विवाहपटल · श्लोक 61-80
पाणिग्रहम् एत्य जये जघन्यकुलजापि भर्तुर् ऐश्वर्यम्॥
आवहति सदा कन्या निषेव्यमाना सपत्नीभिः।
विजयां प्राप्योद्वाहं प्राप्नोति सुतान् यशो ऽर्थलाभं च॥
वंशस्य च प्रतिष्ठां परतो मरणाच् च सुरलोकम्।
व्याले व्यालाकारा पाणिग्रहम् एति कन्यका दैवात्॥
दारिद्र्यामययुक्ता नैकस्मिन् पुंसि सा रमते।
पातालनामनि गता पाणिग्रहणे च पञ्चमान् मासात्॥
सा प्राप्य दोषम् अतुलं परः प्राणान् परित्यजति।
क्षयम् आसाद्योद्वाहं कन्या पक्षद्वयात् पतिं हत्वा॥
नीचेन तु सह भर्त्रा क्षपयति जाराग्निना गोत्रम्।
पाणिग्रहस् तमसि चेल् लक्षणगुणवित्ततो ऽपि सम्पन्ना॥
सप्तति रात्रात् क्षपयति यद्य् अपि जाता सुरेन्द्रेण।
यदि खलु कृतान्तयोगे परिणयम् आयति कन्यका दैवात्॥
सा श्वसुरबन्धुवर्गं क्षपयत्य् अचिरेण कालेन।
आत्मोपेक्षकपोषकवधका इति राशयो ऽर्थतो ऽभिहितः॥
एभ्यः शुभम् अशुभं वा निर्देश्या जन्मलग्नाभ्याम्।
आत्मेति जन्मलग्नं पञ्चम नवमं च कीर्तितं तस्मात्॥
द्विषट्कदशमभवनम् उपेक्षकाख्यं विनिर्दिष्टम्॥
दुश्चिक्यं जामित्रं चैकादशकं च पोषकं ज्ञेयम्॥
द्वादशनिधनचतुर्थं वधकाख्यं शास्त्रनिर्दिष्टम्।
हित्वा शशाङ्कं यदि सप्त सौम्यैः पञ्चाशुभैः किं कथिता न सप्ता॥
द्वित्र्यादियोगान् परिहृत्य कस्मान् नोक्तं शतं त्रिघनं विलग्ने।
देशाचारस् तावद् आदौ विचिन्त्यो देशे देशे या स्थिति सैव कार्या॥
लोकद्विष्टां पण्डिता वर्जयन्ति दैवज्ञो ऽपि लोकमार्गेण यायात्।
बृहस्पतौ गोचरशोभनस्थे विवाहम् इच्छन्ति च दक्षिणात्याः।
रवौ शुभस्थे च वदन्ति गौडा न गोचरो मालवके प्रमाणम्॥
हरौ प्रसुप्ते न च दक्षिणायने न चैत्रमासे न च पुष्यसंज्ञिते।
तिथौ च रिक्ते शशिनि क्षयङ्गते रवीन्दुभौमार्किदिनेषु चाशुभम्॥
व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतिम्॥
तद् अपि स्फुटपातदर्शने द्विगुणं यदि वा न निश्चितम्।
व्यतिपातव्याघातः षष्ठे दशमे च वैधृतं धिष्ण्ये॥
विक्षोभणगण्डान्ताव् अतिधृतिसंख्ये च व्याघातः।
तद् इदं व्यतिपातं च कथयन्ति उत्तरदिक्स्थिताजनाः॥
व्यतिपातवद् आकुलस्थितं बहुसिद्धान्तविशेषकारणे।
तथोत्तराः साकलसन्निकृष्टा माण्डव्यमातीयतुसार्द्धकेषु॥
खशेषु हूणेषु न बाह्लिकेषु वा न, काणदेशेषु न गोपभोजाः।
एकादशोक्तानि शुभानि भानि शेषाण्य् अनिष्टानि विवाहकाले॥
तत्राग्नि [उ. तत्रापि] तारा शशिवीर्ययुक्ता त्रिंशन् मुहूर्ताश् च विचिन्तनीयाः।
तुलाधरस्त्रीमिथुनाद् विवाह [उ. विहाय] लग्ने स्थिता पापफला न चान्ये॥
त्रिंशांशकद्वादशभागभेदैर् द्रेष्काणहोराप्रमुखैर् विचिन्त्यः।
मूल पाठ: Vivāhapaṭala · Edition: of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.] · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0