भाषा

ENहिગુ
ग्रंथ पाठ

वृत्तमालास्तुति · श्लोक 81-100

81

स्वेदपूरविलसत्पुलकोच्छ्वसितैस् त्रुटत् कञ्चुकं दधति निर्धुतम् अप्य् अमरस्त्रियः
कान्तिकम्रम् इव ते समिताव् अतिशक्वरी बन्धसारम् उरुकम्पम् अनङ्गविजृम्भितम् ॥

82

अनुपमरमणीया भङ्गिर् अङ्गेषु यस्या हरति रतिम् उदाराशेषरूपान्तरेषु
जयति तनुर् अखण्डाखण्डलेष्वासलक्ष्मी विजयपरमधामव्यामरुग् मालिनी यम् ॥

83

अविकलतालशालिकलकाकलीकल व्यतिकरवल्लकीवलितचारुपञ्चमा
भणति मुदा प्रतीष्टजिनभार भारती स्वमहिम कामिनी तव सभासु मद्रकम् ॥

84

जयति नाथ जगज्जयकुञ्जरनिश्चली करणशृङ्खलजालनिभाङ्गदभूषितः
भुजतरुस् तव दुर्गतिमार्गमहार्गलः प्रमदमन्मथनिर्मथनः सुगतप्रियः ॥

85

भवशिरसि महितगुणमहिमभुवं व्यपगतसकलमलशुचिम् अधिपते
तव वरविजयसमुपचितयशसः श्रियम् अनुहरति हि शरदि शशिकला ॥

86

पटुपरिमलमिलितमधुकरयुव भ्रमसहशितिसुगतसमुचितसुखा
विलसति तव शिरसि रसलयवती स्रग् इयम् अमरपतियुवतिविरचिता ॥

87

न यतिपदम् अयसि यद् अतिदयधियः प्रथयसि जगति च परहितकृतिनः
जनयति हिमचयरुचिर् इति भवतो वियद् उपहतनिज मणि गुणनिकरः ॥

88

अतिरतिकरकथ कथम् इव समियाद् अविरतनवनवनव तव परमैः
गुणगणपरिमितिम् उदधिषु यतिभिः सुयतिभिर् अगणित गुण मणिनिकरः ॥

89

जयति तव तनुर् इयम् उरुतरकरुण निखिलजगदुचितपरिभुगवनिर् इव
शिशुमतिकलितसकलजनबहुविध विमतिलडितविधिभिर् अचलध्र्तिर् इह ॥

90

प्रति जडधियम् इ ह समधिकगुरुदय मृदुमतिर् अपि तव शुभमयसमुदय
करतलविनिहितकुवलय कलयति जिनकुल कुवलयम् अविषमभरम् इति ॥

91

व्योमविकीर्णकिर्तिमदपरिमलकलना भङ्गुरतुङ्गवादिमदकलकरिनिकरं
विश्ववनोदरे ऽत्र रवयति जितजलदं नाथ दधास्य् उदारम् ऋषभगजविलसितम् ॥

92

कस् त्वयि बद्धवर्मणि जगद्धितधानधिया निर्विहतप्रतिज्ञ परितापकणः क्व चन
मारवधूजनस्य कमनीयकपोलतले यन् नव पत्त्रभङ्गरचना लस एव करः ॥

93

निरुपमरम्यरूप जिनजातदृश्वनो ऽष्टौ मदयति ते ऽधिकं विधुतशोक लोकपालान्
सदुपधिपुण्डरीकनखराजिराजितेयं विरचितपञ्चचीररुचिरा कुमारलीला ॥

94

गुणानाम् अत्यष्टिः कथम् इह ममेवास्तु जगताम् इति च्छन्दः स्वैरं परिणतिम् अवापत् तव तथा
यथा त्वय्य् एवास्मिन् परम रसभेदप्रणयनी समुद्भूता भूतिर् निखिलसुखशाखा शिखरिणी ॥

95

जयत्य् अमरमन्दिरोपलविशालरक्षःस्थलः स्थलीकमलकाननप्रतिमपादकन्दप्रभः
प्रभाकरशताधिकप्रकटतेजसालङ्कृतः कृतान्त मदमर्दनस् त्रिभवनाथ पृथ्वी धरः ॥

96

विमोहबहलान्धकारपटलावनद्धैर् मुधा रसातलगुहातिशायिभवसंकटेषु स्थितम्
त्वदङ्घ्रिकमलाश्रयोत्सवसुखं न चेद् आदृतं चिरस्य जिनवंशभास्कर कुमा र मा रैर् जितम् ॥

97

कल्पशतोपपादितमहाफलम् इव विहितं चञ्चलम् एतद् आयुर् अधिप त्वदवनतिपरैः
भूषणभव्यभावगमितं श्रितगुरुकरुणा दिग्यतिवंश पत्त्रपतितं कम् इव जलरुहः ॥

98

तव गुणविस्तरप्रणयपूतवचोविभवं वरद स एक एव सुमुखो मुखम् आवहति
मधुमयसामधाम यजुषा सजुषानुगतं श्रवणसुधाभिमानभव नर्क्कुटकं च विधिः ॥

99

त्रिभुवनसंमदप्रदजिनव्यवसायमधौ स्फुटसहकारतामहितम् ईहितम् एति तव
प्रवचनमञ्जरीस्रुतशमामृतपानमुदा भृत यतिषट्पदं कलकणत्कृति कोकिलकम् ॥

100

क्व चिद् अपि भवद्भीत्या भूरिप्रवादिमदद्विपोद् दलन सुगतस्वान्तक्ष्माभृद्गभीरगुहागृह
त्रिभवनवनाधीश क्रीडा रसार्णवसंयता द्रवति हरिणी वारं मारप्रचण्डमहाचमूः ॥

मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc