भाषा

ENहिગુ
ग्रंथ पाठ

वृत्तमालास्तुति · श्लोक 141-154

141

अष्टाभिर् अक्षरैः पादो ऽसोढस् तद्गाढमज्जनाद् अनुवृद्धैः
गुणसागर सागरैर् अपूरिताङ्गुरीगर्तो विषमं दशान्तरे दया पदचतुरूर्ध्वं नयति भावम् ॥

142

इति निगदितजातौ कृतविषमचरणरचनायाम्
लघुगुरुनियतिभृति भयम् अयति को न भवसि न यदि नियतम् अभिविधिवचनम् अनु पीडः ॥

143

सुचिरनिहितहितमतिकन्दाङ् कुर इव तव भाति
विषमजनदमनघटितविकटमूर्तेस् त्रिपुरहरमुकुटमणिसदृशदशन कलिके यम् ॥

144

प्रसरदुरुदहनघनघोर च्छटम् इव गगनतलम् अनवधि दधाना
प्रसभम् अभिमुखं ते प्रशमयति शमनम् अपि नयनवलन लवली ला ॥

145

मृदुजनम् अनु पुनर् इयम् एव प्रशमितसकलकटुकलुषविषराशिः
प्रतिमुहुर् अभिनवम् अतुलसुखनिधिम् उपनयन्ती नियतम् अमृतधार ॥

146

तडितोज्ज्वलं जलदराशिम् अनिशम् उदभारबन्धुरम्
घोरघनरसितम् ईश तनुः कृपया कुतो ऽपि जयतीयम् उद्गता ॥

147

अत एव दुष्करतराणि विलसितशतानि तन्वतः
ह्लादयत्य् अखिललोकम् इदं पटुकीर्ति सौरभकम् अद्भुतं तव ॥

148

भृकुटीकटाक्षदशनेषु किम् अपि विकृतानि बिभ्रतः
दमयति तव भुवनानि वपुर् ललितं च किं तु विकटं यद् ईदृशम् ॥

149

प्राग्भारातिशये ऽपि तादृशे ऽद्भुतभीमे भुवनाहितहतये समं समन्तात्
मरुद् अनतिशयरयः प्रचुपितम् अपि तव न समेति सलीलम् ॥

150

किं भूयो भगवन् भवन्तम् अश्रयम् आप्तः स्थितभारम् अतुलम् आर्षभं दधानम्
तच् छुद्धविराड्विशेषणम् ह्य् अपरविषमशिरसि पदं विनिधत्ते ॥

151

आराध्येति भवन्तम् आश्रयैकसमृद्ध्या कुशलं यद् अमलम् अस्ति वर्धमानम्
तत् इदम् अखिलम् उदञ्चतु भुवनम् उरुपदं त्वदभिमतम् अतिविविधवृत्तविशेषैः ॥

152

अपि च प्रचयेन भूयसा कुशलस्यास्य निकमनिर्मलस्य
विगलतु सकलस्य देहिनो भवरजनीप्रभवान्धकारराशिः ॥

153

किं च प्रौढप्रज्ञाप्रेयस्य् अलिङ्गेन् आनङ्गक्रीडम्
उडुपतिरुचिरनिचयमयम् इव वपुर् अनतिशयकरुणम् इह वहद् अनुभवतु ॥

154

विचित्रवृत्तैर् इति वर्णनेन यद् आचितं चन्द्रकरामलं शुभम्
ततो ऽस्तु लोकः परिमुक्तशोकः स्फुरन्महासौख्यशिखासखीवरः ॥

मूल पाठ: Vṛttamālāstuti · Edition: M. Hahn: "The Sanskrit Text of Jñānaśrīmitra's Vṛttamālāstuti", in: Bauddhasāhityastabakāvalī : Essays and Studies on Buddhist Sanskrit Literature Dedicated to Claus Vogel by Colleagues, Students, and Friends, ed. by Dragomir Dimitrov, Michael Hahn and Roland Steiner. Marburg 2008 (Indica et Tibetica 36), pp. 93-170. · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc