वृत्तमालास्तुति · श्लोक 1-20
वृत्तं समम् अर्धसमं विषमं चेत्य् आमनन्ति वागीशः
त्रिविधं परार्थविधये समासतो व्यासतो ऽनन्तम् ॥
प्रतिनियताकृतिरूढं वरमुनिभिर् यत्र नाम संगीतम्
छन्दः पदं च परमं स्फुरति यथाविविधविन्यासैः ॥
प्रतिरूपदर्शनाद् अपि शक्याः सकलक्रमेण गुरुलघवः
विगणयितुं धीमद्भिः किम् अपरम् अत्रानुयोगेन ॥
प्रभवतु विभ्रमहतये विचिन्त्यमानं तद् आदराद् भवताम्
सुकृतिमुखाभिजनानां वाचां निजम् एकम् आभरणम् ॥
धी गी[ः]-
श्री- णाम् ॥
निजै कभूः
विभा ति या ॥
तद्गुणा शंसिभिः
सेव्यते चानिशम् ॥
समाश्रय स्खलन्मलैः
सुरासुरा दिषूद्गतैः ॥
नैकभवीया भ्यासविवृद्धम्
बोधविशेषं साधु दधानैः ॥
गीता गायत्री व च्छन्दःस्व् आद्या सद्भिः
वृत्तं भावि श्रेयो यस्यां सद् वा वैश्वम् ॥
नीलोत्पलपाणेर् लीलानिलयस्य
शास्तुर् जयतीयं मूर्तिस् तनुमध्या ॥
प्रसीद भगवन् विलोकय मनाक्
जडं जनम् इमं त्वदेक शरणम् ॥
जाज्वलीति शासनं त्वां समेत्य सौगतम्
सूर्यधाम दुःसहं सातिरेकम् उष्णि हि ॥
दधत्य् अपि निकामं कुमारललितानि
तनुस् तव जिनानां कुमार ललितै व ॥
जायते जनराशेर् याम् अनुस्मरतो ऽपि
निर्धुताधरभावम् ऊर्ध्वगामि च रूपम् ॥
यद्गुणस्तुतिविस्तराद् अस्तसङ्गम् अनुष्टुभि
धीरम् एकम् उदीरयन्त्य् उत्तमं पदम् उद्गताः ॥
घोरमोहतामसाव रुद्धबुद्धिलोचनस्य
रत्नयष्टिदीपिकेव या समान्य् अभूज् जनस्य ॥
जगत्त्रयातिशायिनीं मुनीन्द्रसंपदं प्रति
स्फुरन्त्य् अशेषनायक प्रमाणिका पि सैव नः ॥
तीव्रक्लेशप्लोषध्वंस प्रौढे वंशे संबुद्धानाम्
धत्ते भूषां भातीयं ते ऽम्भोदे यद्वद् विद्युन्माला ॥
केतनदण्डं दधतो ऽध्यापयितुं नीतिम् इव
सद्गुरुलीला भवतो भाति जगन् माणवकम् ॥
मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0