भाषा

ENहिગુ
ग्रंथ पाठ

विवाहपटल · श्लोक 1-20

1

अज्ञातमध्यान्तसमुद्भवाय सर्वात्मने सर्वगताय तस्मै।
प्रणम्य देवाय मनोभवाय खलीकृतं येन जगत् समग्रम्॥

2

प्रजापतिर् मन्मथ एव यस्मात् कामाद् विना न प्रभवः प्रजानाम्।
महत्सु सूक्ष्मेषु च सो ऽस्ति देवः सर्वात्मकः सर्वगतश् च यस्मात्॥

3

यस्मात् परन् नापरम् अस्ति किञ्चित् सौक्ष्म्यान् महत्वाच् च यतश् च नान्यत्।
तेनेदम् एकेन मनोभवेन व्याप्तं जगच् छाऋङ्गभृतेव सर्वम्॥

4

अगम्यगामी भगवान् प्रजेशः श्रोणीसहस्राङ्कतनुश् च शक्रः।
चतुर्मुखो येन कृतश् च शम्भु समन्मथो मङ्गलम् आदधातु॥

5

भगवान् अपि शार्ङ्गरथाङ्गधरो भगवत्(त्)वम् अवाप यतः।
बहवो ऽस्य भगा इति तेन कृतं भगवान् इति नाम जगत् प्रथितम्॥

6

सीतावियोगेन बहुनि दुःखान्य् आप्तानि रामेण सलक्ष्मणेन।
तानीह संस्मृत्य कलौ सहस्राण्य् अष्टौ तथाष्टौ च विवाहितानि॥

7

दुर्भगास् तनयवर्जिताश् च या निःस्वसन्ति वनिताः पतिव्रता।
ताः कुदैवविनिपातयन्त्रिता नान्यजन्मजनितैः सुदुस्कृतैः॥

8

सुरभिकुसुमगन्धैस् तर्पयित्वा द्विजेद्रान् शुभतिथिदिवसर्क्षे दैववित्संप्रदिष्टे।
उभयकुलविशुद्धे ज्ञातशीले सुरूपे प्रथमवयसि दद्यात् कन्यकां यौवनस्थे॥

9

पुष्ये दिवसे ऽथवा क्षणे वैवाह्येषु च भेषु कारयेत्।
घटकारमृदा सुलक्षणाम् इन्द्राणीं कुशलेन शिल्पिना॥

10

कुसुम्भरक्ताम्बरभूषणोज्ज्वलाः साध्व्यः सुरूपाः सुभगाः कुलोद्भवाः।
नदीं नयेयुः सरो ऽथवा तटं कन्याम् अलङ्कृत्य सहेन्द्र जायया॥

11

सूर्पेणदिक्षु प्रमदा बलिं ता दत्वा सकालीयकगन्धदिग्धाम्।
कुसुम्भरक्ताम्बरवेष्टिताङ्गीं शचीसकाशं प्रमदा नयेयुः॥

12

दध्योदनेन हविषा मधुना च कन्या संपूज्य शक्रदयितां च सलोहस्ता [उ. सलोहहस्ता]।
तूष्णीं प्रणम्य शिरसा गृहम् एव यायाद् देवीं प्रगृह्य मुदिता नियतैश् च केशैः॥

13

गृहे स्तितां [उ. स्थितां] तां पुरुहूतपत्नीं प्राङ्मध्यास्तमयेषु कन्या।
स्रग्गन्धधूपैः प्रतिपूजणेच् [उ. प्रतिपूजयेच्] च पाणीग्रहं यावद् उपागतेति॥

14

रत्नानीन्दुकरः स्रजः शुभगता हर्म्योत्पलान्य् आसवः
तांबूलं प्रवराम्बराणि रुचिरं गीतं विभूत्यश् चया।
यस्मान् न स्त्रियम् अन्तरेण हि नृणां सर्वाण्य् अभिप्रीतये
तस्माद् वच्मि तदाप्तियोग्यसमयो धर्मार्थकामाय च॥
उक्तं जन्मनि यत् तद् एव भविता यद्य् अङ्गनानां फलम्।
व्यर्थो न त्व् अयम् आदरं परिणये तत्काललग्नादिगः॥

15

अज्ञातं प्रथमं प्रधानम् अपरं तद्व्यञ्जकं योषिताम्।
उद्वाहे नियति नयत्य् अतिबलाद् वेलासमायुक् फलैः॥

16

वात्स्यो वर्षम् अनोजम् इच्छति तथा एभ्यो जनश् चोत्तरं
स्त्रीणां मानम् [उ. नामम्] ऋतुं विहाय मुनयो माण्डव्यशिष्या जगुः।
चैत्रं प्रोज्झ्य पराशारो कथयते दुर्भाग्यदं योषितां
आषाढादिचतुष्टयेन शुभदं कैश् चित् प्रदिष्टं द्विजैः॥

17

श्रेष्ठं पक्षम् उषन्ति शुक्लम् असितस्याद्यं त्रिभागं तथा।
रिक्तां प्रोज्झ्य तिथिं तथा त्व् अयनयोः सन्धिं च शेषाः शुभाः॥

18

आग्नेयग्रहवासरेषु कलहः प्रीतिस् तु सत्सूत्तमान् [उ. सत्सूत्तमा]।
कैश्चित् स्थर्यम् उषन्ति सौरदिवसे चान्द्रे समापत्निकम्॥

19

मृगशिरसि मघायां हस्तमित्रोत्तरासु स्वसननिरृतिपूषाधातृदेवेषु चोढा।
बहुसुतशुख [उ. सुख]दासीवित्तसौभाग्ययुक्ता जनयति परितोषं कन्यका बान्धवानाम्॥

20

आर्द्राद्ये भचतुष्टये विधवता साग्नेययाम्ये स्मृता।
शेषेष्व् अक्षयदोषशोकमरणं व्याध्याद्यनिष्टं बहुः॥

मूल पाठ: Vivāhapaṭala · Edition: of Deviprasada Lamsala, Vivahapatalam, Rastriya Abhilekhalayata, 2035 with reference to Utpala's commentary [marked by U.] · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc