भाषा

ENहिગુ
ग्रंथ पाठ

वृत्तमालास्तुति · श्लोक 21-40

21

त्रिजगतो निजगतिं प्रथयतः पृथुधियः
करतलं तव चलत् किसलयं तुलयति ॥

22

साधिगमं समकालं तत्त्वरसेषु विधत्ते
विश्वम् अधीश्वर चित्रं चित्रपदा तव वाणी ॥

23

बृहत्यां विभूत्यां त एके पदन्यासम् आसादयन्ति
क्षणं यत्र ते लब्धलक्ष्यः कटक्षो ऽपि विश्रान्तिम् एति ॥

24

त्वद्दृशैव परिमलनाद् भव्यताम् इयम् उपगता
भाति भूमिर् इव जनता संतताहित हलमुखी ॥

25

वरद सा हि संजन्यते परिणतिस् तयास्यां यतः
वचनबीजम् उप्तं त्वया फलति शान्ति रूपं फलम् ॥

26

कलयितुम् इह कः शक्तस् तव खलु चरितानीश
सतमसि समये तोये भुजगशिशुसृता नीव ॥

27

किन्तूदस्यति धैर्यध्वस्री त्वत्कीर्तिश्रुतिजन्मानन्दः
स्वप्रौढिप्रतिपत्तिन्यस्तां लोकस्यानन मुद्रा म् ईश ॥

28

श्रीनिकेत लीलाचतुरं ते प्राप्तपार विद्याचरणानाम्
भाति वर्ष्म बुद्धात्मज पङ्क्तौ यद्वद् अम्बुजन्मस्व् अरविन्दम् ॥

29

त्वाम् उद्गीतकुलोदयशैलं प्रज्ञालोकम् उपायरथस्थम्
वन्दे जाड्यविखण्डनशौण्डं त्रैलोकी नलिनी सवितारम् ॥

30

बुद्धसुतानाम् अभ्युदयोर्वी भाति भृशं भूत्या तव नाथ
शैलविशेषस्येव शिखाभू रुक्मवती रत्नाङ्कुरकान्त्या ॥

31

निःशेषस् तव विजयध्वानं तन्वन् भ्राम्यति भुवनोद्द्योत
सानन्दः कृतिनिवहः स्वामिन् विष्वग् घोषण पणवो यद्वत् ॥

32

वादिव्रातप्रवरशिरोऽब्ज श्रीधाम्नस् ते गुणमधुयोगात्
धीमन् धीरान् अपि मादयन्ती त्रैलोकी वाग् विलसति मत्ता ॥

33

विश्वचक्रवर्तिनां जिनानां वंशभूषणे त्वयि स्फुटैव
म्लायतीव सा कुमारताख्या या मयूरसारिणी ष्यते तु ॥

34

नानारत्नमरीचिमालिनी प्रोन्मीलन्निजकान्तिसंपदा
प्रत्यङ्गं तव भूषणावली नीता शुद्धविराट् पराभवम् ॥

35

पातु जगत् तव तत्त्वनया ख्यानविधौ करवल्गितकम्
वादिपते व्यतिघट्टनतो वल्गुनिनादचलद् वलयम् ॥

36

रूपं ते गुणगणम् अथ कीर्तिं संवीक्ष्याखिलम् इदम् अतिशायि
बिभ्राणं निजविषयविश्रामं मन्दं त्रिष्टुभि जगद् उपजातम् ॥

37

तनुर् अतनुदयाद्रवोपम स्फुरदनुपमकान्तिसंततिः
जनयति भवतो न कस्य वा मुदम् अधिप समन्त भद्रिका ॥

38

शरदमृतकरकरश्रेणी समहिमगतमलगौरीयम्
गुणसमुदितिर् इव मुक्ताली विलसति हृदि भवतो वृत्ता ॥

39

गीयमानसुमनःसुमनस्वज् जातिकीर्तिविजयेव तवेयम्
भाति दूरततसौरभलोभ स्वागता लिपटलक्वणितेन ॥

40

स्फारामोदा मधुनिधिर् अधिकं चूर्णं चातुःसमं इव दधती
नीलाब्जश्रीर् दलसुखशयना संपर्याप्त भ्रमरविलसिता ॥

मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc