वृत्तमालास्तुति · श्लोक 101-120
दुर्दान्तानां दमनविधये क्वापि कारुण्यवेगात् धत्से मूर्तिं चरणशिखया ख्यातविक्रान्त यस्याः
त्रैलोकीयं श्रुतरसभिद् आक्रन्दनादैकवृत्तिर् मन्दाक्रन्ता व्रजति विलयं नाथ न स्वास्थ्यम् आशु ॥
शोभासंपत्तिः शिरसि गुरुणैकेन सैवोपजाता या स्यात् कल्पद्रोः शुभफलनिभं बिभ्रतो भद्रकुम्भम्
[व्या]ख्यानप्रेङ्खत्करकररुहोद्भासिनी भाति भर्तुर् दोर्वल्ली चेयं कुसुमितलता वेल्लिते वानिलेन ॥
वृत्तम् एतद् अशेषबुद्धकुलाकलन्ककलानिधेर् आहितं हृदि चेन् महाजडहारहारितवान् असि
जिह्वया प्रणयीति चेद् घनसारसारमदेन किं कर्णपूरम् अकारि चेत् [खलु] खण्डितं मणिकुण्डलम् ॥
उपचितपुण्यसंचय शचीकरतलसुखदैः परिचरणैर् अतृप्तिगम् इव स्वम् असममहिम[न्]
मणिमयपादपीठफलकं स्फुटयति भवतः कलित तमालपत्त्रम् अलिकान् नमति शत धृतौ ॥
परार्थे स्थास्नूनाम् अतिधृतिमताम् ईश विश्वानुकम्पा मुखोन्मीलन्नाना रसरसपद् आकर्णयावेदयामि
दशां ताम् आधेहि क्षणम् अपि गुरो पावनीं पावनानां समन्तध्वान्तानि प्रहरसि यया मे ऽघविस्फूर्जिता म् ॥
पायाद् वो वरबुद्धवंशजलधेर् वृद्धौ सुधादीधितिर् मञ्जुश्रीः परिभूतमन्मथकथः प्रज्ञाङ्गनासंगमे
भीमभ्रान्तिविभावरीपरिभवे बिभ्रद् यतिं भास्वतो विश्वक्लेशकुरङ्गसङ्गरविधौ शार्दूलविक्रीडितम् ॥
अन्तस्त्रासाङ्कुराभोत्पलिततनुरुहैस् त्रैलोक्यविजया वस्थां ते वीक्ष्य भग्नं सुर मुनिविसरैर् उग्रग्रहनुदः
कारुण्याद् उद्यतस्याप्य् अमलतरशरज्ज्योत्स्नापरिकराद् इन्दोर् बिम्बाद् अनर्घस्मितव सुवदना शेषप्रिय कृतौ ॥
भयभग्नैर् अतिदूरतो विरहिणां पत्त्रैः श्रयायायताम् अमराणां गुरुभक्तिनिर्भरमनोव्यक्तौ सहायोपमम्
गगनामेयरयं युगान्तजलदध्वानाधिकक्ष्वेदितं परितः खण्डितमारम् अस्तु जगतस् त्वत् सिंहविक्रीडितम् ॥
व्याप्तविश्वया शरन्नभस्तलातिशुद्धया धियाधियात दुःसहार्तिविक्लवाप्रमेयसत्त्वधात्वधीनसत्कृपाढ्य
संसृतौ च निर्वृतौ च शश्वदप्रतिष्ठवादिनां वरिष्ठ वृत्तम् ईदृशं तु नामतो ऽपि नापरस्य सिद्धिम् अभ्युपेति ॥
तीव्रतापविद्रुतायसच्छटासदृक्कटाक्षसंयमक्षणा धीनविश्वसंचयैश् चतुर्दिगीश्वरैः प्रकृत्य् उदञ्चितात्मभिः
स्फारविभ्रमप्रपञ्चपञ्चपञ्चबाणजिष्णुभिर् दशात्मना सुन्दरी जनेन चातनोषि काम् अपि प्रकामविस्मयां श्रियम् ॥
उत्कीर्णोन्निद्रकुन्दप्रकरम् इव दृशां चारुभङ्गैस् त्रिभागैः स्वेदस्रस्ताङ्गरागस्नपितम् इव मुहुः कान्तकान्तिच्छटाभिः
व्याप्तं व्योम त्वदर्चारुचिभिर् अभिहताविद्य विद्याधरीभिः सौरभ्याकृष्टहृष्टक्वणदलिपटलोल्लासित स्रग्धरा भिः ॥
आकृति जन्मवृत्तविभवक्रमातिशयसंपदः सुखम् इयाद् ईश दिगन्तगीतम् अमलं यशश् च शरदिन्दुसुन्दरतरम्
गायति यस् तवाह्वयमयं सदैव भगवन् भवाध्वगजनो नूनम् अगम्यगौरव गिरां गुरो गुणसमुद्र मद्रकम् इदम् ॥
मध्वासारस्नातोद्भ्रान्तप्रबलमदमुक्खरमधुकरनिकरं प्रीतेर् एकं लीलावासं विदितबलम् अपि मुनिहृदय विकृतः
वागीशान त्वय्य् एकान्तं वसुविषयविरति समुपचितबलिः संभोगश्री मत्ताक्रीडं वरद दिवि नियतम् अनुभवति ॥
मदगुरुगण्डगर्जितजितोन्नताम्बुदगजेन्द्रवृन्दमलिनं निशितसमस्तशस्त्रकिरणप्रभाम्बरपिनद्धपत्तिनिवहम्
प्रवररथाधिरूढसुभटं बलं बलनिधे त्वदेकशरणं श्रयति नरं मनो हरयति प्रवेशवशगोत्तम् आश्वललितम् ॥
प्रीतिनिवा सं कृति भुवि विदितोदारवरप्रदवरिवसनं त्वां यः स्मरतीश प्रतिहतविमतिः संततम् अन्तिमपदम् उदितेषु
यौवनलीलासचिवसमुदयत् पञ्चमकस्वरयतिरमणीया स्याद् इह तन्वी हिमकरवदना तद्वशगा सह नरपतिलक्ष्म्या ॥
विश्वहितैकासङ्गसहान्तः करणकरण वसुपदम् इव परमां यो ऽधिप गृह्णातीह तवाख्यां तम् अभि कृति वसतिर् अपि भुवि सरसी
सिध्यति मज्जद्दिग्गजगण्डच्युतमदपरिमलसुरभितसरित् सारसहंस क्रौञ्चपदा ङ्कोत्कनककमलवनरणदलिपटला ॥
ध्वान्तध्वंसिन् माराराते हतवृजिन जिनतनयभूविभूषणम् उत्कृतौ प्रौढोन्मीलल्लावण्यश्रीः स्थितिजनक गिरि भवभिदाम् उदारपराक्रम
त्वय्य् आरब्धो वन्ध्याराधो विधुरयति वरद सुधियां विराजतया स्फुरन् भोगासक्तो ऽपीह स्वैरं विषमतमविषयतनुभृद् भुजङ्गविजृम्भि तम् ॥
तन्वत् सुस्फुटम् अविरतम् अमितम् अमृतरसकणम् इव परितो ऽङ्गेषु प्रत्यालोचनसमुदयि नवरसरसपदम् असदृशम् अतुलश्रीकम्
यत् कृच्छ्रैर् अपि न सुलभम् अपरविविधसुकृतविधिभिर् अभियुक्तात्मा त्वत्सेवातरुफलम् इह समनुभवति तद् अखिलविपद् अपवाहा ख्यम् ॥
चपलचरणपीडितागाधिपोपेतपातालतालूच्छलद्व्यालपलस्तुतं जयति जयति चारुकारुण्यकेलिस्फुरत्पद्मनर्तेश्वराकारलीलायितम्
अनिभृतभुजदण्डषण्डप्रचण्डानिलोल्लासितः श्रान्तिशान्तिं तनोतीव ते प्रलयसमयशङ्कया यत्र लोकत्रयी दण्डकश् चण्डवृष्टिप्रयातो ऽम्बुदः ॥
प्रतिपदम् इह जातशुद्धेः समाधेस् त्रयस्याक्षरस्याभिसंवर्धनाद् अन्त्यरूपस्पृशः समधिगमवशाज् जयत्य् आर्यवर्यैः प्रभूतप्रमोदैः प्रगीतः प्रभाप्रकर्षस् तव
वरद यदनुमोदनावादसाराविणातृप्तचित्तैः सुरैर् वाद्यमाना न यान्तिश्रमं अपरिमपरमोपकारोत्तम् अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥
मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0