतिर्गुरवो भवन्तीति प्रमाणं नियतं वृत्तस्येति ॥ 38 ॥
शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।
सगुरुशकलयुगलकमपि सुपरिघटितललितपदनिचिति भवति शिखा
शिखि भिस्त्रिभि र्गुणितैर्दश भि र्लघु भी रचितं कृतं तच्च तदपगतलघुयुगलं च तथोक्तं अष्टाविंशल्लघुकमित्यर्थः । अपरं द्वितीय मिदमर्धमखिलं संपूर्णं त्रिंशल्लघुकमित्यर्थः । शकलयुगलकमपि अर्धद्वयममपि सगुरु सह गुरुणा वर्ततेति सगुरु यदा भवति तदा शिखा नाम भवति । सुपरिघटितानि ललितपदानि तेषां निचिती रचनाविशेषा यत्र क्रियाविशेषणे तत्तथोक्तम् । यथा ।
मलयपवनचलितसुविकचविचिकलमलिरधिवसति मुदितमनाः ।
शुभितसमयमुदितपिकयुवतिरपि परिमलबहुलबकुलतरुशिखा ॥
चूलिकेति वक्तव्ये । छंदोभंगभयाच्छिखेत्युक्तमेकार्थत्वान्न दोषः ॥ ॥ 39
विनिमयविहितशकलयुगललघुललितपदविततिरचितगणनिचया ।
श्रुतिसुखकृदियमपि जगति जशिर उपगतवति ञि सति भवति खजा
सैव शिखा विनिमये न व्यत्यासेन विहितं शकलयुगल मर्धद्वयं ललितपदवितत्या रचितगणनिचया यदा भवति तदा खजा नाम । क्व सति । ञि सति । ञि चवर्गीयपंचमस्य चवर्गीयतृतीयस्य शिर उर्ध्वविभागस्तस्मि न्नुपगतवति । को ऽर्थः । खञ्जेत्यर्थः । यथा ।
ससलिलसलिलधरवसुमुदितशिखिकुलविरचितकलकलनिकरे ।
सुपरिहृतनिजयुवतिगृहनभसि हत पथिक कथमसि गमा ॥
एकगुरूणि छंदसि खञ्जाशब्दस्य प्रवेशयितुमशक्यत्वान्नाम नोक्तम् ॥ 40 ॥
अष्टावर्धे गा द्व्यभ्यस्ता यस्याः सा ऽनङ्गक्रीडोक्ता ।
दलमपपरमपि वसुगुणितसलिलनिधिलघुकविरचितपदवितति भवति
द्वाभ्यां गुणिता ऽष्टौ गुरवो यस्याः सा षोडशगुरुः प्रथमे ऽर्धे त्वपरमप्यर्धं वसुभिरष्टभिर्गुणिताः सलिलनिधिलघव इति द्वात्रिंशत्संख्या लैः रचितपदविततिः अनंगक्रीडा नाम ।
त्यक्तानङ्गक्रीडां मुक्तव्रीडां शत्रुक्षौणीपालाः ।
सुविषमवनभुवि विदधति भयमिव नरवरतिलकसुविजितरिपुनिवहा ऽसौ ॥
सौम्येत्येके ॥ 41 ॥
त्रिगुणनवलघुरवसितिगुरुरिति दलयुगलकृततनुरतिरुचिरा
मूल पाठ: Vṛttaratnākara with Sulhaṇa's commentary Sukavihṛdayānandinī · Edition: a manuscript from Patan. · Data entry Dhaval Patel · GRETIL (Göttingen) · CC BY-NC-SA 4.0