विवाहपटल · श्लोक 41-60
अनिष्टस्थानसंस्थो ऽपि प्रशस्तफलदः शशिः।
सौम्यभागे ऽधिमित्रण [उ. ऽधिमित्रेण] बलिना चेन् निरीक्ष्तः॥
नरग्रहबले स्त्रीणां पुमान् भवति बल्लभः।
विपरीते ऽङ्गना भर्तुर् अर्थाद् अन्यत् प्रकल्पयेत्॥
शुक्रसूर्यास्तपतिषु शत्रुभे वा तदंशके।
विरोधमूढा यात्य् आशु श्वस्रुश्वसुरभर्तृषु॥
विलग्नांशः स्वनाथेन यद्य् उद्वाहे न दृश्यते।
पुंविनाशस् ततो ऽस्तांशे यद्य् एवं योषितस् तथा॥
गुरुसितयोर् उच्चगयोर् एकतमे वा विलग्नगे कन्या।
राज्ञि भवत्य् असंशयम् एव गुरुसौम्ययोश् चोढा॥
स्वजामित्रोदये लग्ने शुभे कार्या चतुर्थिका।
स्ववर्णसदृशा जारास् त्र्याद्यैर् एकर्क्षसंस्थितैः॥
चरभवनगतं विहाय सत्यः शशिनम् उवाच शुभप्रदं विवाहे।
मुनिवचनविरोधि तच् च सूत्रे न तु कथिते पवनर्क्षवैश्वदेवे॥
राश्युद्गमद्वादशराशिचक्रे युक्ता विवाहा मुनिभिः प्रदिष्टा।
नामानि चक्रे ग्रहयोगलग्ने श्रीदेवकीर्तिः शृणु तस्य च ऽऽर्या॥
नन्दो भद्रो जीवो जीमूतः स्थावरो जयो विजयः।
व्यालो रसातलमुखः क्षयस् तमो ऽन्त्यो विवाहगणः॥
सौम्ये विलग्ने नन्दः शुक्रे भद्रस् तथा गुरौ जीवः।
आद्यन्तौ जीमूतः स्थावर इति मध्यमान्त्याभ्याम्॥
सौम्यैर् अथ तैर् वा रविभौमशनैश्चरैः क्रमशः।
सौम्यैः ज्ञेया सौम्या क्रूराः क्रुरैः [उ. क्रूरैः] समाख्याता॥
दिनकरयोगाद् व्यालो भौमेन रसातलः क्षयः शनिना।
तमसा तमो निरुक्तो ऽथान्त्ये केतो [उ. केतोर्] कृतान्तश् च॥
त्रिषु नन्दादिषु राज्ञी चतुर्षु चातः परं महादेवी।
व्यालाद्येषु च पञ्चषु विधवाः शोच्या दरिद्राश् च॥
अनधिकृतः शुभकृत् स्याद् एते [उ. एतैश्] चन्द्रो ऽन्यथा ऽधिकृतः।
तस्मात् विवाहसमये न केन चित् सङ्गतः शशी धन्यः॥
सप्त ते शशियोगा सौम्या [उ. सौम्यैः] सह सर्वकर्मसिद्धिकराः।
अशुभफलदास् तु पापैः पत्युद्वहने विवर्ज्यास् ते॥
तस्माद् एतान् योगान् मतिमां[सिच्.] सञ्चिव्त्य [उ. युञ्जीत] सर्वकार्येषु।
ऊढा नन्दे कन्या देवीशब्दं समाप्नुयाद् अचिरात्॥
भवति नरेन्द्रजननी भर्तुः प्राणैः प्रिया चैव।
भद्रे पाणिग्रहणे यदि नाम कुमारिका समुपयाति॥
सा त्वरितान् नृपशब्दं करोति भार्तुः कुलस्यापि।
परिणीता जीवाख्ये कन्या विजयाय कीर्त्यते भर्तुः॥
प्राप्नोति सा त्रिवर्गं कुलद्वयं चापि नन्दयति।
जीमूते परिणीता विपुलान् भोगान् महाफलान् भुक्त्वा॥
दृष्द्वा च नप्तृतनयान् सहभर्ता देवत्वम्।
स्थावरयोगे कन्या पाणिग्रहम् एत्य विपुलम् ऐश्वर्यम्॥
भर्तुर् निधानलाभान् प्राप्य कुलस्योन्नतिं कुरुते।
मूल पाठ: Vivāhapaṭala · Edition: of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.] · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0