वृत्तमालास्तुति · श्लोक 41-60
रूपरसायनभावनया ते वासव एव परं बहुमान्यः
येन चिराय निरस्तनिमेषं लब्धम् अ दोधकम् अम्बकजातम् ॥
हक्त्यानतरत्नकिरीटचक्रैर् आबद्धकराञ्जलिभिः प्रहृष्टैः
धन्यैः सुचिरं चरणद्वयी ते वीतान्यविधेयम् उपस्थिते यम् ॥
किम् इन्द्रविभवैर् ब्रह्मश्रिया वा ततो ऽप्य् अतिशयिन्या संपदा किम्
प्रसिध्यति धियो ऽधीश प्रकामं त्वदङ्घ्रिकमलस्य् ओपस्थितं चेत् ॥
त्वत्संसेवाविमुखं जन्मदुर्गे कर्मक्लेशौ विवशं नाशम् अस्मिन्
संभूयालं नयतो ऽवश्यम् उग्रौ वातोर्मी पोतम् इवाम्भोधिमध्ये ॥
दूरदर्शिमनसाम् अनागसां कापि विस्फुरति चित्तसंततिः
निर्विरामतमम् आभवं भवत् पर्युपासनमनो रथोद्धता ॥
छेदे हृद्या विभ्रमाणां चतुर्णां तूर्णप्राप्ताव् आर्यसत्यामृतानाम्
पुण्यावस्था त्वत्कटाक्षेक्षने ऽपि प्रौढप्रज्ञा शालिनी काप्य् उदेति ॥
कीर्तिर् अर्तिकर्त्तरस् तव स्तव स्तोमसद्मनो ऽतिसद्मनोहृतः
सान्द्रचन्द्रचन्द्रिकार्द्रचन्दन श्येन्य् अलङ्करोत्य् अलं दिशो दश ॥
अभ्युद्गतानेकशिखाभिर् उच्चैस् त्वत्संश्रयाद् दुस्त्यजसत्त्वदृष्टिः
प्रध्वस्रम् अन्वञ्चति शैलमूर्तिस् तीव्र् एन्द्रवज्रा हतिदारितेव ॥
विरूढधर्माधिपभावभव्य प्रतुङ्गसिंहासनसंनिषण्णम्
उपासते कान्तिशिवाः शिवापत्य् उपेन्द्रवज्रा युधवेधसस् त्वाम् ॥
अनन्तरोद्भावितलक्षणाढ्यौ पादौ भवेताम् अपि गोचरौ ते
यासां दृशः श्रव्ययतिप्रपञ्चौ धन्याः सुराणाम् उपजातयस् ताः ॥
असंशयं त्वाम् अपरेषु सत्स्व् अपि प्रकामसर्वात्मगुणानुहारिषु
अनन्यसाधारणया धियाधिपा उशन्ति वंशस्थम् अनङ्गजिष्णवः ॥
बालाकृतिं कान्तविचित्रभूषणं हेमाभम् अक्षोभ्यसनाथशेखरम्
वागीश्वरं वाग्मतिमूर्तिभिर् नमे मौन् ईन्द्रवंशा भरानोदयश्रियम् ॥
अतिविस्तरैर् अपि गिरां सुगिरो गुणपारम् ईयुर् अधिनाथ न ते
निजमोदमात्रजननीति नुतिः प्रमिताक्षरा पि सुभगैव मम ॥
दीप्यमानाखिलालङ्कृतिश्लाघिनी पुण्यभाजां मुखाम्भोजलब्धोदया
भारती भारतीश स्वभावोज्ज्वला त्वाम् उपैति स्वयं सद्गुण स्रग्विणी ॥
भङ्गं नीतास् ते पञ्चबाणस्य बाणाः शान्तो द्वेषाग्निर् मोहजाड्यं निरस्तम्
नाथ त्रैलोक्यानुग्रहव्यग्रमूर्ते संपत् संप्राप्ता वैश्वदेवी त्वयैव ॥
संपूर्णो ऽन्तर् गुणगणरत्नैश् चित्रैर् अम्भोराशेर् यतिम् अतिधैर्याद् धत्से
संक्लेशाग्निप्रशमनसद्धर्माम्भो धारासारैर् जलधरमाला लीलाम् ॥
तव पुरः परमोत्तम संमताः प्रतिभया विकलाः प्रतिवादिनह्
सुलभमूकदशा बहु मन्यन्ते द्रुतविलम्बितम् अप्य् उदितं वचः ॥
त्रितयम् अपि पवित्रयन्ती जगत् तुहिनकरकरावदातद्युतिः
प्रभवति भवतश् च कीर्तिश् चिरं सुरगिरिशिरसश् च मन्दाकिनी ॥
हरति नितान्तम् इयं तव कीर्तिः कृतिहृदयानि दयानिजवास
प्रसवचयेन चितेव समन्ताद् दिशि दिशि कुन्दलता दलतालम् ॥
दलयत्य् उपात्तशोभासमवायो जगताम् अघानि को ऽप्य् एष कृपाब्धिः
बहुबुद्धकोटिनिर्माणपटीयान् धृतधर्मधातु वागीश्वरलीलः ॥
मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0