वृत्तमालास्तुति · श्लोक 121-140
प्रविकचकनकपङ्केजसौभाग्यभा गङ्ग दत्तेन भावाश्रितेभ्यस् तमःसु त्रिभुवनशमविधानाय निर्वाणनीवृत् तमालाकृता व् आत्तभक्ते भवारौ
दशबलतनयवर्गाग्रिमेण त्वया नाथ निर्माथिदुःखापहेन स्तुतेन प्रचित इति शुभराशिर् महान् यस् ततः स्ताज् जनौघे समृद्धिः समग्रे ऽपि सैव ॥
अहम् अपि तव पादपद्माभिसंराधनाधीनधीसंनिरुद्धान्तरध्वान्तजातः समधिगतसमस्तवस्तूत्करव्यापिनैसर्गिकस्वप्नमायामयाद्वैततत्त्वः
अकरुणकरुणाबलावार्यवीर्योदयारब्धनानाविधव्यापृतिव्यस्तमारस् त्रिजगति परमोपकारैककृत्य प्रवृत्तश् चरेयं जनो यावद् एको ऽप्य् अमुक्तः ॥
स्फारफुल्लस्थलाम्भोजनिर्भासभृट्पादपीठान्तविश्रान्तकान्तामरव्यालदैत्येन्द्रचूलोपलार्चिश्चयो दुःसहोद्दामदुःखानलग्रस्तपर्यस्तशक्तित्रिलोकीविशोकीक्रियानिर्विरामश्रमाश्चर्यचर्यानिधिः
शुद्धसंबुद्धवंशावतंसप्रकाशस्फुरत्कीर्तिकिर्णान्तरालप्रसारः कुमारो जयत्य् एष वागीश्वरः सर्वदुर्वारमारप्रवीरध्वजिन्युद्धवध्वंसबद्धाभिरामा समप्रौढिनिर्व्यूढगाढ प्रतापोदयः ॥
प्रौढवरवज्रवनिताङ्गपरिरम्भविलसत्पुलकजालकजगज्जयतनुत्रं सान्द्रसवसास्रमधुपानमदमुक्तविकटाट्टहसितत्रसदशेषसुरदैत्यम्
गाढविनिगूढदयविस्मयमयाप्रतिमरौद्रतनुम् अद्वयमहार्णवनिमग्नं शुद्धगुणधाम करुणाबलम् उदारनवनाट्यरसवल् ललित वृत्तम् अभिवन्दे ॥
इदम् अर्धम् अबालशशिप्रभं बालरविप्रभम् आदधद् अर्धम्
करुणावशवर्ति भवद्वपुः कस्य मनो न करोत्य् उपचित्रम् ॥
तत्त्वसुधारसतृप्तिविशेषात् सकलसमीहितसिद्धिवशाद् वा
त्वच्चरणानुभुवा भवितव्यं भवमथनश्रुत न द्रुतम् अध्या ॥
किम् उशन्ति बुधा अधिकं विभो यदि जनीय तदीयतनुर् भवेत्
तव दृष्टिसुधारसधारया स्फुरितहाररुचा हरिणप्लुता ॥
इयम् उरुकरुणारसा मुखश्रीः समधिगता निजधीश्रियो रसेन
स्फुरदधरदलाभिहारिहेमा म्बुजकलिकेव विभाति पुष्पिताग्रा ॥
मुखम् इदम् अपरं तवोत्पल प्रकररुचाम् इव भाति संचयः
समुदितम् इव कैरवश्रिया हरति मनो ऽ परवक्त्रम् इव ॥
इदम् अर्धसमं समीक्ष्यते ते बत वृत्तं जयिनो जगत्त्रयस्य
क्व चिद् अर्थविधौ विधूतविश्वा शिशुलीला ललितापि यत् तवेयम् ॥
पदम् एकम् अवेक्ष्य ते क्षणं प्रसभाक्रान्त जगत्त्रयीशिखम्
कथम् अस्तु न विश्वभारती निजदासीव तव प्रियंवदा ॥
स्वरसोपनतां शमशय्यां किं नु विधूय धियो ऽप्य् अतिदुर्गैः
अतिचित्रचरित्रशतैस् ते वेगवती करुणा यदि न स्यात् ॥
सर्वातिशयस्य धाम धाम्नः सर्वाङ्गीणसुलक्ष्यलक्षणश्रीः
लोकस्य गतापि हि स्मृतिं ते भद्रं भद्रविराट् तनुस् तनोति ॥
परितः स्फुरद्भिर् अभिरामैर् अंशुमयैः परार्थपरमार्थैः
पविपद्मखड्गमणिचक्रैः केतुमती विभाति तव मूर्तिः ॥
चैत्तमात्रभावभाजि भाव्यते क्व परा परार्थसंपद् ईदृशी दयायाम्
सेयम् एतदाकृतिच्छलाद् अतो ऽव यवध्वनेर् मतुप्स्त्रिया समाभिधाना ॥
उदयदरुणकिरणनिकरपरिकर कनकमयविमलहिमकरजयनी
जयति निखिलजगदभिरतिकृतिपटुर् अतिभव तव तनुर् इयम् अतिरुचिरा ॥
त्रिभुवनदुरधिगमचरणपरिचरणगुरुविभवभगवदसितसुगत प्रतिकृतिसचिवविमलमणिनिचयखचितसुपरिघटनगुणवसतिः
जिननयगदनरवलयलवसमनुकृतिरसिकनिभसुरभिसुरसुमनः परिमलमिलदलिकुलकणितनिधिर् अधिगमजलद जयति तव शिखा ॥
समुदयदिशि समुपनतरुचिषु विविधसमुदयकरणम् अभिदधती प्रशमसुखरसरसिकमतिषु निरुपमशमसुखपथकथनपृथुनिरतिः
अपरिमितसुकृतफलम् अधिप तव जयति सकलजिननयनयनगीर् ऋजुमतिषु नियतम् ऋजुर् अमृतकुट कुटिलमतिषु निरतिशय कुटिलपदा ॥
आख्यानिके यं भवतो गुणानाम् इति स्तुवंस् त्वाम् अभिमन्यते यः
नूणं स गण्डूषजलोपयोगान् मया निपीतो ऽम्बुधिर् इत्य् अवेति ॥
अपि त्व् अशेषस्मरवैरिणाम् अप्य् आख्येयताख्यातिम् अनाश्रितेषु
गुणेषु ते नाथ वृथाभिमानस्य आख्यानिका सौ विपरीतपूर्वा ॥
मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0