विवाहपटल · श्लोक 81-91
मासे नाष्टाउ विष्टिदुष्टानि भानि तत्राप्य् एके रात्रिम् आहुर् दिनं च॥
तिथ्यर्द्धे ऽन्त्ये प्राप्तिनाशौ च विष्टे [उ. विष्टेः] चान्द्रं मानं विष्टिहेतु न शेषम्।
प्राच्याः प्रायोः न्यूनवर्णाः सगोपाः संध्याकालं प्राहुर् इष्टं न शेषम्॥
यावच् छान्तं गोरजो नाभ्युपेति तावत् तेषां चित्तशुद्धिर् विवाहे।
गोपैर् यष्टयाहतानां [उ. यष्ट्याहतानां] खुरपुटदलिता या तु धूलिर् दिनान्ते
सोद्वाहे सुन्दरीणां विपुलधनसुताश् चायुरारोग्यसंपत्॥
तस्मिन् काले न च र्क्षं न च तिथिकरणं नैव लग्नं न योगः
ख्यातः पुंसां सुखार्थं शमयति दुरितानि उत्थितं गोरजस् तु।
कुलस्य देशस्य च चित्तवृत्तिर् न खण्डनिया [उ. खण्डनीया] विदुषा कदाचित्॥
दोसः प्रतिस्यायकृतो ऽपि यो ऽत्र संभाव्यते ज्यौतिषिकस्य सो ऽज्ञैः।
शास्त्रशरीरम् अबुध्वा बहुधा जल्पन्ति यद्य् अपि नानुमतम्॥
काणानां विषयगतः प्राज्ञो निमिलयेन् नेत्रम्।
एवं विवाहसमये गमने प्रवेशे कार्येषु मङ्गलयुतेष्व् अथवा परेषु॥
दोषं कुशिक्षितकुदैवविदो वदन्ति रागेण वा पटुधियो नमो ऽस्तु तेभ्यः।
गोचरशुद्धाव् इन्दुं कन्याया यत्नतः शुभं वीक्ष्य॥
तिग्मकिरणश् च पुंसः शेषैर् अवर्णैर् अपि विवाहः।
न सकलगुणसंपल् लभ्यते ऽल्पैर् अहोभिर् बहुतरगुणयोगं योजयेत् मङ्गलेषु॥
प्रभवति न हि दोषो भूरिभावे गुणानां सलिललव इवाग्नेः संप्रदीप्तेन्धनस्य।
गुणशतम् अपि दोषः कश्चिद् एको ऽपि वृद्धः क्षपयति यदि नान्यत् तद्विरोधिगुणो ऽस्ति।
घटम् अपि परिपूर्णं पञ्चगव्यस्य शक्त्या मलिनयति सुराया बिन्दुर् एको ऽपि सर्वम्॥
कृतकौतुकमङ्गलो वरो मधुपर्काद्यशनाद् अनन्तरम्॥
ज्वलिताग्निसमक्षमङ्गलं यद् अवाप्नोति शुभाशुभं च तम्॥
चक्रे वराहमिहिरः प्रणिपत्य साधून् सम्यक् विवाहपटलं पृथुतां विहाय।
पूर्वं च यद् युवतिजन्मविधौ मयोक्तं संचिन्त्य तच् च सदसत्परिकल्पनीयम्॥
मूल पाठ: Vivāhapaṭala · Edition: of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.] · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0