भाषा

ENहिગુ
ग्रंथ पाठ

विवाहपटल · श्लोक 21-40

21

प्रीतिर् जन्मसु तारकासु परतः सञ्ज्ञानुरूपं फलम्।
चन्द्रे चोपचया ऽऽद्यसप्तमगते सौभाग्यसौख्याप्तयः॥

22

नक्षत्रतुल्यं फलम् आह गर्गः क्षेणेषु नक्षत्रपसञ्ज्ञितेषु
हारीतबभ्रू द्विजदेवलश् च विष्टि विना ऽन्यत् करणं प्रशस्तम्॥

23

तिथिदिनकरणर्क्षलग्नवीर्यं परिचयम् आह पराशरः क्रमेण।
तिथिर् इति बलबान् वदन्ति गर्गाः करणबलाद् दिवसो ऽपि भागुरिश् च।
दिनकरणबलाद् भृगुर् भवीर्यं बलम् उदयस्य जगाद जीवशर्मा॥

24

करणभतिथयो ऽर्धभुक्तभोगाः स्वफलकरा न भवन्ति तत्र साम्ये।
करणतिथिवासरोदयानां चरणविवृत्थिर् अनुक्रमात् फलानाम्॥

25

षट्काष्टके मरणवैरवियोगदोषा द्विर् द्वादशे निधनता ऽप्रजाता त्रिकोणे।
प्रीतिः परा निगदिता समसप्तकेषु शेषेष्व् अनेकविधसौख्यसुतार्थसंपत्॥

26

षट्काष्टके ऽपि भवनाधिपम् एव भाव
एकाधिपत्यम् अवलोक्य च वश्यराशिम्।
कार्यो विवाहसमयः शुभकृत् सदुक्तः
स्तारा [उ. तारा] भवेद् यदि परस्परतो ऽनुकूला॥

27

दारिद्रयं [उ. दारिद्र्यं] रविणा कुजेन मरणं सौम्येन नस्युः प्रजाः
दौर्भाग्यं गुरुणा सितेन सहिते चन्द्रेण सापत्निका।
प्रव्रज्यार्कसुतेन सेन्दुजगुरौ वाञ्छन्ति केचित् छुभम्
व्याध्यैर् मृत्युर् अणंग्रहैर् [उ. असङ्ग्रहैर्] बहुविधा दीक्षा प्रवासाः शुभैः॥

28

क्रिये कुमारेष्व् अनुरक्तचित्ता विहीनवित्ता गवि गोव्रता च।
कुलद्वयानन्दकरी तृतीये कुलीरलग्ने कुलटा नृशंसा॥

29

हरौ प्रसूता सकृद् आश्रिता पितुः पतिप्रिया ऽति श्वशुरस्य षष्ठभे।
तुलादिमानार्थवती तुलाधरे तथालिनि क्रन्दति नित्यम् अस्थिरा॥

30

धनुषि कुलटा तत्पूर्वार्द्धे सतीत्य् अपरे जगुः।
मृगझषघटेष्व् अन्याशक्ता जराम् उपगच्छति॥

31

द्विपदभवनप्रापी यो ऽंशः स शुभो ऽन्यगृहोदये।
द्विपदभवनेष्व् अप्य् अन्यांशा न भवन्ति शुभावहा॥

32

भानुर् मृत्युर् न बहुधनतां भर्तृदायाद् अवित्तं [उ. वित्तं] बन्धुध्वंसं तनयविरहं भर्तृवृद्धिं परां च।
वैधव्यं स्यान् [उ. प्राक्] न लघुमरणं धर्महानिं विशीलं लाभानेकान् व्ययम् अपि ददात्य् उद्गमर्क्षात् क्रमेण॥

33

शशिन्य् अश्वा सार्था तद् अनु शुभता बान्धवहिता विपुत्रा बन्ध्यार्ता भवति ससपत्ना [उ. सपत्ना] ऽऽशुनिधना।
जनित्री कन्यानाम् अथ विहतकर्मा ऽतिधनिनी व्ययाशक्तेत्य् एके जगुर् अशुभदा बन्धुषु जले॥

34

मृत्युर् नैःस्वं सार्थता बन्धुवैरं न स्युः पुत्रा भर्तृवृद्धिं कुमैत्रीम्।
रक्तस्रावो नानुकुल्ये च भर्तुः क्रव्याच्छैल्यं स्वाप्तिनाशं च भौमे॥

35

भर्तृव्रता सुगृहिणी पतिपक्षपूज्या बन्ध्वर्चिता बहुसुता विजितारिपक्षा।
बन्ध्या व्यसुर् नियमदानकृशाङ्गवित्ता मायावती धनवती व्ययनीय [उ. व्ययनी] सौम्ये॥

36

पत्युः प्रिया ऽति धनिनी मुदिता धन्याढ्या पुत्रान्विता हतपरा न समेति भर्ता।
क्षीणायुषा शुभरता शुभसिद्धकार्या स्वायान्विता तदुभयोपकृता च जीवे॥

37

प्रिया पत्युर् लुब्धा पतिसहजशक्ता कुलहिता
सुपुत्रा वैराढ्या तद् अनु कुलटा क्षिप्रनिधना।
रता नित्यं धर्मे बहुकुशलकर्मण्य् अभिरता
भवत्य् आयप्राया क्षपितविभवा चेति भृगुणा॥

38

पुंश्चल्य् अस्वा बहुधनवती स्वल्पदुग्धार्कपुत्रे
हृद्रोगाऽऽर्ता विनिहतपरा गर्भविस्रावशीला॥
रोगान् मुक्ता स्खलितनियमा पापशीला ऽतिवित्ता
पानैर् अर्थान् नयति विलयं प्राविलग्नात् क्रमेण॥

39

सौम्या व्ययास्तनिधनं त्र्यरिभं च शुक्रे [उ. शुक्रः] हित्वा स्थितस् त्रिधनलाभगतः शशाङ्कः।
पापा त्रिषड्निधनलाभगता विवाहे हित्वा ऽष्टमं क्षितिजम् इष्टफलानि दद्युः॥

40

सुतहिबुकवियद्विलग्नधर्मेष्व् अमरगुरुर् यदि दानवार्चितो वा।
यद् अशुभम् उपयाति तच् छुभत्वं शुभम् अपि वृद्धिम् उपैति तत्प्रभावात्॥

मूल पाठ: Vivāhapaṭala · Edition: of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.] · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc