भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 9

9.1

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रथमेष्टकाविधिर्नामाष्टमो ऽध्यायः
नवमो ऽध्यायः
नवमो ऽध्यायः विष्वक्सेनः---
अथातः संप्रवक्ष्यामि बालस्यानविधिं परम् ।
प्रथमं च द्वितीयं च (?) संक्षेपाच्छृणु नारद

9.2

महाविमानाभिमुखं नातिदूरसमीपगम् ।
प्रासादस्याग्रतः कुर्यात् देवस्य तरुणालयम्

9.3

महागेहाभिमुखो (गेहमुखं यद्वा?) पूर्वद्वारे तु कल्पयेत् ।
प्रासादाभिमुखाभावे दक्षिणे चैव कल्पयेत्

9.4

उत्तरे वा मुनिश्रेष्ठ सोमेशानान्तरे ऽथ वा ।
ईशाने वाप्यभावे तु कल्पयेत्तरुणालयम्

9.5

राष्ट्रवृद्धिकरं पूर्वे धनधान्यसुखप्रदम् ।
ग्रामराष्ट्रस्य वृद्धिः स्याद्दक्षिणे मुनिसत्तम

9.6

ब्रह्मऋद्धिकरं सोमे पुत्रपौत्रसुखावहम् ।
दुर्भिक्षभयनाशार्थं सोमेशानान्तरे मुने

9.7

ईशाने तु भवेत्तस्मिन्(त्तच्च?)ग्रामायतनऋद्धिकृत् ।
प्रासादे पश्चिमद्वारे बालस्थानं तु पश्चिमे

9.8

दक्षिणादिक्रमं तस्मिन् (?) सर्वं पूर्ववदाचरेत् ।
मूलस्थानस्य देशं च गृहीत्वा तदनन्तरम्

9.9

प्रथमं स्यान्मुनिश्रेष्ठ कल्पयेत्तरुणालयम् ।
इष्टकाभिर्मृदा वापि कारयेच्छास्त्रचोदितम्

9.10

षट्पञ्चसप्तहस्तं वा नवहस्तमथापि वा ।
संज्ञात्वा साधकस्तस्मिन् यजमानेच्छया कुरु (?)

9.11

गर्भमानत्रिभागैकं द्वारमांन प्रशस्यते ।
द्वारविस्तारमानस्य द्विगुणं तु तथोच्छ्रितम्

9.12

कूटाकारं तु वा कुर्यात् मण्डपाकारमेव वा ।
कारयेत् बालगेहं तु आचार्यः शिल्पिभिः सह

9.13

आद्येष्टकाविधानादि कारयेदिह पूर्ववत् ।
मण्डपं चाग्रतः कृत्वा सप्राकारं सुरक्षितम्

9.14

गर्भन्यासं तु कुर्याच्च रत्नन्यासं तु नेष्यते ।
पीठं कृत्वा तु तन्मध्ये काष्ठैर्वा चेष्टकै(?)स्तथा

9.15

मृदा वा सुदृढं स्निग्धं काष्ठासनसमन्वितम् ।
एकहस्तोच्छ्रितां वेदिं साष्टपत्रं सकर्णिकम्

9.16

कृत्वैवं बालगेहं तु साधकेच्छानुरूपतः ।
एवं कृत्वा विधानेन तरुणालयमुत्तमम्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc