वृत्तमालास्तुति · श्लोक 61-80
प्रविकिरतीव वियत्तरङ्गिणी तरलतरङ्गरुचो रुचां चयान्
विलसति शश्वद् असिर् दशान्तरे तव यमुना जलवीचिमेचकः ॥
*मनोहारिहारावलीरम्यरूपं क्व नाथेदृशं ते सुरूपाधिराज
क्व तच् चातिदुर्दान्तसत्त्वप्रशान्त्यै स्फुरद्भीमभूषा भुजङ्गप्रयातम् * ॥
अविरलमौक्तिकप्रकरभूषा हरति न कस्य चित्तम् इयम् ईश
सुरुचिरमल्लिकासमयसेव्य प्रति नवमालिनी व तव मूर्तिः ॥
तव नाथ परं यदि कान्तिसुधा जलधौ श्रमम् उज्झति झात्कृतिनि
शुभरूपनिरूपणलम्पटकं परि तो ऽटकम् अङ्ग जगन्नयनम् ॥
वरद विरतिभाञ्जि व्यक्तम् अङ्गान्य् अतिभव भविता नो ऽवश्यम् एव
तव वचनसुधायाः पानपात्रं श्रवणयुग पुटो ऽयं प्रीतिहेतुः ॥
वृणे वरम् इमं त्वद् एकम् अतुल प्रभाव भवतान् न मादृशजनः
भवन्तम् अपि यह् श्रयञ् छमसुधा रसेषु विरतिर् जडोद्धतगतिः ॥
त्वत्प्रसादसमुदीर्णशुभवशाद् अष्टभेदि सुखम् एव कृतिजनः
लोचनोत्सवविधासु तनुभृतां चन्द्र वर्त्म समुपैति भवभिदाम् ॥
सुखदुःखातिशयादिहेतुजातैर् अविलुप्तस्मृतयो भवन्ति भव्याः
तव पादाश्रयलब्धबुद्धिसाराः स कला याम् अपि वादिरा ज गत्याम् ॥
तव चरणपरिचरणरुचीनां किम् अपि सुखम् उदयति कृतिरूपम्
निखिलमलपटलविगमदीप्रं प्रथितगुण महितमति जगत्याम् ॥
कलधौतकान्तवपुर् उत्तमलीलः पटुभारतीवरटया वरिवस्यः
इह मञ्जुघोष इति वः प्रथितो व्याज् जिनमानसैकनलिनी कलहंसः ॥
विच्छेदस् त्रिषु यदि दुःसहेष्व् अमीषु क्लेशेषु स्फुटम् अणुशो ऽपि दुष्करः स्यात्
प्राप्येत क्व नु खलु नाथ मूर्तिर् ईदृक् त्रैलोकीनयनमनः प्रहर्षिणी ह ॥
पयोनिधौ विरतिम् अपां विधाय च स्फुरन्महाकिरणकलापरत्नधौ
भवादृशां वपुषि च कान्तिसंततिः समीक्ष्यते यदि रुचिरे यम् ईदृशी ॥
मन्द्रध्वानैर् यामृतधारास् त्वयि रम्या मुञ्चत्य् उच्चैर् विस्फुरति प्रीणितभव्ये
नाथान्वेति व्यक्ततयात्यन्तमनोज्ञं वर्षाम्भोदं सैव यतिर् मत्तमयूरम् ॥
जयतीयम् उत्पलतरोर् अनुत्तर त्रिजगत्प्रमोदजनने मधाव् इव
त्वयि नेत्रकान्त कुसुमोद्गता लता मधुमत्तभृङ्गरव मञ्जुभाषिणी ॥
सर्वातिशायिगुणनिर्भरलब्धमोदैर् विद्वन्मधुव्रतकुलैर् उपगीयमानम्
मन्यामहे जिननयाभरणं तवैव वृत्तं वसन्ततिलकं नवचूतम् एव ॥
संमुखवलन्मुखमृगाधिपतिपृष्ठा रूढम् अतिगाढदयम् अभ्युदयकन्दम्
सुन्दरिमबन्धुरितहेमहिमपादं वादिकुल दैवतम् अमन्दम् अभिवन्दे ॥
प्रशमितसकलप्रपञ्चनिरावृति प्रसरदमलधीसमाधिसुधाजुषः
दमयति भवतो हताहितविक्रमा मुनियतिर् अपराजिता भुवनत्रयम् ॥
प्रतिभयवपुषाम् अकरुणचरित प्रशमनविधये क्व चिद् अपि कृपया
तव भुजपरिघावलिर् अतिविषमा विलसति विविध प्रहरणकलिका ॥
श्रेयःसंभोगं विषयविरतिम् अव्यग्रां मारप्रध्वंसं त्रिभुवनहितसंपत्तिम्
दुष्प्रापाहार्यं पदम् अभिलषतां तच् च त्वद्भक्तेर् अन्या वरद न दिग् असंबाधा ॥
भवतः कलां किम् अपि संयतैर् इन्द्रियैः क्व चिद् आदरस्तिमितधीर् यदि ध्यायति
अचिरात् स्वयं वरयतीयम् एनं जनं वसुधा ध्रुवं जलधिशक्वरीभूषणा ॥
मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0