भाषा

ENहिગુ
ग्रंथ पाठ

विष्वक्सेनसंहिता · अध्याय 8

8.1

इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां स्वप्नविधिर्नाम सप्तमो ऽध्यायः ॥
अष्टमो ऽध्यायः
अष्टमो ऽध्यायः
क्षीराब्धेरुत्तरे पारे तपस्यन्तं हिरण्यमयम् ।
नारदो वाहिनीनाथं विष्णोर्लीलाचले मुनिः

8.2

दृष्ट्वा प्रणम्य संपूज्य विष्णुभक्तिबलात्कृतः ।
पप्रच्छ भगवान् भक्तेरिव मूर्तिमवस्थितम्

8.3

पूर्वं तु परमात्मादिमूर्तीनां लक्षणं तथा ।
मन्त्राणां लक्षणं चैव छन्दांसि च ऋषींस्तथा

8.4

एवमादीनि चान्यानि सद्मादीनि यथाक्रमम् ।
वक्तुमर्हसि सेनाप यद्यनुग्रहभागहम्

8.5

विष्वक्सेनः---
शृणु देवमुनिश्रेष्ठ यत् प्रष्टु(पृष्ट?)मखिलं त्वया ।
वक्ष्याम्यहमशेषेण क्रमादवहितो भव

8.6

श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ।
प्रमाणमिदमेवैकमागमेष्वप्यवस्थितम्

8.7

आयुरारोग्यदं नॄणां कीर्तिश्रीपुत्र(ष्टि?)वधनम् ।
पापक्षयं महापुण्यं योगसाधनमेव च

8.8

तस्मात्तत्रोत्तरं भागं नित्यमृद्धिशुभप्रदम् ।
आद्येष्टकाविधानादि सर्वकामप्रदं सदा

8.9

अथातःसंप्रवक्ष्यामि इष्टकालक्ष्णं परम् ।
कर्षणं च गवां वासं(सो?)भूमिशुद्धिस्तथैव च

8.10

पूर्वमेव मया प्रोक्तं(क्ताः)तन्त्रे ऽस्मिन् पूर्वभागके ।
अङ्कुरार्पणपूर्वं तु पूर्वरात्रे ऽधिवासयेत्

8.11

पूर्ववन्मण्डपं कृत्वा गोमयेनानुलेपयेत् ।
अष्टद्रोणसमायुक्तं शालिभिःसमलंकृतम्

8.12

साधिताः पूर्वरात्रे तु चतस्रः प्रथमेष्टकाः ।
शिलामया मृण्मया वा कुर्याल्लक्षणसंयुताः

8.13

शिला दोषविनिर्मुक्ताः विस्तारद्विगुणायताः ।
सुविस्तारेष्टकाः प्रोक्ताः षट्पञ्चचतुरङ्गुलाः

8.14

उत्तमादिक्रमादेताः विस्तारद्विगुणायताः ।
विस्तारार्धधनं प्रोक्तं इष्टकास्तु प्रमाणतः

8.15

पञ्चगव्येन संप्रोक्ष्य परिस्तीर्य कुशैस्तथा ।
पुण्याहं वाचयित्वा तु प्रोक्षयेच्च कुशाम्भसा

8.16

हैमैः कौतुकसूत्रं तु बन्धयेन्मूलविद्यया ।
वस्त्रैः प्रत्येकमाच्छाद्य तदग्रे स्थापयेद्बुधः

8.17

कलशान् स्थापयेत् पश्चात् सवस्त्रान् सापिधानकान् ।
मध्युकुम्भं च सुदृढं पञ्चरत्नसमन्वितम्

8.18

मूलमन्त्रेण कुम्भं तु साधयेत् साधकोत्तमः ।
विद्येश्वरसमायुक्तान् पूरयेत् कलशान् क्रमात्

8.19

वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
जामदग्न्यं च रामं च वामनं वासुदेवकम्

8.20

एवं विद्येश्वरान् प्रोक्तान् क्रमात् कुम्भेषु पूजयेत् ।
वाराहे मुक्तकं न्यस्य नारसिंहे प्रवालकम्

8.21

मरकतं श्रीधरे न्यस्य वैडूर्यं हयशीर्षके ।
इन्द्रनीलं न्य सेद्रामे माणिक्यं वामनैऋते

8.22

वामने पुष्यरागं च शङ्खं वै वासुदेवके ।
एषामलाभे सौवर्णं तदलाभे तु मौक्तिकम्

8.23

सकूर्चं साधयेद्विद्वान् सर्वालंकारशोभितम् ।
प्रभाते पूजयित्वाथ स्थपतिं तक्षकैः सह

8.24

स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः ।
साधकश्चेष्टकास्तत्र स्नापयेन्मूलविद्यया

8.25

ततो गन्धादिनाभ्यर्च्य दैवज्ञं पूजयेत्ततः ।
आचार्यं पूजयेत्तत्र हेमवस्त्राङ्गुलीयकैः

8.26

तक्षकं पूजयित्वाथ इष्टकाधानमारभेत् ।
द्वारस्य दक्षिणे पार्श्वे स्थानमेतत् प्रचक्षते

8.27

सुमुहूर्ते न्यसेद्विद्वान् इष्टकाः परितः क्रमात् ।
विन्यसेच्च चतुर्दिक्षु वासुदेवादिविद्यया

8.28

पश्चाच्छिल्पिनमलंकृत्य वस्त्रहेमाङ्गुलीयकैः ।
तेनैव सह संस्थाप्य इष्टकाश्च चतुर्दिशि

8.29

तेषां मध्ये तथा गर्ते पूरयेदुदकेन तु ।
शुभं वै दक्षिणावर्तं वामावर्तमशोभनम्

8.30

वामावर्ते तथा कुर्यात् मूलेन शतमाहुतीः ।
तदैव नवरत्नानि विन्यसेदनुपूर्वशः

8.31

वज्रमौक्तिकवैडूर्यशङ्खस्फटिकपुष्यकम् ।
चन्द्रकान्तं महानीलं माणिक्यं च क्रमान्न्यसेत्

8.32

गजदन्ते ऽथवा शङ्खे वल्मीके कर्कटालये ।
वृषशृङ्गे ह्रदे नद्यां नीर्थे वै पर्वते तथा

8.33

समुद्रे च मृदं गृह्य पूरयेदवटं तथा ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत्

8.34

एतद्विमाने प्रथमे सर्वमेतदतन्द्रितः ।
मण्डपे रत्नहीनं स्यात् रत्नहीनं तु वप्रके(?)

8.35

एवं कृतं चेन्मेधावी(?) सर्वसंपत् समृद्धिदम् ।
यद्येवं न कृतं चेत्तत् पिशाचादि समाविशेत्

8.36

कर्तुः कारयितुश्चापि महान् दोषो भविष्यति ।
तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत्

8.37

यः पूर्वमारभेत् कर्म तक्षकैः स्थापकैः सह ।
यजमानुमत्या च कर्षणादि महामुने

8.38

जीर्णस्योद्धरणं वापि चित्रादिकमथापि वा ।
तेनैव कारयेद्विद्वान् नान्येन तु कदाचन

8.39

तैक्ष्ण(तक्ष्णा?)मानादि निर्वृत्तं तक्ष्णैव पुनरुद्धृतम् (?) ।
तक्षणै(तक्षके?)नैव कार्यं स्यादिति शास्त्रस्य निश्चयः

8.40

तस्मात् सर्वप्रयत्नेन स्थापकैस्तक्षकैर्न्यसेत् ।
मोहाद्वा यदि वा लोभात् स्थापकात्तक्षकादृते

8.41

यः कारयीत कुर्याद्वा राजराष्ट्रं विनाशयेत् ।
एवं परीक्ष्य बहुधा मतिमान् साधकोत्तमः

8.42

प्रशान्तमानसो भूत्वा कुर्वीताद्येष्टकाविधिम् ।
प्रथमेष्टकावसाने तु प्रासादं चारभेत् क्रमात्

मूल पाठ: Viṣvaksenasaṃhitā · Edition: Lakshmi Narasimha Bhatta, Tirupati 1972 (Kendriya Sanskrit Vidyapeetha Series, 17) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc